हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५५
← अध्यायः ०५४ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०५५ [[लेखकः :|]] |
अध्यायः ०५६ → |
नमुचिना धरसंज्ञकस्य वसोः, मयासुरेण त्वष्टुः, वायुदेवेन पुलोम्नोः, हयग्रीवेण पूष्णः देवस्य, शम्बरासुरेण भगस्य, चन्द्रदेवेन सम्पूर्णायाः असुरसैन्यस्य पराजयम् |
पञ्चपञ्चाशत्तमोऽध्यायः
वैशम्पायन उवाच
पुनरेव तु तत्रासीन्महायुद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश्चैव धरस्य च महात्मनः ।। १ ।
संरब्धौ च महाबाहू महेष्वासावरिंदमौ ।
परस्परमुदैक्षेतां दहन्ताविव लोचनैः ।। २।।
विस्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरम्भात्स वसुश्रेष्ठस्त्यक्त्वा प्राणानयुध्यत।। ३ ।।
स सायकमयैर्जालैर्धरो दैत्यरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम्।। ४ ।।
ततः प्रहस्य नमुचिर्धरस्य च शिलाशितान् ।
असृजत्सायकान्दीप्तान्भीमवेगान्दुरासदान्।।५।।
महातेजा महाबाहुर्महावेगो महारथः ।
विव्याधातिबलो दैत्यो नवभिर्निशितैः शरैः ।। ६ ।।
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभिः ।
अभ्यधावच्च संक्रुद्धो नमुचिं वसुसत्तमः ।। ७ ।।
तमापतन्तं वेगेन सरम्भान्नमुची रणे ।
दैत्यः प्रत्यसरद् देवं मत्तो मत्तमिव द्विपम् ।। ८।।
ततः प्राध्मापयच्छङ्खं भेरीशतनिनादिनम् ।
विक्षोभ्य तद्बलं हर्षादुद्भूतार्णवसप्रभम् ।। ९ ।।
अश्वानृक्षस्ववर्णाभान् हंसवर्णैः सुवाजिभिः ।
मिश्रयन् समरे दैत्यो वसुं प्राच्छादयच्छरैः ।। 3.55.१० ।।
समाश्लिष्टावथान्योन्यं वसुदानवयो रथौ ।
दृष्ट्वा प्राकम्पत मुहुस्त्रिदशानां महद्बलम् ।। ११ ।।
क्रोधसंरम्भताम्राक्षौ प्रेक्षमाणौ मुहुर्मुहुः ।
गर्वन्ताविव शार्दूलौ प्रभिन्नाविव वारणौ ।। १२ ।।
यमराष्ट्रोपमं रौद्रमासीदायोधनं तयोः ।
रथाश्वनरसम्बाधं मत्तवारणसंकुलम् ।। १३ ।।
समाजमिव तं दृष्ट्वा प्रेक्षमाणा महारथाः ।
आशंसन्तो जयं ताभ्यां योधा नैकत्रसंश्रयाः ।। १४ ।।
तयोः प्रैक्षन्त संरम्भं संनिकृष्टं महास्त्रयोः ।
सिद्धगन्धर्वमुनयो देवदानवयोस्तदा ।। १५ ।।
तौ च्छादयन्तावन्योन्यं समरे निशितैः शरैः ।
शरजालावृतं व्योम चक्रतुश्च महाबलौ ।। १६ ।।
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।
प्रेक्षणीयतमावास्तां वृष्टिमन्ताविवाम्बुदौ ।। १७ ।।
सुवर्णविकृतान् बाणान् प्रमुञ्चन्तावरिंदमौ ।
भास्कराभं तदाकाशमुल्काभिरिव चक्रतुः ।।१८।।
तयोः शराः प्रकाशन्ते देवदानवयोस्तदा ।
पङ्क्तयः शरदि मत्तानां सारसानामिवाम्बरे ।।१९।।
त्रिदशाश्वगजानां हि शरीरैर्गतजीवितैः ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्तलम् ।। 3.55.२० ।।
ततः सुधारं ज्वलितं सूर्यमण्डलसन्निभम् ।
धराय वसवे मुक्तं चक्रं नमुचिना रणे ।। २१।।
पतता तेन चक्रेण धरस्य स्यन्दनोत्तमः ।
सध्वजः सायुधः साश्वो दग्धोऽर्ककिरणप्रभः।। २२।।
स त्यक्त्वा स्यन्दनं देवः प्रदीप्तं चक्रतेजसा ।
भयात् तस्यासुरेन्द्रस्य गतः स्वगृहमुत्तमम् ।। २३।।
पराजित्य सुरं दैत्यो नमुचिर्बलगर्वितः ।
प्रयातः स्वेन सैन्येन भूयः सुरचमूं प्रति ।। २४ ।।
यौ तौ मयश्च त्वष्टा च देवदैत्येषु विश्रुतौ ।
प्रवरौ विश्वकर्माणौ मायाशतविशारदौ ।। २५ ।।
घोरस्तयोः सम्प्रहारः प्रावर्तत सुदारुणः ।
अन्योन्यस्पर्द्धिनोस्तत्र चिरात्प्रभृति संयुगे ।। २६ ।।
त्वष्टा तु निशितैर्बाणैर्दैत्यं तु बलदर्पितम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिशतैः शरैः ।। २७ ।।
मयस्तु प्रतिविव्याध त्वष्टारं निशितैः शरैः ।
सुधातैः सुप्रसन्नाग्रैः शातकुम्भविभूषितैः ।
ननाद दितिजश्रेष्ठो हतस्त्वष्ट्रः शरैर्मयः ।। २८ ।
संक्रुद्धो दैत्यसैन्यस्य विचिन्वन्निव जीवितम्।
शक्तिं कनकवैदूर्यचित्रदण्डां महाप्रभाम् ।। २९ ।।
देवो गृहीत्वा समरे दैत्येन्द्रं समपातयत्।
भईह्मां सर्वायसीं ७ पुरंदर इवाशनिम् ।। 3.55.३० ।।
तां त्वष्टुर्भुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।
मयश्चिच्छेद तीक्ष्णाग्रैच्चूर्णं सप्तभिराशुगैः ।। ३१ ।।
ततः क्षुण्वन्निव प्राणांस्त्वष्टुः कोपान्महासुरः ।
प्रेषयामास संरम्भः शरान् बर्हिणवाससः ।। ३२ ।।
चिच्छेद बाणांस्त्वष्टा ताञ्ज्वलितैर्नतपर्वभिः ।
दैत्यस्य सुमहावेगैः सुवर्णविकृतैः शरैः ।। ३३ ।।
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यं प्रसक्तावभिजघ्नतुः ।। ३४ ।।
अन्योन्यं प्रतियुध्यन्तावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यमभिवीक्षन्तौ क्रुद्धावाशीविषाविव ।। ३५ ।।
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ।।३६।।
ततः सुविपुलां दीप्तां मयो रुक्माङ्गदो गदाम् ।
त्वष्टरि प्राहिणोत् क्रुद्धः सर्वप्राणहरां रणे ।।३७।।
तया जघानातिरथस्त्वष्टुरुत्तमवाजिनः ।
गदया दानवः क्रुद्धो वज्रेणेन्द्र इवाचलान् ।। ३८ ।।
ततः क्रुद्धो महादैत्यः क्षुराभ्यामथ संयुगे ।
पुनर्द्वाभ्यां शराभ्यां तु निशिताभ्यां महारणे ।। ३९।।
ध्वजं त्वष्टुरथ च्छित्वा सूतं निन्ये यमक्षयम्।
महाबलान् महावेगान्सदश्वान् गदया हनत्।। 3.55.४० ।।
दृष्ट्वा त्वष्टा हतं सूतमश्वांश्च विनिपातितान् ।
हताश्वं रथमुत्सृज्य सूतं च पतितं भुवि ।। ४१ ।।
विस्फारयन् महाचापं स्थितो भूमाविवाचलः ।
हताश्वसूतं विरथं दृष्ट्वा रिपुमवस्थितम् ।। ४२ ।।
जयश्रिया सेव्यमानो दीप्यमान इवानलः ।
मयः कालान्तकप्रख्यश्चापपाणिरदृश्यत ।। ४३ ।।
प्रादहद् देवसैन्यानि दावाग्निरिव काननम् ।.
त्वष्टुः सोऽक्षिपतात्युग्रान्नाराचांस्तिग्मतेजसः।।४४।।
चतुर्दशशिलाधौतान् सायकान्विविधाकृतीन्।
ते पपुस्तस्य सैन्यस्य शोणितं रुक्मभूषणाः ।। ४५ ।।
आशीविषा इव क्रुद्धा भुजङ्गाः कालचोदिताः ।
ते क्षितिं समवर्तन्त शोभन्ते रुधिरोक्षिताः ।। ४६ ।।
अर्द्धप्रविष्टाः संरब्धा विलानीव महोरगाः ।
तं प्रत्यविध्यत् त्वष्टा तु जाम्बूनदविभूषितैः ।। ४७ ।।
चतुर्दशभिरत्युग्रैर्नाराचैरभिदारयन ।
ते तस्य दैत्यस्य भुजं सव्यं निर्भिद्य पत्रिणः ।। ४८ ।।
विदार्य विविशुर्भूमिं पन्नगा इव वेगतः ।
ते प्रकाशन्त नाराचाः प्रविशन्तो वसुंधराम् ।। ४९ ।।
अस्तं गच्छतमादित्यं प्रविशन्त इवांशवः ।
मयस्त्रिभिरथानर्च्छत् त्वष्टारं तु पतत्रिभिः ।। 3.55.५० ।।
सुपर्णवेगैर्विकृतैर्ज्वलद्भिः प्राणनाशनैः ।
त्वष्टाथ मयनिर्मुक्तैः सायकैरर्दितः प्रभुः ।। ५१ ।।
अपयातो रणं हित्वा व्रीडयाभिसमन्वितः ।
तं तत्र हतसूतं च भुजङ्गमिव निर्विषम् ।। ५२ ।।
त्वष्टारं विरथं कृत्वा मुदितः स तु दानवः ।
विस्फार्यमाणो रुचिरं चापं रुक्माङ्गदं दृढम् ।। ५३ ।।
रणे व्यतिष्ठद् दैत्येन्द्रो ज्वलन्निव हुताशनः ।
पुलोमा तु बलश्लाघी दृप्तो दानवसत्तमः ।। ५४
रथे श्वेतहयेनेह सार्धं युद्ध्यति वायुना ।
सर्वेषामेव भूतानां यः प्राणः कथ्यते द्विजैः ।। ५५ ।।
बलिना कालकल्पेन वायुना सह संगतः ।
पुलोम्नस्तत्र पवनः श्रुत्वा ज्यातलनिःस्वनम् ।। ५६ ।।
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ।
दैत्यचापच्युतैर्बाणैः प्राच्छाद्यन्त दिशो दश ।। ५७ ।।
रश्मिजालैरिवार्कस्य विततं साम्बरं जगत् ।
स ताम्रनयनः क्रुद्धः श्वसन्निव महोरगः ।। ५८ ।।
वृतो दैत्यशतैर्वायू रश्मिवानिव भास्करः ।
दैत्यचापभुजोत्सृष्टाः शरा बर्हिणवाससः ।। ५९ ।।
रुक्मपुङ्खाः प्रकाशन्ते हंसाः श्रेणीकृता इव ।
चापध्वजपताकाभ्यः शस्त्रा दीप्तमुखाश्च्युताः।। 3.55.६० ।।
प्रपतन्तः स्म दृश्यन्ते दैत्यस्यापततः शराः ।
एवं सुतीक्ष्णान् खचराञ्छलभानिव पावके ।। ६१ ।।
सुवर्णविकृतांश्चित्रान् मुमोच दितिजः शरान् ।
तमन्तकमिव क्रुद्धमापतन्तं स मारुतः ।। ६२ ।।
त्यक्त्वा प्राणानतिक्रम्य विव्याध नवभिः शरैः ।
तस्य वेगमसंहार्यं दृष्ट्वा वायुः सनातनः ।। ६३ ।।
उत्तमं जवमास्थाय व्यधमत् सायकव्रजान् ।
तेजो विधम्य बलवाञ्छरजालानि मारुतः ।। ६४ ।।
विव्याध दैत्यं विंशत्या विशिखैर्नतपर्वभिः ।
मरुद्गणानां प्रवरा दश दिव्या महौजसः ।। ६५ ।।
साधु साध्विति वेगेन सिंहनादं प्रचक्रिरे ।
तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे ।। ६६ ।।
अभ्यधावन्त दितिजाः पौलोमाः क्रोधमूर्च्छिताः ।
ते समासाद्य पवनं समावृण्वञ्छरोत्तमैः ।। ६७ ।।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ।
ते पीडयन्तः पवनं क्रुद्धाः सप्त महारथाः ।। ६८ ।।
प्रजासंहरणे घोराः सोमं सप्त ग्रहा इव ।
ततो दक्षिणमक्षोभ्यं नानारत्नविभूषितम् ।। ६९ ।।
करं गजकराकारमुद्यम्य युधि मारुतः ।
तेषां मूर्धसु दैत्यानां पातयामास वीर्यवान् ।। 3.55.७० ।।
निहता वायुवेगेन तेन सप्त महारथाः ।
त्यक्त्वा प्राणान्पुलोमा तु विव्याध नवभिः शरैः ।।७१।।
प्रदर्पितमसंहार्यं दृष्ट्वा वायुं सनातनम् ।
असंचिन्त्य शरौघांस्ताञ्ज्वलितांश्च पुलोमतः ।।७२ ।।
तेषां विदार्य तेजांसि दानवानां महात्मनाम् ।
शोणितक्लिन्नमुकुटा गैरिकाक्ता इवाद्रयः ।। ७३।।
ते भिन्नवर्मास्थिभुजाः पतन्तो भान्ति दानवाः ।
मातङ्गयूथसम्भग्नाः पुष्पिता इव पादपाः ।। ७४।।
तेषां विदारितैर्देहैर्दानवानां महात्मनाम् ।
ततः प्रावर्तत नदी रौद्ररूपा भयावहा ।। ७५ ।।
प्रस्रवन्ती रणे रक्तं भीरूणां भयवर्धिनी ।
देवदैत्यगजाश्वानां रुधिरौघपरिप्लुता ।
रणभूमिरभूद् रौद्रा तत्र तत्र सहस्रशः ।। ७६ ।।
सम्भृता गतसत्त्वैश्च यक्षराक्षसखेचरैः ।
सानुगैः सपताकैश्च सोपासङ्गरथध्वजैः ।। ७७ ।।
शीर्षकुम्भैस्तथा नागैर्घण्टाभिस्तु विभूषितैः ।
सुवर्णपुङ्खैर्ज्वलितैर्नाराचैस्तिग्मतैजसैः ।। ७८ ।।
देवदानवनिर्मुक्तैः सविषैरुरगैरिव ।
प्रासतोमरनाराचैः शक्तिखङ्गपरश्वधैः ७९ ।।
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।
कनकाङ्गदकेयूरैर्मणिभिश्च सकुण्डलैः ।। 3.55.८० ।।
तनुत्रैः सतलत्रैश्व हारैर्निष्कैश्च शोभनैः ।
हतैश्च दितिजैस्तत्र शस्त्रस्यन्दनवर्जितैः ।। ८१ ।।
पतितैरपि विद्धैश्च शतशोऽथ सहस्रशः ।
निपातितध्वजरथो हतवाजिरथद्विपः ।। ८२ ।।
विमर्दो देवदैत्यानां सदृशः कर्मणा बभौ ।
अथ दैत्यसहस्रेण पौलोमेन महारथः ।। ८३ ।।
संवृतः पवनः श्रीमान् गदामुसलपाणिना ।। ८४ ।।
ते जघ्नुः शतसाहस्राः पवनं दानवोत्तमाः ।
तैर्वध्यमानः स बभौ समन्तादर्पितैः शरैः ।।८५।।
हत्वाष्टौ तत्र योधानां शतानि पवनः प्रभुः ।
कृत्वा मार्गं सुरश्रेष्ठो ननाद सुमहारथः ।। ८६ ।।
अद्यापि च सुविस्तीर्णः पन्थाः संदृश्यते दिवि ।
नाम्ना वायुरथो नाम सिद्धाः पश्यन्ति तं दिवि ।। ८७।।
वैशम्पायन उवाच
हयग्रीवस्तु दितिजः पूषणं प्रति वीर्यवान् ।
ननाद सुमहानादं सिंहनादं महारथः ।। ८८ ।।
विस्फार्य सुमहच्चापं हेमजालविभूषितम् ।
पूषणं दितिजोऽपश्यत् क्रुद्धो घोरेण चक्षुषा ।। ८९।।
भुजाभ्यामाददानस्य संदधानस्य वै शरान् ।
मुञ्चतः कर्षतो वापि ददृशुस्तत्र नान्तरम् ।। 3.55.९०
अग्निचक्रोपमं दीप्तं मण्डलीकृतकार्मुकम् ।
तदासीद् दानवेन्द्रस्य सव्यदक्षिणमस्यतः ।। ९१।।
रुक्मपुङ्खैस्ततस्तस्य चापमुक्तैः शितैः शरैः ।
प्राच्छाद्यन्त शिलाधौतैर्दिशः सूर्यस्य च प्रभाः ।। ९२।।
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
नभश्चराणां नभसि दृश्यन्ते बहवो व्रजाः ९३ ।
गिरिकूटनिभाच्चापात् प्रभवन्तः शरोत्तमः ।
श्रेणीभूताः प्रकाशन्ते यान्तः श्येना इवाम्बरे ।। ९४ ।।
गृध्रपत्राञ्छिलाधौतान् कार्तस्वरविभूषितान् ।
महावेगान्प्रशस्ताग्रान् मुमोच दितिजः शरान् ।।९५।।
ततश्चापबलोद्भूताः शातकुम्भविभूषिताः ।
देहे समवकीर्यन्त पूष्णः संनिहिताः शराः ।। ९६ ।।
ते व्योम्नि रुक्मविकृताः सम्प्रकाशन्त सर्वशः ।
खद्योता इव घर्मान्ते खे चरन्तः समन्ततः ।। ९७ ।।
शिलाधौताः प्रसन्नाग्राः पूषणं सिषिचुः शराः ।
पर्वतं वारिधाराभिर्यथा प्रावृषि तोयदाः ।।। ९८ ।।
ततः प्रच्छादयामास पूषणं शरवृष्टिभिः ।
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।। ९९ ।।
ततः सपूष्णोऽदेवस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च सत्त्वं च पश्यन्ति त्रिदशाद्भुतम् ।। 3.55.१००।।
तां समुद्रादिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
नाचिन्तयत्तदा पूषा दैत्यं चाभ्यद्रवद् रणे ।। १०१।।
हेमपृष्ठं महानादं पूष्ण आसीन्महाधनुः ।
विकृतं मण्डलीभूतं शक्राशनिरिवापरा ।। १०२।।
ततः शराः प्रादुरासन् पूरयन्त इवाम्बरम् ।।१०३।।
सुवर्णपुङ्खाः पूष्णस्ते प्रभवन्तः शरासनात् ।
मालेव रुक्मपुङ्खानां वितता व्योम्नि पत्रिणाम् ।। १०४।।
प्रादुरासीन्महाघोरा बृहती पूषकार्मुकात्।
ततो व्योम्नि विभक्तानि शरजालानि सर्वशः ।। १०५।।
आहतानि व्यशीर्यन्त शरैः संनतपर्वभिः ।
ततः कनकपुङ्खानां छिन्नानां कङ्कवाससाम् ।। १०६।।
पततां पात्यमानानां खमासीच्चावृतं रणे ।
पूषा प्रापूरयद् बाणैर्हयग्रीवं शिलाशितैः ।। १०७।।
नामङ्कैरर्कसदृशैर्दिव्यहेमपरिष्कृतैः ।
ततो व्यसृजदुग्राणि शरजालानि दानवः ।। १०८।।
अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः ।
पूष्णस्त्वाजौ ध्वजं चैव पताकां धनुरेव च ।। १०९।।
रश्मीन् योक्त्राणि चाश्वानां हयग्रीवो रणेऽच्छिनत् ।
अथाप्यश्वान् पुनर्हत्वा चतुर्भिः सायकोत्तमैः ।। 3.55.११०।।
सारथिं सुमहातेजा रथोपस्थादपातयत् ।
कृतस्तु विरथः पूषा हयग्रीवेण संयुगे ।।१११।।
पूषा तस्य रथाभ्याशात् स ययौ तेन वै जितः।
गतः शक्ररथाभ्याशं मुक्तो मृत्युमुखादिव ।। ११२।।
तत्राद्भुतमिदं भूयो युद्धं वर्तत दारुणम् ।
कृतप्रतिकृतं घोरं शम्बरस्य भगस्य च ।। ११३।।
सप्तकिष्कुपरीणाहं द्वादशारत्निकार्मुकम्।
चापं चाशनिनिर्घोषं दृढज्यं भारसाधनम् ।।११४।।
विक्षिपन्नक्षसदृशान्व्यसृजत्सायकान् बहून्।
क्रोधसंरक्तनयनः शम्बरः सर्वयोगवित् ।।११५।।
तेन वित्रास्यमानानि देवसैन्यानि सर्वशः ।
समकम्पन्त भीतानि सिन्धोरिव महोर्मयः ।।११६।।
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् ।
भगः प्रस्फुरमाणौष्ठस्त्वरमाणो व्यदारयत् ।। ११७।।
ततो भगो महेष्वासो दिव्यं विस्फारयन्धनुः ।
अवाकिरद् दैत्यगणाञ्छरजालेन छादयन् ।। ११८।।
तमभ्यगाद् भगो दैत्यं तूर्णमस्यन्तमन्तिकात् ।
मातङ्गमिव मातङ्गो वृषं प्रति वृषो यथा ।। ११९।।
तौ प्रगृह्य महावेगौ धनुषी भारसाधने ।
प्राच्छादयेतामन्योन्यं तक्षमाणौ रणे शरैः ।। 3.55.१२०।।।
तयोः सुतुमुलं युद्धमासीद् घोरं महारणे ।
भगशम्बरयोभींममप्रमेयं महात्मनोः ।। १२१।।।
अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः ।
व्यदारयेतामन्योन्यं कार्ष्णे निर्भिद्य चर्मणी ।। १२२।।
तौ तु विकृतसर्वाङ्गौ रुधिरेण समुक्षितौ ।
सम्प्रेक्ष्यमाणौ रथिनावुभौ परमदुर्मदौ ।
तक्षमाणौ शितैर्बाणैर्न वीक्षितुमशक्नुताम् ।। १२३।।
अथ विव्याध समरे त्वरमाणोऽसुरो भगम् ।
नाराचैः क्रोधताम्राक्षः कालान्तकयमोपमः ।। १२४।।
गरुत्मानिव चाकाशे पोथयानो महोरगम् ।
नाराचा न्यपतन् देहे तूर्णं शम्बरचोदिताः ।। १२५।।
तानन्तरिक्षे नाराचान् भगश्चिच्छेद पत्रिभिः ।
ज्वलन्तमचलप्रख्यं वैश्वानरसमप्रभम् ।। १२६।।
ततो भगं चतुःषष्ट्या विव्याधासुरसत्तमः ।
शिलीमुखैर्महावेगैर्जाम्बूनदविभूषितैः ।। १२७।
तदा तत्सुचिरं कालं युद्धं सममिवाभवत् ।
शम्बरस्य च मायाभिर्नादृश्यत ततोऽम्बरम् ।। १२८।।
दोर्भ्यां विक्षिपतश्चापं रणे विष्टभ्य तिष्ठतः ।
श्रूयते धनुषः शब्दो विस्फूर्जितमिवाशनेः ।। १२९।।
स भगस्य हयान् हत्वा सारथिं च महाहवे ।
अभ्यवर्षच्छरैरेनं पर्जन्य इव वृष्टिमान् ।। 3.55.१३० ।।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यंगुलमन्तरम् ।
भगदेवस्य दैत्येन शम्बरेणास्त्रघातिना ।।१३१।।
देवस्य चाद्भुतं दिव्यमस्त्रमस्त्रेण वारयन् ।
मायायुद्धेन मायावी शम्बरस्तमयोधयत् ।। १३२।।
अवञ्चयद् भगं दैत्यो मायाभिर्लाघवेन च ।
भगस्तस्य रथं साश्वं शरवर्षैरवाकिरत् ।।१३३।।
सहस्रमायो द्युतिमान् देवसेनां निषूदयन् ।
अदृश्यत शरैश्छन्नः शम्बरः शतशो रणे ।।१३४।।
अदृश्यत् पतितो भूमौ गतचेता इवासुरः ।
अथ स्म युध्यते भूयः शतधा शैलसंनिभः ।।१३५।।
दिशां गजेन्द्रमारूढो दृश्यते स पुनर्बली ।
प्रादेशमात्रश्च पुनः पुनर्भवति शैलवत् ।। १३६।।
महामेघ इव श्रीमांस्तिर्यगूर्ध्वं च सोऽभवत् ।
पुनः कृत्वा विरूपाणि विकृतानि च सर्वशः ।।१३७।।
सर्वां भीषयते सेनां देवानां भीमदर्शनः ।
ते भीताः प्रपलायन्ते सिंहं दृष्ट्वा मृगा यथा ।। १३८।।
ततः सोऽन्यं वरं देहं कृत्वा प्रांशुतरं पुनः ।
गच्छत्यूर्ध्वगतिं घोरो दिशः शब्देन पूरयन् ।।१३९।।
नभस्तलगतश्चापि वर्षते वासवो यथा ।
संवर्तकाम्बुदप्रख्यः पूरयन् पृथिवीतलम् ।। 3.55.१४०।।
संवर्तकोऽनलश्चैव भूत्वा भीमपराक्रमः ।
शतवर्त्मा शतशिखो ददाह च पुनः सुरान् ।। १४१।।
मुहूर्ताच्च महाशैलः शतशीर्षा शतोदरः ।
अदृश्यत दिवः स्तम्भः शतशृङ्ग इवाचलः १४२।।
येऽन्ये देवाश्च साध्याश्च ये च विश्वे च देवताः ।
क्षिपन्त्यस्त्राणि दिव्यानि तानि सोऽग्रसतासुरः ।। १४३।।
युद्ध्यमानश्च समरे सरथः सोऽसुरोत्तमः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत ।। १४४।।
ते भीताः समुदीक्षन्त त्रिदशा भीमविक्रमाः ।
सहस्रमायं समरे शम्बरं चित्रयोधिनम् ।। १४५।।
स भगो भयसंत्रस्तो दानवेन्द्रस्य संयुगे ।
रथं त्यक्त्वा महाभागो महेन्द्रं शरणं गतः ।। १४६।।
पराजित्य तु तं देवं दानवेन्द्रः प्रतापवान् ।
गतो यत्र महातेजा जातवेदा महाप्रभः ।। १४७।।
स वह्निं वाग्भिरुग्राभिः क्रुद्धस्तर्जयते बली ।
भवाम्येष हि ते मृत्युरित्युक्त्वान्तरधीयत ।। १४८।
वैशम्पायन उवाच
एतस्मिन्नन्तरे चैव ब्राह्मणेन्द्रो महाबलः ।
जघान सोमः शीतास्त्रो दानवानां चमूं रणे ।। १४९।।
कैलासशिखराकारो द्युतिमद्भिर्गणैर्वृतः ।
अवधीद् दानवान् दृष्ट्वा दण्डपाणिरिवान्तकः ।। 3.55.१५०।।
पोथयद् रथवृन्दानि वाजिवृन्दानि वै प्रभुः ।
दैत्येषु विचरञ्छ्रीमान्युगान्ते कालवद्बली ।।१५१।।
सोऽमर्षाद् रथजालानि उरुवेगेन चन्द्रमाः ।
ददाह दानवान् सर्वान्दावाग्निरिव चोदितः ।। १५२।।
मृद्नन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः ।। १५३।।
शीतेन व्यधमत्सर्वान् वायुर्वृक्षानिवौजसा ।
चन्द्रमाः सुमहातेजा दानवानां महाचमूम् ।। १५४।।
तदस्त्रमभवत् तस्य प्रदिग्धं शत्रुशोणितैः ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।। १५५।।
युगान्तकोपमः श्रीमान् दैत्येषु व्यचरद्बली ।
आवार्य महतीं सेनां प्राद्रवन्तीं पुनः पुनः ।। १५६।।
चन्द्रं मृत्युमिवायान्तं दृष्ट्वा योधा विसिस्मियुः।
यतो यतः प्रक्षिपति शिशिरास्त्रं तमोनुदः ।।१५७।।
ततस्ततो व्यशीर्यन्त दैत्यसैन्यानि संयुगे ।
व्यदारयत् च सैन्यानि स्वबलेनाभिसंवृतः ।। १५८।।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ।
तं तथा भीमकर्माणं गृहीतास्त्रं महाहवे ।। १५९।।
दृष्ट्वा शशांकमायान्तं दैत्याभं चन्द्रभास्करौ ।
तालमात्राणि चापानि कर्षमाणौ महाबलौ ।। 3.55.१६०।।
छादयेतां शरैश्चन्द्रं वृष्टिमन्ताविवाम्बुदौ ।
अथ विस्फार्यमाणानां कार्मुकाणां सुरासुरैः ।। १६१।।
अभवत् सुमहाशब्दो दिशः संनादयन्निव ।
विनदद्भिर्महानागैर्ह्रेषमाणैश्च वाजिभिः ।। १६२।।
भेरीशङ्खनिनादैश्च तुमुलं सर्वतोऽभवत्।
युयुत्सवस्ते संरब्धा जयगृद्धा यशस्विनः ।।१६३।।
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महावृषाः ।
शिरसां पात्यमानानां समरे निशितैः शरैः ।।१६४।।
अश्मवृष्टिरिवाकाशे ह्यभवत् सेनयोस्तथा ।
कुण्डलोष्णीषधारीणि जातरूपस्रजांसि च ।। १६५।
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ।
विशिखैर्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।। १६६।।
सहस्ताभरणैश्चान्यैर्विच्छिन्नै रुधिरोक्षितैः ।
कवचैरावृतैर्गात्रैरुरुभिश्चन्दनोक्षितैः ।। १६७।।
मुखैश्च चन्द्रसंकाशैस्तप्तकुण्डलभूषणैः ।
गजवाजिमनुष्याणां सर्वगात्रैः समन्ततः ।।१६८।।
आसीत् सर्वा समाकीर्णा मुहूर्तेन वसुंधरा ।
चापमेघाश्च विपुलाः शस्त्रविद्युत्प्रकाशिनः ।
वाहनानां च निर्घोषः स्तनयित्नुसमोऽभवत् ।।१६९।।
स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत सुराणां च दानवानां च संयुगे ।। 3.55.१७०।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।