हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५५ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५६
[[लेखकः :|]]
अध्यायः ०५७ →
देवदानवानां घोरसंग्रामम् – विरोचनस्य विष्वक्सेनेन सह, कुजम्भस्य अंशदेवेन सह युद्धकाले घोरपराक्रमस्य प्रदर्शनम्

षट्पञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
तस्मिन् महाहवे रौद्रे तुमुले लोमहर्षणे ।
ववर्षुः शरवर्षाणि संरब्धा देवदानवाः ।। १ ।।
व्याक्रोशन्त गजास्तत्र शरघातप्रपीडिताः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ।। २ ।।
उत्पत्य निपतन्त्यन्ये शरवर्षप्रपीडिताः ।
देवानां दानवानां च गजाश्वरथिनां रणे ।। ३ ।।
समरे तत्र शूराणामन्योन्यमभिधावताम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ।। ४ ।।
शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।
निजघ्नुर्महतीं सेनामन्योन्यस्य परंतप ।। ५ ।।
बाहूनामुत्तमाङ्गानां कार्मुकाणां च संयुगे ।
राशयस्तत्र दृश्यन्ते देवदैत्यसमागमे ।। ६ ।।
अश्वानां कुञ्जराणां च रथानां च वरूथिनाम् ।
नान्तं समभिगच्छन्ति निहतानां सुरासुरैः ।। ७ ।।
गदाभिरसिभिः प्रासैर्भल्लैः संनतपर्वभिः ।
योधास्तत्राभ्यहन्यन्त हस्त्यश्वं चामितं बहु ।। ८।।
प्रावर्तत नदी घोरा शोणितौघा तरङ्गिणी ।
तदा मध्ये तु सैन्यानां केशशैवलशाद्वला ।। ९ ।
हाहाकारो महाशब्दो योधानामभवत् तदा ।
दानवैर्हन्यमानानां त्रिदशानां महारणे ।। 3.56.१० ।।
वैशम्पायन उवाच
तेषां तदभवद् युद्धं देवानामसुरैः सह ।
विभीषणं महारौद्रं विकृतं भीमदर्शनम् ।। ११ ।।
विरोचनस्तु तत्रैव विष्वक्सेनं महाहवे ।
जघान रुधिराभाक्षं साध्यं परमधन्विनम् ।। १२ ।।
तमायान्तमभिप्रेक्ष्य विष्वक्सेनः सुरैर्वृतः ।
अमेयात्मा सुरश्रेष्ठः प्रत्यविध्यत् स्तनान्तरे ।। १३।।
साध्यस्य बाणाभिहतस्तोत्रार्पित इव द्विपः ।
विरोचनः प्रजज्वाल क्रोधेनाग्निरिवाध्वरे ।। १४ ।।
स कार्मुकविनिर्मुक्तैः शरैर्दानवसत्तमः ।
विष्वक्सेनं बिभेदाजौ दीप्तैः सप्तभिराशुगैः ।। १५।।
सोऽतिविद्धो बलवता दानवेन सुरोत्तमः ।
मूर्च्छामभिजगामाशु ध्वजं चाप्याश्रयत्प्रभुः।। १६ ।।
ततः स पुनराश्वस्य साध्यो युद्धे मनो दधे ।
विस्फार्य च महाचापं दैत्यमध्ये व्यवस्थितः ।। १७ ।।
विरोचनस्तु बलवानभ्ययुध्यत सर्वशः ।
क्षोभयन् सुरसैन्यानि समन्तान्निशितैः शरैः। १८ ।।
ततस्तस्यासुरेन्द्रस्य युद्ध्यमानस्य संयुगे ।
श्रूयते तुमुलः शब्दो जीमूतस्येव गर्जतः ।। १९ ।।
जगर्ज च महाघोषो विनिघ्नन् देववाहिनीम् ।
चण्डवेगाश्मवर्षी च सविद्युत्स्तनयित्नुमान् ।। 3.56.२० ।।
दिशो विद्रावयामास शरवर्षेण दानवः ।
सर्वसैन्यानि देवानामुद्यतास्त्रो महाहवे ।। २१ ।।
ते प्राद्रवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ।। २२ ।।
श्रुत्वा कार्मुकनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि निव्यलीयन्त संयुगे ।। २३ ।।
विरोचनभयत्रस्ता रथेभ्यो रथिनस्तदा ।
पदातीनां ययुः संघा यत्र देवः शचीपतिः ।। २४ ।।
विष्वक्सेनस्य साध्यस्य सर्वतः सुमहाबलः ।
पदा रक्षःसहस्राणि निजघान चतुर्दश ।। २५ ।।
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च संघेषु विनिघ्नन् प्रत्यदृश्यत ।। २६ ।।
वितत्य श्येनवत् पक्षौ सर्वतः स वरूथिनीम्।
भित्त्वा छित्त्वा महाबाहुः शिरांस्याजौ ह्यकृन्तत।। २७ ।।
सादिनश्च पदाताश्च हतशेषा रथास्तथा ।
विष्वक्सेनेन सहिता विरोचनमथाद्रवन् ।। २८ ।।
तेऽसिचर्मगदाशक्तिपरिघप्रासतोमरैः ।
तमेकमभ्यधावन्त सिंहनादं प्रचक्रिरे ।। २९ ।।
ततः सोऽसिं समुद्यम्य जवमास्थाय दानवः ।
वकर्त रथिनामाजौ शिरांसि च धनूंषि च ।। 3.56.३० ।।
रथनागाश्ववृन्देषु बलवानरिसूदनः ।
विरोचनश्चरन् मार्गान् प्रकारानेकविंशतिम् ।। ३१ ।।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम्।
सम्पातं समुदीर्णं च दर्शयामास दानवः ।। ३२ ।।
केचिद् वरासिना रुग्णा दानवेन महात्मना ।
विनेदुश्छिन्नवर्माणो निपेतुश्च गतासवः ।। ३३ ।।
छिन्नपृष्ठा हतारोहा दानवेन महात्मना ।
विद्रुताः स्वान्यनीकानि जघ्नुस्त्रिदशवारणाः ।।३४ ।।
निपेतुरुर्व्यामाकाशे निकृता दृढधन्विना ।
विविधास्तोमराश्चापा महामात्रशिरांसि च ।। ३५ ।।
प्रतीपमाहरन्नागानश्वांश्च दृढविक्रमान् ।
चकर्त रथिनः कांश्चित् परामृश्य महाबलः ।
सूतांश्चिच्छेद खड्गेन रथानपि च दानवः ।। ३६ ।।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ।
मार्गांश्चरति वैचित्रान् व्यस्मयन्त ततोऽसुराः।। ३७ ।।
निजघान पदा काश्चिदाक्षिप्यान्यानपोथयत् ।
खड्गेन चान्यांश्चिच्छेद नादेनान्यांश्च भीषयन्।। ३८ ।।
ऊरुस्तम्भगृहीताश्च निपतन्त्यपरे भुवि ।
अपरे दैत्यमालोक्य भयात्प्राणानवासृजन् ।। ३९ ।।
तस्मिंस्तथा वर्तमाने युद्धे महति दारुणे ।
रथौघगजपत्तीनां सुराणां च महाक्षये ।। 3.56.४० ।।
कुजम्भो दानवश्रेष्ठो ह्यंशमादित्यमाहवे ।
योधयामास समरे वृषः प्रतिवृषं यथा ४१ ।।
जघानाचलसंकाशो मत्तवारणविक्रमः ।
स्फुरद्भिर्निशितैस्तीक्ष्णशरैर्बहुभिराशुगैः ।। ४२।।
देवसैन्यसहस्राणि सरथानि महाहवे ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ।। ४३ ।।
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
देवानामजयः क्रूरः प्रत्यपद्यत दारुणः ।। ४४ ।।
अंशस्तु दानवेन्द्रस्य जघानोत्तमविक्रमः ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।। ४५ ।।
आपतन्तं गजानीकं कुजम्भो वीक्ष्य दानवः ।
गदापाणिरवारोहद् रथोपस्थादरिंदमः । ४६ ।।
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अभ्यद्रवद् गजानीकं व्यादितास्य इवान्तकः ।। ४७ ।।
स गजान् गदया निघ्नन् व्यचरत्समरे बली ।
कुजम्भो दानवश्रेष्ठो गदापाणिर्बलाधिकः ।। ४८ ।।
विशीर्णदन्तांश्च वद्वन्भिन्नकुम्भाम्बदारुणान् ।
अकरोद् दानवश्रेष्ठ उद्दिश्योद्दिश्य तान् बली ।। ४९ ।।
विशीर्णदन्ता बहवो भिन्नकुम्भास्तथा परे ।
कुजम्भेनार्दिता नागा व्यद्रवन्त दिशो दश ।। 3.56.५० ।
कुजम्भस्य च येऽमात्या दानवा घोरविक्रमाः ।
नाराचैर्विविधैस्तीक्ष्णैरपास्तगजयोधिनः ।। ५१ ।।
क्षुरैः क्षुरप्रैर्भल्लैश्च पातैरञ्जलिकैः शितैः ।
चिच्छेद चोत्तमाङ्गानि कुजम्भो दानवोत्तमः ।। ५२ ।।
शिरोभिः प्रपतद्भिस्तु गगनं प्रत्यपूर्यत ।
अश्मवृष्टिरिवाकाशे बहुभिश्च सहाङ्कुशैः ।। ५३ ।।
कृत्तोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्त महाराज ताला विशिरसो यथा ।।५४ ।।
आपतन्तं महानागमंशस्यासुरसत्तमः ।
जघानैकेषुणा क्रुद्धस्ततः स विमुखोऽभवत् ।।५५ ।।
विगाह्यैवं गजानीकं कुजम्भो दानवोत्तमः ।
विनिघ्नन्प्रवरान्सैन्यान्गदया बलिनां वरः ।। ५६ ।।
एकप्रहाराभिहतान् कुजम्भेन महागजान् ।
अपश्यन्त सुराः सर्वे पर्वतानिव पातितान् ।। ५७ ।।
कुजम्भस्य च मार्गेषु विशीर्णास्ते महागजाः ।
वज्राहता इवेन्द्रेण विशीर्णा इव पर्वताः ।। ५८ ।।
अपश्यंस्त्रिदशाः सर्वे मूर्तिमन्तमिवान्तकम्।
गजास्तथा व्यदीर्यन्त सिंहस्येवेतरे मृगाः ।। ५९ ।।
स बभौ तां गदां बिभ्रत् प्रोक्षितां गजशोणितैः ।
व्यादितास्योऽनदत्क्रुद्धो रौद्ररूपो भयानकः ।। 3.56.६० ।।
यथा हि भगवान्क्रुद्धः प्रजानां संक्षये पुरा ।
विक्रीडमानो गदया रणमध्ये महासुरः ।। ६१ ।।
गोपाल इव दण्डेन कालयन्स महागजान् ।
क्रुद्धं कालमिवाकाले दण्डमुद्यम्य दानवम् ।
अपश्यन्त सुराः सर्वे कुजम्भं भीमविक्रमम् ।। ६२ ।।
हतारोहास्तु तत्रान्ये प्रभिन्ना वारणोत्तमाः ।
ते हन्यमाना गदया बाणैश्च भृशविक्षताः ।।६३ ।।
असहन्तः कुजम्भस्य गदावेगं महाहवे ।
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्त महागजाः ।। ६४ ।।
महावात इवाभ्राणि विधमन् गदया गजान् ।
अतिष्ठत्समरे दैत्यः कालः संवर्तको यथा ।। ६५ ।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे कुजम्भस्योत्कर्षवर्णने षट्पञ्चाशत्तमोऽध्यायः।।५६।।