हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५४
[[लेखकः :|]]
अध्यायः ०५५ →
देवासुराणां युद्धस्य यज्ञरूपेण वर्णनं, द्वयोः सेनयोः तुमुलं युद्धं, सावित्रध्रुवयोः पराजयम्

चतुष्पञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
उभयोः सेनयो राजन् भूयो युद्धमवर्तत ।
नादेन संचालयतां त्रैलोक्यमिदमव्ययम् ।। १ ।।
गोमुखाडम्बराणां च भेरीणां मुरजैः सह ।
झल्लरीडिण्डिमानां च व्यभूयन्त महास्वनाः ।। २ ।।
प्रवृत्तो युद्धयज्ञस्तु तुमुलो लोमहर्षणः ।
रणमध्ये महानादः स्वर्गीयः शूरसम्मतः ।। ३ ।।
युद्धयज्ञस्य नेताभूत् प्रह्रादो दैत्यसत्तमः ।
विरोचनस्तथाध्वर्युर्युद्धयज्ञप्रवर्तकः ।। ४ ।।
होता चैवात्र नमुचिर्वृत्रः स्तोत्रोपकल्पकः ।
मन्त्रा दैत्याः समाख्याता यज्ञकर्मणि तत्र वै ।। ५ ।।
अनुयातश्च पितरमधिको वा पराक्रमैः ।
यष्टा तत्राभवद् बाण संयुगे चोपतिष्ठते ।। ६ ।।
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं सुदुर्जयम्।
मन्त्रास्तत्राभ्यवर्तन्त साध्वनुह्रादयोजिताः ।। ७ ।।
उद्गाता च मयः श्रीमान् स्थितः शत्रुभयंकरः ।
विनदन् दितिजश्रेष्ठो देवानीकं व्यदारयत् ।। ८ ।।
बलिस्तु राजा द्युतिमान् स्वयं तत्र महासुरः ।
जाप्यैर्होमैश्च संयुक्ता ब्रह्मत्वमकरोत्प्रभुः ।। ९ ।।
रणाग्निर्ज्वलितो घोरो वैरेन्धनसमीरितः ।
हूयते त्वसुरैस्तत्र देवो विष्णुः सुरैः सह ।। 3.54.१० ।।
शङ्खशब्दैः सुतुमुलैर्भेरीणां च महास्वनैः ।
उद्घुष्टं विमलं चैव सुब्रह्मण्यं प्रयुज्यते ।। ११।।
बलश्च बलकश्चैव पुलोमा च महासुरः ।
प्रशस्तं च समं कृत्वा सत्रं सम्यक् प्रचक्रिरे ।। १२ ।।
कल्माषदण्डा विमला विपुला रथपङ्क्तयः ।
यूपाश्च समकल्पन्त युद्धयज्ञे महाफले ।। १३ ।।
कर्णिनालीकनाराचा वत्सदन्तोपबृंहिकाः ।
तोमराः सोमकलशा विचित्राणि धनूंषि च ।। १४ ।।
अस्थीन्यत्र कपालानि पुरोडाशाः शिरांसि च ।
आज्यं च रौद्रं रुधिरं तस्मिन् यज्ञेऽभिहूयते ।। १५ ।।
इध्माः परिधयस्तत्र प्रस्तारा विपुला गदाः ।
हयग्रीवोऽसिलोमा च राहुः केशी च दानवः ।। १६।।
विरोचनश्च जम्भश्च कुजम्भश्च महाबलः ।
सदस्यास्तत्र तु मखे विप्रचित्तिस्तु वीर्यवान् ।। १७ ।।
इषवस्तु स्रुवास्तत्र रथाक्षसदृशाः शुभाः ।
धनुष्कोट्या धनुर्ज्याश्च स्रुवस्तत्र महामखे ।। १८ ।।
प्रतिप्रास्थानिकं कर्म वृषपर्वाकरोदिह ।
दीक्षितस्तत्र तु बलिस्तस्य पत्नी महाचमूः ।। १९ ।।
शम्बरस्तत्र शामित्रमकरोद् दितिनन्दनः ।
अतिरात्रे महाबाहुर्वितते यज्ञकर्मणि ।।3.54.२० ।
दक्षिणास्तस्य यज्ञस्य कालनेमिर्महासुरः ।
वैताने कर्मणि विभोर्यः ख्यातो हव्यवाडिव ।। २१ ।।
त्रिदशानां तु सैन्यस्य शरीरैर्गतजीवितैः ।
तस्मिन् यज्ञे तु सवनं वर्धते दैत्यनिर्मितम् ।। २२ ।।
देवानां रुधिरं संख्ये पपुरुग्रा दितेः सुताः ।
नर्दमानाः प्रमुदिताः सोमपानं रणाध्वरे ।। २३ ।।
यदा बलिर्महादैत्यो विजेता समरे सुरान् ।
तदा ह्यवभृथो यज्ञे भविष्यति न संशयः ।। २४ ।।
महासुरेन्द्रपतयो यज्वानो भूरिदक्षिणाः ।
वेदवन्तो वृत्तवन्तः शूराः सर्वे तनुत्यजः ।। २५ ।।
त्रैलोक्यहरणे सृष्टा युद्धयज्ञाय दीक्षिताः ।
बद्धकृष्णाजिनाः सर्वे व्रतिनो मुञ्जधारिणः ।। २६।।
एकनिश्चयकार्याश्च त्रैलोक्यजयकाङ्क्षिणः ।
सुरदानवदैत्यानां शब्दः समभवन्महान् ।। २७।।
नानायुधविहस्तानां त्वरितानां प्रधावताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिःस्वनैः ।। २८ ।।
रथनेमिस्वनैर्घोरैस्तुमुलः सर्वतोऽभवत् ।
शङ्खदुन्दुभिनिर्घोषैर्हयहेषितनिःस्वनैः ।। २९ ।।
हयानां हेषमाणानां दानवानां च गर्जताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैः पाणिपादरवैस्तथा ।।3.54.३० ।।
दानवानां परेषां च शस्त्रवन्ति महान्ति च ।
समरे भीमकर्माणि सैन्यानि प्रचकाशिरे ।। ३१ ।।
ततो नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यराजन्त मेघा इव सविद्युतः ।। ३२ ।।
ऋष्टिखड्गगदास्तीक्ष्णाः शूलशक्तिपरश्वधाः ।
चारु विभ्राजिरे तत्र तेष्वनीकेषु भागशः ।। ३३
रथा बहुविधाकाराः शतशोऽथ सहस्रशः ।
हेमप्रच्छन्नशिखरा ज्वलन्त इव पावकाः ।। ३४ ।।
दानवानां सुराणां च समालोक्यन्त सैनिकाः ।
काञ्चनैः कवचैः सर्वे ज्वलितार्कसमप्रभैः ।। ३५ ।।
संनद्धाः समदृश्यन्त ज्योतींषि गगने यथा ।
उद्यतैरायुधैश्चित्रैस्तलबद्धाः कलापिनः ।। ३६ ।।
ऋषभाक्षाः सुरगणाश्चमूमुखगता बभुः ।
नानावर्णाः पताकाश्च ध्वजमालाश्च संयुगे ।। ३७।।
युद्ध्यतां रणशौण्डानामीरयामास मारुतः ।
ध्वजालंकारवस्त्राणि कवचानि च रश्मिभिः ।।३८ ।।
भासयामास सर्वाणि रश्मिवर्णानि रश्मिवान् ।
सर्वेषामप्रमेयाणां बलानां पादचारिणाम् ।। ३९ ।।
रजः प्रच्छादयामास पत्रोर्णं पाण्डुरं दिशः ।
दिव्यायुधधराः सर्वे दीप्तायुधपरिच्छदाः ।। 3.54.४० ।।
प्रतितस्तम्भिरेऽन्योन्यमनीकं प्रत्यनीकतः ।
गिरिकूटोच्छ्रयाः सर्वे तदा ते देवदानवाः ।। ४१ ।।
अन्योन्यमभिनिघ्नन्तो रणस्थाश्चित्रयोधिनः ।
बाणैः सुरुचिरैस्तीक्ष्णैः पत्रवाजैर्दुरासदैः ।। ४२ ।।
मुद्गरैर्मुसलैः शूलैरयस्तुण्डैरुलूखलैः ।
वज्रैरशनिकल्पैश्च खड्गवृक्षादिभिस्तथा ।। ४३ ।।
तथा प्रवर्तिते तेषां विमर्देऽद्भुतविक्रमे ।
सावित्रस्य वधं प्रेप्सुर्बाणो जग्राह कार्मुकम् ।। ४४ ।।
शरजालेन दिव्येन च्छादयानः सुरोत्तमम् ।
मन्त्रैर्हुत इवार्चिष्मान् सम्प्रजज्वाल तेजसा ।। ४५ ।
सागराभां महासेनां देवानां दैत्यपुंगवः ।
संशोषयति बाणौघैरर्कोंऽशुभिरिवार्णवम् ।। ४६ ।।
मारुतः सुमहावेगः सावित्रः शक्तिमुत्तमाम् ।
चिक्षेप बलिपुत्राय शक्रोऽशनिमिवाद्रये ।। ४७ ।।
आपतन्ती च सा शक्तिर्महोल्का ज्वलिता इव ।
द्विधा छिन्ना क्षुरप्रेण बाणेनाद्भुतकर्मणा ।। ४८ ।।
हतायामथ शक्त्यां तु सावित्रो देवसत्तमः ।
विश्वकर्मकृतं दिव्यं सुतीक्ष्ण दानवार्दनम् ।। ४९ ।।
सुपीनधारं विमलं विपुलं चन्द्रवर्चसम् ।
अगृह्णन्निशितं खड्गमाशीविषमिवोरगम् ।। 3.54.५० ।।
तं गृहीत्वा रणमुखे प्रज्वलन्तं महाप्रभम् ।
बाणाभ्याशे महातेजाः खड्गपाणिरवस्थितः ।। ५१ ।।
स तं स्थितमथालक्ष्य सावित्रं बलिनन्दनः ।
लोहिताक्षं महाकायं चिक्षेप च ननाद च ।।५२।।
ततोऽर्ककिरणाकारानशनिप्रतिमाञ्छितान् ।
संदधे चाशु बाणौघानाशीविषशिलीमुखान् ।। ५३ ।।
रुक्मपुङ्खान् प्रदीप्ताग्रानुग्रवेगानलंकृतान् ।
आकर्णपूरांश्चिक्षेप शरानुग्रान् समन्ततः ।। ५४ ।।
दृढचापप्रयुक्तास्ते शरा वैश्वानरप्रभाः ।
सावित्रं छादयामासुः कैलासमिव तोयदाः ।। ५५ ।।
संछाद्यमानः शस्त्रौघैर्बाणेन बलिसूनुना ।
पराङ्मुखः सुरवरः प्रयातः सरथध्वजः ।। ५६।।
पराजित्य स सावित्रं बाणः परमहर्षितः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ।। ५७ ।।
बलश्चाप्यसुरश्रेष्ठः प्रगृह्य महतीं गदाम् ।
ध्रुवाय वसवे मूर्ध्नि रौद्रां चिक्षेप दानवः ।। ५८ ।।
तस्य निर्मथितं त्वंसे हेमचित्रं च वर्म वै ।
गदावेगेन भीमेन ध्रुवस्य समरे तदा ।। ५९ ।।
शेषाश्च वसवः सर्वे दिव्यास्त्रैर्घोरदर्शनैः ।
प्राच्छादयन् रणे दैत्यमादित्यमिव तोयदाः ।। 3.54.६० ।।
ततः सम्मर्दितो बाणैर्बलो दानवसत्तमः ।
अवातरद् रथात्तस्माद् गदामुद्यम्य वेगवान्।। ६१ ।।
पातयामास शत्रूणां समाविध्य महासुरः ।
दिशः प्राद्रावयत्सर्वांस्त्रिदशान्सा महागदा।। ६२ ।
इन्द्राशनिरिवेन्द्रेण प्रवृद्धा सुमहास्वना ।
तस्याः सविद्युद्धोषायास्तेन शब्देन वेपिताः ।। ६३ ।।
व्यद्रवन्त परिभ्रष्टा रथेभ्यो रथिनस्तदा ।
तदुदीर्णे रथानीकं सूर्याभं मेघनिःस्वनम् ।। ६४ ।।
देवानां शरधाराभिः समन्तादभ्यवर्षत ।
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैः शिलीमुखैः ।। ६५ ।।
मुहुर्मुहुर्महातेजाः प्रत्यविध्यन्महासुरः ।
बलाकस्तु गदापाणिर्व्यादितास्य इवान्तकः ।। ६६।।
तडिद्गणार्कसदृशो वैश्वानर इवापरः ।
पिबन्निव शरौघांस्तान् देवचापसमुच्छ्रितान् ।। ६७ ।।
अभ्यद्रवत दैत्येन्द्रो महार्णव इवापरः ।
अवस्फूर्जन् दिशः सर्वाः स्वेन वीर्येण दानवः।। ६८ ।।
अरुणत्त्रिदशान् दैत्यः सिंधुवेगान् नगा इव ।
समुद्रस्तरसा देवान् वायुर्वृक्षानिवौजसा ।। ६९।।
दमयंश्च महेष्वासान् वसुभ्यां समसज्जत ।
आपश्चैवानिलश्चैव ववर्षतुररिंदमौ ।। 3.54.७० ।।
शरवर्षाणि दीप्तानि मेघाविव परंतपौ ।
क्षिप्तांस्तान् विशिखान् दीप्तानन्तरिक्षे स चिच्छिदे।७१।
अमृष्यमाणस्तत्कर्म ध्रुवस्तमभिदुद्रुवे ।
तौ पृथक्छरवर्षाभ्यामन्योन्यमभिजघ्नतुः ।। ७२ ।।
उत्तमाभिजनौ शूरौ देवदैत्यौ यशस्करौ ।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।। ७३ ।।
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ।
निर्भिन्दन्तौ च गात्राणि विलिखन्तौ च सायकैः।। ७४ ।।
स्तम्भयन्तौ च बलिनौ प्रतुदन्तौ स्थितौ रणे ।
चरन्तौ विविधान् मार्गान्मण्डलानि च भागशः ।।७५।
मुद्गरैर्जघ्नतुः क्रुद्धावन्योन्यमभिमानिनौ ।
असिभ्यां चर्मणी दिव्ये विपुले च शरासने ।। ७६ ।।
निकृत्याचलसंकाशौ बाहुयुद्धं प्रचक्रतुः ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।। ७७ ।।
बाहुभिः समसज्जेतामायसैः परिघैरिव ।
तयोरासीद् भुजाघातैर्निग्रहः प्रग्रहस्तथा ।। ७८।।
अतीव भीमः संह्रादो वज्रपर्वतयोरिव ।
द्विपाविव विषाणाग्रैः शृङ्गैरिव महावृषौ ।। ७९ ।।
अन्योन्यमभिसंरब्धौ मुहूर्तं पर्यकर्षताम् ।। 3.54.८० ।।
ततः पराजितो देवो बलाकेन तथा ध्रुवः ।
रथं त्यक्त्वा भयात्तस्य प्रणष्टः प्राङ्मुखो वसुः।। ८१
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे चतुःपञ्चाशत्तमोऽध्यायः ।। ५४ ।।