हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७१ हरिवंशपुराणम्
अध्यायः ०७२
वेदव्यासः
अध्यायः ०७३ →
श्रीकृष्णेन नारदं अमरावत्योपरि आक्रमणस्य निश्चयं कथयित्वा इन्द्राय संदेशप्रेषणम्, इन्द्रबृहस्पतयोः वार्तालापः, बृहस्पतिना कश्यपाय अस्य समाचारस्य कथनम् एवं कश्यपेन युद्धस्य शान्तये भगवतः शंकरस्य स्तुतिः

द्विसप्ततितमोऽध्यायः

वैशम्पायन उवाच
अथेत्य द्वारकां रम्यां नारदो मुनिसत्तमः ।
ददर्श पुरुषश्रेष्ठं नारायणमरिंदमम् ।। १ ।।
स्ववेश्मनि सुखासीनं सहितं सत्यभामया ।
विराजमानं वपुषा सर्वतेजोऽतिगामिना ।। २ ।।
तमेवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् ।
केवलं योजयन्तं च वाक्यमात्रेण भाविनीम् ।। ३ ।।
दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः ।
पूजयामास च तथा विधिदृष्टेन कर्मणा ।। ४ ।।
सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः ।
वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति ।। ५ ।।
अथाचष्ट मुनिः सर्वं विस्तरेण तपोधनः ।
इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय ।। ६ ।।
श्रुत्वा कृष्णस्तु तत्सर्वं नारदं वाक्यमब्रवीत्।
अमरावतीं पुरीं यास्ये श्वोऽहं धर्मभृतां वर ।। ७ ।।
इत्युक्त्वा नारदेनैव सहितः सागरं ययौ ।
संदिदेश ततस्तत्र विविक्ते नारदं हरिः ।। ८ ।।
महेन्द्रभवनं गत्वा अद्य ब्रूहि तपोधन ।
अभिवाद्य महात्मानं मद्वाक्यममरोत्तमम् ।। ९ ।।
न युद्धे प्रमुखे शक्र स्थातुमर्हसि मे प्रभो ।
पारिजातस्य नयने निश्चितं त्वमवेहि माम् ।। 2.72.१० ।।
एवमुक्तस्तु कृष्णेन नारदस्त्रिदिवं गतः ।
आचचक्षेऽथ कृष्णोक्तं देवेन्द्रस्यामितौजसः ।। ११ ।।
ततो बृहस्पतेः शक्रः शशंस बलनाशनः ।
श्रुत्वा बृहस्पतिर्देवमुवाच कुरुनन्दन ।। १२ ।।
अहो धिग् ब्रह्मसदनं मयि याते शतक्रतो ।
दुर्नीतमिदमारब्धमत्र भेदो हि दारुणः १३ ।।
अनाख्यात्वा कथं नाम भवता भुवनेश्वर ।
ममैतत् कृत्यमारब्धं देव केनापि हेतुना ।। १४ ।।
अथवा भवितव्येन कर्मजेन प्रयुज्यते ।
जगद् वृत्रघ्न न विधिः शक्यः समतिवर्तितुम् ।। १५ ।।
सहसैव तु कार्याणामारम्भो न प्रशस्यते ।
तदेतत्सहसाऽऽरब्धं कार्यं दास्यति लाघवम् ।। १६ ।।
बृहस्पतिं महात्मानं महेन्द्रस्त्वब्रवीद् वचः ।
एवं गतेऽद्य यत् कार्यं तद् भवान् वक्तुमर्हति ।। १७ ।।
तमुवाचाथ धर्मात्मा गतानागततत्त्ववित् ।
अधोमुखश्चिन्तयित्वा बृहस्पतिरुदारधीः ।। १८ ।।
यतस्व सह पुत्रेण योधयस्व जनार्दनम् ।
तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति ।। १९ ।।
बृहस्पतिस्त्वेवमुक्त्वा क्षीरोदं सागरं गतः ।
आचष्ट मुनये सर्वं कश्यपाय महात्मने ।। 2.72.२० ।।
तच्छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिमभाषत ।
अवश्यं भाव्यमेतद् भोः सर्वथा नात्र संशयः ।। २१ ।।
इच्छतः सदृशीं भार्यां महर्षेर्देवशर्मणः ।
अपध्यानकृतो दोषः पतत्येष शतक्रतोः ।। २२ ।।
तस्य दोषस्य शान्त्यर्थमारब्धश्च मुने मया ।
उदवासः स दोषश्च प्राप्त एव सुदारुणः ।। २३ ।।
तद् गमिष्यामि मध्येऽस्य सहादित्या तपोधन ।
उभौ तौ वारयिष्यामि दैवं संवदते यदि ।। २४ ।।
बृहस्पतिस्तु धर्मात्मा मारीचमिदमब्रवीत् ।
प्राप्तकालं त्वया तत्र भवितव्यं तपोधन ।। २५ ।।
तथेति कश्यपश्चोक्त्वा सम्प्रस्थाप्य बृहस्पतिम् ।
जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम् ।। २६ ।।
तत्र सौम्यं महात्मानमानर्च वृषभध्वजम् ।
वरार्थी कश्यपो धीमानदित्या सहितः प्रभुः ।। २७ ।।
तुष्टाव च तमीशानं मारीचः कश्यपस्तदा ।
वेदोक्तैः स्वकृतैश्चैव स्तवैः स्तुत्यं जगद्गुरुम् ।। २८ ।।
कश्यप उवाच
उरुक्रमं विश्वकर्माणमीशं जगत्स्रष्टारं धर्मदृश्यं वरेशम् ।
सं सर्वं त्वां धृतिमद्धाम दिव्यं विश्वेश्वरं भगवन्तं नमस्ये ।। २९ ।।
यो देवानामधिपः पापहर्ता ततं विश्वं येन जगन्मयत्वात् ।
आपो गर्भं यस्य शुभा धरित्र्यो विश्वेश्वरं तं शरणं प्रपद्ये ।। 2.72.३० ।।
शालावृकान्यो यतिरूपो निजघ्ने दत्तानिन्द्रेण प्रणुदो हितानाम् ।
विरूपाक्षं सुदर्शनं पुण्ययोनिं विश्वेश्वरं शरणं यामि मूर्ध्ना ।। ३१ ।।
भुङ्क्ते य एको विभुर्जगतो विश्वमग्र्यं धाम्नां धाम सुकृतित्वान्न धृष्यः ।
पुष्यात् स मां महसा शाश्वतेन सोमपानां मरीचिपानां वरिष्ठः ।। ३२ ।।
अथर्वाणं सुशिरसं भूतयोनिं कृतिनं वीरं दानवानां च बाधम् ।
यज्ञे हुतिं यज्ञियं संस्कृतं वै विश्वेश्वरं शरणं यामि देवम् ।। ३३ ।।
जगज्जालं विततं यत्र विश्वं विश्वात्मानं प्रीतिदेवं गतानाम् ।
य ऊर्ध्वगं रथमास्थाय याति विश्वेश्वरः स सुमना मेऽस्तु नित्यम् ।। ३४ ।।
अन्तश्चरं रोचनं चारुशाखं महाबलं धर्मनेतारमीड्यम् ।
सहस्रनेत्रं शतवर्त्मानमुग्रं महादेवं विश्वसृजं नमस्ये ।। ३५ ।।
शुचिं योगं शंसनं शान्तपापं शर्वं शम्भुं शंकरं भूतनाथम्।
धुरंधरं गोपतिं चन्द्रचिह्नं हृषीकाणामयनं यामि मूर्ध्ना ।। ३६ ।।
आशुःशिशानं वृषभं रोरुवाणं कृतं धर्मं वितथं चाशुशेषम् ।
वसुंधरं समृजीकं समं त्वां धृतव्रतं शूलधरं प्रपद्ये ।। ३७ ।।
अनन्तवीर्यं धृतकर्माणमाद्यं यज्ञाशेषं यजतां चाभियाज्यम् ।
हविर्भुजं भुवनानां सदैव ज्येष्ठं द्विजं धर्मभृतां प्रपद्ये ।। ३८ ।।
परं गुणेभ्यः पृश्निगर्भस्वरूपं यशः शृङ्गं व्यूहनं कान्तरूपम् ।
शुद्धात्मानं पुरुषं सत्यधामं सम्मोहनं दुष्कृतिनां नमस्ये ।। ३९ ।।
युक्तोङ्कारं स्वशिरसं चारुकर्म दृढव्रतं दृदधन्वानमाजम्।
शूरं वेत्तारं धनुषोऽस्त्रातिरेकं पतिं पशूनां शमनं नमस्ये ।। 2.72.४० ।।
एको रातिश्चैव भूतं भविष्यं सर्वातिथिर्यो हि जुषत्यरिघ्नः ।
अरिंतुदोऽनुत्तमः संविभागी विभाजको मां भगवान्पातु देवः।। ४१ ।।
य एको याति जगतां विश्वमीशो य एकोऽदान्मरुतां प्राणमग्र्यम् ।
येनानृशंस्याच्छाश्वतं साम जुष्टं स मां जुष्यात्सुकृतिश्रेयसेऽद्य ।। ४२ ।।
ब्रह्मासृजद् यो भुवनोत्तमोत्तमं तृप्तो विद्वान्ब्राह्मणः षड्गुणस्य ।
सृष्ट्वा रसं व्याहृतिस्थं समग्रं स मां पायादिह बहुरूपोऽरिहाङ्गैः।। ४३ ।।
व्यञ्जनोऽजनोऽथ विद्वान् समग्रः स्पृशिः शम्भुः प्राणदः कृत्तिवासाः ।
रसो ध्रुवः पवमानस्य भर्ता सपत्नीशः शङ्करः सारधाता ।।४४ ।।
त्र्यम्बकं पुष्टिदं विब्रुवाणं धर्मं विप्राणां वरदं यज्वनां च ।
वराद् वरं रणजेतारमीशं देवं देवानां शरणं यामि रुद्रम् ।। ४५ ।।
आस्यं देवानामन्तकं दुष्कृतीनां त्रिवृत्स्तोमं वृक्षहं कर्मसाक्ष्यम् ।
भूतायनं भूतपतिं गुणज्ञं गुणाकारं शरणं यामि रुद्रम् ।। ४६ ।।
अनुद्धृतं यज्ञकर्तारमन्तं मध्यं चाद्यं यज्ञकृतां साम्यरूपम्।
वेदव्रतेषु बहुधा गीतमीशमभित्रिविष्टपं शरणं यामि रुद्रम्।। ४७ ।।
महाजिनं व्रतिनं मेखलालं सुतोषणं क्रोधधवं विपापम् ।
भूतं क्षेत्रज्ञं गुणिनं वा कपर्दिनं नतोऽस्मीशं वन्दनं वन्दनानाम् ।। ४८ ।।
देवं देवानां पावनं पावनानां कृतिं कृतीनां महतो महान्तम्।
शतात्मानं संस्तुतं गोपतीनां पतिं देवं शरणं यामि रुद्रम् ।। ४९ ।।
अन्तश्चरं पुरुषं गुह्यसंज्ञं प्रभास्वन्तं प्रणवं विप्रदीपम् ।
हेतुं परं परमस्याक्षरस्य शुभं देवं गुणिनं संनतोऽस्मि ।। 2.72.५० ।।
प्रसूतिरुभयोर्न प्रसूतश्च सूक्ष्मः पृथग्भूतेभ्यो न पृथक्यैकभूतः ।
स्वयं भूतः पातु मां सर्वसादः प्रदः स्वादः सम्पदः पातु रत्नम्।। ५१ ।।
आसन्नः संनतरः साधनानां श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
पतिर्गणानां महतां सत्कृतीनां पायान्मेषः पूरणः षड्गुणानाम्।। ५२ ।।
अन्तर्बहिर्वृजिनानां निहन्ता स्वयं कर्ता भूतभावी विकुर्वन् ।
धृतायुधः सुकृतिनामुत्तमौजाः प्रणुद्यान्मे वृजिनं देवदेवः ।। ५३ ।।
येनोद्धतास्त्रैः पुरा मायिनो वै दग्धा घोरेण वितथान्ताः शरेण ।
महत्कुर्वन्तो वृजिनं देवतानां ज्यायानीशः पातु विश्वोदधाता।। ५४ ।।
भागीयसां भागमतोऽन्तमिच्छन् मखो दाक्षो येन कृत्तोऽन्वधावत्।
विद्वान्यज्ञस्यादिरथान्तः स देवः पायादीशो मां दक्षयज्ञान्तहेतुः ।। ५५।।
अन्यो धन्यः संस्कृतश्चोत्तमश्च जगत्सृष्ट्वा योऽत्ति सर्वातिगुह्यः ।
स मां मुखप्रमुखे पातु नित्यं विचिन्वानः प्रथमः षड्गुणानाम्।। ५६।
गुणत्रैकाल्यं यस्य देवस्य नित्यं सत्त्वोद्रेको यस्य भावात्प्रसूतः ।
गोप्ता गोप्तॄणां सन्नदो दुष्कृतीनामाद्यो विश्वस्य बाधमानस्य क्रुद्धः।। ५७ ।।
धाम्नो यस्य हरिरग्रोऽथ विश्वो ब्रह्मा पुत्रैः सहितश्च द्विजाश्च ।
पराभूता भवने यस्य सोमो जुषत्वेष श्रेयसे साधुगोप्ता ।। ५८ ।।
यस्माद्भूतानां भूतिरन्तोऽथ मध्यं धृतिर्भूतिर्यश्च गुहाश्रुतिश्च ।
गुहाभिभूतस्य पुरुषेश्वरस्य महात्मनः सम्मृडवेद्यस्य तस्य ।। ५९ ।।
यल्लिङ्गाङ्कं त्र्यम्बकः सर्वमीशो भगलिङ्गाङ्कं यद्ध्युमा सर्वधात्री ।
नान्यत् तृतीयं जगतीहास्ति किंचिन्महादेवात् सर्वसर्वेश्वरोऽसौ ।। 2.72.६० ।।
इति संस्तूयमानस्तु भगवान् वृषभध्वजः ।
दर्शयामास धर्मात्मा कश्यपं धर्मधृग्वरम् ।। ६१ ।।
उवाच चैनं देवेशः प्रसन्नेनान्तरात्मना ।
येन संस्तौषि कार्येण त्वं तज्जाने प्रजापते ।। ६२ ।।
इन्द्रोपेन्द्रौ महात्मानौ देवौ प्रकृतिमेष्यतः ।
पारिजातं तु धर्मात्मा नयिष्यति जनार्दनः ।। ६३ ।।
अपध्यातो महेन्द्रो हि मुनिना देवशर्मणा ।
अस्याकाङ्क्षत्पुरा भार्या तपोदीप्तस्य कश्यप ।। ६४ ।।
गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया ।
अदित्या शक्रसदनं श्रेयस्ते पुत्रयोर्धुवम् ।। ६५ ।।
इति हरवचनं निशम्य विद्वान्
कमलभवात्मजसूनुरप्रमेयः ।
त्रिदशगणगुरुं प्रणम्य रुद्रं
मुदितमनाः सुमनौकसं जगाम ।। ६६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे कश्यपकृतरुद्रस्तोत्रे द्विसप्ततितमोऽध्यायः ।।७२।।