हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७० हरिवंशपुराणम्
अध्यायः ०७१
वेदव्यासः
अध्यायः ०७२ →
नारदात् श्रीकृष्णस्य महत्ताप्रतिपादनं श्रुत्वापि इन्द्रस्य तं पारिजातस्य दाने अनुद्यता

एकसप्ततितमोऽध्यायः

वैशम्पायन उवाच
महेन्द्रवचनं श्रुत्वा नारदो वदतां वरः ।
विविक्ते देवराजानमिदं वचनमब्रवीत् ।। १ ।।
कामं प्रियाणि राजानो वक्तव्या नात्र संशयः ।
प्राप्तकालं तु वक्तव्यं हितमप्रियमप्युत ।। २ ।।
अनियुक्तपुरोभागो न स्यादिति वदन्ति हि ।
सुलोकगतितत्त्वज्ञो नयविज्ञानकोविदः ।। ३ ।।
कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् ।
यतस्ततः प्रवक्ष्यामि गृह्यतां यदि रोचते ।। ४ ।।
अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।
न्याय्यं च प्राप्तकालं च पराभवमनिच्छता ।। ५ ।।
वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम् ।
आनृण्यमेतत् स्नेहस्य सद्भिरेवादृतं पुरा ।। ६ ।।
अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं च हितं वाच्यं सद्भिरेवेति निन्दिताः ।। ७ ।।
सर्वथा देव वक्तव्यं श्रूयतां शृण्वतां वर ।
श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वचः ।। ८ ।।
अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।
भवत्यानन्दकृद् देव द्विषतां नात्र संशयः ।। ९ ।।
हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर ।
विपरीतं च तद्बुद्ध्या नित्यं बुद्धिमतां वर ।। 2.71.१० ।
यत्स्यात्तापकरं पश्चादारब्धं कार्यमीदृशम्।
आरभेन्नैव तद् विद्वानेष बुद्धिमतां नयः ।। ११ ।।
विपाकमस्य कार्यस्य नानुपश्यामि शोभनम् ।
यदत्र कारणं देव निबोध विबुधाधिप ।। १२ ।।
य एको विश्वमध्यास्ते प्रधानं जगतो हरिः ।
प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर्बुधाः ।। १३ ।।
तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः ।
तस्यात्मा परमो देवो विष्णुः सर्वस्य धीमतः ।। १४ ।।
प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी ।
व्यक्तः सर्वमयो विश्वः स्त्रीसंज्ञो लोकभावनः ।। १५ ।।
रुक्मिण्याद्याः स्त्रियस्तस्या व्यक्तत्वं प्रथमो गुणः ।
अव्यया प्रकृतिर्देवी गुणी देवो महेश्वरः ।। १६ ।।
न विशेषोऽस्य रुद्रस्य विष्णोश्चामरसत्तम ।
गुणिनश्चाव्ययः शास्ता सदा च प्रथमोऽगुणः ।। १७ ।।
नारायणो महातेजाः सर्वकृत्ययेकभावनः ।
भोक्ता महेश्वरो देवः कर्ता विष्णुरधोक्षजः ।। १८ ।
ब्रह्मा देवगणाश्चान्ये पश्चात्सृष्टा महात्मना ।
महादेवेन देवेश प्रजापतिगणास्तथा ।। १९ ।।
एवं पुराणपुरुषो विष्णुर्देवेषु पठ्यते ।
अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ।। 2.71.२० ।।
अदित्या तपसा विष्णुर्महात्माऽऽराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः ।। २१ ।।
तयोक्तस्त्वत्समं पुत्रमिच्छामीति सुरोत्तम ।
प्रणिपत्य च विज्ञाय नारायणमधोक्षजम् ।। २२ ।।
तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ।। २३ ।।
स जातः सर्वकृद् देवो भ्राता तव सुरेश्वर ।
नारायणो महातेजा यमुपेन्द्रं प्रचक्षते ।। २४ ।।
इच्छन्नेव हरिर्देव काश्यपत्वमुपागतः ।
तैस्तैर्भावैर्विकुरुते भूतभव्यभवाप्ययः ।। २५ ।।
प्रादुर्भावं गतो देवो जगतो हितकाम्यया ।
माथुरं जगतो नाथः कर्ता हर्ता च केशवः ।। २६।।
यथा पललपिण्डः स्याद् व्याप्तः स्नेहेन मानद ।
तथा जगदिदं व्याप्तं विष्णुना प्रभविष्णुना ।। २७ ।।
ब्रह्मण्यदेवः सर्वात्मा तैस्तैर्भावैर्विकुर्वति ।
जगत्यतिगुणो देवो वैकुण्ठः सर्वभावनः ।। २८ ।।
अतः समस्तदेवानां पूज्य एव च केशवः ।
पद्मनाभश्च भगवान् प्रजासर्गकरो विभुः ।। २९ ।।
अनन्तो धारणार्थं च बिभर्ति च महद्यशः ।
यज्ञ इत्यपि सद्भिश्च कथ्यते वेदवादिभिः ।। 2.71.३० ।।
श्वेतः कृतयुगे देवो रक्तस्त्रेतायुगे तथा ।
द्वापरे च तथा पीतः कृष्णः कलियुगे विभुः ।। ३१ ।।
अवधीत्स हिरण्याक्षं दिव्यरूपधरो हरिः ।
दधाराप्सु निमज्जन्तीमेष देवो वसुन्धराम् ।। ३२ ।।
वाराहं वपुराश्रित्य जगतो हितकाम्यया ।
जघ्ने हिरण्यकशिपुं नारसिंहवपुर्हरिः ।। ३३ ।।
जिगाय जगतीं चैव विष्णुर्वामनरूपधृक् ।
बबन्ध च बलिं देवः श्रीमान् पन्नगबन्धनैः ।। ३४ ।।
देवदानवसम्भूतानाक्रामयदपि श्रियम् ।
त्वय्यनन्तः पुरा विष्णुरुदारोऽमितविक्रमः ।। ३५ ।।
सावशेषं तपो यस्य तन्निहन्ति जनार्दनः ।
अलीकेष्वपि वर्तन्तं व्रतमेतन्महात्मनः ।। ३६ ।।
जघ्ने च दानवान् मुख्यान् देवानां ये च शत्रवः।
तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः ।। ३७ ।।
रामत्वमपि चावाप्य जघ्ने रावणमात्मवान् ।
भूत्वा कामगुणांश्चैव जघान द्विरदं हरिः ।। ३८ ।।
हिताय जगतोऽद्यापि लोके वसति मानुषे ।
उपेन्द्रो जगतां नाथः सर्वभूतोत्तमोत्तमः ।। ३९ ।।
जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः ।
दैतेयेषु चरन् देवस्तृणेष्वग्निरिवोद्धतः ।। 2.71.४० ।।
अद्राक्षमपि गोविन्दं दानवैकार्णवं जगत् ।
कुर्वाणं दानवैर्हीनं जगतो हितकाम्यया ।। ४१ ।।
अवश्यं पारिजातं ते नयिष्यति जनार्दनः ।
द्वारकाममरश्रेष्ठ नानृतं च ब्रवीम्यहम् ।। ४२ ।।
भ्रातृस्नेहाभिभूतस्त्वं न कृष्णे प्रहरिष्यसि ।
नापि कृष्णस्त्वयि ज्येष्ठे प्रहरिष्यति वासव ।। ४३ ।।
नैव चेच्छ्रोष्यति प्रोक्तं मया देव कथञ्चन ।
पृच्छ त्वं नयधर्मज्ञान् ये हितास्तव मन्त्रिणः ।। ४४ ।।
वैशम्पायन उवाच
नारदेनैवमुक्तस्तु महेन्द्रो जनमेजय ।
इदमुत्तरमीशोऽथ प्रत्युवाच जगद्गुरुम् ।। ४५ ।।
एवंविधप्रभावं त्वं कृष्णं वदसि यद् द्विज ।
एवमेतत् सुबहुशः श्रुतं खलु मया मुने ।। ४६ ।।
यतश्चैवंविधः कृष्णस्ततोऽहं तस्य वै तरुम् ।
न प्रदास्यामि दातव्यं सतां धर्ममनुस्मरन् ।। ४७ ।।
महाप्रभावो नाल्पार्थे रुष्येदिति विचिन्तयन् ।
व्यवस्थितोऽहं भद्रं ते मुने सर्वगुणादिति ।। ४८ ।।
महाप्रभावाः सततं भवन्ति हि सहिष्णवः ।
श्रोतारश्चैव सततं वृद्धानां ज्ञानचक्षुषाम् ।। ४९ ।।
महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः ।
भ्रात्रा ज्येष्ठेन सर्वज्ञो विरोधं गन्तुमर्हति ।। 2.71.५० ।।
यथैवं मम मातुः स वरं प्रादादधोक्षजः ।
तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुमर्हति ।। ५१ ।।
यथैवोपेन्द्रतां यातः स्वयमिच्छञ्जनार्दनः ।
तथैव भ्रातुरिन्द्रस्य सम्मानं कर्तुमर्हति ।। ५२ ।।
ज्यैष्ठ्यमेतेन देवेन नारब्धं किं पुरातने ।
अथेदानीमपीच्छेत् स ज्येष्ठोऽस्तु मधुसूदनः ।। ५३ ।।
सुनिश्चितं बलरिपुमीक्ष्य नारदो विसर्जितस्त्रिदशवरेण धर्मभृत् ।
ययौ पुरीं यदुवृषभाभिरक्षितां कुशस्थलीं धृतिमतिमांस्तपोधनः ।। ५४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदस्य स्वर्गात्पुनरागमने एकसप्ततितमोऽध्यायः ।। ७१ ।।