हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६९ हरिवंशपुराणम्
अध्यायः ०७०
वेदव्यासः
अध्यायः ०७१ →
श्रीकृष्णस्य गदाप्रहारस्य वार्त्तां श्रुत्वा कुपितस्य इन्द्रेण तस्य व्यवहारस्य कटुआलोचनम् एवं युद्धं विना पारिजातस्य अदानस्येव निश्चयम्

सप्ततितमोऽध्यायः

वैशम्पायन उवाच
देवराजवचः श्रुत्वा नारदः कुरुनन्दन ।
प्रोवाच वाक्यं वाक्यज्ञो धर्मात्मा धर्मवित्तमः ।। १ ।।
अवश्यमेव वक्तव्यं हितं बलनिषूदन ।
मया तव महाबाहो बहुमानोऽस्ति मे त्वयि ।। २ ।।
उक्तो मया वासुदेवो जानता भवतो मतम् ।
न दत्तः पारिजातोऽयं हरस्यापि त्वया पुरा ।। ३ ।।
हेतवश्च मया तस्य दर्शितास्ते समासतः ।
न चावगतवान् देवः सत्यमेतद् ब्रवीमि ते ।। ४ ।।
उपेन्द्रोऽहं महेन्द्रेण लालनीयः सदेति माम् ।
उवाच पुण्डरीकाक्षो दत्तमुत्तरमेव च ।। ५ ।।
पुनः पुनर्मया वास्य हेतवो देव दर्शिताः ।
ततो न बुद्धिर्व्यावृत्ता वृत्रनाशन तस्य वै ।। ६ ।।
अपि चाप्युक्तवान् देवो वाक्यान्ते मधुसूदनः ।
प्रत्याह पुरुषश्रेष्ठः सरोषमिव वासव ।। ७ ।।
न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नगाः ।
मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते ।। ८ ।।
स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरंदरोरसि ।। ९ ।।
उपेन्द्रस्य महेन्द्रायं भ्रातुस्ते निश्चयः परः ।
यदत्र मन्यसे न्याय्यं सम्प्रधार्य कुरुष्व तत् ।। 2.70.१० ।।
तत्त्वं हितं च देवेश श्रूयतां वदतो मम ।
नयनं पारिजातस्य द्वारकां मम रोचते ।। ११ ।।
नारदेनैवमुक्तस्तु सुव्यक्तं बलदेहभित् ।
रोषाविष्टः सहस्राक्षोऽब्रवीदेतन्तराधिप ।। १२ ।।
अनागसि मयि ज्येष्ठे सोदरे यदि केशवः ।
एवं प्रवृत्तः किं शक्यं कर्तुमद्य तपोधन ।। १३ ।।
बहूनि प्रतिलोमानि पुरा स कृतवान् मयि ।
कृष्णो नारद सोढानि भ्रातेति स्म मया सदा ।। १४ ।।
खाण्डवे चार्जुनरथं पुरा वाहयता सता ।
मदीया वारिता मेघाः शमयन्तोऽग्निमुद्धतम्।। १५ ।।
गोवर्धनं धारयता विप्रियं च कृतं मम ।
तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ।। १६ ।।
समोऽहमिति सर्वेषां भूतानामिति चोक्तवान् ।
स्वबाहुबलमाश्रित्य वृत्रश्च निहतो मया ।। १७ ।।
देवासुरेषु प्राप्तेषु संग्रामेषु च नारद ।
युध्यत्यात्मेच्छया कृष्णो मुने सुविदितं तव ।। १८ ।।
बहुनात्र किमुक्तेन तस्माद् दिष्ट्या प्रवर्तताम् ।
ज्ञातिभेदो न नः कार्यः साक्षी त्वं मम नारद ।। १९ ।।
ममोरसि गदां मोक्तुमुद्यतो यदि केशवः ।
अनुशब्द्याथ पौलोमीं गुणः क इह दृश्यते ।। 2.70.२० ।।
उदवासगतो धीमान् पिता नः कश्यपः प्रभुः ।
अदित्या सह मे मात्रा तयोर्वाक्यमिदं भवेत् ।। २१ ।।
अजितात्मा मम भ्राता रजसा तमसा वृतः ।
कामेन च स्त्रियो बाक्यादेवं मामुक्तवान्गुरुम्।। २२ ।।
धिक्स्त्रियः सर्वथा विप्र धिग् राजसमितिं तथा ।
यत्राधिक्षिप्तवान् विष्णुरेवं मां स्त्रीजितो द्विज ।। २३ ।।
न दृष्टं कश्यपकुले व्यपदेश्यं महामुने ।
नैव दक्षकुले दृष्टं मातुर्मे यत्र सम्भवः ।। २४ ।।
न ज्येष्ठता न राजत्वं देवानां प्रतिमानितम् ।
कामरागाभिभूतेन कृष्णेन खलु नारद ।। २५ ।।
पुत्रदारसहस्रैर्हि भ्रातानघ विशिष्यते ।
सद्वृत्तो ज्ञानसम्पन्न इति ब्रह्मा पुराब्रवीत् ।। २६ ।।
नास्ति भ्रातृसमो वन्धुराहार्य इतरो जनः ।
इति मामव्रवीन्माता पिता चैव प्रजापतिः ।। २७ ।।
सोदरे तु विशेषं तु पिता मे कश्यपोऽब्रवीत् ।
दृप्ता मया विरुद्धयन्ते दानवाः पापनिश्चयाः ।। २८ ।।
काममेतन्न वक्तव्यं स्वयमात्मस्तवान्वितम् ।
प्राप्तस्त्ववसरो विप्र यदिहाद्योच्यते मया ।। २९ ।।
धनुर्ज्यायां मुनिश्रेष्ठ छिन्नायां हि पुरानघ ।
धन्वीभिरमराणां च वरदानान्महामते ।। 2.70.३० ।।
उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया ।
सन्धितं च शिरो यत्नाच्छिन्नं रौद्रेण तेजसा।। ३१ ।।
अहं विशिष्टो देवानामित्युक्त्या पुनरच्युतः ।
धनुरारोप्य दर्पेण स्थितो नारद केशवः ।। ३२ ।।
किं मां पिता वा माता वा वक्ष्यतीति मया मुने ।
स्नेहेन च स्थितं विष्णोः शरीरं मुनिसत्तम ।। ३३ ।।
ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ ।
यवीयांसमहं प्रेम्णा कृष्णं पश्यामि नारद ।। ३४ ।।
संग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन ।
राजा किलाहं समरे प्रहराम्यग्रतो धुवम् ।। ३५ ।।
प्रादुर्भावेषु सर्वेषु स्वशरीरमिवानघ ।
यत्नाद् रक्षामि धर्मज्ञ केशवं भक्तिमाश्रितम् ।। ३६ ।।
इदं भङ्क्त्वा मदीयं च भुवनं विष्णुना कृतम् ।
उपर्युपरि लोकानामधिकं भुवनं मुने ।। ३७ ।।
अवमानः स च मया पृष्ठतः क्रियते मुने ।
लालनीयो मया बाल इत्येवं भ्रातृगौरवात् ।। ३८ ।।
बालोऽयं मम पुत्रेति यवीयानिति नारद ।
पित्रा मात्रा च गोविन्दो मानी च परिभाषितः ।। ३९ ।।
इष्टस्तत्र जनानां च केशवः सुविशेषतः ।
वयं द्वेष्या न संदेहस्तत्र स्नेहोऽतिरिच्यते ।। 2.70.४० ।।
सर्वज्ञो बलवाञ्छ्ररः पात्रं मानयिता तथा ।
केशवेत्येव च ध्यानं यत्तद्वितथतां गतम् ।। ४१ ।।
गच्छ नारद वक्तव्यः केशवो वचनान्मम ।
आहूतो न निवर्तेयं समरं प्रति शत्रुभिः ।। ४२ ।।
यदीच्छसि तदागच्छ सह्यं ते यत्त्वमिच्छसि ।
प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि ।। ४३ ।।
रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन च ।
प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन । ४४ ।।
प्रहृते प्रहरिष्यामि यथाशक्त्या च केशव ।
अहो धिग् यदि मां स्नेहो विक्लवं न करिष्यति ।। ४५ ।।
यावन्न संग्रामगतो जितोऽहं चक्रपाणिना ।
पारिजातं न दास्यामि तावद् भो मुनिसत्तम ।। ४६ ।।
मां समाह्वयते ज्येष्ठं यवीयान् स तपोधन ।
अहो तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम् ।। ४७ ।।
अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् ।
विवादे संस्थितः सोऽज्ञ इति वाच्यस्त्वयाच्युतः ।।४८।।
पलाशपत्रार्द्धमपि त्वयाजितो न पारिजातस्य तव प्रदास्यति ।
इति प्रवाच्यो मधुसूदनस्त्वया वचो मदीयं स्मरता तपोधन ।। ४९ ।।
पुनः प्रवाच्यो भगवंस्त्वयाच्युतो मम प्रियार्थं खलु निर्विशङ्कितम् ।
न मायया हर्तुमिहार्हसि द्रुमं सुयुद्धमेवास्तु धिगस्तु जिह्मताम् ।। 2.70.५० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये सप्ततितमोऽध्यायः ।। ७० ।।