हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७२ हरिवंशपुराणम्
अध्यायः ०७३
वेदव्यासः
अध्यायः ०७४ →
इन्द्रश्रीकृष्णयोः, जयन्तप्रद्युम्नयोः, प्रवरसात्यक्योः एवं ऐरावतगरुडयोः युद्धम्

त्रिसप्ततितमोऽध्यायः

वैशम्पायन उवाच
अथ विष्णुर्महातेजा मुहूर्ताभ्युदिते रवौ ।
मृगयाव्यपदेशेन ययौ रैवतकं गिरिम् ।। १ ।।
आरोप्यैकरथे देवः सात्यकिं नरपुङ्गवम् ।
प्रद्युम्नमनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह ।। २ ।।
रैवतं च गिरिं देवो गत्वा दारुकमब्रवीत् ।
मदीयं रथमेनं त्वं ग्रहायेहैव दारुक ।। ३ ।।
प्रतिपालय मां सौम्य दिनार्द्धे वारयन् हरीन् ।
रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम ।। ४ ।।
इति संदिश्य भगवानारुरोह जयोद्यतः ।
तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रमः ।। ५ ।।
पृथग् रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः ।
आकाशगामिना राजन्पृष्ठतः कृष्णमन्वयात् ।। ६ ।।
निमेषान्तरमात्रेण नन्दनं काननं हरिः ।
देवोद्यानं ययौ धीमान् पारिजातजिहीर्षया ।। ७ ।।
ददर्श तत्र भगवान् देवयोधान् दुरासदान् ।
नानायुधधरान् वीरान् नन्दनस्थानधोक्षजः ।। ८ ।।
तेषां सम्पश्यतामेव पारिजातं महाबलः ।
उत्पाट्यारोपयामास पारिजातं सतां गतिः ।। ९ ।।
गरुडं पक्षिराजानमयत्नेनैव भारत ।
उपस्थितो विग्रहवान् पारिजातः स केशवम् ।। 2.73.१० ।।
सान्त्वितो वासुदेवेन पारिजातश्च भारत ।
उक्तश्च वृक्ष मा भैस्त्वं केशवेन महात्मना ।। ११ ।।
तं प्रस्थितं तरुं दृष्ट्वा पारिजातमधोक्षजः ।
अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम् ।। १२ ।।
ते तु नन्दनगोप्तारः पारिजातो द्रुमोत्तमः ।
ह्रियतीति महेन्द्राय गत्वा नृप शशंसिरे ।। १३ ।।
अथैरावतमारुह्य निर्ययौ पाकशासनः ।
जयन्तेन रथस्थेन पृष्ठतोऽनुगतः प्रभुः ।। १४ ।।
पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम् ।
दृष्ट्वोवाच प्रवृत्तं भोः किमिदं मधुसूदन ।। १५ ।।
प्रणम्य गरुडस्थोऽथ केशवः शक्रमब्रवीत् ।
वध्वास्ते पुण्यकार्याय नीयतेऽयं वरद्रुमः ।। १६ ।।
तमुवाच ततः शक्रो मा मैवं पुष्करेक्षण ।
अयोधयित्वा न तरुर्नयितव्यस्त्वयाच्युत ।। १७ ।।
प्रहरस्व महाबाहो प्रथमं मयि केशव ।
प्रतिज्ञा सफला तेऽस्तु मुक्त्वा कौमोदकी मयि ।। १८।।
ततः कृष्णः शरैस्तीक्ष्णैर्देवराजगजोत्तमम् ।
बिभेदाशनिसंकाशैः प्रहसन्निव भारत ।। १९ ।।
विव्याध गरुडं वज्री दिव्यैः शरवरैस्तथा ।
बाणांश्चिच्छेद सहसा केशवस्य तरस्विनः ।। 2.73.२० ।।
यान् यान् मुमोच देवेन्द्रस्तांस्तांश्चिच्छेद माधवः ।
माधवेन प्रयुक्तांश्च चिच्छेद बलवृत्रहा ।। २१ ।।
महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन ।
शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः ।। २२ ।।
तयोर्वर्तति संग्रामे गरुडस्थं महाबलः ।
पारिजातं जयन्तोऽथ हर्तुमभ्युद्यतो बली ।। २३ ।।
प्रद्युम्नमथ कंसघ्नो वारयेति तदाब्रवीत् ।
ततस्तं वारयामास रौक्मिणेयः प्रतापवान् ।। २४ ।।
जयन्तो जयतां श्रेष्ठो रौक्मिणेयमथेषुभिः ।
सर्वगात्रेषु विहसन्नाजघान रथे स्थितः ।। २५ ।।
रथस्थ एव रथिनं कामस्तु कमलेक्षणः ।
ऐन्द्रिमभ्यर्दयामास बाणैराशीविषोपमैः ।। २६
स संनिपातस्तुमुलो बभूव कुरुनन्दन ।
जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः ।। २७ ।।
कृतप्रतिकृतं युद्धे चक्रतुस्तौ महाबलौ ।
महेन्द्रोपेन्द्रतनयौ जगत्यस्त्रभृतां वरौ ।। २८ ।।
देवाश्च मुनयश्चैव ददृशुर्विस्मयान्विताः ।
तं संग्रामं महाघोरं सिद्धाश्चैव सचारणाः ।। २९ ।।
ततस्तु प्रवरो नाम देवदूतो महाबलः ।
पारिजातं पुनर्हर्तुमियेष कुरुनन्दन ।। 2.73.३० ।।
सखा स देवराजस्य महास्त्रविदरिंदमः ।
अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन ।। ३१ ।।
ब्राह्मणस्तपसा सिद्धौ जम्बूद्वीपाद् दिवं गतः ।
स्वशक्त्या नृप संयातः सखित्वं बलघातिना ।। ३२ ।।
तमापतन्तं सम्प्रेक्ष्य कृष्णः सात्यकिमब्रवीत् ।
अत्रस्थ एव प्रवरं शरैर्वारय सात्यके ।। ३३ ।।
ततः षष्ट्या रथेषूणां गरुडस्थं द्विजस्तदा ।
आजघान महाबाहो सात्यकिं प्रवरो भृशम् ।। ३५ ।।
शिनेर्नप्ता धनुस्तस्य क्षिपतः सायकान् नृप ।
चिच्छेद पुरुषव्याघ्रो वचनं चेदमब्रवीत् ।। ३६ ।।
ब्राह्मणो नाभिहन्तव्यस्तिष्ठ तिष्ठ स्ववर्त्मनि ।
अवध्या यादवानां हि स्वापराधेऽपि हि द्विजाः ।। ३७ ।।
प्रवरस्तु प्रहस्यैनमुवाच कुरुनन्दन ।
अलं क्षान्त्या नृणां शूर युद्ध्य सर्वात्मना रणे ।। ३८ ।।
जामदग्न्यस्य रामस्य शिष्योऽहमपि यादव ।
नामतः प्रवरो नाम सखा शक्रस्य धीमतः ।। ३९ ।।
न देवा योद्धुमिच्छन्ति मन्यन्तो मधुसूदनम् ।
आनृण्यं सौहृदस्याहमधिगन्तास्मि माधव ।। 2.73.४० ।।
ततस्तयोस्तदा रौद्रः संग्रामो ववृधे नृप ।
अस्त्रैर्दिव्यैर्नरव्याघ्र शैनेयद्विजमुख्ययोः ।। ४१ ।।
द्यौश्चचाल तदा राजन् द्युचराश्च सहस्रशः ।
तस्मिन् वर्तति संग्रामे तेषामतिमहात्मनाम् ।। ४२ ।।
नातिशिष्ये रणे कार्ष्णिरैन्द्रिमस्त्रभृतां वरम् ।
ऐन्द्रिः कार्ष्णि महात्मानं मायिनं शूरसत्तमम्।। ४३ ।।
हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ ।
युयुधाते नरश्रेष्ठ परस्परजयैषिणौ ।। ४४ ।।
अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् ।
विभाष्याभ्यहनद्राजन् दिव्येनास्त्रेण सत्वरः ।। ४५ ।।
सोऽस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः ।
तस्तम्भे बाणजालेन तदद्भुतमिवाभवत् ।। ४६ ।।
ततस्तद् दीप्यमानं तु पपात रणमूर्द्धनि ।
रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम् ।। ४७ ।।
तेनास्त्रेण रथो दग्धः प्रद्युम्नस्य महात्मनः ।
नादहत् तत् सुघोरं तं रौक्मिणेयं नराधिप ।। ४८ ।।
दहत्यग्निं न खल्वग्निरुद्धतोऽपि विशाम्पते ।
दग्धाद् रथान्महाबाहु रौक्मिणेयः प्रचक्रमे ।। ४९ ।।
अथ नारायणसुतो विरथो रथिनां वरः ।
स्थितो धनुष्मानाकाशे जयन्तमिदमब्रवीत् ।। 2.73.५० ।।
महेन्द्रपुत्र दिव्यं त्वं यदस्त्रं मुक्तवानसि ।
नाहमीदृशरूपाणां शक्यो हन्तुं शतैरपि ।। ५१ ।।
प्रयत्नं कुरु शिक्षाणां यत्नं मेऽद्य प्रदर्शय ।
नास्ति मेऽतिशयं कर्ता संग्रामेऽमरनन्दन ।। ५२ ।।
आसीन्मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम्।
बिभेमि तव नेदानीं युद्धे दृष्टबलोऽबलम् ।। ५३ ।।
मनसा स्मर्यतां सैष पारिजातस्त्वया तरुः ।
शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस्त्वया ह्यसौ ।।५४।।
रथो मायामयो दग्धस्त्वया यो ह्यस्त्रतेजसा ।
ईदृशानां सहस्राणि स्रष्टुं शक्तोऽस्मि मायया ।। ५५ ।।
एवमुक्तो जयन्तश्च मुमोचास्त्रं महाबलः ।
तपसोपचितं तेन स्वयमेवातितेजसा ।। ५६ ।।
तत् प्रद्युम्नो महावेगं शरजालैरवारयत् ।
चत्वार्यस्त्राणि दिव्यानि मुमुचे चापराणि सः ।। ५७ ।।
दिक्षु सर्वासु रुरुधुस्तान्यस्त्राण्यथ भारत ।
रौक्मिणेयं महात्मानमन्तरिक्षे च पञ्चमम् ।। ५८ ।।
महोल्कासदृशान् बाणानस्त्राण्यमरसत्तमः ।
मुमोच यानि घोराणि प्रद्युम्नं प्रति सर्वतः ।। ५९ ।।
तानि सर्वाणि बाणौघैः कार्ष्णिरस्त्राण्यवारयत् ।
जयन्तं चापरैर्बाणैर्विध्याध निशितैस्तदा ।। 2.73.६० ।।
ततो नादः समुत्सृष्टो ह्यमरैः पुण्यकर्मभिः ।
दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः ।। ६१ ।।
प्रवरस्यापि बाणेन शितेन शिनिपुङ्गवः ।
चिच्छेदेष्वासनं वीरो हस्तावापं च भारत ।। ६२ ।।
ततौऽन्यत्स तु जग्राह महत् तद्धनुरुत्तमम् ।
महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम् ।। ६३ ।।
स तेन वीरो महता धनुषा विप्रसत्तमः ।
शरान् मुमोच विविधानर्करश्मिनिभांस्तदा ।। ६४ ।।
चकर्त च धनुश्चित्रं शैनेयस्यामितौजसः ।
विव्याध सर्वगात्रेषु बाणैरपि च सात्यकिम् ।। ६५ ।।
धनुरादाय शैनेयस्ततोऽन्यत् कुरुनन्दन ।
दृढं भारसहं धीमान् विव्याध प्रवरं रणे ।। ६६ ।।
उच्चकर्ततुरन्योन्यवर्मणी तौ शितैः शरैः ।
गात्रेभ्यश्चैव मांसानि मर्मभिद्भिः शरोद्यमैः ।। ६७ ।।
अथाष्टधारबाणेन पुनरिष्वासनं द्विधा ।
चिच्छेद प्रवरो वीरस्त्रिभिश्चैनमताडयत् ।। ६८ ।।
अन्यदिष्वासनं तं तु ग्रहीतुमनसं द्विजः ।
गदया ताडयामास क्षेप्यया लघुहस्तवान् ।। ६९ ।।
सोऽसिं चर्म च जग्राह सात्यकिः प्रहसन्निव ।
न जग्राह धनुर्धीमान् गदयाभिहतो भृशम् ।। 2.73.७० ।।
ततः शरशतान्येव मुमोच प्रवरस्तदा ।
विहस्तमिव विज्ञाय सात्यकिं यदुनन्दनम् ।। ७१ ।।
प्रद्युम्नोऽस्य ददौ खड्गं निर्मलाकाशसंनिभम् ।
तस्य चिच्छेद भल्लेन निस्त्रिंशं प्रवरस्तदा ।। ७२ ।।
त्सरुदेशेऽपातयच्च प्रवरः प्रहसन्निव ।
व्यधमच्च तथा चर्म शितैर्बाणैरजिह्मगैः ।। ७३ ।।
आजघान च शक्त्यैनं हृदि विप्रो ननाद च ।
तं विक्लवमिव ज्ञात्वा पारिजातजिहीर्षया ।
तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस्तदा ।। ७४ ।।
तं पक्षपुटवेगेन चिक्षेप गरुडस्तथा ।
गव्यूतिमेकां सरथः स पपात मुमोह च ।। ७५ ।।
तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप ।
समाश्वास्य रथं शीघ्रं समारोपितवांस्तदा ।। ७६ ।।
शैनेयमपि मुह्यन्तं पतन्तं च मुहुर्मुहुः ।
आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे ।। ७७ ।।
तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः ।
विरुजः स्पर्शमात्रेण सात्यकिः समपद्यत ।। ७८ ।।
प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुङ्गवः ।
तस्थतुः पारिजातस्य युद्धशौण्डतरावुभौ ।। ७९ ।।
जयन्तः प्रवरश्चैव रथेनैकेन भारत ।
सम्पतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना ।। 2.73.८० ।।
नासन्नमभिगन्तव्यं गरुडस्य कथंचन ।
बलवानेष पततां राजा च विनतासुतः ।। ८१ ।।
दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ ।
उभौ स्थितौ युद्ध्यमानं मामेव हि प्रपश्यतम् ।। ८२ ।।
एवमुक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः ।
ददृशाते युद्धद्यमानौ देवराजजनार्दनौ ।। ८३ ।।
अथेन्द्रो गरुडं बाणैर्महाशनिसमस्वनैः ।
विव्याध सर्वगात्रेषु महास्त्रप्रवरैस्तथा ।। ८४ ।।
स तान् बाणानगणयन् वैनतेयः प्रतापवान् ।
ससाराभिमुखो वीरः शक्रनागमरिंदमः ।। ८५ ।।
उभौ तौ सहसा राजन् बलिनौ गजपक्षिणौ ।
प्रयुद्धौ वीर्यसम्पन्नौ महाप्राणौ दुरासदौ ।। ८६ ।।
रदनैः पन्नगरिपुं करेण शिरसा तदा ।
ऐरावतो गजपतिराजघान नदंस्तथा ।। ८७ ।।
तथा नखाङ्कुशैस्तीक्ष्णैर्वैनतेयो बलोत्कटः ।
तथा पक्षनिपातैश्च शक्रनागं जघान ह ।। ८८ ।।
मुहू्र्तं सुमहानासीत् सम्पातो गजपक्षिणोः ।
विस्मापनीयो जगतः प्रेक्षितॄणां भयावहः ।। ८९ ।।
मूर्ध्न्यथैरावतं तार्क्ष्यस्ताडयामास भारत ।
नखाङ्कुशकरालेन चरणेन महाबलः ।। 2.73.९० ।।
सम्प्रहाराभिसंतप्तो निपपात त्रिविष्टपात् ।
पारियात्रे गिरिश्रेष्ठे द्वीपेऽस्मिञ्जनमेजय ।। ९१ ।।
पतन्तमपि तं शक्रो न मुमोच महाबलः ।
कारुण्यादथ सौहार्दात् पूर्वाभ्युपगमादपि ।। ९२।।
कृष्णोऽप्यन्वगमच्चैनं पृष्ठतः प्रभवोऽव्ययः ।
पारिजातवता धीमान् गरुडेन महाबलः ।। ९३ ।।
स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा ।
ऐरावते समाश्वस्ते संग्रामो ववृधे पुनः ।। ९४ ।।
शरैराशीविषप्रख्यै रत्नयुक्तैः सुतेजितैः ।
अन्योन्यं कुरुशार्दूल शक्रकेशवयोर्महान् ।। ९५ ।।
ततो वज्रायुधो वज्रमशनिं च पुनः पुनः ।
मुमोच गरुडे राजन्नैरावतरिपौ नृप ।। ९६ ।।
वज्राशनिनिपातांस्तान् सेहे शक्रस्य पक्षिराट् ।
अवध्यो बलिनां श्रेष्ठो निसर्गेण तपोबलात् ।। ९७ ।।
मुमोच पक्षमेकैकं मानयन्नशनिं सदा ।
वज्रं च देवराज्ञोऽथ भ्रातुः कश्यपसम्भवः ।। ९८ ।।
आक्रम्यमाणस्तार्क्ष्येण न्यमज्जन्नृपते गिरिः ।
विवेश धरणीं राजञ्च्छीर्यमाणः समन्ततः ।। ९९ ।।
चुकूज बहुमानेन कृष्णस्य स तु पर्वतः ।
तं चाद्राक्षीत्ततः कृष्णः किंचिच्छेषमधोक्षजः ।।2.73.१००।।
तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि ।
प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावनः ।। १०१।।
इतो द्वारवतीं गत्वा रथमानय मा चिरम् ।
सदारुकं महाबाहो मत्तेजोबलमाश्रितः ।। १०२।।
वक्तव्यो बलभद्रश्च राजा च कुकुराधिपः ।
श्वो जित्वेन्द्रं त्वागमिष्ये द्वारकामिति मानद ।। १०३।।
तथेत्युक्त्वा तु धर्मात्मा प्रद्युम्नः पितरं विभुः ।
गत्वा यथोक्तमुक्त्वा च यादवेन्द्रबलावुभौ ।। १०४।।
नाडिकान्तरमात्रेण पुनस्तं देशमाययौ ।
दारुकेण समायुक्तं रथमास्थाय भारत ।। १०५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे श्रीकृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्यायः ।। ७३ ।।