स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १६
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

॥ राजोवाच ॥
अथासौ वामनो विप्रः प्रविष्टो गहने वने ॥
एकाकी किं चकाराथ कौतुकं तद्वदस्व मे ॥ १ ॥
॥ सारस्वत उवाच ॥ ॥
अथासौ वामनो विप्रो गत्वा रैवतके गिरौ ॥
स्वर्णरेखानदीतोये स्नात्वाथ विधिपूर्वकम् ॥ २ ॥
सुगंधपुष्पधूपाद्यैर्देवं संपूज्य भक्तितः ॥
तस्थौ तदग्रतो राजन्नेकाकी निर्जने वने ॥३ ॥
सर्वसत्त्वसमायुक्ते सरीसृपसमाकुले॥
अनेकस्वरसंघुष्टे मयूरध्वनिनादिते ॥ ४ ॥
कोकिलारावरम्ये च वनकुक्कुटघोषिते ॥
खद्योतद्योतिते तस्मिन्वलीमुखविधूनिते ॥५॥
क्वचिद्वंशाग्निना शांते क्वचित्पुष्पितपादपे ॥
गगनासक्तविटपे सूर्यतापविवर्जिते ॥६॥
लुब्धकाघात संत्रस्तभ्रांतसूकरशंबरे ॥
संहृष्टक्षत्रियवातस्थानदानविचक्षणे ॥ ७॥
अनेकाश्चर्यसंपन्नं सस्मार मनसा हरिम् ॥
तं भीतमिव विज्ञाय नरसिंहः समाययौ ॥ ८ ॥
रक्षार्थं तस्य विप्रस्य बभाषे पुरतः स्थितः ॥
न भेतव्यं त्वया विप्र वद ते किं करोम्यहम् ॥ ९ ॥
॥ विप्र उवाच ॥ ॥
यदि तुष्टो वरो देयो नरसिंह त्वया मम ॥
सदात्र रक्षा कर्त्तव्या सर्वेषां तीर्थवासिनाम् ॥7.2.16.१० ॥
देवस्याग्रे सदा स्थेयं यावदिंद्राश्चतुर्द्दश ॥
एवमस्त्विति तं प्रोच्य तथा चक्रे हरिस्तदा ॥ ११ ॥
अतो दामोदरस्याग्रे नरसिंहः स पूज्यते ॥
वनं सौम्यं कृतं तेन तीर्थरक्षां करोति सः ॥ १२ ॥
भूतप्रेतादिसंवासो वने तस्मिन्न जायते ॥
नरसिंहप्रभावेन नष्टं सिंहादिजं भयम् ॥ १३॥
कार्त्तिके वासरे विष्णोर्द्वादश्यां पारणे कृते ॥
दामोदरं नमस्कृत्य भवं द्रष्टुं ततो ययौ ॥ १४ ॥
चतुर्दश्यां कृतस्नानो भवं संपूज्य भावतः ॥
भवभावभवं पापं भस्मीभूतं भवार्चनात् ॥ १५॥
स क्षीणपापनिचयो जातो देवस्य दर्शनात् ॥
भवस्याग्रे स्थितं शांतं तथा वस्त्रापथस्य च ॥ १६॥
तं कालमेघं समभ्यर्च्य ततो वस्त्रापथं ययौ ॥
देवं संपूज्य मंत्रैः स वेदोक्तैर्विधिपूर्वकम् ॥ १७ ॥
धूपदीपादिनैवेद्यैः सर्वं चक्रे स वामनः ॥
प्रदक्षिणाशतं कृत्वा भवस्याग्रे व्यवस्थितः ॥ १८ ॥
यावन्निरीक्षते सर्वं तावत्पश्यति पर्वतम् ॥
उज्जयंतं गिरिवरं मैनाकस्य सहोदरम् ॥ १९ ॥
सुराष्ट्रदेशे विख्यातं युगादौ प्रथमं स्थितम् ॥
भूधरं भूधरैर्युक्तं शिलापादपमंडितम् ॥ 7.2.16.२० ॥
तं दृष्ट्वा चिंतयामास सूक्ष्मान्धर्मान्स वामनः ॥
अल्पायासान्सुबहुलान्पुत्रलक्ष्मीप्रदायकान् ॥ २१ ॥
अवश्यं क्रिय माणेषु स्वधर्म उपजायते ॥
दृष्ट्वा नदीं सागरगां स्नात्वा पापैः प्रमुच्यते ॥ २२ ॥
गां स्पृष्ट्वा ब्राह्मणं नत्वा संपूज्य गुरुदेवताः ॥
तपस्विनं यतिं शांतं श्रोत्रियं ब्रह्मचारिणम् ॥ २३ ॥
पितरं मातरं भगिनीं तत्पतिं दुहितां पतिम् ॥
भागिनेयमथ दौहित्रं मित्रसंबधिबांधवान् ॥
संभोज्य पातकैः सर्वैर्मुच्यंते गृहमेधिनः ॥ २४ ॥
राजा गजाश्वनकुलं सतीवृषमहीधराः ॥
आदर्शक्षीरवृक्षाश्च सततान्नप्रदास्तु ते ॥ २५ ॥
दृष्टमात्राः पुनन्त्येते ये नित्यं सत्यवादिनः ॥
वेदधर्मकथां श्रुत्वा भुक्तिमुक्तिप्रदा नरान् ॥२६॥
स्मृत्वा हरिहरौ गंगां कृत्वा तीरेण मार्जनम् ॥
गत्वा जागरणे विष्णोर्दत्त्वा दानं च शक्तितः ॥ २७॥
तांबूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् ॥
गीतं नृत्यं च वाद्यं च विधाय सुरमंदिरे ॥ २८ ॥
एते सूक्ष्माः स्मृता धर्माः क्रियमाणा महोदयाः ॥
अतो गिरीन्द्रं पश्यामि सर्वदेवालयं शुभम् ॥२९ ॥
तेषां करतले स्वर्गः शिखरं यांति ये नराः ॥ 7.2.16.३०॥
इति ज्ञात्वा समा रूढो वामनो गिरिमूर्द्धनि ॥
ऐरावतपदाक्रांत्या यत्र तोयं विनिःसृतम् ॥३१॥
ततः शिखरमारूढां भवानीं स्कन्दमातरम् ॥
द्रष्टुं स वामनो याति शिखरे गगनाश्रिते ॥ ३२ ॥
यथायथा गिरिवरे समारोहंति मानवाः ॥
तथातथा विमुच्यंते पातकैः सर्वदेहिनः ॥ ३३ ॥
इति कृत्वा मतिं विप्रो जगाम गिरिमूर्द्धनि ॥
भवभक्तो भवानीं स ददर्श स्कन्दमातरम् ॥३४॥
अंबेति भाषते स्कंदस्ततोऽन्ये सर्वदेवताः ॥
पृथिव्यां मानवाः सर्वे पाताले सर्वपन्नगाः ॥ ३५ ॥
अतो ह्यंबेति विख्याता पूज्यते गिरिमूर्द्धनि ॥
संपूज्य विविधैर्मुख्यैः फलैर्नानाविधैर्द्विजः ॥ ३६ ॥
गगनासक्तशिखरे संस्थितः कौतुकान्वितः ॥
एकाकी शिखरे तस्मिन्नूर्द्ध्वबाहुर्व्यवस्थितः ॥३७॥
निरीक्ष्य मेदिनीं सर्वां सपर्वतससागराम्॥
आद्यं सनातनं देवं भास्करं त्रिगुणात्मकम् ॥३८॥
सर्वतेजोमयं सर्वदेवं देवैर्नमस्कृतम् ॥
भ्रममाणं निराधारं कालमानप्रयोजकम् ॥३९॥
यावत्पश्यति तं विप्रस्तावत्पश्यति शंकरम् ॥
दिगंबरं भवं देवं समंतादश्मगुंठितम् ॥ 7.2.16.४० ॥
बुद्धरूपाकृतिं देवं सर्वज्ञं गुणभूषितम् ॥
कृशांगं जटिलं सौम्यं व्योममार्गे स्वयं स्थितम् ॥ ४१ ॥ ॥
॥ श्रीशिव उवाच ॥ ॥
शृणु वामन तुष्टोऽहं दास्ये ते विविधान्वरान् ॥
त्रैलोक्यव्यापिनी वृद्धिर्भविष्यति न संशयः ॥ ४२ ॥
प्रतिभास्यंति ते वेदा गीतनृत्यादिकं च यत् ॥
असाध्यसाधनी शक्ति भविष्यति तव स्थिरा ॥
परं वस्त्रापथे गत्वा कुरु तीर्थावलोकनम् ॥ ४३ ॥
॥ वामन उवाच ॥ ॥
वस्त्रापथे महादेव यानि तीर्थानि तानि मे ॥
वद देव विशेषेण यद्यस्ति करुणा मयि ॥४४॥
॥ रुद्र उवाच ॥ ॥
वस्त्रापथस्य वायव्ये कोणे दिव्यं सरोवरम् ॥
तस्य पश्चिमदिग्भागे जालिर्गहनपल्लवा ॥ ४५ ॥
बिल्ववृक्षमयी मध्ये लिंगं तत्रास्ति मृन्मयम् ॥
यत्रासौ लुब्धकः सिद्धो गतो मम पुरे पुरा ॥ ४६ ॥
तस्य दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥
इंद्रो वै वृत्रहा यस्मिन्विमुक्तो ब्रह्महत्यया ॥ ४७ ॥
तस्माद्रुत्तरदिग्भागे धनदेन प्रतिष्ठितम् ॥
लिंगं त्रैलोक्यविख्यातं तत्र देवी त्रिशूलिनी ॥ ४८ ॥
यस्या दर्शनमात्रेण पुत्रोऽस्य नलकूबर॥
पाशानुषक्तहस्तोऽभूद्देवं चक्रे त्रिशूलिनम् ॥ ४९ ॥
भवस्य नैर्ऋते कोणे गणो हेरंबसंज्ञितः ॥
यमेन कुर्वता लिंगं प्रथमं च प्रतिष्ठितः ॥ 7.2.16.५० ॥
विचित्रं तस्य माहात्म्यं चित्रगुप्तोऽति विस्मितः ॥
दृष्ट्वा समागतो द्रष्टुं देवं तं मृन्मयं पुरा ॥ ५१ ॥
तेनापि निर्मितं लिंगं तस्मिन्क्षेत्रे द्विजोत्तम ॥
चित्रगुप्तेश्वरंनाम विख्यातं भुवन त्रये ॥ ५२ ॥
पश्चिमेन चकारोच्चैः प्रजापतिरुदारधीः ॥
केदाराख्यं तदा लिंगं गिरौ रैवतके स्थितम् ॥
प्रजापतिः स्वयं तस्थौ तत्र पर्वतसानुनि ॥ ५३ ॥
॥ रुद्र उवाच ॥ ॥
इंद्रेश्वरस्य माहात्म्यं कथयिष्ये शृणुष्व तत् ॥
ईशानकोणे विख्यातं भवस्य विदितं मम ॥ ५४ ॥
॥वामन उवाच ॥ ॥
कस्मादिंद्रः समायातः कथं चक्रे हरं हरिः॥
कथां सविस्तरामेतां कथयस्व मम प्रभो ॥ ५५ ॥
॥ रुद्र उवाच ॥ ॥
लुब्धकस्तु पुरा सिद्धः शिवरात्रिप्रजागरात् ॥
शिवलोके तदा प्राप्तं विमानं गणसंयुतम् ॥ ५६ ॥
सर्वत्रगं सुरुचिरं दिव्यस्त्रीगीतनादितम् ॥ तदारुह्य समायातो द्रष्टुं तां नगरीं हरेः ॥ ५७ ॥
यस्यां युद्धं समभवद्गणानां यमकिंकरैः ॥
आगच्छमानं तं ज्ञात्वा देवराजेन चिंतितम् ॥ ५८ ॥
पूज्योऽयं हरवत्सर्वैश्चित्रगुप्तयमादिभिः ॥
इंद्रो गजं समारुह्य महिषेण यमो यतः ॥ ५९ ॥
विधाय लेखनीं कर्णे चित्रगुप्तो यमाज्ञया ॥
ततो हूता गणाः सर्वे ये नीता धरणीतलात् ॥ 7.2.16.६० ॥
निजापराधसंतप्ता गतास्ते दक्षिणामुखम् ॥ आथित्यपू
जा कर्तव्या लुब्धके गृहमागते ॥ ६१ ॥
अपूजिते गते ह्यस्मिन्हरो मां शपयिष्यति ॥
तस्मात्पूजां करिष्यामि यथा तुष्यति शंकरः ॥ ६२ ॥
देवं द्रष्टुं समायातं ददर्शादूरतः स्थितम्॥
विमानस्थं हराकारं सूर्यकोटिसमप्रभम् ॥ ६३ ॥
संस्तूयमानं चरितैः शिवरात्रेः शिवस्य च ॥
माघे मासे चतुर्द्दश्यां कृष्णायां जागरे कृते ॥६४॥
तदेवं जायते सर्वं सुरेश्वर धरातले ॥
एवं देवांगना काचिदाचक्षंती पुरंदरम् ॥
निवार्य हस्तमुद्यम्य गजेंद्रं चारुलोचना ॥ ६५ ॥
किं दानैर्बहुभिर्दत्तैर्व्रतैः किं किं सुरार्चनैः ॥
किं योगैः किं तपोभिश्च ब्रह्मचर्य्यैः सुरेश्वर ॥ ६६ ॥
गयायां पिंडदानेन प्रयागमरणेन किम् ॥
सोमेश्वरे सरस्वत्यां सोमपर्वणि किं गतैः ॥ ६७ ॥
कुरुक्षेत्रगतैः किं स्याद्राहुग्रस्ते दिवाकरे ॥
तुलासुवर्णदानेन वेदपाठेन किं भवेत् ॥६८॥
सर्वपापक्षयो येन वृषोत्सर्गेण तेन किम् ॥
गोदानं किं करोत्येवं जलदानं तथैव च ॥ ६९ ॥
अयने विषुवे चैव संक्रांतौ कीदृशं फलम् ॥
माघमासे चतुर्दश्यां यादृशं जागरे कृते ॥ 7.2.16.७० ॥
यमः संभाषते वाण्या महिषोपरि संस्थितः ॥
पश्य रुद्रस्य माहात्म्यं चित्रगुप्त विचारय ॥ ७१ ॥
अयं स लुब्धको येन हरः संपूजितः पुरा ॥
सुराष्ट्रदेशे विख्यातं तीर्थं वस्त्रापथं शृणु ॥ ७२ ॥
उज्जयंतो गिरिस्तत्र तथा रैवतको गिरिः ॥
महती वर्त्तते जालिस्तयोर्मध्ये मया श्रुतम् ॥ ७३ ॥
मृन्मयं वर्तते लिगं रात्रौ चानेन पूजितः ॥
रात्रौ जागरणं कर्त्तुं येन कार्येण चागतः ॥ ७४ ॥
तदस्माभिः कथं वाच्यं स्वयं जानंति ते सुराः ॥
वरांगना वरं द्रष्टुं वरयंति परस्परम् ॥
इंद्रावासात्समायाता नंदने वेगवत्तराः ॥ ७५ ॥
विरंचिना रायणशंकरत्विषा देहेन चागच्छति कोऽपि पूरुषः ॥
पुरीं सुरेशाधिपतेर्निरीक्षितुं भर्त्ता ममायं तव चास्ति किं पतिः ॥ ७६ ॥
मृदंगवीणा पटहस्वरस्तुतैः प्रवोधिताभिः सुरराजमन्दिरे ॥
देवो हरोऽयं न नरो हराकृतिर्दृष्टोंगनाभिस्तव किं किमावयोः ॥ ७७ ॥
गायंति काश्चिद्विहसंति काश्चिन्नृत्यंति काश्चित्प्रपठंति काश्चित् ॥
वदन्ति काश्चिज्जयशब्दसंयुतैर्वाक्यैरनेकैर्गुरुसन्निधाने ॥ ७८ ॥
काचिच्छिवं स्तौति शिवां तथान्या पृच्छत्यथान्या किमु बिल्वपत्रात् ॥
किं वोपवासेन फलं तवेदं निद्राक्षयेणाथ फलं तवैतत् ॥ ७९ ॥
तासां नानाविधा वाचः श्रूयन्ते नन्दने वने ॥
ब्रह्मलोकादिका वार्त्ताः कृत्वा च तदनन्तरम् ॥ 7.2.16.८० ॥
देवेन्द्रो लुब्धकं भूयो बभाषे कौतुकान्वितः॥
कस्मिन्देशे गिरौ जालिर्लिंगं यत्रास्ति दर्शय ॥ ८१ ॥
॥ लुब्धक उवाच ॥ ॥
सुराष्ट्रदेशे विख्यातो यस्मिन्देशे सरस्वती ॥
वाडवं शिरसा धृत्वा प्रविष्टा लवणोदधौ ॥ ८२ ॥
यत्र सा गोमती याति यत्रास्ते गन्धमादनः ॥
उज्जयंतो गिरिवरो यत्र रैवतको गिरिः ॥ ८३ ॥
तत्र वस्त्रापथं क्षेत्रं भवस्तत्र व्यवस्थितः ॥
तत्रास्ते मृन्मयं लिंगं जालिमध्ये सुरोत्तम ॥ ८४ ॥
॥ इन्द्र उवाच ॥ ॥
सहितैस्तत्र गंतव्यं पूजयिष्ये भवं स्वयम् ॥
जालिमध्ये तथा लिंगं दर्शयस्व च लुब्धक ॥ ८५ ॥
परदारादिकं पापं दैत्यानां तु विकृंतने ॥
वधे वृत्रस्य संजातं तत्सर्वं क्षालयाम्यहम् ॥ ८६ ॥
इत्युक्त्वा सहिताः सर्वे संप्राप्ता गिरिमूर्द्धनि॥
वाहनानि च ते त्यक्त्वा प्रस्थिताः पादचारिणः ॥ ८७ ॥
उज्जयन्तगिरेर्मूर्ध्नि गजराजः समागतः ॥
तदाग्रचरणं तस्य ददौ मूर्धनि कारणात् ॥ ८८ ॥
तेनाक्रान्तो गिरिवरस्तोयं सुस्राव निर्मलम् ॥
गजपादोद्भवं वारि भविष्यति सदा स्थिरम् ॥ ८९ ॥
इति प्रोक्तं सुरेन्द्रेण लोकानां हितकाम्यया ॥
सर्वे समागतास्तत्र यत्र जालिर्व्यवस्थिता ॥ 7.2.16.९० ॥
संपूज्य विविधैः पुष्पैर्माघमासे चतुर्दशी ॥
तस्यां जागरणं कृत्वा सञ्जातो निर्मलो हरिः ॥ ९१ ॥
वस्त्रापथे भवं पूज्य हरिं रैवतके गिरौ ॥
इन्द्रेश्वरं प्रतिष्ठाप्य संप्राप्तः स्वनिकतनम्॥ ९२ ॥
लुब्धकोऽपि विमानेन संप्राप्तो हरिमन्दिरे ॥
इत्युक्त्वा स भवो देवस्तत्रैवांतरधीयत ॥ ९३ ॥
वामनोपि ततश्चक्रे तत्र तीर्थावगाहनम् ॥
यादृग्रूपः शिवो दृष्टः सूर्यबिंबे दिगंबरः ॥ ९४ ॥
पद्मासनस्थितः सौम्यस्तथा तं तत्र संस्मरन् ॥
प्रतिष्ठाप्य महामूर्त्तिं पूजयामास वासरम् ॥ ९५ ॥
मनोऽभीष्टार्थसिद्ध्यर्थं ततः सिद्धिमवाप्तवान् ॥
नेमिनाथशिवेत्येवं नाम चक्रे स वामनः ॥ ९६॥
भवस्य पश्चिमे भागे प्रत्यासन्ने धरातले ॥
वामनो वसतिं चक्रे तीर्थे वस्त्रापथे तदा ॥ ९७ ॥
अतो यवाधिकं प्रोक्तं तीर्थं देवैः सवासवैः ॥
इंद्रेण कुर्वता देवं समागत्य भवाग्रतः ॥ ९८ ॥
यवाधिकं प्रभासात्तु तीर्थमेतद्भवाज्ञया ॥
अन्येषां षड्गुणं तीर्थं भविष्यति शिवाज्ञया ॥ ९९ ॥
इत्येतत्कथितं सर्वं किमन्यत्परिपृच्छसि ॥ 7.2.16.१०० ॥ ॥
॥ राजोवाच ॥ ॥
शिवरात्रिप्रभावोयमतुलः परिकीर्त्तितः ॥
अजानता कृता तेन लुब्धकेन पुरा श्रुतम् ॥ १०१ ॥
इदानीं वद कर्त्तव्या कथमन्यैर्जनैर्विभो ॥
किं ग्राह्यं किं नु मोक्तव्यं शिवरात्र्यां वदस्व मे ॥ १०२ ॥
॥ सारस्वत उवाच ॥ ॥
संप्राप्य मानुषं जन्म ज्ञात्वा देवं महेश्वरम् ॥
शिवरात्रिः सदा कार्या भुक्तिमुक्तिप्रदायिनी ॥ १०३ ॥
ईदृशं जायते पुण्यमेकया कृतया नृप ॥
ये कुर्वंति सदा मर्त्त्यास्तेषां पुण्यमनंतकम् ॥१०४ ॥
द्वादशाब्दं व्रतमिदं कर्त्तव्यं प्रतिवत्सरम्॥
जीवितं चंचलं नृणां यदि कर्तुं न शक्यते ॥ १०५ ॥
तदा द्वादशभिर्मासैर्व्रत मेतत्समाप्यते ॥
माघमासे चतुर्दश्यां प्रारम्भः क्रियते नृप ॥ १०६ ॥
प्रतिमासं ततः कार्यं पौषांते तु समाप्यते ॥
विघ्नश्चेज्जायते मध्ये कथं चिद्दैवयोगतः ॥ १०७ ॥
न भवेद्व्रतभंगस्तु पुनः कार्यमनन्तरम् ॥
द्वादशैव प्रकर्तव्याः कृत्वा संख्या विशेषतः ॥ १०८ ॥
कृतं न नश्यते लोके शुभं वा यदि वाऽशुभम् ॥
कृष्णायां तु चतुर्दश्यां कृतपूर्वाह्निकक्रियः ॥ १०९ ॥
उपवासनियमो ग्राह्यो नद्यां स्नानं विधीयते ॥
तदभावे तडागादौ कार्यं स्नानं स्वशक्तितः ॥ 7.2.16.११० ॥
तैलाभ्यंगो न कर्त्तव्यो न कार्यं गमनं क्वचित् ॥
तीर्थसेवा प्रकर्त्तव्या तस्मिंश्चागमनं शुभम् ॥ १११ ॥
शिवरात्रिः सदा कार्या लिंगे स्वायंभुवे नरैः ॥
तदभावे महापुण्ये लिंगे वर्षशताधिके ॥ ११२ ॥
गिरौ वने समुद्रांते नद्यां यच्च शिवालये ॥
तद्वै स्वायंभुवं लिंगं स्वयं तत्रैव संस्थितम् ॥ ११३ ॥
वालुलिंगादिकं लिंगं पूजितं फलदं स्मृतम् ॥
दिवा संपूज्य यत्नेन पुष्पधूपादिना नरः ॥ ११४ ॥
वर्जयेन्मदिरां द्यूतं नारीं नखनिकृन्तनम् ॥
ब्रह्मचर्यपरैः शांतैः कर्त्तव्यं समुपोषणम् ॥ ११५ ॥
रात्रौ देवाग्रतो गत्वा कर्त्तव्याः सप्त पर्वताः ॥
पक्वान्नफलतांबूलपुष्पधूपादिचर्चिताः ॥ ११६ ॥
घृतेन दीपः कर्त्तव्यः पापनाशनहेतवे ॥
यतो दीपस्य माहात्म्यं विज्ञेयं मुक्तिदायकम् ॥ ११७ ॥
दीपः सदैव कर्त्तव्यो गृहे देवालये नरैः ॥
दिवा निशि च संध्यायां दीपः कार्यः स्वशक्तितः ॥ ११८ ॥
किञ्चिदुद्द्योतमात्रेण देवास्तुष्यंति भूतले ॥
पितॄणां प्रथमं दीपः कर्त्तव्यः श्राद्धकर्मणि ॥ ११९ ॥
रात्रौ जागरणं कार्यं यथा निद्रा न जा यते ॥
शिवरात्रिप्रभावोऽयं श्रोतव्यः शिवसंनिधौ ॥ 7.2.16.१२० ॥
शिवस्य चरितं रात्रौ श्रोतव्यं बहुविस्तरम् ॥
गीतं नृत्यं तथा वाद्यं कर्तव्यं शिवसंनिधौ ॥ १२१ ॥
एवं सा नीयते रात्रिर्मुख्यं जागरणं यतः ॥
रात्रौ देयानि दानानि शक्त्या वै तत्र जागरे ॥ १२२ ॥
पुनः स्नात्वा प्रभाते तु कर्त्तव्यं शिवपूजनम् ॥
पूजनीयाश्च यतयो भोजनाच्छादनादिभिः ॥ १२३ ॥
तपस्विनां प्रदातव्यं भोजनं गृहमेधिभिः ॥
द्वादशाष्टौ च चत्वारो भोक्तव्या एक एव वा ॥ १२४ ॥
एकोऽपि ब्रह्मचारी यो ब्रह्मविच्छिवपूजकः ॥
सहस्राणां समो भक्त्या गृहे संभोजितो भवेत् ॥ १२५ ॥।
अक्षारालवणं पत्रे भोक्तव्यं वाग्यतैः स्वयम् ॥
पुत्रमित्रकलत्राणां दातव्यं भोजनं पुरः ॥ १२६ ॥
अनेन विधिना कार्या शिवरात्रिः शिवव्रतैः ॥
द्वादशैता यदा पूर्णास्तिलपात्राणि वै तदा ॥ १२७ ॥
द्वादशैव प्रदेयानिगुरुब्राह्मणज्ञातिषु ॥
व्रतांते गौः प्रदातव्या कृष्णा वत्सयुता दृढा ॥१२८॥
सवस्त्राभरणा देया घंटाभरणभूषिता ॥
अंगुलीयकवासांसि च्छत्रोपानत्कमण्डलु ॥ १२९ ॥
गुरवे दक्षिणा देयाब्राह्मणेभ्यः स्वशक्तितः ॥
एवं कृत्वा ततो देयं तपस्विभ्योऽथ भोजनम् ॥
मिष्टान्नं विविधं दत्त्वा क्षमाप्य च विसर्जयेत् ॥ 7.2.16.१३० ॥
एवं यः कुरुते सत्यं तस्य पापं न विद्यते ॥
संतानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान्॥ १३१ ॥
दिव्यविमानमारूढो दिव्यस्त्रीपरिवेष्टितः ॥
गतिवादित्रनिर्घोषैर्नीयते शिवमन्दिरे॥१३२॥
तदेतत्कथितं पुण्यं शिवरात्रिव्रतं मया ॥
कृतेन येन लोकानां सर्वपापक्षयो भवेत् ॥ १३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये शिवरात्रिमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥