स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ सारस्वत उवाच ॥ ॥
अथासौ वामनो विप्रो लब्धज्ञानो भवार्चने ॥
जगाम तद्वनं रम्यं गिरे रैवतकस्य यत् ॥ १ ॥
यत्र वृक्षा बहुविधा दीर्घशाखाः फलान्विताः ॥
वटोदुम्बरबिल्वाश्च सर्जार्जुनकदंबकाः ॥ २ ॥
पलाशाश्वत्थनिंबाश्च धवाटीवारुणीद्रुमाः ॥
शमीकंकोललिंबांश्च बीजपूरी च दाडिमः ॥३॥
बदरी निंबकः पूगः कदली शल्लकी शिवा॥
तालहिंतालशिरसा बीजकावंशखादिराः ॥४॥
अजगासनगागुच्छा इंगुदीकोरवेंगुदाः ॥
ब्रह्मवृक्षाः कुरुबकाः करंजाः पुत्रजीविनः॥ ॥ ५ ॥
अंकोल्लाः पारिभद्राश्च कलंबाः पनसास्तथा ॥
उज्ज्वलाश्च हरिद्राश्च गंगडीवायवा द्रुमाः ॥ ६ ॥
तेसुण्डकाः शिरीषाश्च खर्जूरीकरवंदिकाः॥
सेवाली शाल्मली शाला मधूकाश्च विभीतकाः ॥७॥
हरीतक्यः कटाहाश्च कर्यष्टा आटरूषकाः ॥
विकच्छवः कपित्थाश्च रोहिणीवेत्रकद्रुमाः ॥८॥
मदनफलानिर्गुण्डीपाटलानंदिपादपाः ॥
लवंगैलालवल्यश्च सन्ताना अगरुद्रुमाः ॥ ९ ॥
श्रीखण्डकर्पूरनगाः कल्पवृक्षा नगोतमाः ॥
वामनेन तदा दृष्टाश्छायावृक्षाः सुरार्चिताः ॥ 7.2.15.१० ॥
उदयास्तमने येषां छाया न प्रतिहन्यते ॥
तेषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ ११ ॥
ये जनाः पुण्यकर्माणस्तेषां ते दृष्टिगोचराः ॥
एतान्पश्यन्ययौ वृक्षांस्ततो रैवतकं गिरिम् ॥ १२ ॥
यावन्निरीक्षते तुंगं शिखरं तस्य मूर्द्धनि ॥
आश्चर्यं ददृशे विप्रो महल्लोकभयंकरम् ॥ १३ ॥
धूमज्वलनमध्यस्थान्पुरुषान्पंच पश्यति ॥
कृष्णांगान्खेचरान्रौद्रान्कृष्णागुरुविभूषितान् ॥ १४ ॥
सारमेय समारूढान्करिहस्तान्समेखलान् ॥
खङ्गखेटकहस्तांश्च डमरुड्डामरस्वनान्॥।३५।
सघर्घरीकचरणन्यासनादितपर्वतान् ॥
फेत्कारभासुराकारान्काशकुञ्चितमूर्द्धजान् ॥ १६ ॥
नरमांसवसासारकवलव्यग्रतालुकान् ॥
जनगंधसमाज्ञानभवतीव्रविलोचनान् ॥ १७ ॥
पञ्चाग्निसाधनाव्याप्तदिव्यचक्षुः प्रभावतः ॥
देवान्पश्यति विप्रेन्द्रो ज्ञातकार्यपरंपरः ॥ १८ ॥
एते क्षेत्राधिपाः पञ्च महादेवेन निर्मिताः ॥
महाबला रैवतके निवसंति गिरौ सदा ॥ ॥ १९ ॥
स्वेच्छाचारान्नरान्मर्त्त्यान्वारयति नगे तथा ॥
हरिं हरं नदीं देवीं न पश्यंति गिरिं यथा ॥ 7.2.15.२० ॥
दृष्ट्वा ज्ञात्वा स्तुतिं चक्रे ध्यात्वा देवं महेश्वरम् ॥
जयंति दुष्टदैत्येंद्रयुद्धध्यानांकितं वपुः ॥
बिभ्रति भ्रातरो ये ते पंचेंद्रसमविक्रमाः ॥ २१ ॥
रुद्रवक्त्रोद्भवा दक्षा दक्षाध्वरविनाशकाः ॥
स्वावलीढाहुतीनष्टभीतवाडवनंदिताः ॥२२ ॥
कुङ्कुमागरुकर्पूरलिप्तांगाः सुविभूषिताः ॥
मदिरामोदमत्तांगनृत्यगीतकराः सुराः॥२३॥
ब्रह्मांडभ्रमणश्रांत स्वगंधत्रस्तसंचराः ॥
मनोजवाः कामगमा क्षेत्रपाला जयंति ते ॥ २४ ॥
इत्यादिवचनात्तुष्टा द्विजस्याग्रे स्वयं स्थिताः ॥
एकपादोऽस्म्यहं चैको द्वितीयो गिरिदारुणः ॥ २५ ॥
तृतीयो मेघनादस्तु सिंहनादश्चतुर्थकः ॥
पंचमः कालमेघोऽहं कुर्मः किं ते वदस्व तत् ॥ २६ ॥ ॥ ॥
॥ द्विज उवाच ॥ ॥
यदि तुष्टा भवंतो मे यदि देयो वरो धुवम् ॥
अहो आप्रलयं यावत्स्थातव्यं मत्प्रतिष्ठितैः ॥ २७ ॥
एकपादो गिरि तटे प्रहर्षात्प्रथमं स्थितः ॥
वसतौ वसता तेन गिरौ च गिरिदारुणः ॥ २८ ॥
प्रतिष्ठितः प्रसाद्याथ वरदोऽसौ स्वयं स्थितः ॥
उज्जयंतगिरेर्मूर्ध्नि मेघनादः स्वयं ययौ ॥ २९ ॥
भवानीशंकरं रम्यं सिंहनादस्तथाविशत् ॥
स्वयं वस्त्रापथेनैव भवस्याग्रे निरूपितः ॥ 7.2.15.३० ॥
स्वणरेखानदीतीरे कालमेघो महाबलः ॥
सर्वलोकोपकारार्थं तीर्थं संस्थापितं पुरा ॥ ३१ ॥
वामनेन स्वयं गत्वा क्षेत्रपालास्तु पूजिताः ॥
पुरा युगादौ राजेंद्र सर्वे देवाः समागताः ॥ ३२ ॥
सुराष्ट्रदेशे संप्राप्ताः पुण्ये रैवतके गिरौ ॥
रक्षार्थं सर्वलोकानां वधार्थं देववैरिणाम् ॥ ३३ ॥
विष्णोः कण्ठे तदा मुक्ता जयमाला सुरोत्तमैः ॥
दामोदरेति विख्यातं दत्तं नामोत्तमं हरेः ॥ ३४ ॥
तत्रादौ कार्तिके शुक्ले वासरे विष्णुवल्लभे ॥
उपोष्य सहिते देवैस्तत्तीर्थं विष्णुना कृतम् ॥ ३५ ॥
सर्वतीर्थमयी पुण्या स्वर्णरेखा नदी स्थिता ॥
भुक्तिमुक्तिप्रदं पुण्यं विष्णुलोकप्रदायकम् ॥ ३६ ॥
क्षालनं सर्वपापानां रोगदारिद्र्यनाशनम् ॥
दामोदरं रैवतके परमानंददायकम् ॥ ३७ ॥
ये पश्यंति विमानैस्ते नीयंते विष्णुमंदिरे ॥
न गृहे कार्तिकः कार्यो विशेषाद्भीष्मपंचकम्॥ ३८ ॥
पंचकाद्द्वादशी श्रेष्ठा कार्या दामोदरे जले ॥
प्रातःस्नानं प्रकर्त्तव्यं संप्राप्ते कार्तिके जनैः ॥ ३९॥
मासोपवासः कर्त्तव्यो यतिभिर्ब्रह्मचारिभिः ॥
सतीभिर्विधवाभिश्च मुक्तिस्थानमभीप्सुभिः ॥ 7.2.15.४० ॥
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेवन कृच्छ्रेण शाकाहारेण वा पुनः ॥ ४१ ॥
संसेव्यः कार्त्तिके विष्णुर्दीपदानपरैर्नरैः ॥
ब्रह्मचर्यपरैर्मासो नीयते यदि मानवैः ॥ ४२ ॥
तदा विष्णुपुरे वासः क्रियते विष्णुना सह ॥
पञ्चोपवासाः कर्त्तव्याः संप्राप्ते भीष्मपंचके ॥ ४३ ॥
एकादशीं समारभ्य पंचमी पूर्णिमादिनम्॥
तदेतत्पंचकं प्रोक्तं सर्वपापहरं नृणाम्॥ ४४ ॥
सर्वेषामपि मासानां पञ्चकात्कार्तिकादपि ॥
एकादशी कार्तिकस्य पुण्या दामोदरे कृता ॥ ४५ ॥
मिष्टान्नं कार्तिके देयं हविष्यं सघृतप्लुतम्॥
सुवर्णं रजतं वस्त्रं तोयमन्नं फलानि च ॥ ४६ ॥
मासांते विविधं देयं गौस्तिलाः कुसुमानि च ॥
सर्वदानेषु यत्पुण्यं सर्व तीर्थेषु यत्फलम्॥ ४७ ॥
अश्वमेधादिभिर्यज्ञैर्गयायां पिंडदस्य यत् ॥
तत्फलं जायते नॄणां दृष्टे दामोदरे नृप ॥ ४८ ॥
एकादश्यां कृतस्नानो देव पूजापरो भवेत् ॥
स्नाप्य पञ्चामृतेनैव ततस्तीर्थोदकेन च ॥ ४९ ॥
कुंकुमागरुश्रीखंडकर्पूरोदकमिश्रितैः ॥
पूजयित्वा ततः पुष्पैः शतपत्रैः सुगं धिभिः ॥ 7.2.15.५० ॥
मालतीकुसुमैः शुभ्रैर्बहुभिस्तुलसीदलैः ॥
वस्त्रयज्ञोपवीतं च दत्त्वा धूपं प्रधूपयेत्॥५१॥
दीपं दद्याद्धृतेनैव तैलेनापि घृतं विना॥
नैवेद्यं विविधं देयं फलं तांबूलमेव च ॥ ५२ ॥
प्रासादपूजा कर्त्तव्या ध्वजदानादिना नृप ॥
गौः सवत्सा ततो देया संसारार्णवतारिणी ॥ ५३ ॥
ततः प्रदक्षिणां कृत्वा गीतवादित्रनिस्वनैः ॥
वेदपाठपुराणैश्च व्याख्यादिव्यकथादिभिः ॥ ५४ ॥
देवाग्रे जागरः कार्यो दीपो देयोंऽतिभूमिषु ॥
सप्तधान्यमयाः सप्त पर्वता दीपसंयुताः ॥ ५५ ॥
फलतांबूलपक्वान्नपूरिताः परिकल्पिताः ॥
विद्वद्भिः श्रोत्रियैः श्रांतैर्ब्राह्मणैर्गृहमेधिभिः ॥ ५६ ॥
स्त्रीभिश्च नरशार्दूल श्रोतव्या वैष्णवी कथा ॥
एवं जागरणं कार्यं रागक्रोधविवर्जितैः ॥ ५७ ॥
कृत्वा जागरणं रात्रावुदिते सूर्यमडले ॥
पूर्वां संध्यां ततः स्नात्वा कृत्वा मध्याह्नमाचरेत्॥५८॥
देवान्पितॄन्मनुष्यांश्च संतर्प्य विधिपूर्वकम्॥
कृत्वा श्राद्धं पितॄणां तु दद्याद्दानं स्वशक्तितः॥ ५९॥
देवं दामोदरं पूज्य पुष्पधूपादिना पुनः ॥
नरसिंहं सुरं पूज्य वैनतेयं च पूजयेत् ॥ 7.2.15.६० ॥
कृत्वा जागरणं रात्रावुत्थाप्य मधुसूदनम् ॥
द्वादशीभुक्तिमासाद्य कार्यं पारणकं नरैः ॥ ६१ ॥
ब्राह्मणान्भोजयित्वा च सहितः पुत्रबांधवैः ॥
विकलांधकृपणानां देयमन्नं स्वशक्तितः ॥ ६२ ॥
दामोदरे रैवतके स्वर्णरेखानदीजले ॥
एवं यः कुरुते यात्रां तस्य पुण्यफलं शृणु ॥ ६३ ॥
ब्रह्मघ्नश्च सुरापश्च ग्रामसीमाविलोपकः ॥
राजद्रोही गुरुद्रोही मिथ्याव्रतधरश्च यः ॥ ६४ ॥
कूटसाक्ष्यप्रदो यश्च यश्च न्यासापहारकः ॥
बालस्त्रीघातको विप्रः संध्यास्नानविवर्जितः ॥ ६५ ॥
देवब्रह्म स्वहर्त्ता च वेदविक्रयकारकः ॥
कन्याविक्रयकर्त्ता च देवब्राह्मणनिंदकः ॥६६॥
विश्वासघातको विप्रः शूद्रान्नादोऽथ लुब्धकः ॥
नायकः परदाराणां स्वयंदत्तापहारकः ॥ ६७ ॥
पर्वमैथुनसेवी च तथा वै सेतुभेदकः ॥
परिणीतामृतुस्नातां स्वयं यो नाभिगच्छति ॥ ६८ ॥
ब्राह्मणी विधवा बाला न भवेच्छ्रुतधारिणी ॥
महापातकिनश्चैते तथान्ये बहवो नृप ॥ ६९ ॥
स्वर्णरेखाजले स्नात्वा दृष्ट्वा दामोदरं हरिम् ॥
रात्रौ जागरणं कृत्वा मुच्यते सर्वपातकैः ॥ 7.2.15.७० ॥
न तु ये पापकर्माणः समायाताः प्रजागरे ॥
संसारसागरे तीर्थे गच्छंति न हरेः पुरम् ॥ ७१ ॥
यथा यथा याति नरः प्रजागरे तथातथा विष्णुपुरे विचिंत्यते ॥
वासः सुरैर्वैष्णवलोकहेतवे मृदंगगीतध्वनिनादिते गृहे ॥ ७२ ॥
गदासि शंखारिधराश्चतुर्भुजा दैतेयदर्पापहरूपधारिणः ॥
प्रगीयमानाः सुरसुंदरीभिस्ते यांति खं खेचरगात्रसंगाः ॥ ७३ ॥
वाराहकल्पे प्रथमं युगादौ दामोदरो रैवतके प्रसिद्धः ॥
सैषा नदी या सरितां वरिष्ठा सोऽयं हरिर्यो भुवनस्य कर्ता ॥ ७४ ॥
इदं पुराणं पठते शृणोति नरो विमानैर्मधुसूद नालये ॥
देवांगनादत्तभुजश्चतुर्भुजः स नीयते देवगणैरभिष्टुतः ॥ ७५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सारस्वतप्रोक्ततीर्थयात्राविधाने श्रीदामोदरमाहात्म्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥