स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १३ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १४
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

॥ सारस्वत उवाच ॥ ॥
वस्त्रापथे महाक्षेत्रे नगरे वामने पुरा ॥
पुत्रशोकाभिसंतप्तो वसिष्ठो भगवानृषिः ॥ १ ॥
आजगाम तपस्तप्तुं स्वर्णरेखानदीतटे ॥
ईशानकोणे नगरात्स्वर्णरेखानदीजले ॥ २ ॥
स्नात्वा ध्यात्वा शिवं देवं मनसाऽचिन्तयद्यदा ॥
तदा रुद्रः समायातस्त्रिनेत्रो वृषभध्वजः ॥
महर्षे तव तुष्टोऽहं किं करोमि वदस्व तत् ॥ ३ ॥
॥ वसिष्ठ उवाच ॥ ॥
यदि तुष्टो महादेव वरो देयो ममाधुना ॥
तदाऽत्र भवता स्थेयं यावदाचंद्रतारकम् ॥ ४ ॥
अत्र स्नानं करिष्यंति ये नराः पापकर्मिणः ॥
तेषां पापक्षयो देव कर्तव्यो भवता सदा ॥ ५ ॥
नरा ये पापकर्माणः पूजयंति त्रिलोचनम् ॥
तान्नरान्नय देवेश विमानैः शिवमंदिरम् ॥ ६ ॥
॥ सारस्वत उवाच ॥ ॥
तथेत्युक्ता हरो देवस्तत्रैवांतर धीयत ॥
हिरण्यकशिपुं हत्वा नरसिंहो महाबलः ॥
त्रैलोक्यमिंद्राय ददौ कालरुद्रं स्वयं ययौ ॥ ७ ॥
तदन्वये बलिर्जातः स चातीव बला धिकः ॥
एकातपत्रां पृथिवीं बलिश्चक्रे बलाधिकः ॥
अकृष्टपच्या सुजला धरित्री सस्यशालिनी ॥ ८ ॥
गन्धवंति च पुष्पाणि रसवंति फलानि च ॥
आस्कन्धफलिनो वृक्षाः पुटके पुटके मधु ॥ ९ ॥
चतुर्वेदा द्विजाः सर्वे क्षत्रिया युद्धकोविदाः ॥
गोषु सेवापरा वैश्याः शूद्राः शुश्रूषणे रताः ॥ ॥ 7.2.14.१० ॥
सदाचारा जनपदा ईतिव्याधिविवर्जिताः ॥
हृष्टपुष्टजनाः सर्वे सदानंदाः सदोद्यताः ॥ ११ ॥
कुंकुमागुरुलिप्तांगाः सुवेषाः साधुमंडिताः ॥
दारिद्र्यदुःखमरणैर्विमुक्ताश्चिरजीविनः ॥ १२ ॥
दीपोद्द्योतितभूभागा रात्रावपि यथा दिने ॥
विचरंति तथा मर्त्या देवा देवालये यथा ॥ ॥ १३ ॥
पृथिव्यां स्वर्गरूपायां राज्यं चक्रेऽसुरो बलिः ॥
नित्यं विवाहवादित्रैर्नादितं भूपमंदिरम् ॥ १४ ॥
धरित्रीं बुभुजे दैत्यो देवराजो यथा दिवि ॥
देवेन्द्रो बलिना नित्यं यज्ञैः संतोषितस्तदा ॥ १५ ॥
देवानां दानवानां च नास्ति युद्धं परस्परम् ॥
एक एव महीपालो युद्धं नास्ति धरातले ॥ १६ ॥
सपत्नककलिर्नाम नास्ति युद्धं हरेर्गजैः ॥
न सर्प्पनकुलैर्नित्यं न बिडालैश्च मूषकैः ॥ १७ ॥
मैत्रीभावं गतं सर्वं जगत्स्थावर जंगमम् ॥
त्रैलोक्यभ्रमणं कृत्वा नारदो नंदने वने ॥ १८ ॥
गतो न पश्यते युद्धं त्रैलोक्ये सचराचरे ॥
तावत्तस्योदरे पीडा महती समजायत ॥ १९ ॥
न मे स्नानादिना कार्यं तर्प्पणैः किं प्रयोजनम् ॥
जपहोमादिना सर्वमन्यथा मम चेष्टितम् ॥ 7.2.14.२० ॥
तत्स्नानं यत्र युध्यन्ते गजा दंतविघट्टनैः ॥
सा संध्या यत्र निहतैः कबन्धैर्भूर्विभूषिता ॥ २१ ॥
कुंतघातविनिर्भिन्नगजकुम्भोद्भवासृजा ॥
तृप्यंति यत्र क्रव्यादास्तर्पणं तन्मम प्रियम् ॥ २२ ॥
गजशीर्षैरगम्यास्ते निहताः क्षत्रिया रणे ॥
स होमो यत्र हूयंते गजाश्च नरपुंगवाः ॥ २३ ॥
शब्दाग्नौ नारदस्यायं होमस्त्रै लोक्यविश्रुतः ॥
छिन्नपादशिरोहस्तैरंतरांत्रविलबितैः ॥ २४ ॥
यदर्च्यते भूमितलं तन्मे नित्यं सुरार्चनम् ॥
किं देवैर्दिवि मे कार्यं किं मनुष्यैर्धरातले ॥ २५ ॥
पन्नगैः किं तु पाताले न युध्यन्ते परस्परम् ॥
तथा करिष्ये देवेन्द्रादुपेन्द्राच्च धरातले ॥ २६ ॥
रसातलं बलिर्यातु सत्यमस्तु वचो मम ॥
जीवितेनापि राज्येन यदा दामोदरं हरिम् ॥ २७ ॥
तोषयिष्यति यत्नेन तदेन्द्रोऽसौ भविष्यति ॥
देवेन्द्रो वृत्रहा भूत्वा भ्रष्टराज्यो भविष्यति ॥ २८ ॥
यदा वस्त्रापथे गत्वा भवं भावेन पूजयेत् ॥
सुराधिपस्तदा भूयो ब्रह्महत्याविवर्जितः ॥ २९ ॥
अनेन मन्त्रजाप्येन स शांतोदरवे दनः ॥
नारदो देवराजस्य समीपं सहसा ययौ ॥ 7.2.14.३० ॥
सिंहासनं समारुह्य नन्दने संस्थितो हरिः ॥
आस्ते परिवृतो देवेर्देवराजो महाबलः ॥ ॥ ३१ ॥
निरीक्षमाणो नृत्यन्तीं रंभां तां सुरसुन्दरीम्॥
आयांतं ददृशे देवो नारदं विस्मयान्वितः ॥ ३२ ॥
अहो विरुद्धो भगवान्नारदो मयि दृश्यते ॥
नृत्यते किं न वा नृत्ये गीयते किं न गीयते ॥ ३३ ॥
वाद्यतां तालमानैः किं यावच्चिंतापरो हरिः ॥
ऋषिः समागतस्तावज्जलाभ्युक्षणत त्परः ॥ ३४ ॥
सिंहासनं परित्यज्य समुत्थायाग्रतः स्थितः ॥
स्वागतेनाभिवाद्याथ बभाषे नारदं हरिः ॥ ३२ ॥
महर्षे स्वागतं तेऽद्य कुतो वाऽऽग म्यते त्वया ॥
स्नाने संध्यार्चने होमे कुशलं तव विद्यते ॥ ३६ ॥
इति प्रोक्तो विहस्याथ बभाषे नारदो हरिम् ॥
यद्येतज्जायते मह्यं किमन्येन प्रयोजनम् ॥ ३७॥
प्रेक्षणीकस्य ते स्थानं नाहं पश्यामि स्वर्पते ॥
यावद्राज्यं बलेस्तावत्त्वया मे न प्रयोजनम् ॥ ३८ ॥
आदित्याद्या ग्रहाः सर्वे काल मानेन योजिताः ॥
आहुत्या प्लाविता मेघा वर्षंति हृषिता भुवि ॥३९॥
रोगादिमरणं नास्ति यमो धर्मेण पीडितः ॥7.2.14.४०॥
एकातपत्रां पृथिवीं बुभुजे स नराधिपः ॥
त्रैलोक्यनाथेति महानृपेति संग्रामविद्याकुशलेति नित्यम् ॥
त्रैलोक्यलक्ष्मीकुचकामुकेति संस्तूयते चारणबंदिवृन्दैः ।४१॥
ब्रह्मेति कृष्णेति हरेति भूमाविंद्रेति सूर्येति धनाधिपेति ॥
देवारिनाथेति सुराधिपेति जेगीयते चारणबंदिवृन्दैः ॥ ४२ ॥
युद्धं विना दैत्यगणा हसंति मत्ताः प्रमत्ताः करिणो नदंति ॥
रथाधिरूढाः पुरुषा भ्रमंति सेनाधिपा स्त्रीषु गृहे रमंति॥४३॥
यज्ञाग्निधूमेन नभो विराजते सुवर्णरूपा पृथिवी विराजते॥
शून्यं तु वेदैर्भुवनं च शोभते धिष्ण्यं बलेर्दैर्त्यैगणैश्च शोभते ॥ ४४ ॥
बलिर्न जानाति सुराधिपं त्वां सुराश्च सर्वे बलियज्ञभोजिनः ॥
त्वमेव तेऽरिं हृदि चिंतय स्वयं युक्तं तवेदं कथितं मयेति ॥ ४५ ॥
रंभा न राजते रंगे मेनका त्वां न मन्यते ॥
तिलोत्तमापि मनुते बलिराजं सुरेश्वरम् ॥ ४६ ॥
उर्वशी चैव तं याति सुकेशा सह भाषते ॥
मञ्जुघोषा मुखं वक्त्रं कृत्वा त्वां न निरीक्षते ॥ ४७ ॥
पुलोमा पुलकोद्भेदं न करोति बलिं विना ॥
पौलोमी पुरतो गत्वा बलिं स्तौति च मंथरा ॥ ४८ ॥
नारदः पर्वतश्चैव हाहा हूहूश्च तुंबुरुः ॥
बलिराज्यं प्रशंसंति रुद्रस्याग्रे मया श्रुतम् ॥ ॥ ४९ ॥
आज्याहुतीभिः सन्तुष्टा ऋषयो ब्रह्मसद्मनि ॥
ब्रह्मणोऽग्रे प्रशंसंति तदेवं कथितं मया ॥ 7.2.14.५० ॥
 बृहस्पतिर्यदाचष्टे न तद्वाच्यं मया तव ॥
इंद्राणी बलिनं मत्वा बलिं चित्रेषु पश्यति ॥ ५१ ॥
अनेन वाक्येन सुराधिपस्तु चचाल कोपावरितस्तदानीम् ॥
गजेति वज्रेति जगाद सूतं समानयासिं कवचं रथं च ॥ ५२ ॥
रथेन सूर्यो मरुतो गजेन वृषेण रुद्रो महिषेण सौरिः ॥
वाद्यंतु वाद्यानि रणाय मेऽद्य चण्डी गणेशास्त्वरिताः प्रयातु ॥ ५३ ॥
दृष्ट्वा सुरेन्द्रं संक्रुद्धं बृहस्पतिरुदारधीः ॥
ऋषिमध्ये गतो विद्वान्बभाषे समयोचितम् ॥ ५४ ॥
सामाद्या नीतयः प्रोक्ताश्चतस्रो मनुना पुरा ॥
सामसाध्येषु कार्येषु दण्डस्तेन न पात्यताम् ॥ ५५ ॥
अतो ह्युपेन्द्र्माहूय मंत्रयन्तु सुरोत्तमाः ॥
तदधीनं जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ५६ ॥
विनष्टेषु च कार्येषु तस्य वाच्यं शुभाशुभम् ॥
स एव प्रथमं गच्छेत्पृथिव्यां स्वार्थसिद्धये ॥ ५७ ॥
तथेति देवैर्विज्ञप्तस्तथा चक्रे सुरेश्वरः ॥
मन्दरेऽथ गिरौ विष्णुः सत्यलोकात्समागतः ॥ ५८ ॥
ऋषयस्तत्र ते यांतु समानेतुं जनार्द्दनम् ॥
इत्युक्तो नारदः स्वर्गात्स्नातुं प्राप्तः स मन्दरे ॥ ५९ ॥
गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः ॥
जमदग्निर्वसिष्ठश्च संप्राप्ता हरिमन्दिरे ॥ 7.2.14.६० ॥
गिरौ गंगा जले स्नानं संध्यां चक्रे स नारदः ॥
यावदास्ते तदा हृष्टा वालखिल्या महर्षयः ॥ ६१ ॥
विनयेनाभिवाद्याथ कथयामास नारदः ॥
ऋषयो मन्दरे प्राप्ता विष्णुं नेतुं सुरालये ॥ ६२ ॥
ऋषयो दर्शनं कर्त्तुं भवतामपि युज्यते ॥
तदेतद्वचनं श्रुत्वा हर्षितास्ते महर्षयः ॥ ६३ ॥
अंगुष्ठपर्वमात्रांस्तान्वामनान्हरिमन्दिरे॥
गतान्गंगाजले स्नातुं वालखिल्यान्पुरो हरिः॥ ६४॥
जहास वामनान्सर्वान्भाविकार्यबलात्ततः॥
ब्रह्मपुत्रा वालखिल्याः सर्वे ते शंसितव्रताः ॥ ६५ ॥
लज्जान्विताः क्रोधपरा उच्चैरूचुः परस्परम् ॥
केनापि देवकार्येण वामनोऽयं भविष्यति ॥ ६६ ॥
ऋषिभिर्वि ष्णुना सर्वे प्रतिबोध्य प्रसादिताः ॥
भाग्यमोक्षः कदा विष्णोर्भविष्यति तदुच्यताम् ॥६७॥
प्रभासादधिकं क्षेत्रं यदा वस्त्रापथं भवेत् ॥
भविष्यति तदा वृद्धिर्ध्रुवमण्डलव्यापिनी ॥
तथा वस्त्रापथं क्षेत्रं भविष्यति यवाधिकम् ॥ ६८ ॥
दृष्ट्वा सोमेश्वरं देवं दोषमुक्तो भविष्यति ॥
असाध्यसाधनी शक्तिर्भविष्यति स्थिरा तव ॥ ६९ ॥
वस्त्रापथे सोमनाथं यः पश्यति स पश्यति ॥
इन्द्रोपेन्द्रौ समालिंग्याथासीनौ तौ वरासने ॥ 7.2.14.७० ॥ ॥
॥ विष्णुरुवाच ॥ ॥
किं ते कार्यं देवराज तदवश्यं करोम्यहम् ॥ ७१ ॥
॥ इन्द्र उवाच ॥ ॥
हिरण्यकशिपोर्वंशे बलिर्दैत्यो महा बलः ॥
तेनेदं सकलं व्याप्तं देवा यज्ञभुजः कृताः ॥ ७२ ॥
देवलोके भूमिलोको गतः सर्वोऽपि केशव ॥
यावन्नो विकृतिं याति पूर्ववैरमनुस्मरन् ॥
भ्रष्टराज्यो बलिस्तावत्पातालमधितिष्ठतु ॥ ७३ ॥
सूर्यसोमान्वये कश्चिद्राजा भवतु भूतले ॥ ७४ ॥
॥ सारस्वत उवाच ॥ ॥
इत्येतद्वचनं श्रुत्वा स्वयं संचिन्त्य चेतसा ॥
तथा करिष्ये तं प्रोच्य मुनीन्प्राह जनार्दनः ॥ ७५ ॥
ऋषयस्तत्र गच्छंतु कारयन्तु महामखम् ॥
अहं तत्रागमिष्यामि साधयिष्यामि तं बलिम् ॥ ७६ ॥
इत्युक्ता मुनयः सर्वे गतास्ते यज्ञमण्डपे ॥
द्वादशाहो महायज्ञः प्रारब्धः सर्वदक्षिणः ॥ ७७ ॥
सुराष्ट्रदेशं विख्यातं क्षेत्रं वस्त्रापथं नृप ॥
तस्य दक्षिणदिग्भागे बलेः सिद्धं महापुरम् ॥ ७८ ॥
क्षेत्राद्बहिः समारब्धो यज्ञः सर्वस्वदक्षिणः ॥
शुक्रेणामन्त्रिताः सर्वे मुनयो यज्ञकर्मणि ॥
अतिहृष्टो बलिर्यज्ञे ददौ दानान्यनेकधा ॥ ७९ ॥
स्वर्णपात्रेषु सर्वेषु दीयते भोजनं बहु ॥
अतिथिर्ब्राह्मणो विद्वान्सर्वस्वेनापि पूज्यते ॥
दानाद्यज्ञो भवेत्पूर्णो दानहीनो वृथा भवेत् ॥ 7.2.14.८० ॥
एतस्मिन्नेव काले तु विष्णुर्वामनतां गतः ॥
मध्यदेशे चतुर्वेदो ब्राह्मणस्तीर्थयात्रिकः ॥
महोदरो ह्रस्वभुजः खञ्जपादो महाशिराः ॥ ८१ ॥
महाहनुः स्थूलजंघः स्थूलग्रीवोऽतिलंपटः ॥
श्वेतवस्त्रो बद्धशिखश्छत्रोपानत्कमण्डलून् ॥ ८२ ॥
द्रष्टुं तीर्थान्यनेकानि बभ्राम स महीतले ॥
सुराष्ट्रदेशे संप्राप्तः क्षेत्रे वस्त्रापथे द्विजः ॥ ८३ ॥
स्वर्णरेखा नदीतीरे चिंतयामास वामनः ॥
प्रथमं किं भवं दृष्ट्वा यामि सोमेश्वरं शिवम् ॥ ८४ ॥
अथ सोमेश्वरं पूज्य पश्चाद्यास्यामि मन्दरम् ॥
इति चिन्तापरो भूत्वा कृत्यं सञ्चिन्त्य चेतसा ॥
अत्र स्थितः सोमनाथं पूजयिष्यामि निश्चितम् ॥ ८५ ॥
वस्त्रापथे महाक्षेत्रे भवं सोमेश्वरं वृथा ॥
पूजयंति जना नित्यं तथा कार्यं मया धुवम् ॥ ८६ ॥
देशानामुत्तमो देशो गिरीणामुत्तमो गिरिः ॥
क्षेत्राणामुत्तमं क्षेत्रं नदीनामुत्तमा सरित् ॥ ८७ ॥
दिव्यं वनं वनानां तु देवानामुत्तमो भवः ॥
यदा सोमेश्वरो देवो भूमिं भित्त्वा भविष्यति ॥ ८८ ॥
तदाम्रमण्डले दिव्यं क्षेत्रमेतद्यवाधिकम् ॥
चैत्र शुक्लचतुर्दश्यामग्निसाधनतत्परः ॥ ८९ ॥
ऊर्ध्वबाहुः सूर्यकाले भवं तावत्स पश्यति ॥
मध्यंदिनं परं याते दिननाथे विलंबिते ॥ 7.2.14.९० ॥
अग्नि तापांगसंतप्तस्तावत्पश्यति शंकरम् ॥
सोमनाथं शिवं शांतं सर्वदेवनमस्कृतम् ॥
अर्घ्येण पुष्पमिश्रेण जलमिश्रेण भामिनि ॥ ९१ ॥ ॥
॥ सारस्वत उवाच ॥ ॥
भूमिं भित्त्वाथ देवेशः स्वयं सोमेश्वरः स्थितः ॥
लिंगरूपो महादेवो यावदाब्रह्मवासरम् ॥ ९२ ॥
॥ सोमेश्वर उवाच ॥ ॥
सिद्धस्त्वं मत्प्रसादेन कार्यं सिद्धं भविष्यति ॥
इत्युक्तो वामनो देवं प्रत्युवाच महेश्वरम् ॥ ९३ ॥
॥ वामन उवाच ॥ ॥
यदि तुष्टो महादेव यदि देयो वरो मम ॥
तदाऽत्र लिंगे स्थातव्यमस्तु दिव्यं पुरो मम ॥ ९४ ॥
यस्तु स्वायंभुवं लिंगं वामने नगरे मम ॥
पूजयिष्यति ब्रह्मघ्नो गोघ्नो वा बालघातकः ॥ ९५ ॥
गुरुद्रोही स्वर्णचोरो मुच्यते सर्वपातकैः ॥
निर्दोषः पूजयेद्यस्तु सकृत्सोमेश्वरं हरम् ॥ ९६ ॥
मृतो विमानमारुह्य दिव्यस्त्रीपरिवेष्टितः ॥
संस्तूयमानो दिक्पालैर्यातु स्वर्गे शिवालये ॥ ९७ ॥
ब्रह्मलोकमतिक्रम्य रुद्रलोके स गच्छतु ॥
तथेत्युक्त्वा सोमनाथस्तत्रैवान्तरधीयत ॥ ९८ ॥
प्रकाश्य वामनो लिगं सोमनाथं स्वयंभुवम् ॥
प्राप्तज्ञानो लब्धवृद्धिर्ययौ द्रष्टुं भवं हरम् ॥ ९९ ॥
गंगाद्याः सरितः सर्वाः स्वर्णरेखाजले स्थिताः ॥
एतां सोमेश्वरोत्पत्तिं ये शृण्वंति नराः स्त्रियः ॥
सर्वपापक्षयस्तेषां जायते नात्र संशयः ॥7.2.14.१०० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥