स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १६ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १७
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →

॥ राजोवाच ॥ ॥
विचित्रमिदमाख्यानं त्वत्प्रसादाच्छ्रुतं मया ॥
दृष्ट्वा नारायणं शक्रं नारदो मंदरे गिरौ ॥ १ ॥
किं चकार मुनींद्रोऽथ तन्मे विस्तरतो मुने ॥
वद संसारसरणोद्भूतमायाप्रपीडितम् ॥
कथामृतजलौघेन वितृषं कुरु मां प्रभो ॥ २ ॥
॥ सारस्वत उवाच ॥ ॥
अथासौ नारदो देवं ज्ञात्वा शप्तं द्विजन्मना ॥
भृगुणा च तथा पूर्वं नान्यथैतद्भविष्यति ॥ ३ ॥
भविष्यं यद्भवं देव वर्तमानं विचिंत्यताम् ॥
अयं च वामनो भूत्वा विष्णुर्यास्यति तां पुरीम् ॥ ४ ॥
निग्रहं स बलेः पश्चात्करिष्यति मम प्रियम् ॥
युद्धं विना कथं स्थेयं वर्तमानं महोल्बणम् ॥ ५ ॥
देवदानवयुद्धानि दैत्यगन्धर्व रक्षसाम् ॥
निवारितानि सर्वाणि सरीसृपपतत्रिणाम् ॥ ६ ॥
सापत्नजः कलिर्नास्ति मम भाग्यपरिक्षये ॥
देवेन्द्रो गुरुणा पूर्वं वारितः किं करोम्यहम् ॥ ७ ॥
माननीयो गुरुर्मेऽयमतस्तं न शपाम्यहम् ॥
युद्धार्थं तु ततो यत्नो न सिध्यति करोमि किम् ॥ ८ ॥
केनापि दैवयोगेन पुरुषार्थो न सिध्यति ॥
तथापि यत्नः कर्तव्यः पुरुषार्थे विपश्चिता ॥
दैवं पुरुषकारेण विनापि फलति क्वचित् ॥ ९ ॥
यदुक्तं तद्वचो व्यर्थं यतः सिद्धिः प्रयत्नतः ॥
बलिं गत्वा भणिष्यामि यथा युद्धं करिष्यति ॥ 7.2.17.१० ॥
न श्रोष्यति स चेद्वाक्यं निश्चितं तं शपाम्यहम् ॥
इत्युक्त्वा स ययौ वेगान्नारदो बलिमंदिरे ॥
निमेषांतरमात्रेण शिष्याभ्यां गगने स्थितः ॥ ११ ॥
प्रासादे शैलसंकाशे सप्तभौमे महोज्ज्वले ॥
तस्योपरि सभा दिव्या निर्मिता विश्वकर्मणा ॥ १२ ॥
तस्यां सिंहासनं दिव्यं तत्रासीनो बलिर्नृप ॥
दैत्यैः परिवृतः सर्वैः प्रौढिहास्यकथापरैः ॥ १३ ॥
ऋषिभिर्ब्राह्मणैः शांतैस्त थैवोशनसा स्वयम्॥
पुत्रमित्रकलत्रैश्च संवृतो दिव्यमन्दिरे ॥ १४ ॥
देवांगनाकरग्राहगृहीतैर्दिव्यचामरैः ॥
संवीज्यमानो दैत्येन्द्रः स्तूयमानः स चारणैः ॥ १५ ॥
यावदास्ते मदोन्मत्ता मन्त्रयंति परस्परम् ॥
दैत्यदानवमुख्या ये ते सर्वे युद्धकांक्षिणः ॥ १६ ॥
उत्थायोत्थाय भाषंते प्रगल्भंते सुरैः सह ॥
अस्मदीयमिदं सर्वं त्रैलोक्यं सांप्रतं गतम् ॥ १७ ॥
शुक्रबुद्ध्या विना युद्धं प्राप्स्यते किं महोदयः ॥
दैत्येन्द्रो देवराजेन स्नेहं च कुरुतो यदि ॥ १८ ॥
ऐरावणं सदा मत्तं कथं नो याचते बलिः ॥
चतुरं तुरगं कस्मान्नार्पयति दिवाकरः ॥ १९ ॥
यावन्नाक्रम्यते लुब्धो धनाध्यक्षो रणाजिरे ॥
तावन्नार्पयते वित्तं यदा तत्संचितं सुरैः ॥ 7.2.17.२० ॥
न दर्शयति रत्नानि जलराशी रसातलात् ॥
यावन्न मन्दरं क्षिप्त्वा विमथ्नीमो वयं च तम् ॥ २१ ॥
यथामृतकलाश्चन्द्राद्भुज्यन्ते क्रमशः सुरैः ॥
एवं भागं बलेः कस्मान्न ददाति जलात्मकः ॥ २२ ॥
स्वर्धुनी शीतलो वातः पद्मर्किजल्कवासितः ॥
स्वर्गे वाति शनैर्यद्वत्तथा न बलिमंदिरे ॥ २३ ॥
इन्द्रचापोद्यता मेघा जलं मुंचंति भूतले॥
बलिखङ्गोद्धुताः स्वर्गं पुनस्ते यांति भूतलात्॥२४॥
अस्मदीये धरापृष्ठे यमो मारयते जनम् ॥
नैवं स्वर्गे न पाताले पश्याहो कार्यकारणम् ॥२५॥
आयुर्वृत्तिं सुतान्सौख्यमस्माकं लिखति स्वयम् ॥
ललाटे चित्रगुप्तोऽसौ न देवानां तु तत्समम् ॥२६॥
वर्षाशीतातपाः काला वर्तंते भुवि सांप्रतम् ॥
न स्वर्गे नैव पाताले भीता भूमौ भ्रमंति हि ॥ २७ ॥
एकवीर्योद्भवा यूयं स्वस्रीया देवदानवाः ॥
भूमौ स्थिता वयं कस्माद्देवाः केनोपरिकृताः ॥ ॥२८॥
समुद्रे मथ्यमाने तु दैत्येन्द्रो वंचितः सुरैः ॥
एकतः सर्वदेवाश्च बलिश्चैवैकतः स्थितः ॥२९॥
उत्पन्नेषु च रत्नेषु भाग्यं वै यस्य यादृशम् ॥
गजाश्वकल्पवृक्षाद्याश्चंद्रगोगणदंतिनः ॥7.2.17.३०॥
गृहीत्वा ह्यमृतं देवैर्वयं पाने नियोजिताः ॥
एतया चूर्णिता यूयं न जानीथातिगर्विताः ॥ ३१ ॥
पीतावशेषं पीयूषं सत्यलोके धृतं सुरैः ॥
अहोतिकुटिला देवाः कस्माच्छेषं न दीयते ॥ ३२ ॥
सुरामृतमिति ज्ञात्वा पीयूषाद्वंचिता वयम् ॥
तिलतैलमेवमिष्टं यैर्न दृष्टं घृतं क्वचित्॥ ३३ ॥
विष्णोर्वक्रचरित्राणां संख्या कर्तु न शक्यते॥
तथापि कथ्यते तुष्टैर्हृष्टैस्तैर्यदनुष्ठितम् ॥३४॥
गौरांगी सुन्दरी सुभ्रूः पीनोन्नतपयोधरा ॥
सुकेशा चंद्रवदना कर्णासक्तविलोचना॥३५॥
वलित्रयांकिता मध्ये बाला मुष्ट्यापि गृह्यते ॥
स्थलारविंदचरणा लतेव भुजभूषिता ॥ ३६ ॥
सा सर्वाभरणोपेता सर्वलक्षणसंयुता ॥
त्रैलोक्यमोहिनी देवी संजाताऽमृतमन्थने ॥ ३७ ॥
अमृतादुत्थिता पूर्वं यस्य सा तस्य तद्ध्रुवम् ॥
त्रैलोक्यं वशगं तस्य यस्य सा चारुलोचना ॥ ३८ ॥
तया संमोहिताः सर्वे देवदानवराक्षसाः ॥
विमुच्य मन्थनं सर्वे तां ग्रहीतुं समुद्यताः ॥ ३९ ॥
एका स्त्री बहवो देवा दानवादैत्यराक्षसाः ॥
विवादः सुमहाञ्जातः कथमत्र भविष्यति ॥ 7.2.17.४० ॥
आगत्य विष्णुना सर्वे भुजे धृत्वा निवारिताः ॥
अस्यार्थे किमहो वादः क्रियते भोः परस्परम् ॥ ४१ ॥
अमृतार्थे समारम्भो महिलार्थे विनश्यति ॥
संकेतं प्रथमं कृत्वा विष्णुना चुंबिता पुनः ॥ ४२ ॥
दिव्यरूपधरः स्रग्वी वनमालाविभूषितः ॥
कौस्तुभोद्द्योतिततनुः शंखचक्रगदाधरः ॥४३॥
तस्या हस्ते शुभां मालां दत्त्वा विष्णुः पुरः स्थितः ॥
उद्धृत्य बाहुं सर्वेषां बभाषे वचनं हरिः ॥ ४४ ॥
कुर्वंतु कुण्डलं सर्वे तिष्ठन्तु स्वयमासने ॥
विलोक्य स्वेच्छया लक्ष्मीर्वरमालां प्रयच्छतु ॥ ४५ ॥
स्वयंवरविभेदं यः करिष्यत्यतिलंपटः ॥
स वध्यः सहितैः सर्वैः परस्त्रीलुब्धको यथा ॥ ४६ ॥
परदारकृतं पापं स्त्रीवध्या तस्य जायताम्॥
अन्योऽपि यः करोत्येवमेवमस्तु तदुच्यताम्॥४७॥
साधारणं हरिं ज्ञात्वा तथेत्युक्त्वा तथा कृतम्॥
देवदानवदैत्यानां गंधर्वोरगरक्षसाम्॥
मध्ये योऽभिमतो भर्ता स ते सत्यं भवेदिति ॥४८ ॥
तेनासौ मोहिता पूर्वं दृष्टिदानेन कर्षिता ॥
आद्यं संमोहनं स्त्रीणां चक्रे दृष्टिनिरीक्षणम्॥४९॥
एवमेवेति तत्कर्णे हस्तं दत्त्वा यदुच्यते॥
दधाति हृदि यं नारी कामबाणप्रपीडिता ॥ 7.2.17.५० ॥
तमेव वरयेदत्र कश्चिन्नास्त्येव संशयः ॥
संजाते कलहे पूर्वं हरिणा तं निवर्तितुम् ॥ ५१ ॥
यदा गृहीता सर्वैः सा हरिं नैव विमुंचति ॥
त्वमेव भर्ता साऽऽचष्टे मुंच मां व्रज दूरतः ॥ ५२ ॥
मुक्त्वा दूरं ततो विष्णुः प्रविष्टः सुरमण्डले ॥
तदा सर्वे च मामुक्त्वा यथास्थानं स्वयं गताः ॥५३॥
आचष्ट विजया पूर्वं सर्वान्देवान्यथाक्रमम्॥
सा च निरीक्षते पश्चात्तं विचार्य विमुञ्चति ॥ ५४ ॥
उदासीनः शिवः शांतो गौरीकांतस्त्रिलोचनः ॥
नान्यां निरीक्षते नित्यं ध्यानासक्तस्त्रिलोचनः ॥ ५५ ॥
पितामहोयमित्युक्तं यदा सख्या तदा तया ॥
नमस्कृत्य गतं दूरे कृत्वा मौनं न पश्यति ॥ ५६ ॥
आदित्यं पद्मकं मुञ्च दहनं दहनात्मकम्॥
वाति वातो गता दूरे वरुणो मे पिता यतः ॥ ५७ ॥
पौलोमीवदनासक्तो देवेन्द्रो मे न रोचते ॥ ५८ ॥
वधबंधकृतच्छेदभेददण्डविकर्ष णम्॥
कुर्वन्न कुरुते सौम्यं रूपं वैवस्वतो यमः ॥ ५९ ॥
देवदानवगंधर्वदैत्यपन्नगराक्षसान् ॥ 7.2.17.६० ॥
दृष्ट्वात्युग्रांस्ततो याति दृष्टोऽसौ पुरुषो त्तमः ॥
कर्णांतलोचनभ्रांतवक्त्रं दृष्ट्यावलोक्य तम् ॥ ६१ ॥
सौभाग्यातिशयाक्रांतं रम्यं काममनोहरम् ॥
संजातपुलकोद्भेदस्वेदवारिकणांकितम् ॥ ॥ ६२ ॥
देवदानवदैत्येन्द्रक्रोधदृष्टिनिरीक्षितम् ॥
रम्यं रामा वरं चक्रे ददौ मालां ततः स्वयम्॥६३॥
दैत्याः परस्परं प्रोचुः प्रेक्ष्य तत्सुरचेष्टितम् ॥
विभागं पश्य देवानां स्वर्गे सर्वे स्वयं गताः॥ ६४॥
पातालस्य तले यूयं मानवा धरणीतले॥
देवास्त्रिभुवने यांतु न वयं स्वर्गगामिनः॥ ६५॥
मानवाः क्षत्रिया राज्यं कुर्वंतु पृथिवीतले॥
पातालं तु परित्यज्य धात्री यदि तु रक्ष्यते॥ ६६॥
दैत्यदानवजैः कैश्चिद्राक्षसैस्तन्न शोभनम्॥
अथ किं बहुनोक्तेन राजा त्रिभुवने बलिः॥६७॥
संविभज्याथ रत्नानि समं राज्यं विधीयताम्॥
यावदेवं प्रगल्भंते तावत्पश्यंति नारदम् ॥ ६८ ॥
गगनात्समुपायांतं द्वितीयमिव भास्करम् ॥
ब्रह्मदंडकरासक्तयुद्धपुस्तकधारिणम् ॥ ६९ ॥
कृष्णाजिनधरं शांतं छत्रवीणाकमण्डलून् ॥
मौंजीगुणत्रयासक्तग्रंथिप्रवरमेखलम् ॥ 7.2.17.७० ॥
ब्रह्मरूपधरं शांतं दिव्यरुद्राक्षभूषितम् ॥
गत कल्पकृतग्रंथिसूत्रमालावलंबितम् ॥ ७१ ॥
विरंचिहरसंवादो जन्माहंकारगर्वितः ॥
संक्रुद्धैः क्रियते कोऽद्य चिंतातत्परमानसम् ॥ ॥ ७२ ॥
आयातं नारदं दृष्ट्वा विस्मिताः समुपस्थिताः ॥
प्रभो प्रसादः क्रियतामागंतव्यं गृहे मम ॥ ७३ ॥
धन्योऽहं कृतपुण्योऽहं यस्य मे त्वं गृहागतः ॥
इत्युक्तो बलिना विप्रो विवेशासुरमंदिरे ॥
आसनं पाद्यमर्घ्यं च दत्त्वा संपूजितो द्विजः ॥ ७४ ॥
प्रविश्य सहिताः सर्वे संविष्टा दैत्यदानवाः ॥
शुक्रेण सहितो दैत्यो बभाषे नारदं बलिः ॥ ७५ ॥
इदं राज्यमिमे दारा इमे पुत्रा अहं बलिः ॥
ब्रूहि येनात्र ते कार्यं दानं मे प्रथमं व्रतम् ॥ ७६ ॥
॥ नारद उवाच ॥ ॥
भक्त्या तुष्यंति ये विप्रास्ते विप्रा भूमिदेवताः ॥
न तु ये पूजिताः शक्त्या पुनर्याचंति तेऽधमाः॥ । ॥ ७७ ॥
त्वयाऽहं पूजितो हृष्टो न वित्तैर्मे प्रयोजनम् ॥
हृष्टोऽहं तव राज्येन यज्ञैर्दानैर्व्रतैस्तथा ॥ ७८. ॥
देवैः कृतं विप्रियं ते किंचित्पश्याम्यहं बले ॥
त्वया संपूज्यमानोऽपि देवराजो न तुष्यति ॥ ७९ ॥
न क्षमंति सुराः सर्वे तव राज्यं धरातले ॥
स्वर्गे मे तापको जातो देवानां तव विग्रहे ॥ ॥ 7.2.17.८० ॥
संनह्य प्रथमं याति यः सैन्यं शत्रुभूमिषु ॥
स क्षत्रियो विजयते तस्य राज्यं च वर्धते ॥८१॥
उच्छेदस्तव राज्यस्य भविष्यति श्रुतं मया ॥
एवं ज्ञात्वा यथायुक्तं तच्छीघ्रं तु विधीयताम् ॥ ८२ ॥
॥ बलिरुवाच ॥ ॥
यैर्गुणैः कुरुते राज्यं राजा तान्वद मे विभो ॥
दानं पात्रे प्रदातव्यं मया त्वमपि तं वद ॥ ८३ ॥
॥ नारद उवाच ॥ ॥
षड्विंशद्गुणसंपन्नो राजा राज्यं करोति च ॥
स राज्यफलमाप्नोति शृणु तत्कथयाम्यहम् ॥ ८४ ॥
चरेद्धर्मानकटुको मुंचेत्स्नेहमनास्तिके ॥
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥८५॥
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ॥
दाता चाऽऽयामवर्जः स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ ८६ ॥
संदधीत न चानार्यान्विगृह्णीयान्न बंधुभिः ॥
नानाप्तैश्चारयेच्चारान्कुर्यात्कार्यमपीडयन् ॥८७॥
अर्थान्ब्रूयान्न चापत्सु गुणान्ब्रूयान्न चात्मनः ॥
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ ८८ ॥
नापरीक्ष्य नयेद्दण्डं न च मंत्रं प्रकाशयेत् ॥
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥ ८९ ॥
आप्तैः सुगुप्तदारः स्याद्रक्ष्यश्चान्यो घृणी नृपः ॥
स्त्रियं सेवेत नात्यर्थं मृष्टं भुंजीत नाऽहितम् ॥ 7.2.17.९० ॥
अस्तेयः पूजयेन्मान्यान्गुरुं सेवेदमायया ॥
अर्च्यो देवो न दम्भेन श्रियमिच्छेदकुत्सिताम् ॥ ९१ ॥
सेवेत प्रणयं कृत्वा दक्षः स्यादथ कालवित् ॥
सांत्ववाक्यं सदा वाच्यमनुगृह्णन्न चाक्षिपेत्॥ ९२ ॥
प्रहरेन्न च विप्राय हत्वा शत्रून्न शेषयेत् ॥
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥ ९३ ॥
एवं राज्ये चिरं स्थेयं यदि श्रेय इहेच्छसि ॥
तपःस्वाध्यायदानानि तीर्थयात्राऽऽश्रमाणि च ॥ ९४ ॥
योगेनात्मप्रबोधस्य कलां नार्हंति षोडशीम् ॥
त्वया संसारवैराग्यं कर्त्तव्यं विप्रपूजनम् ॥९५॥
यष्टव्यं विविधैर्यज्ञैर्ध्येयो नारायणो हरिः ॥
प्रसंगेन समायातो यास्ये रैवतके गिरौ ॥ ९६ ॥
तत्रास्ते भगवान्विष्णुर्नदी त्रैलोक्यपावनी ॥
तत्रास्ते च शिवावृक्षो बहुपुष्पफलान्वितः ॥
तत्र गत्वा करिष्यामि व्रतं तद्विष्णुवल्लभम् ॥ ९७ ॥
॥ बलिरुवाच ॥ ॥
कोऽयं रैवतकोनाम व्रतं किं विष्णुवल्लभम् ॥
शिवावृक्षास्तु के प्रोक्तास्तत्कथं कथयस्व मे ॥ ९८ ॥ ॥
॥ नारद उवाच ॥ ॥
पुरा युगादौ दैत्येन्द्र सपक्षाः पर्वताः कृताः ॥
संचिंत्य ब्रह्मणा पश्चादचलास्ते कृताः पुनः ॥ ९९ ॥
उत्पतंति महाकाया निपतंति यदृच्छया ॥
मेरुमंदरकैलासा वचसा संस्थिताः स्थिराः ॥ 7.2.17.१०० ॥
वारिता न स्थिता ये तु त इंद्रेण स्थिरीकृताः ॥
मेरोर्दक्षिण शृंगे तु कुमुदेति स पर्वतः ॥ १०१ ॥
दिव्यः सपक्षः सौवर्णो दिव्यवृक्षैः समावृतः ॥
तस्योपरि पुरी दिव्या वैष्णवी विष्णुना कृता ॥ १०२ ॥
तस्या मध्ये गृहं दिव्यं यस्मिल्लँक्ष्मीः सदा स्थिता ॥
मेरोः शृंगे पुरी रम्या गृहं तत्र मनोरमम् ॥ १०३ ॥
तत्रास्ते स भवो देवो भवानी यत्र संस्थिता ॥
सभा माहेश्वरी रम्या सौवर्णी रत्नमंडिता ॥ १०४ ॥
तत्रास्ते भगवान्विष्णुर्देवैर्ब्रह्मादिभिर्वृतः ॥
तस्यां विष्णुः सदा याति देवं द्रष्टुं महेश्वरम् ॥ १०५ ॥
सौवर्णैः कुमुदैर्यस्मादसौ सर्वत्र मंडितः ॥
कुमुदेति कृतं नाम देवैस्तत्र समागतैः ॥ १०६ ॥
एकदा भगवान्रुद्रो गिरौ तस्मिन्समागतः ॥
द्रष्टुं तच्छिखरे रम्ये तां पुरीं विष्णुपालिताम् ॥ १०७ ॥
गृहागतं हरं दृष्ट्वा हरिणा स तु पूजितः ॥
लक्ष्म्या संपूजिता गौरी हर्षिता तत्र संस्थिता ॥ १०८ ॥
एकासनोपविष्टौ तौ मंत्रयंतौ परस्परम् ॥
हरेण कारणं ज्ञात्वा तत्सर्वं कथितं हरेः ॥ १०९ ॥
त्वयेयं नगरी कार्या मंदरे पर्वतोत्तमे ॥
प्रष्टव्यः कारणं नाहमवश्यं तद्भविष्यति ॥ 7.2.17.११० ॥
हर एव विजानाति कारणं कतमोऽपि न ॥
एवं तथेति तौ प्रोक्त्वा संस्थितौ पर्वतोऽपि सः ॥ १११ ॥
तं दृष्ट्वा संगतं रुद्रं कुमुदः स्वयमाययौ ॥
धन्योऽहं कृतपुण्योऽहं यस्य मे गृहमागतौ ॥ ११२ ॥
द्वाभ्यामुक्तो गिरिवरो ददाव किं वरं तव ॥
इत्युक्तः पर्वतस्ताभ्यां वरं वव्रे स मूढधीः ॥ ११३ ॥
भविष्यत्कार्यहेतुत्वाद्भविष्यति न तद्वृथा ॥
यत्राहं तत्र वस्तव्यं भवद्भ्यामस्तु मे वरः ॥ ११४ ॥
मत्सन्निधौ समागत्य स्थातव्यं ब्रह्मवासरम् ॥
तथेत्युक्त्वा सपत्नीकौ गतौ हरिहरावुभौ ॥ ११६ ॥
पञ्चमो यो मनुः पूर्वं रैवतो नाम विश्रुतः ॥
तस्योत्पत्तौ तु यद्वृत्तं कुमुदाग्रे शृणुष्व तत् ॥ ११६ ॥
ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः ॥
तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः ॥ ११७ ॥
स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः ॥
तथोपनयनाद्याश्च स चाशीलोऽभवन्नृप ॥ ११८ ॥
यतः प्रभृति जातोऽसौ ततः प्रभृत्यसावृषिः ॥
दीर्घरोगपरामर्शमवापातीव दुर्द्धरम् ॥ ११९ ॥।
माता चास्य परामार्तिं कुष्ठरोगाभिपीडिता ॥
जगाम चिन्तां स ऋषिः किमेतदिति दुःखितः ॥ 7.2.17.१२० ॥
मूर्खस्तु मंदधीः पुत्रो दुःखं जनयते पितुः ॥
अमार्गगो विशेषेण दुःखाद्दुःखतरं हि तत् ॥ १२१ ॥
अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥
सुहृदां नोपकाराय पितॄणां नापि तृप्तये ॥ १२२ ॥
सुपुत्रो हृदयेऽभ्येति मातापित्रोर्दिनेदिने ॥
पित्रोर्दुःखाय धिग्जन्म तस्य दुष्कृतकर्मणः ॥ १२३ ॥
धन्यास्ते तनया ये स्युः सवर्लोकाभिसंमताः ॥
परोपकारिणः शांताः साधुकर्मण्यनुव्रताः ॥ १२४ ॥
अनिर्वृतं निरानंदं दुःखशोकपरिप्लुतम् ॥
नरकाय न स्वर्गाय कुपुत्रत्वं हि जन्मिनः ॥ १२५ ॥
करोति सुहृदां दैन्यमहितानां तथा मुदम् ॥
अकाले तु जरां पित्रोः कुपुत्रः कुरुते किल ॥ १२६ ॥
॥ नारद उवाच ॥
एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः ॥
दह्यमानमनोवृत्तिर्वृद्धगर्गमपृच्छत ॥ १२७ ॥
॥ ऋतवागुवाच ॥ ॥
सुव्रतेन पुरा वेदा अधीता विधिना मया ॥
समाप्य विद्या विधवत्कृतो दारपरिग्रहः ॥ १२८ ॥
सदारेण हि याः कार्याः श्रौतस्मार्त्तादिकाः क्रियाः ॥
ताः कृताश्च विधानेन कामं समनुरुध्य च ॥ १२९ ॥
पुत्रार्थं जनितश्चायं पुंनाम्नो विच्युतौ मुने ॥
सोऽयं किमात्मदोषेण मातुर्दोषेण किं मम ॥
अस्मद्दुःखावहो जातो दौःशील्याद्वद कोविद ॥ 7.2.17.१३० ॥
॥ गर्ग उवाच ॥ ॥
रेवत्यन्ते मुनिश्रेष्ठ जातोऽयं तनयस्तव ॥
तेन दुःखाय ते दुष्टे काले यस्मादजायत ॥ १३१ ॥
तवापचारो नैवास्य मातुर्नापि कुलस्य च ॥
अन्यद्दौःशील्यहेतुत्वं रेवत्यंत उपागतम् ॥ १३२ ॥
रेवती अश्विनोर्मध्यमाश्लेषामघयोस्तथा ॥
ज्येष्ठामूलर्क्षयोः प्रोक्तं गंडांतं तु भयावहम् ॥ १३३ ॥
गंडत्रये तु ये जाता नरनारीतुरंगमाः ॥
तिष्ठंति न चिरं गेहे तिष्ठन्तोऽपि भयंकराः ॥
एवमुक्तोऽथ गर्गेण चुक्रोधातीव कोपनः ॥ १३४ ॥
॥ ऋतवागुवाच ॥ ॥
यस्मान्ममैक पुत्रस्य रेवत्यन्ते समुद्भवः ॥ १३५ ॥
रेवती किं न जानाति मां विप्रः शापयिष्यति ॥
जाज्वल्यमाना गगनात्तस्मात्पततु रेवती ॥ १३६ ॥ ॥
॥ नारद उवाच ॥ ॥
तेनैवं व्याहृते वाक्ये रेवत्यृक्षं पपात ह ॥

पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः ॥ १३७ ॥
ईश्वरेच्छाप्रभावेन पतिता गिरिमूर्द्धनि ॥
रेवत्यृक्षं निपतितं कुमुदाद्रौ समन्ततः ॥ १३८ ॥
सुराष्ट्रदेशे स प्राप्तः पतितो भूतले शुभे ॥
हिमाचलस्य पुत्रो य उज्जयंतो गिरिर्महान्॥ १३९ ॥
कुमुदेन समं मैत्री कृता पूर्वं परस्परम् ॥
यत्र त्वं स्थास्यसे स्थाता तत्राहमपि निश्चितम् ॥ 7.2.17.१४० ॥
इति कृत्वा गृहीत्वाथ गंगावारि सयामुनम् ॥
सारस्वतं तथा पुण्यं सिंचितुं तं समागतः ॥ १४१ ॥
आहूतसंप्लवं यावत्संस्थितौ तौ परस्परम् ॥
कुमुदाद्रिश्च तत्पातात्ख्यातो रैवतकोऽभवत् ॥ १४२ ॥
अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीपते ॥
कुमुदाद्रिश्च सौवर्णो रेवतीच्यवनात्पुनः ॥ १४३ ॥
पंकजाभः स बाह्येन जातो वर्णेन भूपते ॥
मेरुवर्णः स मध्ये तु सौवर्णः पर्वतोत्तमः ॥ १४४ ॥
ततः सञ्जनयामास कन्यां रैवतको गिरिः ॥
रेवतीकांति संभूतां रेवतीसदृशाननाम्॥ १४५ ॥
प्रमुचो नाम राजर्षिस्तेन दृष्टा वरांगना ॥
पितृवद्रेवतीनाम कृतं तस्या नृपोत्तम ॥ १४६ ॥
रेवतीति च विख्याता सा सर्वत्र वरांगना ॥
सर्वतेजोमयं स्थानं सर्वतीर्थजलाश्रयम् ॥ १४७ ॥
गंगाजलप्रवाहैश्च संयुक्तं यामुनैस्तथा ॥
स्थितं सारस्वतं तोयं तत्र गर्तेषु तत्त्रयम् ॥ १४८ ॥
विख्यातं रेवतीकुंडं यत्र जाता च रेवती ॥
स्मरणाद्दर्शनात्स्नानात्सर्वपापक्षयो भवेत् ॥ १४९ ॥
सा बाला वर्द्धिता तेन प्रमुंचेन महात्मना ॥
यौवनं तु तया प्राप्तं तस्मिन्रैवतके गिरौ ॥ 7.2.17.१५० ॥
तां तु यौवनसंपन्नां दृष्ट्वाऽथ प्रमुचो मुनि ॥
एकांते चिन्तयामास कोऽस्या भर्ता भविष्यति ॥ १५१ ॥
हूत्वाहूत्वा स पप्रच्छ गुरुं वह्निं द्विजोत्तमः ॥
प्रसादं कुरु मे ब्रूहि कोऽस्या भर्ता भविष्यति ॥ १५२ ॥
अन्योऽस्याः सदृशः कोऽपि वंशे नास्ति करोमि किम् ॥
वह्निकुण्डात्समुत्थाय प्रोक्तवान्हव्यवाहनः ॥ १५३ ॥
शृणु मे वचनं विप्र योऽस्या भर्ता भविष्यति ॥
प्रियव्रतान्वयभवो महाबलपराक्रमः ॥ १५४ ॥
पुत्रो विक्रमशीलस्य कालिंदीजठरोद्भवः ॥
दुर्दमो नाम भविता भर्ता ह्यस्या महीपतिः ॥ १५५ ॥
अत्रांतरे समायातो दुर्दमः स महीपतिः ॥
गिरौ मृगवधाकांक्षी मुनिं गेहे न पश्यति ॥
प्रियेऽयि तातः क्व गत एहि सत्यं ब्रवीहि मे ॥ १५६ ॥
॥ नारद उवाच ॥ ॥
अग्निशालास्थितेनैव तच्छ्रुतं वचनं प्रियम् ॥
प्रियेत्यामन्त्रणं कोऽयं करोति मम वेश्मनि ॥ ॥ १५७ ॥
स ददर्श महात्मानं राजानं दुर्दमं मुनिः ॥
जहर्ष दुर्दमं दृष्ट्वा मुनिः प्राह स गौतमम् ॥ १५८ ॥
शिष्यं विनयसम्पन्नमर्घ्यं पाद्यं समानय ॥
एकं तावदयं भूपश्चिरकालादुपागतः ॥ १५९ ॥
जामाता सांप्रतं राजा योग्यास्य च सुता मम ॥
ततः स चिंतयामास राजा जामातृ कारणम्॥ 7.2.17.१६० ॥
मौनेन विधिना राजा जगृहेऽर्घ्यं द्विजाज्ञया ॥
तमासनगतं विप्रो गृहीतार्घ्यं महामुनिः ॥ १६१ ॥
प्रस्तुतं प्राह राजेन्द्रं नृपते कुशलं पुरे ॥
कोशे बले च मित्रे च भृत्यामात्य प्रजासु च ॥
तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम् ॥ १६२ ॥
पत्नी च ते कुशलिनी याऽत्र स्थाने हि तिष्ठति ॥
अन्यासां कुशलं ब्रूहि याः संति तव मंदिरे ॥ १६३ ॥
॥ राजोवाच ॥ ॥
त्वत्प्रसादादकुशलं नास्ति राज्ये क्वचिन्मम ॥
जातकौतूहलोऽस्म्यस्मि मम भार्याऽत्र का मुने ॥ १६४ ॥
॥ प्रमुच उवाच ॥ ॥
रेवती ते वरा भार्या किं न वेत्सि नृपोत्तम ॥
त्रैलोक्यसुन्दरी या तु कथं सा विस्मृता तव ॥ १६५ ॥
॥ राजोवाच ॥ ॥
सुभद्रां शांतपापां च कावेरीतनयां तथा ॥
सूरात्मजानुजातां च कदंबां च वरप्रजाम् ॥ १६६ ॥
विपाठां नंदिनीं चैव वेद्मि भार्यां गृहे मम ॥
तिष्ठन्ति नैव जानामि भार्या मे रेवती कुतः ॥।३६७ ॥
ऋषिरुवाच ॥ ॥
प्रियेति सांप्रतं प्रोक्ता रेवती सा प्रिया तव ॥
तदन्यथा न भविता वचनं नृपसत्तम ॥ १६८ ॥
॥ राजोवाच ॥ ॥
नास्ति भावकृतो दोषः क्षम्यतां तद्वचो मम ॥
विनिर्गतं वचोवक्त्रान्नाहं जाने द्विजोत्तम ॥ १६९ ॥
॥ ऋषिरुवाच ॥ ॥
नास्ति भावकृतो दोषः परिवेद्मि कुरुष्व तत् ॥
वह्निना कथितस्त्वं मे जामाताद्य भविष्यसि ॥ 7.2.17.१७० ॥
इत्यादिवचनै राजा भार्या मेने स रेवतीम् ॥
ऋषिस्तथोद्यतः कर्तुं विवाहं विधि पूर्वकम् ॥
उवाच कन्या पितरं किञ्चिन्मे श्रूयतां पितः ॥ १७१ ॥
यदि मे पतिना तात विवाहं कर्तुमिच्छसि ॥
रेवत्यृक्षं विवाहं मे तत्करोतु प्रसादतः ॥ १७२ ॥
॥ ऋषिरुवाच ॥ ॥
रेवत्यृक्षश्च न वै भद्रे चन्द्रयोगे दिवि स्थितम् ॥
ऋक्षाण्यन्यान्यपि संति सुभ्रूर्वैवाहकानि च ॥ १७३ ॥ ॥
॥ कन्योवाच ॥ ॥
तात तेन विना कालो विकलः प्रतिभाति मे ॥
विवाहो विकले तात मद्विधायाः कथं भवेत् ॥ १७४।
॥ प्रमुञ्च उवाच ॥ ॥
ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति ॥
चकार कोपं क्रुद्धेन तेनर्क्षं तन्निपातितम् ॥ १७५ ॥
मया चास्मै प्रतिज्ञाता भार्येति विदितं तव ॥
न चेच्छसि विवाहं त्वं संकटं नः समागतम् ॥ १७६ ॥
॥ कन्योवाच ॥ ॥
ऋतवागेव स मुनिः किमेतत्तप्तवान्स्वयम् ॥
न त्वया मम तातेन ब्रह्मबन्धोः सुताऽस्मि किम् ॥ १७७ ॥
॥ ऋषिरुवाच ॥ ॥
ब्रह्मबन्धोः सुता न त्वं तपस्वी नास्ति मेऽधिकः ॥
सुता त्वं च मया देया नान्यत्कर्तुं समुत्सहे ॥ १७८ ॥
॥ कन्योवाच ॥ ॥
तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि ॥
समारोप्य विवाहो मे कस्मान्न क्रियते पुनः ॥ १७९ ॥
॥ ऋषिरुवाच ॥ ॥

एवं भवतु भद्रं ते भद्रे प्रीतिमती भव ॥
आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव ॥ 7.2.17.१८० ॥
ततस्तपःप्रभावेन रेवत्यृक्षं महामुनिः ॥
यथा पूर्वं तथा चक्रे सोमयोगि द्विजोत्तमः ॥
विवाहं दुहितुः कृत्वा जामातरमुवाच ह ॥ १८१ ॥
औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम्॥
दुष्प्रापमपि दास्यामि विद्यते मे महत्तपः ॥ १८२ ॥
॥ राजोवाच ॥ ॥
मनोः स्वायंभुवस्याहमुत्पन्नः संततौ मुने ॥
मन्वंतराधिपं पुत्रं त्वत्प्रसादाद्वृणोम्यहम् ॥ १८३ ॥
॥ ऋषिरुवाच ॥ ॥
भविष्यति महीपालो महाबलपराक्रमः॥
रेवती रेवतीकुण्डे स्नात्वा पुत्रं जनिष्यति॥ १८४॥
एवं कृत्वा गतो राजा सा च पुत्रमजीजनत्॥
रैवतेति कृतं नाम बभूव स मनुर्नृपः॥ १८५॥
अमुना च तदा प्रोक्तमस्मिन्रैवतके गिरौ॥
स्त्रियः स्नानं करिष्यंति तासां पुत्रा महाबलाः॥
दीर्घायुषो भविष्यंति दुःखदारिद्र्यवर्जिताः ॥ १८६ ॥
॥ नारद उवाच ॥ ॥
इत्युक्ते पर्वतो राजन्दीर्घो भूत्वा पपात सः ॥
एतौ तौ संस्मृतौ देवौ सभार्यौ हरिशंकरौ ॥ १८७ ॥
स्मृतमात्रौ तदाऽऽयातौ तेन बद्धौ पुरा यतः ॥
यत्राहं तत्र स्थातव्यं भवद्भ्यामिति निश्चितम् ॥१८८॥
अतो विष्णुहरौ देवौ स्थितौ तौ पर्वतोत्तमे ॥
गिरौ रैवतके रम्ये स्वर्णरेखानदीजले ॥
आराधयद्धरिं देवं रेवती तां च सोब्रवीत् ॥ १८९ ॥
भवताच्चंद्रयोगस्ते गगने ब्राह्मणाज्ञया ॥
अन्यद्वृणीष्व तुष्टोऽहं वरं मनसि यत्स्थितम् ॥ 7.2.17.१९० ॥
॥ रेवत्युवाच ॥ ॥
गिरौ रैवतके देव स्थातव्यं भवता सदा ॥
मया स्नानं कृतं यत्र तत्र स्नास्यंति ये जनाः ॥ १९१ ॥
तेषां विष्णुपुरे वासो भवत्विति वृतं मया ॥
एवमस्तु तदा प्रोच्य गिरौ रैवतके स्थितः ॥
दामोदरश्चतुर्बाहुः स्वयं रुद्रोपि संस्थितः ॥ १९२ ॥
गंगाद्याः सरितः सर्वाः संस्थिता विष्णुना सह ॥
क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः ॥ १९३ ॥
आमर्द्दे देवदैत्यानां तेन सामर्दकी स्मृता ॥ ॥
अस्मिन्वृक्षे स्थिता लक्ष्मीः सदा पितृगृहे नृप ॥ १९४ ॥
शिवालक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ॥
देवैर्ब्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः॥ १९५॥
सर्वैः संचिंत्य मुक्तोऽसौ गिरौ रैवतके पुरा॥
अस्य वृक्षस्य यात्रां ये करिष्यंति हरेर्दिने ॥ १९६॥
फाल्गुने च सिते पक्ष एकादश्यां नृपोत्तम॥
तेषां पुत्राश्च पौत्राश्च भविष्यंति गुणाधिकाः॥
प्रांते विष्णुपुरे वासो जायतेनात्र संशयः ॥१९७॥
॥ बलिरुवाच ॥ ॥
कथमेतद्व्रतं कार्यं वैष्णवं विष्णुवल्लभम् ॥
रात्रौ जागरणं कार्यं विधिना केन तद्वद ॥ १९८ ॥
॥ नारद उवाच ॥ ॥
फाल्गुनस्य सिते पक्ष एकादश्यामुपोषितः ॥
स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा ॥ १९९ ॥
गत्वा गिरौ वने वाऽपि यत्र सा प्राप्यते शिवा ॥
पूज्या पुष्पैः शुभै रात्रौ कार्यं जागरणं नरैः ॥ 7.2.17.२०० ॥
अष्टाधिकशतैः कार्या फलैस्तस्याः प्रदक्षिणा ॥
प्रदक्षिणीकृत्य नगं भोक्तव्यं तु फलं नरैः ॥२०१॥
करकं जलपूर्णं तु कर्त्तव्यं पात्रसंयुतम् ॥
हविष्यान्नं तु कर्त्तव्यं दीपः कार्यो विधानतः ॥ २०२ ॥
एवं जागरणं कार्यं कथाश्रवणतत्परैः ॥
मुच्यंते देहिनः पापैः कलिजैः कायसंभवैः ॥ २०३ ॥
देहांते ते नराः सर्वे पूज्यंते हरिमंदिरे ॥ २०४ ॥
॥ सारस्वत उवाच ॥ ॥
इत्युक्त्वा नारदो दैत्यं ययौ रैवतकं गिरिम् ॥
दैत्येन्द्रो मंत्रयामास किंकार्यं सांप्रतं मया ॥ २०५ ॥
न रोचते सुरैः सार्द्धं विग्रहो मे सुरोत्तमाः ॥ २०६ ॥
॥ मंत्रिण ऊचुः ॥ ॥
नास्ति क्षमा भृशं तेषां क्षत्रियाणां गृहे सताम्॥
अशक्तमपि मंस्यंते स्वयमायांति ते यतः ॥
तस्मात्स्वयं प्रयास्यामो देवेन्द्रं सहिता वयम् ॥ २०७ ॥
इति श्रुत्वा ददौ ढक्कां प्रथमं सुरविग्रहे ॥
गृहीत्वा वाहिनीं दैत्याः प्रस्थिता मेरु पर्वते ॥ २०८ ॥
यत्र सा नगरी रम्या देवराजस्य पूर्वतः ॥
आगच्छमानां तां ज्ञात्वा वाहिनीं मेरुपर्वते ॥ २०९ ॥
देवराजसमादेशाच्चलिता देव वाहिनी ॥
सुमेरोः पूर्वदिग्भागे युद्धमासीत्परस्परम्॥ 7.2.17.२१० ॥
देवसैन्यं यदा सर्वं दैत्यसैन्येनसंयुतम्॥
महाप्रलयसादृश्यं युद्धं वृत्तं तदा तयोः ॥ ॥ २११ ॥
ऐरावणं समारुह्य देवराजः समागतः ॥
रथमारुह्य दैत्येन्द्रो युद्धायान्ये समागताः ॥ २१२ ॥
देवा यज्ञभुजो यस्मात्तस्मान्न युद्ध कांक्षिणः ॥
ऐरावणो बलिं दृष्ट्वा न चचालाग्रतो मृधे ॥ २१३ ॥
संग्रामे विमुखो याति दिग्गजैः परिवेष्टितः ॥
अध्वरे बाहुना येन संकल्पं कृतवान्बलिः ॥ २१४ ॥
तेन वै स सुरान्सर्वान्वारयामास संयुगे ॥
वारिता विमुखा यांति देवराजः करोतु किम् ॥ २१५ ॥
कुलिशं न कुरुते कर्म भुजमुक्तं न गच्छति ॥२१६॥
एवं बहूनि युद्धानि निवृत्तानि तदा तयोः ॥
 न हंतुं शक्यंते युद्धे देवैर्दैत्या महाबलाः ॥ २१७ ॥
बलाकांक्षाः स्थिता देवा गुरुणा ते प्रबोधिताः॥
अमरा देवताः सर्व इति शुक्रेण वारिताः ॥ २१८ ॥
अवतारं हरेर्ज्ञात्वा पञ्चमं वामनं स्थितम् ॥
अतिहृष्टोऽमरावत्यां राज्यं चक्रे सुरेश्वरः ॥ २१९ ॥
ननर्त्त युद्धे दैत्येन्द्रः स्वगृहे यजते सुरान्॥
पातालाभिसृता दैत्या राज्यं कुर्वंति मानवाः ॥ 7.2.17.२२० ॥
तदा देवगणाः सर्वे मन्त्रयन्ति सुरैः सह ॥
दैत्यो लोकद्वयं शास्ति स्वर्गं शास्ति सुरेश्वरः ॥ २२१ ॥
क्षंतव्यं तावदेवास्य वामनो रैवतं गिरिम्॥
यावद्याति सुरैः कार्यं मौनं दैत्यजितैरपि ॥ २२२ ॥
यदाप्रभृति सञ्जातो वामनो धरणीतले ॥
तदाप्रभृति दैत्यानां दुनिर्मित्तानि जज्ञिरे ॥ २२३ ॥
शिवा प्रविश्य नगरे रौति सा विस्वरं निशि ॥
भ्रमन्ति नगरे काका दिवारात्रं विराविणः ॥ २२४ ॥
सर्प्पाः सर्प्पंति गेहेषु कृष्णा रौद्रा विषोल्बणाः ॥
कंका गृध्रा बका भ्रांता भ्रमन्ति नगरोपरि ॥ २२५ ॥
जायन्ते विमुखा गर्भाः स्त्रीषु गोषु मृगीषु वा ॥
घृतं दुग्धं च नैवास्ति तिले तैलं न विद्यते ॥ २२६ ॥
जने जानपदो नित्यं युध्यते च परस्परम् ॥
काली करालवदना दीर्घकेशी विलोचना ॥ २२७ ॥
अज्ञाता रुदती याति नगरे सा गृहं प्रति ॥
कोऽयं न ज्ञायते कस्मात्तपस्वी भस्मगुंठितः ॥ २२८ ॥
यतिर्मौनव्रती नग्न पुरो याति गृहेगृहे ॥
डमरूड्डामरुं पश्चाद्धुंकारं विदधाति च ॥२२९॥
अकाले कुपिता मेघा जलं मुञ्चंति पुष्कलम् ॥
करकैः पूरिता गर्भा गर्जंति गिरयो बहु ॥ 7.2.17.२३० ॥
समजायत भूकंपो दिग्दाहश्चाप्यजायत ॥
मिलित्वा श्वगणः सर्वो मुखमुच्चैर्विधाय च ॥ २३१ ॥
रौति रात्रौ पुरे नित्यं घूकः शब्दं विशब्दते ॥
बलिराज्यक्षयो जातो दिवि केतूदयो निशि॥ ॥ २३२ ॥
आदित्यमण्डले वेधः कीलकैर्दृश्यते कृतः ॥
कबन्धसंकुले व्योम्नि चन्द्रमा न प्रकाशते ॥ २३३ ॥
स जातो रोहिणीवेधो यो जातो युगव्यत्यये ॥
नक्षत्राणि दिवा लोकैर्गण्यन्ते गुणवत्तरैः ॥ २३४ ॥
बीजानां व्यत्ययो जज्ञे भूमिस्त्रीगोमृगीषु च ॥
अश्वा ह्रेषंति सहसा मदं कुर्वंति नो गजाः ॥ २३९ ॥
मन्त्रिणां मंत्रितो मन्त्रो भिद्यते राज्यसंक्षये ॥
घृताहुत्या हुतो वह्निर्ज्वलति न तदा द्विजैः ॥ २३६ ॥
प्रचण्डः पावनो वाति वात्यया घूर्णितद्रुमः ॥
ध्वजा ज्वलन्ति चैत्येषु नभो भवति धूसरम् ॥ २३७ ॥
एते चान्ये च बहव उत्पाता बलिनो गृहे ॥
संजाता वामने जाते नारदागमनादनु ॥ २३८ ॥
अन्यच्च जायते रौद्रं यद्दिवा स्वप्नदर्शनम् ॥
संनह्यंते यदा दैत्याः पतिता निपतंति च ॥ २३९ ॥
निमित्तानि स सैन्यस्य दृष्ट्वैवं न प्रवर्त्तते ॥
सदा संतिष्ठते गेहे राज्यं च कुरुते बलिः ॥ 7.2.17.२४० ॥
शरीरे न सुखं तस्य गात्रभंगः शिरोव्यथा ॥
ज्वरितो न सुखं शेते न भुंक्ते न पिबत्यसौ ॥
न भुक्तं जीर्यते लोकः सर्वोपि व्याकुलीकृतः ॥२४१॥
विपरीतं जगद्दृष्ट्वा बलिर्व्याकुलमानसः ॥
मन्त्रयामास किमिदं ब्राह्मणैः सह दुःखितः ॥ २४२ ॥
शुक्रं गुरुं समानीय सभायां संनिवेश्य च ॥
पप्रच्छ कुशलं दैत्यो भक्त्या परमया युतः ॥
विपरीतमिदं सर्वं वर्त्तते तद्वदस्व मे ॥ २४३ ॥
नारदेन यदुक्तं मे गुरो सत्यं भविष्यति ॥
उत्पातशांतिकं ब्रूहि ब्राह्मणैः सहितो मम ॥ २४४ ॥
॥ शुक्र उवाच ॥ ॥
उत्पातशांतये कार्यो यज्ञः सर्वस्वदक्षिणः ॥
ब्राह्मणैः क्षत्रियैः सार्द्धं द्वादशाब्दो विधीयताम् ॥ २४५ ॥
ऋषयो ब्राह्मणा ये च मुनयो ब्रह्मचारिणः ॥
आगच्छन्तु महायज्ञे ये च दूरेऽपि संस्थिताः ॥ २४६ ॥
नगरात्पूर्वदिग्भागे कर्त्तव्यो यज्ञमण्डपः ॥
यस्य यस्याभिरुचितं देयं दानं त्वया नृप ॥
तथा करिष्य इत्युक्त्वा यज्ञार्थं तत्परोभवत् ॥ २४७ ॥
आनाय्य ब्राह्मणान्सर्वान्कुशलान्यज्ञकर्मणि ॥
गृहीता यज्ञदीक्षा तैर्यज्ञे वै सर्व दक्षिणे ॥ २४८ ॥
ब्राह्मणाय मया देयं सर्वस्वमिह याचिते ॥
शरीरपुत्रमित्राणि दारान्दास्यामि याचितः ॥ २४९ ॥
दातव्यं सततं दानं ब्राह्मणेभ्यो मयाध्वरे ॥
वारितेनापि न स्थेयं दातव्यं निश्चितं मया ॥
याचितश्चेन्न दास्यामि तदा व्यर्थो ममाऽध्वरः ॥7.2.17.२५०॥
विधाय मण्डपं दिव्यं बहुयोजनविस्तरम् ॥
तत्र दानानि दीयन्ते भोजनाच्छादनानि च ॥ २५१॥
सप्तर्षयः समायाता गगनाद्धरणीतले ॥
दिग्भ्यः समागताः सर्वे ब्राह्मणाः संति ये भुवि ॥ २५२ ॥
क्षत्रियाश्च समायाता विगृह्य विविधं वसु ॥
निवेदयन्ति ते राज्ञे प्रारब्धे यज्ञकर्मणि ॥ २५३ ॥
आसमुद्रात्समायाता नटनर्त्तकयाचकाः ॥
गीतवादित्रनिर्घोषो वेदध्वनिविमिश्रितः ॥ २५४ ॥
त्रैलोक्यं बधिरीचक्रे देहिदेहीति याचितम् ॥
मा देहीति वचो नास्ति स्तोकं देहीति चैव न ॥ २५५ ॥
यद्यद्यो याचते वस्तु तत्तस्मै तत्र दीयते ॥
ब्राह्मणो हि न सोऽप्यस्ति यो हि तं बहु याचते ॥ २५६ ॥
भोजनाच्छादनार्थं च न गृह्णंति द्विजातयः ॥
सुवर्णरत्नरौप्याणि तथाश्वरथकुंजरान्॥२५७॥
गृहगोभूमिग्रामांश्च न गृह्णंति द्विजातयः ॥
बलिराज्येन संतुष्टाः किं कुर्वति धनेन ते ॥ २५८ ॥
एवं प्रवर्तते यज्ञो महान्सर्वस्वदक्षिणः ॥ २५९ ॥
नृत्यंति गायंति पठंति चान्ये स्तुवंति यज्ञं बहुदानयुक्तम् ॥
ब्रह्मेन्द्र रुद्रग्रहसूर्यचंद्राः प्रसादिता आहुतिभिश्च मन्त्रैः ॥ 7.2.17.२६० ॥
बलिं प्रशंसंति गुरुं तथान्ये होतारमेके परिवारमेके ॥
प्रजापतेर्नापि सुराधिपस्य समाप्यते चेदथ यास्यति धुवम्॥
प्रदाय राज्यं द्विजपुंगवेभ्यः सपुत्रमित्रैः सहितो रसातलम् ॥२६१॥
इतीति वाचः प्रवदंति वाडवाः शृण्वंति दैत्याः किमिदं वदंति ॥
बलेः पुरःस्थाः कथयंति संगता बलिः प्रहृष्टः प्रददाति याचितम् ॥ २६२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये बलियज्ञप्रभाववर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥