स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →
शिवेन कपालपातेन द्रोहण नामकस्य असुरस्य मृत्युः।


।। सनत्कुमार उवाच ।। ।।
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम् ।।
इह देवो ऽत्र देवोऽत्र विविशुस्ते दिदृक्षवः ।। १ ।।
अद्भुतस्य वनस्यांते न ते ददृशिरे सुराः ।।
विचिन्वंतो महादेवं देवैर्बहुविलोकितः ।।२।।
तमुवाच स भद्रं वै द्रक्ष्यध्वं न तपो विना ।।
विचिन्वन्तो विरूपाक्षं नैनं पश्यत शंकरम् ।। ३ ।।
स युक्तं हृदये स्मृत्वा ब्रह्मा देवांस्ततोऽब्रवीत् ।।
त्रिविधो दर्शनोपायस्तस्य देवस्य सर्वदा ।। ४ ।।
श्रद्धाज्ञानेन तपसा योगेनैव निगद्यते ।।
सकलं निष्कलं चापि देवाः पश्यंति योगिनः ।। ५ ।।
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम् ।।
समुत्पन्नेऽपि विज्ञाने मंदश्रद्धो न पश्यति ।। ६ ।।
भक्त्या परमयोपेताः परं पश्यंति योगिनः ।।
द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः ।। ७ ।।
नादीक्षितैरतो देवाः शैवीं दीक्षां प्रपद्यत ।।
कर्मणा मनसा वाचा नित्ययुक्ता महेश्वरे ।। ८ ।।
तपश्चरत भद्रं वो रुद्राराध नतत्पराः ।।
शिवदीक्षां प्रपन्नानां भक्तानां च तपस्विनाम् ।। ९ ।।
सर्वकालं विजानाति दातव्यं दर्शनं मया ।।
ब्रह्मणो वचनं श्रुत्वा हितमेव यदु क्तवान् ।। 5.1.6.१० ।।
शिवेक्षाविष्टमतयो ब्रह्माणमिदमबुवन् ।।
मार्गेण विधिना चैव शिवदीक्षासु तत्पराः ।। ११. ।।
प्रयच्छ ब्रह्मन्सर्वेषां दीक्षां नः शिवतोषदाम्।।
श्रुत्वेति वचनं ब्रह्मा प्रत्युवाच विचारितम् ।। १२ ।।
संदिदीक्षयिषुः क्षिप्रममराञ्छिवदीक्षया ।।
शिवयज्ञार्थसंभारानानयध्वमलं सुराः ।। १३ ।।
वेदी प्रकल्प्यतामत्र यष्टव्योऽष्टतनुः शिवः ।।
पद्मयोनेर्वचः श्रुत्वा चक्रुः सर्वमतः सुराः ।। १४ ।।
विनीतवेषाः प्रणता अनेन सस्तमन्वगुः ।।
शिवप्रसादसंप्राप्त्यै पुष्करज्ञानमीरितम् ।। १५ ।।
यज्ञं चकार विधिना वेधाश्चन्द्रार्धधारिणः ।।
पद्मयोनिः पुरस्कृत्य तदा दीक्षां प्र योगतः ।।१६।।
अनुग्रहेण देवांस्तानकारयत भावतः ।।
ततो व्रतानां प्रवरं व्रतं दिव्यं महाप्रभुः ।।१७।।
तेभ्यो ददौ देवताभ्यः स तदप्यविरोधवित् ।।
पठ्यते शिवशालायां महापाशुपतं व्रतम्।।१८।।
शैवं यथोदितं यच्च आगमाचारचेष्टितम् ।।
शिवाराधनमुख्यानां मुनीनां तीव्रतेजसाम् ।।१९।।
सर्वानुग्राहकः शंभुः सर्वदेवैः प्रकल्पितम् ।।
तदेवं प्रार्थितं बुद्ध्या व्रतं रौद्रं शिवं समम् ।। 5.1.6.२० ।।
तत्तेभ्यो विस्मयं त्यक्त्वा प्रायच्छत्कनकांडजः ।।
कामिकं भस्मनामाढ्यं सर्वदा कीर्तितं शुभम्।। २१ ।।
पापघ्रं दुःखशमनं पुष्टिश्रीबलवर्धनम्।।
सिद्धिदं कीर्तिकृत्कांतं कलिकल्मषमोक्षणम्।।२२।।
तस्मात्सर्वप्रयत्नेन भस्मस्नानं समाहिताः ।।
कुर्वंतो मानवा दांता दीक्षिताः संयतेंद्रियाः ।। २३ ।।
सर्वे कमंडलुधराः सर्वे रुद्राक्षधारिणः ।।
अनिष्टदर्शनालाप संगत्या परिवर्जिताः ।। २४ ।।
एवं व्रतधराः सर्वे वने तस्मिन्महेश्वरम् ।।
आराधयंस्तमीशानं व्रतेनैव उमाधवम् ।। २५ ।।
भक्त्या परमया युक्ता विधिना परमेण च ।।
कालेन महता ध्यानादेवं ज्ञात्वा मनोगतम् ।। २६ ।।
रुद्रध्यानाग्निनिर्दग्धकल्मषाश्च श्रियान्विताः ।।
तदा हत्वाऽसुरं शंभुः प्रत्यक्षो भगवानभूत् ।। २७ ।।
।। सनत्कुमार उवाच ।। ।।
ब्रह्मदत्तं वरं देवाः सर्वे शर्वानुभाविताः ।।
समचीकरन्प्रत्युक्ता ब्रह्मापीशानभावितः ।। २८ ।।
गते वर्षसहस्रे स दिव्ये देवेश्वरेश्वरः ।।
जातानुकंपो देवानां दीपो दर्शनमेयिवान् ।। २९ ।।
गणैर्नानाविधैः सार्धं नानाभूषणभूषितैः।।
सुदर्पोद्भूतदर्पघ्रैघोरैर्घोरविघातिभिः ।। 5.1.6.३० ।।
कामरूपैरकामैश्च सर्वकामसमन्वितैः ।।
करींद्रकरटाटोपपाटनैः सिंहदेहिभिः ।। ३१ ।।
अणिमादि गुणैर्दिव्यैर्योगैश्वर्यादिनामभिः ।।
व्यालोलकेशरशनादंष्ट्राकटकटोद्भवैः ।। ३२ ।।
व्याघ्रव्यालाननै रौद्रैः काककंकवटैस्तथा ।। ३३ ।।
अरूपैः समरूपैश्च सुरूपैर्बहुरूपकैः ।।
एकद्वित्रिशिरोभिश्च बहुशीर्षैरशीर्षकैः ।। ३४ ।।
एकद्वित्रिशिखैश्चैव नानारूपविराजितैः ।।
बहुनेत्रैरनेत्रैश्च एकद्वित्रिविलो चनैः ।। ३५ ।।
एककर्णैर्द्विकर्णैश्च बहुकर्णैर्विकर्णकैः ।।
एकद्वित्रिसुनासैश्च बहुनासैरनासिकैः ।। ३६ ।।
एकजंघैर्द्विजंघैश्च बहुजंघैरजंघकैः ।।
एक पादैर्द्विपादैश्च बहुपादैरपादकैः ।। ३७ ।।
गौरश्यामैः श्यामगौरैरसितैः कर्बुरैस्तथा ।।
भुजंगहारवलयैः कृतयज्ञोपवीतकैः ।। ३८ ।।
शूलासिपट्टिश धरैर्भुशुंडीपीरघायुधैः ।।
चक्रक्रकचकोदंडकांडदंडास्त्रपाणिभिः ।। ३९ ।।
गदामुद्गरपाषाणमुशलायुधहस्तकैः ।।
वज्रशक्त्यशनिप्रासकुंतकर्तृक धारिभिः ।। 5.1.6.४० ।।
भंभाभेरीर्वादयद्भिर्वीणापणववेणुकान् ।।
मृदंगविमलाढक्काकाहलानकदुंदुभीन् ।। ४१ ।।
हुडंकाशृंगिकाद्यानि नानावाद्यानि वादकैः ।।
एवं नानाविधै रौद्रैर्भीमैर्भीमपराक्रमैः ।।४२।।
गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव ।।
आविर्भूतो महादेवः स्वगणैः परिवारितः ।।
तं पश्य तां तदा व्यास ब्रह्मादीनां दिवौकसाम् ।। ४३ ।।
अथ ब्रह्मादयो देवा दृष्ट्वाग्रे गणनायकम् ।।
तेजसाध्यासितास्तस्य बभूवुर्भ्रांतचेतसः ।। ४४ ।।
ततो ऽवलंब्य ते धैर्यं दृष्ट्वा देवं यथाविधि ।।
षडंगवेदयोगेन हृष्टचित्तवपुर्धराः ।। ४५ ।।
शिरोगतैरंजलिभिः पादेभ्यश्च महीं गतैः ।।
तुष्टुवुः सृष्टिसंहार स्थितिकर्तारमीश्वरम् ।। ४६ ।।
।। देवा ऊचुः ।। ।।
नमः शिवाय शांताय सगणाय सनंदिने ।।
वृषासनाय सौम्याय शूलशक्तिधराय ते ।।४७।।
नमो दिक्चर्मवस्त्राय शुचये तीव्रतेजसे ।।
ब्रह्मणे ब्रह्मदेहाय ब्रह्मणा योजिताय च ।। ४८ ।।
नमोंधकविनाशाय परेशाय नमोनमः ।।
रुद्राय पंच वक्त्राय सर्वरोगापहारिणे ।। ४९ ।।
गिरिशाय सुरेशाय ईशानाय नमोनमः ।।
भीमोग्रादिस्वरूपाय विजयाय नमोनमः ।। 5.1.6.५० ।।
सुरासुराधिपतये यतीनां पतये नमः ।।
चंडाय चंडदंडाय वरखट्वांगदंडिने ।। ५१ ।।
विरूपाक्षशुभाख्याय विश्वरूपाय वै नमः ।।
शांताय च मनोज्ञाय त्रिनेत्राय नमोनमः ।। ५२ ।।
वेधसे विश्वरूपाय दैत्यसंहारिणे नमः ।।
भक्तानुकंपिनेऽत्यर्थं रुद्रज्ञानपराय च ।। ५३ ।।
विरूपाय सुरूपाय रूपाणां शतधारिणे ।।
पंचास्याय शुभास्याय चन्द्रास्याय नमोनमः ।। ५४ ।।
वरदाय वराहाय सुकूर्माय नमोनमः ।। ५५ ।।
त्रिनेत्र त्राणमस्माकं त्रिपुरघ्न विधीयताम् ।।
वाङ्मनःकायभावैस्त्वां प्रपन्नानां महेश्वर ।। ५६ ।।
।। सनत्कुमार उवाच ।। ।।
एवं स्तुतस्तदा देवैर्विरिंच्याद्यैस्तथा हरः ।।
शरीराणि विलोक्येशः कृशान्यथ दिवौकसाम् ।। ५७ ।।
दिव्यप्रतापधारेण त्रिवेधेनांतरात्मना ।। ५८ ।।
आराधनं समीक्ष्याह ब्रह्मादीनां सुरेश्वरः ।।
साधुसाधु महाभागाः शश्वद्व्रतमुपासितम् ।। ५९ ।।
दिव्येनानेन विधिना भृशमाराधितो ह्यहम् ।।
भवद्भिः श्र द्धयात्यर्थं मम दर्शनकांक्षया ।। 5.1.6.६० ।।
व्रतस्था मां हि पश्यंति मानुषा देवता अपि ।।
यदि यच्च प्रयच्छामि कांश्चिद्वो हि वराञ्छुभान् ।। ६१ ।।
एकैकशो द्वित्रिशो वा समस्तेभ्यः समेन वः ।।
सर्वकामप्रसिद्ध्यर्थं दास्याम्येनं वरं हि वः ।। ६२ ।।
हिताय भवतां चाहमागामुज्जयिनीं प्रति ।।
क्षिप्तं कपालं च मया किं पुनर्भद्रमस्तु वः ।। ६३ ।।
।। देवा ऊचुः ।। ।।
किं कृतं हितमस्माकं कपालं क्षिपता त्वया ।। ६४ ।।
किमर्थं कंपिता भूमिस्त्रैलोक्यं व्याकुलीकृतम् ।।
नैतन्निरर्थकं देव कथ्यतामत्र कारणम् ।। ६५ ।।
।। महादेव उवाच ।। ।।
युष्मद्धितार्थमेतद्वै भयं विनिहितं कृतम् ।।
देवतानां तु रक्षार्थं श्रूयतामत्र कारणम् ।। ६६ ।।
असुरो द्रोहणोनाम बलवान्योगमायिकः ।।
अवस्थितस्त्ववष्टभ्य रसातलतला श्रयम् ।। ६७ ।।
तस्य दैत्यस्य बलिनो दैत्याः परपुरंजयाः ।।
युष्माञ्ज्ञात्वा तपस्थांश्चाप्यभ्यगुर्बहवो हि ते ।। ६८ ।।
सेंद्रान्निहंतुमिच्छंतो माया प्रच्छन्नचारकाः ।।
पुरीं कनकशृंगाढ्यामेनामधि कुशस्थलीम्।।
समुद्ययुः सुरान्हंतुमुद्यता उद्यतायुधाः ।। ६९ ।।
तेषां कपालपातेन भूमिनिष्कं पनेन च ।।
शब्देन चातिघोरेण देहात्प्राणा विनिर्ययुः ।। 5.1.6.७० ।।
लोकस्थितिविनाशाथ तेषामासीत्समुद्यमः ।।
राज्यैश्वर्येण दर्पिष्ठास्तेन ते निहता मया ।। ७१ ।।
।। देवा ऊचुः ।। ।।
विश्वस्तानां पुनश्चैवमेव चानुग्रहः कृतः ।।
देवानुग्रहकर्ता त्वं गुणस्मृतिनिषेवितः ।। ७२ ।।
दिव्यदृष्टिभिरत्यर्थं यशोऽर्थं भीम नंदिताः ।।
इत्युक्त्वा प्रणतान्देवानुत्थाप्योचे पुनर्भवः ।। ७३ ।।
।। शिव उवाच ।। ।।
परिचर्याभिसंयुक्तं नित्यमुग्रनिषेवितम्।।
ध्यानसाधननिष्पन्नं यदन्येषां न विद्यते ।। ७४ ।।
मनोवाक्कायभावेन दुष्करं दुश्चरं तपः ।।
अनेन तपसा युक्ताः कष्टेन दुःसहेन च ।। ७५ ।।
महता तनुसाध्येन बहुकालार्जितेन वः ।।
समंतादभिवर्धेतां युष्मत्तेजस्तपोऽपि च ।। ७६ ।।
।। सनत्कुमार उवाच ।। ।।
इत्युक्ता देवदेवेन देवा ब्रह्मपुरोगमाः ।।
ऊचुरुन्नाम्य वक्त्राणि स्थिता जानुभिरीश्वरम् ।। ७७ ।।
।। देवा ऊचुः ।। ।।
प्राणदस्त्वं कारणस्त्वं तपसां देव दृश्यसे ।।
तदस्माकं प्रवृत्तानां मानुषाणां वरप्रद ।। ७८ ।।
रक्षां कुरुष्व देवेश भक्तानामभयंकर ।। ७९ ।।
।। ईश्वर उवाच ।। ।।
यत्नेन विधिना दत्तं सुव्यक्तं दर्शनं हि वः ।।
सुदुर्लभान्यपि पुनर्दास्यामि वो वरान्बहून् ।। 5.1.6.८० ।।
एवमुक्ते भगवता ब्रह्मा वचनमब्रवीत् ।।
देवानामग्रतः स्थित्वा श्रुतशब्दोद्भवं भवम् ।। ८१ ।।
प्राप्ता वयं च भगवन्सुपर्याप्तो महावरः ।।
जायतां नः सदैश्वर्यं वासस्थानमथाक्षयम् ।। ८२ ।।
।। ।। शिव उवाच ।। ।।
लोकेऽस्मिन्मम ये भक्ता मया विनिहताश्च ये ।।
नैवं ते दुर्गतिं यांति लभंते सुमतिं पराम् ।। ८३ ।।
सार्धं तत्र जटाजूटैः शिरोभिः शूलपाणयः ।।
भांति मद्वामपार्श्वस्था इमे ते दारुणा गणाः ।। ८४ ।।
येषां विनिग्रहार्थाय युष्मत्संबोधनाय च ।।
सविकारं मया क्षिप्तं कपालं धरणीतले ।।८५।।
कृतो मेऽनुग्रहस्तेषां भक्तानां भक्तिमिच्छताम् ।।
वनेऽस्मिन्नित्यवासो मे वृक्षैरभ्यर्थितस्य च ।। ८६ ।।
महाकालवने देवा आगतस्य ममानघाः ।।
तपस्यतां च भवतां महाकालवनं ततः ।। ८७ ।।
नामद्वययुतं गुह्यं लोके ख्यातं भविष्यति ।।
गुह्यं वनं श्मशानं च क्षेत्राणां प्रवरं महत् ।।८८।।
कपालव्रतचर्या च मया ह्येषा प्रकीर्तिता ।।
कपालपात्रे भुंजानः कपालव्रतभूषणः ।।८९।।
कपालपाणिः संतुष्टो भिक्षा व्रतसमन्वितः ।।
श्मशाननिलयो रौद्रो व्रतोन्मत्तविमूढधीः।।5.1.6.९०।।
नंदितः सर्वभूतेषु प्रियाप्रियसमः सदा ।।
भस्मभूषितसर्वांगो ज्ञानी चैव विशेषतः ।।९१।।
जितेंद्रियोऽसर्वसंगो मृद्भस्मोदकसंग्रही ।।
नित्ययुक्तः सदाव्यापी जापी जितवरासनः ।। ९२ ।।
पुण्यतीर्थाश्रमोपेतः स्वरे देवे समाहितः ।।
लोकातीतं परं ज्ञानं महापाशुपतं व्रतम् ।। ९३ ।।
कपालव्रतमास्थाय पुरा चीर्णं मया स्वयम् ।।
कपालं परमं गुह्यं पवित्रं पापनाशनम् ।। ९४ ।।
कपालव्रतमेतद्धि दुर्धरं परमाद्भुतम् ।।
अत्यंतमुत्कटं रौद्रमघोरं लोमहर्षणम् ।। ९५ ।।
महाव्रतं द्विषन्मोहात्पापेनैव स्थितो नरः ।।
न मुच्यते स पापेन जन्मकोटिशतैरपि ।। ९६ ।।
महापाशुपतं तस्मान्न हन्यान्न च दूषयेत् ।।
एतस्मिन्निहते तस्मात्कोटिर्भवति घातिता ।। ९७ ।।
एवं महाव्रतं यस्तु भोजयेच्छ्रद्धयान्वितः ।।
तस्य भुक्ता भवेत्कोटिर्विप्राणां वेदपाठिनाम् ।। ९८ ।।
कपालपूरणीं भिक्षां यतीनां यः प्रयच्छति ।।
विमुक्तः सर्व पापेभ्यो नासौ दुर्गतिमाप्नुयात् ।। ९९ ।।
कपाले भोजनं श्रेष्ठं मार्गोऽयं ब्रह्मसंभवः ।।
वदंति लोके वेदेषु पूजितं देवदानवैः ।। 5.1.6.१०० ।।
धारयिष्यंति ये विप्राः कपालं भूतमोहनम् ।।
मम तुल्यास्तु ते ब्रह्मन्विचरंति महीतले ।। १ ।।
जपैकनिरता धीराः कपालकृतभूषणाः ।।
महापाशुपता लोके रुद्राः संसारतारकाः ।। २ ।।
धर्माधर्मविमुक्ताश्च कृत्याकृत्यविवर्जिताः ।।
दीक्षया ज्ञानयोगेन प्राणिनस्तारयंति ते ।। ३ ।।
यानि तीर्थानि लोकेऽस्मिन्यज्ञकोटिशतानि च ।।
विशुद्धस्य विज्ञानस्य कलां नार्हंति षोडशीम् ।। ४ ।।
यथाहं सर्वदेवानां संपूज्यो वै पितामह ।।
तथैव सर्वयोगेभ्यः संपूज्योऽयं महाव्रती ।। ५ ।।
संसारबन्धमोक्षार्थं शिवगुह्यमिदं व्रतम् ।।
यदेतत्सर्वधर्मेण अपुनर्भवकारणम्।। ६ ।।
कपालव्रतमादाय यस्त्यजेदजिते न्द्रियः ।।
रौरवं स प्रयात्याशु प्रणीतो यमकिंकरैः ।। ७ ।।
आलापयति भावेन न तु कर्म करोति यः ।।
सरागचित्तः शृंगारी न च धर्मप्रियंकरः ।। ८ ।।
एकत्र भोजी मिष्टाश्ी कैतवेन प्रियस्तथा ।।
कुग्रामनगरे वासी कृषिवाणिज्यसेवकः ।। ९ ।।
इत्यादिदुष्टदोषश्च तस्य संभाषणादपि ।।
नरो नरकगामी स्याद्यतो मद्व्रतदूषकः ।। 5.1.6.११० ।।
दृष्ट्वा च शिष्टमथ ३ महाव्रतधरो नरः ।।
न स्पृशेदंगमंगेन स्पृष्ट्वा स्नायात्तु चांबुभिः ।। ११ ।।
एवं च सर्वमाख्यातं कपालस्य च मोक्षणम् ।।
यथा मयात्र निक्षिप्तमज्ञानेन हतं स्वयम् ।। १२ ।।
।। सनत्कुमार उवाच ।। ।।
एवमुक्त्वा स भगवान्ब्रह्माद्यैरमरैः सह ।।
क्षेत्रं निवासयामास यथावत्कथयामि ते ।।१३।।
आद्यमेततत्स्मशानं च पठ्यते मुनिसत्तमैः ।।
महाकालवनं व्यास यत्र सन्नि हितो हरः ।।१४।।
अनुग्रहस्य भुवनं भूमिभागो न संशयः ।।
अनुग्रहार्थं भूतानां क्षेत्रांतर्मृत्युधर्मिणाम् ।।१५।।
सुवर्णवज्रपर्यंकवेदिका च महीकृता ।।
विचित्रकुसुमारत्नैः कारिता सर्वशोभना ।।१६।।
स्वर्णवज्रांकिततला श्रेष्ठा हरितशाद्वला ।।
त्रिंशच्चत्वारिंशपूर्णाः कलशाः कोणसंस्थिताः ।। १७ ।।
द्वाराणि तत्र चत्वारि प्रवर्णानि तपंति च ।।
कुम्भाः शोभंति तत्रस्थाः उदिता भास्करा इव ।।१८।।
रमते तत्र भगवान्वनानामुत्तमे वने ।।
सनंदिदेवगणपः कालदंडादिसंयुतः ।।१९।।
एतत्कृतयुगे सर्वं प्रत्यक्षं दृश्यते वने ।।
त्रेतायां धर्मनिरतास्तापसा ब्रह्मचारिणः ।।5.1.6.१२०।।
द्वापरे धर्मशीला ये श्रुतवि ज्ञानशालिनः ।।
कलौ तु शुद्धविज्ञानशालिनः शंकरं हरम्।।२१।।
तपोधिकाः प्रपश्यंति देवदेवं महेश्वरम् ।।
महाकालवने नित्यं शूलपट्टिशधारिणम् ।। ।। २२ ।।
एतत्ते तथ्यमाख्यातं लोकानुग्रहकारकम् ।।
सहितानुक्रमेणात्र मन्त्रैश्च विधिपूर्वकम् ।। २३ ।।
समर्चयंति ये विप्रा भक्त्या शंभुमहापदम् ।।।
वसंतीह समीपं ते महाकालानुभाविताः ।। २४ ।।
पठति य इह लोके तस्य संस्थानमेतत्प्रथितगुणगणौघैरर्चितं दोषहं तत् ।।
शुभमतिरभिषिक्तः सोऽमरैरर्च्यमानो व्रजति हरपुरं यः संशृणोत्येकचित्तः ।।१२५।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्ती क्षेत्रमाहात्म्यं कपालमोक्षणवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। छ ।।