स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →


।। व्यास उवाच ।। ।।
युद्धे निवारिते तत्र रक्तस्वेदजयोः पुरा ।।
किं कृतं ब्रह्मणा तत्र प्रायश्चित्तं च कर्मणाम् ।। १ ।।
जनार्दनेन किं कर्म शंकरेण च यन्मुने ।।
एतत्सर्वं समाख्याहि प्रसीद वदतांवर ।। २ ।।
।। सनत्कुमार उवाच ।। ।।
ब्रह्मा जुह्वन्नग्निहोत्रं वनौषधिफलच्छदैः ।।
शस्तैः कुशसमिद्भिश्च यथोक्तं हरिणा पुरा ।। ३ ।।
बदर्याश्रममासाद्य नरनारायणावृषी ।।
तेपतुस्तौ तपश्चोग्रं हितार्थं सर्वदेहिनाम् ।। ४ ।।
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम् ।।
कुशस्थलीं समासाद्य प्रविष्टस्तद्वनोत्तमम् ।। ५ ।।
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।।
नानापक्षिरवाकीर्णं नानामृगसमाकुलम् ।। ६ ।।
द्रुमपुष्पभरामोदवासितं यत्सुवायुना ।।
बुद्धिपूर्वमिव न्यस्तैः फलपुष्पैः सुपूजितम्।। ७ ।।
नानागंधरसाढ्यैश्च पक्वापक्वफलोद्भवैः ।।
फलैः सुवर्णरूपाढ्यैरासमन्तान्मनोरमैः ।। ८ ।।
जीर्णपत्रतृणादीनि शुष्क काष्ठफलानि च ।।
बहिः क्षिपंति जातानि मरुतोनुग्रहाणि च ।। ९ ।।
नानापुष्पसमूहानां गन्धमादाय मारुतः ।।
शीतलो वाति तं भूमिदेशं यत्र विवेश सः ।। 5.1.5.१० ।।
हरितस्निग्धनिच्छिद्रैः पर्णैरञ्छिद्रकोटरैः ।।
वृक्षैरनेकसंख्यैश्च भूषितं शिरसान्वितैः ।। ११ ।।
अरोगिदर्शनीयैश्च सुवृत्तैः क्वचि दुद्धतैः ।।
कुटुम्बैरिव विप्राणां सिद्धिर्वै भाति सर्वतः ।। १२ ।।
शोभनैर्वायुसंकीर्णैरंकुरैः प्रावृता द्रुमाः ।।
कुलीनैरिव निच्छिद्रैः स्वगणैः प्रावृता नराः ।। १३ ।।
पवनोद्धूतशिखरैः स्पर्शयंति परस्परम् ।।
आरात्पवनतोऽन्योन्यस्पृष्टशाखावतंसकाः ।। १४ ।।
नागवृक्षाः क्वचित्पुष्पैर्भ्रमरालीनकेस रैः ।।
नयनैरिव शोभंते धवलैः कृष्णतारकैः ।। १५ ।।
पुष्पसन्नद्धशिखराः कर्णिकारद्रुमाः क्वचित् ।।
युग्मयुग्मविवाहे च शोभंते साधु दंपतीः।।१६।।
सुपुष्पविभवाटोपैः सिन्दुवारस्य पंक्तयः ।।
मूर्तिमत्य इवाभांति पूजिता वनदेवताः ।। १७ ।।
क्वचित्क्वचित्कुन्दलताः सुपुष्पाभरणोज्ज्वलाः ।।
दिक्षुदिक्षु प्रशोभन्ते बालचन्द्रा इवोद्यताः ।। १८ ।।
अतिविद्रुमशोभाढ्या कासंत्यो यूथिकालताः ।।
पुष्पिताः पुष्पविटपान्वीज यंत्य इवोत्थिताः ।। १९ ।।
शालार्जुनाः क्वचिद्भांति वनोद्देशेषु पुष्पिताः ।।
धौतकौशेयवासोभिः प्रावृताः पुरुषोत्तमाः ।। 5.1.5.२० ।।
अविमुक्तं तु वल्लीभिः पुष्पितास्तु द्रुमास्तथा ।।
उपगूढा विराजन्ते नारीभिरिव सुप्रिया ।। २१ ।।
चूताश्च तिलकाश्चैव मञ्जरीभिः करैरिव ।।
वायुप्रत्ताभिरन्योन्यं ढौकन्तीव हि सज्जनान् ।। २२ ।।
परस्परं च संयुक्तैस्तिलकाशोकपल्लवैः ।।
हस्तैर्हस्तान्स्पृशंतीव सुहृदश्चित्तसंगताः ।। २३ ।।
फलपुष्पनगा नम्राः पेशलेनेव सज्जनाः ।।
अन्योन्यमर्पयंतीव सपुष्पाणि फलानि च ।। २४ ।।
मारुताश्लिष्टसंतुष्टैः पादपाः शालिवारिभिः ।।
आर्याः समागता लोके प्रीतिदाय इव स्थिताः ।। २५ ।।
पुष्पाणामिव वेगेन स्वशोभार्थं व्रजंति वै ।।
समसन्नाहमासाद्य पुरुषाः स्पर्धयेव हि ।। २६ ।।
पुष्पशोभाभरनतैः शिखरैः कंपसंयुतैः ।।
नृत्यन्ति पक्षिणो मत्ता युक्ताः शोभनशेखरैः ।। २७ ।।
भृंगाः पवनविक्षिप्तामृतवल्लीलताश्रिताः ।।
सवल्लिकाः प्रनृत्यन्ति मानवा इव सप्रियाः ।। २८ ।।
पुष्पाभिः कुन्दवल्लीभिः पादपाः क्वचिदावृताः ।।
भाति तारागणैश्चित्रैः शरदीव नभस्तलम् ।। २९ ।।
द्रुमा णामप्यथाग्रेषु पुष्पिता माधवी लता ।।
शिखरा इव शोभन्ते रचिता बुद्धिपूर्वकम् ।।5.1.5.३०।।
हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः।।
सौहृदं दर्शयन्तीव नराः साधुसमागमे ।। ३१ ।।
पुष्पकिंजल्कबहुलाः किंजल्कबहुलोदराः ।।
किंजल्कमत्तमधुपा विशदा इव शारिका ।। ३२ ।।
शिरीष पुष्पसंकाशाः शुका मिथुनतः क्वचित्।।
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा ।। ३३ ।।
संयुक्ताः सहचारिण्या मयूराश्चित्रबर्हिणः ।।
वनांतरे व्यतिष्ठंत एकांत इव संस्थिताः ।। ३४ ।।
कूजंति पत्रिसंघाता नानाद्भुतविराविणः ।।
कुर्वंति रमणीयं हि रमणीयतरं वनम् ।। ३५ ।।
नाना मृगगणाकीर्णं नित्यं समुदितांडजम् ।।
तद्वनं नंदनसमं मनोदृष्टिविवर्धनम् ।। ३६ ।।
कपालपाणिर्भगवांस्तथारूपं वनोत्तमम् ।।
ददर्श शंकरो दृष्ट्या सौम्यया नंदनोपमम् ।। ३७ ।।
ता वृक्षपंक्तयः सर्वा दृष्ट्वा रुद्रं समागतम् ।।
निवेद्य शंभवे भक्त्या मुमुचुः पुष्पसंपदम् ।। ३८ ।।
पुष्पप्रतिग्रहं कृत्वा पादपानां महेश्वरः ।।
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः ।। ३९ ।।
एवमुक्ते भगवता तरवो निरवग्रहाः ।।
ऊचुः प्रांजलयः सर्वे नमस्कृत्य महेश्वरम् ।। 5.1.5.४० ।।
वरं ददासि देवेश प्रसन्न जनवत्सल ।।
इहैव भगवन्नित्य वने सन्निहितो भव ।। ४१ ।।
एष नः परमः कामो देवदेव नमोऽस्तु ते ।।
त्वं चेद्वससि देवेश वनेऽस्मिन्विश्वभावन ।। ४२ ।।
सर्वात्मना प्रपन्ना वै याचामहे वरोत्तमम् ।।
किमन्यवरकोटीभिरेष नो दीयतां वरः ।। ४३ ।।
इत्युक्तः पादपैः सर्वैः शरणागतवत्सलः ।।
वरं ददौ पादपेभ्यः प्रोच्यमानं मया शृणु ।। ४४ ।।
।। महेश्वर उवाच ।। ।।
बाढं मे मनसा वासो नित्यमत्र वनोत्तमे ।।
वरं ददामि भूयो वो न वृथा दर्शनं मम ।। ४५ ।।
नाग्निर्न वायुर्न जलं न सूर्यकिरणातपः ।।
न विद्युदशनिः शीतं रुजं वो जनयिष्यति ।। ४६ ।।
नित्यं पुष्पवरोपेता नित्यं सुस्थिरयौवनाः ।।
कामगाः कामरूपाश्च कामरूपफलप्रदाः ।। ४७ ।।
कामसंदर्शनाः पुंसां तपःसंध्याज्वलदृशाम् ।।
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ ।। ४८ ।।
एवं स वरदः शंभुरनुजग्राह पादपान् ।।
स्थित्वा वर्षसहस्रं तु कपालं चाक्षिपद्भुवि ।। ४९ ।।
क्षितिं निपतता तेन कंपते स्म रसातलम् ।।
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः ।। 5.1.5.५० ।।
शक्राशनिहतानीव व्याघ्रव्यालान्वितानि च ।।
शिखराणि व्यशीर्यंत पर्वतानां सहस्रशः ।। ५१ ।।
देवसिद्धविमानानि गंधर्वनगराणि च ।।
प्रस्फुरन्ति विनिष्पेतुर्विनिनेशुर्धरातले ।। ५२ ।।
कपोतमेषाश्चात्यंतं पुनः संघातदर्शनाः ।।
ज्योतिर्ग्रहाश्छादयंतो बभूवुस्तीर्णभास्कराः ।। ५३ ।।
महता तस्य शब्देन जडांधबधिरं कृतम् ।।
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम् ।। ५४ ।।
सुरासुराणां सर्वेषां शरीराणि मनांसि च ।।
अवसे दुश्चकंपुश्च किमेतदिति जज्ञिरे ।। ५५ ।।
धैर्यमालंब्य सर्वेऽपि समागम्येंद्रपूर्वकाः ।।
ब्रह्मलोकं समासाद्य ब्रह्माणमिदमूचिरे ।। ५६ ।।
किं निमित्तं तु भगवन्नेतदुत्पातदर्शने ।।
त्रैलोक्यं कंपितं येन संयुक्तं कालकर्मणा ।। ५७ ।।
जातं कल्पावसानं च भिन्नमर्यादसागरम् ।।
चत्वारो दिग्गजाः किं नु बभूवुरचलाश्चलाः ।। ५८ ।।
धरा समाधृता कस्मात्सप्तसागरवारिणा ।।
उत्पत्तिर्नास्ति सर्वस्य भगवन्न प्रयोजनम् ।। ५९ ।।
यादृशोऽयं श्रुतः शब्दो न भूतो नापि विश्रुतः ।।
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण भूयसा ।। 5.1.5.६० ।।
एवमुक्तोऽब्रवीद्ब्रह्मा परमेशानुभावितः ।।
तत्प्रसादात्प्रति ज्ञानी ज्ञात्वा रुद्रमुपस्थितम् ।। ६१ ।।
यत्पृष्टं मरुतः सर्वे शृणुध्वं तत्र कारणम् ।।
निश्चयेनात्र विज्ञेयं श्रद्दधानैर्यथाविधि ।। ६२ ।।
मुखं छित्त्वा नखाग्रेण मद्देहात्पंचमं शिरः ।।
कपालपाणिर्भगवान्विष्णोराश्रममभ्यगात् ।। ६३ ।।
ययाचे पात्रमादाय भिक्षां नारायणं प्रभुम् ।।
उत्पपात मुनिस्तत्र नरोनाम धनुर्धरः ।। ६४ ।।
ततः कुशस्थलीमेत्य भगवांस्तद्वनोत्तमम् ।।
विवेश तरुमार्गेण पुष्पामोदाभिनंदितः ।। ६५ ।।
अनुगृह्याथ भगवान्वनं तत्सर्वगांडजम् ।।
जगतोऽनुग्रहार्थाय तत्र वासमरोचयत् ।। ६६ ।।
तत्कपालं करस्थं यन्न्यस्तं भगवता क्षितौ ।।
तेनैषा कम्पिता भूमिः कृतं त्रैलोक्यमाकुलम् ।। ६७ ।।
तद्द्रक्ष्यथ विरूपाक्षं प्रपद्यत मया सह ।।
आराध्यमानो भग वान्प्रदास्यति वरं हि वः ।। ६८ ।।
इत्युक्त्वा भगवान्ब्रह्मा सह तैर्देवदानवैः ।।
जगाम तद्वनोद्देशं यत्रास्ते वृषभध्वजः ।। ६९ ।।
प्रहृष्टमनसः सर्वे कोकिलालापलापिताम् ।।
पुष्पोच्चयोक्षितां सीमां विविशुः शंकरेप्सवः ।। 5.1.5.७० ।।
संप्राप्तं सर्वमेतैस्तद्वनं नंदनसंमितम् ।।
सुवल्लीगृहशोभाढ्यं सुदृढं शुशुभे तदा ।। ७१ ।।
दृष्ट्वा तद्वनमुत्तमं तनुभृतामाह्रादकं चेतसां नानासत्फलपुष्पपादपवनैरासेवितं सर्वतः ।।
तस्मिन्बर्हिणहंससारसकुलै र्मंडूकमत्स्यैर्युते द्रक्ष्यामो हरमत्र चेतसि सुराः प्रापुर्मुदं ते तदा ।। ७२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये देवागमनवर्णनंनाम पंचमोऽध्यायः ।।५।।