स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →


।। व्यास उवाच ।। ।।
भगवन्केन विधिना महाकालवने नरैः ।।
रुद्रलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः ।।१ ।।
किं मनुष्यैरुत स्त्रीभिः सिद्ध्यर्थं ह्याश्रमान्वितैः।।
वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि नः ।। २ ।।
नरैः स्त्रीभिश्च वस्तव्यं वर्णैश्चाश्रमवासिभिः ।।
स्वधर्माचारनिरतैर्दंभमोहविवर्जितैः ।। ३ ।।
कर्मणा मनसा वाचा रुद्रभक्तैर्यतेन्द्रियैः ।।
अनुश्रुतिभिरक्षुद्रैः सर्वभूत हिते रतैः ।।
किं कुर्वाणैर्नरैः कर्म रुद्रभक्तिं ब्रवीहि नः ।। ४ ।।
।। सनत्कुमार उवाच ।। ।।
त्रिविधा कथिता ह्यत्र मनोवाक्कायसंभवा ।।
लौकिकी वैदिकी चान्या भवेदाध्यात्मिकी तथा ।। ५ ।।
ध्यानधारणया बुद्ध्या रुद्राणां स्मरणं हि तत् ।।
रुद्रभक्तिकरी चैषा मानसी भक्तिरु च्यते ।। ६ ।।
व्रतोपवासनियमैर्यतेद्रियनिरोधिभिः ।।
कायिका भक्ती रुद्रस्य ज्ञानध्यानस्य धर्मिणाम् ।। ७ ।।
गोघृतक्षीरदधिभिर्गंधरक्तकुशो दकैः ।।
गन्धमाल्यैश्च विविधैर्धातुभिश्चोपपादिता ।। ८ ।।
घृतगुग्गुलधूपैश्च कृष्णागरुसुगंधिभिः ।।
भूषणैर्हेमरत्नानां चित्राभिः स्रग्भिरेव च ।। ९ ।।
वासप्रविसरास्तोत्रैः पताकाव्यजनोच्छ्रितैः ।।
नृत्यवादित्रगीतैश्च सर्वप्रत्युपहारकैः ।। 5.1.7.१० ।।
भक्ष्यभोज्यानुपानैश्च यावत्पूजाक्षतैर्नरैः ।।
महेश्वरं पुरस्कृत्य भक्तिः सा लौकिकी मता ।। ११ ।।
वेदमन्त्रहविर्यागैर्या क्रिया वैदिकी मता ।। १२ ।।
दर्शे च पूर्णमास्यां वा कर्तव्यं चाग्निहोत्रकम् ।।।
प्राशनं दक्षिणादानं पुरोडाशश्च सत्क्रिया ।। १३ ।।
इष्टवृत्तिः सोमपानं याज्ञिकं सर्वकर्म च।।
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च ।।१४।।।
क्रियते रुद्रमुद्दिश्य सा भक्तिर्वैदिकी स्मृता ।।
अग्निभूम्यनिलाकाशनिशाकरदिवाकरान् ।। १५ ।।
समुद्दिश्य कृतं कर्म तत्सर्वं दैविकं भवेत् ।।।
आध्यात्मिकी तु द्विविधा रुद्रभक्तिः स्थिता मुने ।। १६ ।।
सांख्याख्या यौगिकी चान्या विभागं तत्र मे शृणु ।।
चतुर्विंशतितत्त्वानि प्रधानादीनि संख्यया ।। १७ ।।
अचेतनानि योज्यानि पुरुषः पञ्चविंशकः ।।
चेतनः पुरुषो भोक्ता न कार्यं तस्य कर्मणः ।। १८ ।।
रुद्रः षड्विंशकः कर्ता सर्वज्ञश्चेतनः प्रभुः ।।
अजन्मा नित्यमव्यक्तमधिष्ठाता प्रयोजकः ।। १९ ।।
पुरुषो नित्यव्यक्तः स्यात्कारणं च महेश्वरः ।।
तत्त्वसर्गं भवेत्सर्गं भूतसर्गं च तत्त्वतः ।। 5.1.7.२० ।।
संख्यया परिसर्गाय प्रधानं च गुणात्मकम् ।।
साधर्म्यमात्मनैश्वर्यं प्रधानं वै विधर्मि च ।।२१ ।।
कारणं तच्च रुद्रस्य काम्य त्वमिदमुच्यते ।।
सर्वत्र कर्तृता रुद्रे पुरुषे चाप्यकर्तृता ।। २२ ।।
अचैतन्यं प्रधाने च तच्च तत्त्वमिदं स्मृतम् ।।
तत्त्वांतरेण मुच्यंते कार्यं कारणमेव च ।। २३ ।।
प्रयोजने च वैजात्यं ज्ञात्वा तत्त्वमसंख्यया ।।
संख्यास्तीत्युच्यते प्राज्ञै रुद्रतत्त्वार्थचिंतकैः ।। २४ ।।
इति तस्य तत्त्वभावं तत्त्वसंख्या च तत्त्वतः ।।
रुद्रतत्त्वाधिकं चापि ज्ञानतत्त्वं विदुर्बुधाः ।। २५ ।।
सांख्ये कृता भक्तिरेषा सद्भिराध्यात्मिकी मता ।।
योगिनामपि मे भक्त्या शृणु भक्तिं महासुर ।। २६ ।।
प्राणायामपरो नित्यं ध्यायते नियतेंद्रियः ।।
धारणां हृदये धृत्वा ध्यायते यो महेश्वरम् ।। २७ ।।
हृत्कञ्जकर्णिकासीनं पञ्चवक्त्रं त्रिलोचनम् ।।
शशांकज्योतिजठरं व्यालवृत्तकटीतटम् ।। २८ ।।
श्वेतं दशभुजं भद्रं वरदाभयहस्तकम् ।।
योगजा मानसी व्यास रुद्रभक्तिः परा स्मृता ।। २९ ।।
य एव भक्तिमान्रुद्रे रुद्रभक्तः स उच्यते ।।
विधिं तु शृणु मे व्यास यः स्मृतः क्षेत्रवासिनाम् ।। 5.1.7.३० ।।
स्वयं रुद्रेण विहितो ब्रह्मादीनां समागमे ।।
कथितो विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ ।।३१।।
निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः ।।
बंधुवर्गेण निः स्नेहाः समलोष्टाश्मकांचनाः ।। ३२ ।।
भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः ।।
सांख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः ।। ३३ ।।
यजंतो विवि धैर्यज्ञैर्ये विप्राः क्षेत्रवासिनः ।।
महाकालवने तेषां मृतानां यत्फलं शृणु ।। ३४ ।।
व्रजंत्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमक्षयम् ।।
संप्राप्य न पुन र्जन्म लभंते मोक्षमव्ययम् ।। ३५ ।।
पुनरावर्तनं हित्वा विधिं माहेश्वरं स्थिताः ।।
पुनरावृत्तिरन्येषां प्रपंचाश्रमवासिनाम् ।। ३६ ।।
गार्हस्थ्यं विधिमासाद्य षट्कर्मनिरताः सदा ।।
जुह्वते विधिना सम्यङ्मंत्रस्तोत्रैर्नियंत्रिताः ।। ३७ ।।
अधिकं फलमायांति सर्वदुःखविवर्जिताः ।।
सर्व लोकेषु चान्यत्र गतिस्तस्य न हन्यते ।। ३८ ।।
दिव्येनैश्वर्ययोगेन स्वारूढः स्वपरिग्रहः ।।
बहुसूर्यप्रकाशेन विमानेन सुवर्चसा ।। ३९ ।।
वृतः स्त्रीणां सहस्रैश्च स्वच्छंदगमनालयः ।।
विचरत्यविचार्यैव सर्वलोकान्दिवौकसाम् ।। 5.1.7.४० ।।
स्पृहणीयतमः पुंसां सर्ववर्णोत्तमो धनी ।।
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान् ।। ४१ ।।
धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः ।।
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च ।। ४२ ।।
वेदाध्ययनसंयुक्तो च भैक्षवृत्तिर्जितेंद्रियः ।।
नित्यं सत्यव्रते युक्तः स्वधर्मे च प्रमोदवान् ।। ४३ ।।
मृतः काले समृद्धेन सर्वभोगावलंबिना ।।
सूर्येणेव द्वितीयेन विमानेन विचारितः ।। ४४ ।।
गुह्यकोनाम रुद्रस्य गणः परमसंमतः ।।
अप्रमेयबलैश्वर्यो देवदानवपूजितः ।। ४५ ।।
तेषां च समतां याति तुल्यैश्वर्यसम न्वितः ।।
देवदानवमर्त्येषु स च पूज्यतमो भवेत। ।। ४६ ।।
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ।।
ऐवमैश्वर्यसंयुक्तो रुद्रलोके महीयते ।। ४७ ।।
वसित्वासौ विभूत्या वै यदा च च्यवते नरः ।।
रुद्रलोकाच्च्युतो भूमौ वसते नात्र संशयः ।। ४८ ।।
महाकालवने क्षेत्रे ब्रह्मचर्याश्रमे स्थितः ।।।
महेश्वरपरो नित्यं वसेद्वाऽथ म्रियेत वा ।। ४९ ।।
मृतोऽसौ याति दिव्ये वै विमाने सूर्यवर्चसि ।।
पूर्णचंद्रप्रकाशो वै शशिवत्प्रियदर्शनः ।। 5.1.7.५० ।।
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते ।।
ऐश्वर्यं च महद्भुंक्ते सर्वस्य जगतः प्रभुः ।। ५१ ।।
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते ।।
प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु ।। ५२ ।।
नित्यं प्रमुदितस्तत्र भुक्त्वा लोकमनामयम् ।।
द्विजानां साधने नित्यं कुले महति जायते ।। ५३ ।।।
मानवेषु च धर्मेषु वसेद्भूयांश्च रूपवान् ।।
स्पृहणीयवपुः स्त्रीणां महाभोगपतिर्भवेत् ।। ५४ ।।
वानप्रस्थसमाचारो वनौषधिविवर्जितः ।।
शीर्णपर्ण समाहारः फलपुष्पांबुभोजनः ।। ५५ ।।
कणाशनोऽश्मकुट्टो वा दंतोलूखलकोऽथ वा ।।
येन केनाप्युपायेन जीर्णवल्कलधारकः ।। ५६ ।।
जटी त्रिषवणस्नायी मुक्तकेशः सुदंडवान् ।।
जलशायी पंचतपा वर्षास्वभ्रावकाशकः ।। ५७ ।।
कीटकंटकपाषाणभूम्यां तु शयनं तथा ।।
स्थानं वीरासनरतः संविभागी दृढबतः ।। ५८ ।।
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः ।।
नित्यं धर्मपरो मौनी जितक्रोधो जितेंद्रियः ।। ५९ ।।
रुद्रभक्तः क्षेत्रवासी महाकालवने मुनिः ।।
सर्वसंगपरित्यागी स्वारामो विगतस्पृहः ।। 5.1.7.६० ।।
यश्चात्र वसते व्यास शृणु तस्य हि या गतिः ।।
तरुणार्कप्रदीप्तेन वेदिकास्तंभशोभिना ।। ६१ ।।
रुद्रभक्तो विमानेन याति कामप्रचारिणा ।।
विराजमानो नभसि द्वितीय इव चंद्रमाः ।। ६२ ।।
गीतवादित्रशब्देन संवृतोऽप्सरसां गणै ।।
वर्षकोटिशतं साग्रं रुद्रलोके महीयते ।। ६३ ।।
रुद्रलोकाच्च्युतश्चापि विष्णुलोके महीयते ।।
विष्णुलोकात्परिभ्रष्टो ब्रह्मलोकं स गच्छति ।। ६४ ।।
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते ।।
स्वर्गषु च तथान्येषु भोगान्भुंक्ते यथेच्छया ।। ६५ ।।
भुक्तैश्वर्यो नरस्तेषु मर्त्यामर्त्येषु जायते ।।
राजा वा राजतुल्यो वा जायते धनवान्सुखी ।।
सुरूपः सुभगः कांतः कीर्तिमान्रुद्रभावितः ।। ६६ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः ।।
स्वधर्मनिरता व्यास स्वभृत्या चारजीविनः ।। ६७ ।।
सर्वात्मना रुद्रभक्ता भूतानुग्रहकारिणः ।।
महाकालवने क्षेत्रे ये वसंति मुमुक्षवः ।। ६८ ।।
मृतास्ते रुद्रभवने विमानैर्यांति शोभनैः ।।
अप्सरोगणसंयुक्तैः कामगैः कामरूपिभिः ।। ६९ ।।
अथवा संविदग्नौ च शरीरं विजुहोति यः ।।
रुद्रध्यायी महासत्त्वः स रुद्र भवने वसेत्।। 5.1.7.७० ।।
रुद्रलोकोऽक्षयस्तेषां शाश्वतो गुह्यकैः सह ।।
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः ।। ७१ ।।
ये त्यजंति महाकाले प्राणान नशनैर्नराः ।।
तेषामप्यक्षयो व्यास रुद्रलोको महात्मनाम् ।। ७२ ।।
सांख्याः स्तुवंति ते रुद्रं सर्वदुःखविवर्जिताः ।।
सर्वामरयुतं देवं नंदिदेवगणै र्युतम्।।
अनाशकमृताः शूद्रा महाकालवने नराः ।। ७३ ।।
सिंहयुक्तैस्तु ते यांति विमानैरर्कसन्निभैः ।। ७४ ।।
नानावर्णसुवर्णाढ्यैर्हृष्टगंधाधिवा सितैः ।
अनौपम्यगुणै रम्यैरप्सरोगीतवादिभिः ।। ७५ ।।
पताकाध्वजविन्यस्तैर्नानाघंटानिनादितैः।।
सुप्रभैर्गुणसंपन्नैर्मयूरवरचारिभिः ।। ७६ ।।
रुद्रलोके नरा धीराः सर्वे चानशनैर्मृताः ।।
तत्रोषित्वा चिरं कालं भोगान्भुक्त्वा यथेप्सितान् ।।
धनी विप्रकुले भोगी जायते मर्त्यमागतः ।। ७७ ।।
करीषं साधयेद्यस्तु महाकालवने नरः ।।
सर्वभोगविनिर्मुक्तो रुद्रलोकं स गच्छति ।। ७८ ।।
रुद्रलोके वसेत्तावद्यावत्कल्पक्षयो भवेत् ।। ७९ ।।
तत्र भुक्त्वा महाभोगानिह जातो महीपतिः ।।
पृथिव्याः सकलायाश्च रूपवान्सुभगो भवेत् ।। 5.1.7.८० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनवासविधिवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।। छ ।।