सौन्दरनन्दकाव्यम्/षोडशः सर्गः

विकिस्रोतः तः
← पञ्चदशः सर्गः सौन्दरनन्दकाव्यम्
षोडशः सर्गः
[[लेखकः :|]]
सप्तदशः सर्गः →

सर्ग १६

एवं मनोधारणया क्रमेण व्यपोह्य किं चित्समुपोह्य किं चित् ।
ध्यानानि चत्वार्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च ।। १६.१ ।।

ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश्चरितावबोधं ।
अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ।। १६.२ ।।

अतःपरं तत्त्वपरीक्षणेन मनो दधात्यास्रवसंक्षयाय ।
ततो हि दुःखप्रभृतीनि सम्यक्चत्वारि सत्यानि पदान्यवैति ।। १६.३ ।।

बाधात्मकं दुःखं इदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयं ।
दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः ।। १६.४ ।।

इत्यार्यसर्यान्यवबुध्य बुद्ध्या चत्वारि सम्यक्प्रतिविध्य चैव ।
सर्वास्रवान्भावनयाभिभूय न जायते शान्तिं अवाप्य भूयः ।। १६.५ ।।

अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टयस्य ।
भावद्भवं याति न शान्तिं एति संसारदोलां अधिरुह्य लोकः ।। १६.६ ।।

तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखं अवैहि जन्म ।
सर्वौषधीनां इव भूर्भवाय सर्वापदां क्षेत्रं इदं हि जन्म ।। १६.७ ।।

यज्जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म ।
यः संभवश्चास्य समुच्छ्रयस्य मृत्योष्च रोगस्य च संभवः सः ।। १६.८ ।।

सद्वाप्यसद्वा विषमिष्रं अन्नं यथा विनाशाय न धारणाय ।
लोके तथा तिर्यगुपर्यधो वा दुःखाय सर्वं न सुकःआय जन्म ।। १६.९ ।।

जरादयो नैकविधा परजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः ।
प्रवात्सु घोएष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति ।। १६.१० ।।

आकासयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः ।
आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनि ।। १६.११ ।।

अपां द्रवत्वं कठिनत्वं उर्व्या वायोश्चलत्वं ध्रुवं औष्ण्यं अग्नेः ।
यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च ।। १६.१२ ।।

काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव ।
रुपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखं ।। १६.१३ ।।

प्रत्यक्षं आलोक्य च जन्मदुःखं दुःखं तथातीतं अपीति विद्धि ।
यथा च तद्दुःखं इदं च दुःखं दुःखं तथानागतं अप्यवेहि ।। १६.१४ ।।

बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः ।
प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव ।। १६.१५ ।।

तन्नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्ति उदारवृत्त ।
तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद्भवेद्वा ।। १६.१६ ।।

प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तं ।
नैवेष्वरो न प्रकृतिर्न कालो नापि स्वभावो न विधिर्यदृच्छा ।। १६.१७ ।।

ज्ञातव्यं एतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः ।
यस्मान्म्रियन्ते सरजस्तमस्का न जायते वीतरजस्त्मस्कः ।। १६.१८ ।।

इच्छाविषेशे सति तत्र तत्र यानासनादेर्भवति प्रयोगः ।
यस्मादतस्तर्षवशत्तथैव जन्म प्रजानां इति वेदितव्यं ।। १६.१९ ।।

सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव ।
अभ्यासयोगादुपपादितानि तैरेव दोषैरिति तानि विद्धि ।। १६.२० ।।

क्रोधप्रहर्षादिभिराश्रयाणां उत्पद्यते चेह यथा विशेषः ।
तथैव जन्मस्वपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ।। १६.२१ ।।

दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः ।
मोहाधिके मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः ।। १६.२२ ।।

फलं हि यादृक्समवैति साक्षात्तदागमाद्बीजं अवैत्यतीतं ।
अवेत्य बीजप्रकृतिं च साक्षादनागतं तत्फलं अभ्युपैति ।। १६.२३ ।।

दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः ।
दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र ।। १६.२४ ।।

तज्जन्मनो नैकविधस्य स्ॐय तृष्णादयो हेतव इत्यवेत्य ।
तांश्छिन्धि दुःखाद्यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद्धि ।। १६.२५ ।।

दुःखक्षयो हेतुपरिक्षयाच्च शान्तनं शिवं साक्षिकुरुष्व धर्मं ।
तृष्णाविरागं लयनं निर्दोहं सनातनं त्राणं अहार्यं आर्यं ।। १६.२६ ।।

यस्मिन्न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसंप्रयोगः ।
नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकं अच्युतं तत् ।। १६.२७ ।।

दीपो यथा निर्वृतिं अभ्युपेतो नैवावनिं गच्छति नानतरिक्षं ।
दिशं न कां चिद्विदिषं न कां चित्स्नेहक्षयात्केवलं एति शान्तिं ।। १६.२८ ।।

एवं कृती निर्वृतिं अभ्युपेतो नैवावनिं गच्छति नान्तरिक्षं ।
दिशं न कां चिद्विदिशं न कां चित्क्लेशक्षयात्केवलं एति सान्तिं ।। १६.२९ ।।

अस्याभ्युपायोऽधिन्गमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः ।
स भावनीयो विधिवद्बुधेन शीले शुचौ त्रिपमुखे स्थितेन ।। १६.३० ।।

वाक्कर्म सम्यक्सहकायकर्म यथावदाजीवनयश्च शुद्धः ।
इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ।। १६.३१ ।।

सत्येषु दुःखादिषु दृष्टिरार्या सम्यग्वितर्कश्च पराक्रमश्च ।
इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ।। १६.३२ ।।

न्यायेन सत्याधिगमाय युक्ता सम्यक्स्मृतिः सम्यगथो समाधिः ।
इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ।। १६.३३ ।।

क्लेशाङ्कुरान्न प्रतनोति शीलं बीजाङ्कुरान्काल इवावृत्तः ।
शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति ।। १६.३४ ।।

क्लेशांस्तु विष्कम्भयते समाधिर्वेगानिवाद्रिर्महओत्नदीनां ।
स्थिते समाधौ हि न धर्षयन्ति दोषा भुजङ्गा इव मन्त्रबद्धाः ।। १६.३५ ।।

प्रज्ञा त्वशेषेण निहन्ति दोषांस्तीरद्रुमान्प्रावृषि निम्नगेव ।
दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ।। १६.३६ ।।

त्रिस्कन्धं एतं प्रविगाह्य मार्गं प्रस्पष्टं अष्टाङ्गं अहार्यं आर्यं ।
दुःखस्य हेतून्प्रजहाति दोषान्प्राप्नोति चात्यन्तशिवं पदं तत् ।। १६.३७ ।।

अस्योपचारे धृतिरार्जवं च ह्रीरप्रमादः प्रविविक्तता च ।
अल्पेच्छता तुष्टिरसंगता च लोकप्रवृत्तावरतिः क्षमा च ।। १६.३८ ।।

याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निर्दोधं ।
आर्येण मार्गेण स सान्तिं एति कल्याणमित्रैः सह वर्तमानः ।। १६.३९ ।।

यो व्याधितो व्याधिं अवैति सम्यग्व्याधेर्निदानं च तदौषधं च ।
आरोग्यं आप्नोति हि सोऽचिरेण मित्रैरभिज्ञैरुपचर्यमाणः ।। १६.४० ।।

तद्व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञां ।
आरोग्यसंज्ञां च निर्दोहसत्ये भैषज्यसंज्ञां अपि मार्गसत्ये ।। १६.४१ ।।

तस्मात्प्रवृत्तिं परिगच्छ दुःखं प्रवर्तकानप्यवगच्छ दोषान् ।
निवृत्तिं आगच्छ च तन्निरोधं निवर्तकं चाप्यवगच्छ मार्गं ।। १६.४२ ।।

शिरस्यथो वाससि संप्रदीप्ते सत्यावबोधाय मतिर्विचार्या ।
दग्धं जगत्सत्यनयं ह्यदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च ।। १६.४३ ।।

यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनं अस्य सम्यक् ।
सम्यक्च निर्वेदं उपैति पश्यान्नन्दीक्षयाच्च क्षयं एति रागः ।। १६.४४ ।।

तयोश्च नन्दीरजसोः क्षयेण सम्यग्विमुक्तं प्रवदामि चेतः ।
सम्यग्विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयं अस्ति ।। १६.४५ ।।

यथास्वभावेन हि नामरूपं तद्धेतुं एवास्तगमं च तस्य ।
विजानतः पश्यत एव चाहं ब्रवीमि सम्यक्क्षयं आस्रवाणां ।। १६.४६ ।।

तस्मात्परं स्ॐय विधाय वीर्यं शीघ्रं घटस्वास्रवसंक्षयाय ।
दुःखाननित्यांश्च निरात्मकांश्च धातून्विशेषेण परीक्षमाणाः ।। १६.४७ ।।

धातून्हि षड्भूसलिलानलादीन्सामान्यतः स्वेन च लक्षणेन ।
अवैति यो नान्यं अवैति तेभ्यः सोऽत्यन्तिकं मोक्षं अवैति तेभ्यः ।। १६.४८ ।।

क्लेशप्रहाणाय च निश्चितेन कालोऽभ्युपायश्च परीक्षितव्यः ।
योगोऽप्यकाले ह्यनुपायतश्च भवत्यनर्थाय न तद्गुणाय ।। १६.४९ ।।

अजातवत्सां यदि गां दुहीत नैवाप्तुयात्क्षीरं अकालदोही ।
कालेऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद्यदि गां दुहीत ।। १६.५० ।।

आर्द्राच्च काष्ठा ज्वलनाभिकामो नैव प्रयत्नादपि वह्निं ऋच्छेत् ।
काष्ठाच्च शुष्कादपि पात्गनेन नैवाग्निं आप्नोत्यनुपाअपूर्वं ।। १६.५१ ।।

तद्देशकालौ विधिवत्परीक्ष्य योगस्य मात्रां अपि चाभ्युपायं ।
बलाबले चात्मनि संप्रधार्य कार्याः प्रयत्नो न तु तद्विरुद्धः ।। १६.५२ ।।

प्रग्राहकं यत्तु निमित्तं उक्तं उद्दन्यमाने हृदि तन्न सेव्यं ।
एवं हि चित्तं प्रशमं न याति [न वह्रि] ना वह्निरिवेर्यमाणः ।। १६.५३ ।।

शमाय यत्स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः ।
एवं हि चित्तं प्रशमं नियच्छेत्प्रदीप्यमानोऽग्निरिवोदकेन ।। १६.५४ ।।

शमावहं यन्नियतं निमित्तं सेव्यं न तच्चेतसि लीयमाने ।
एवं हि भूयो लयमेति चित्तं अनीर्यमाणोऽग्निरिवाल्पसारः ।। १६.५५ ।।

प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः ।
क्रियासमर्थं हि मनस्तथा स्यान्मन्दायमानोऽग्निरिवेन्धनेन ।। १६.५६ ।।

औपेक्षिकं नापि निमित्तं इष्टं लयं गते चेतसि सोद्धवे वा ।
एवं हि तीव्रं जनयेदनर्थं उपेक्षितो व्याधिरिवातुरस्य ।। १६.५७ ।।

यत्स्यादुपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः ।
एवं हि कृत्याय भवेत्प्रयोगो रथो विधेयाश्व इव प्रयातः ।। १६.५८ ।।

रागोद्धव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर्न कार्यः ।
रागात्मको मुह्यति मैत्रया हि सेन्हं कफक्षोभ इवोपयुज्य ।। १६.५९ ।।

रागोद्धते चेतसि धैर्यं एत्य निषेवितव्यं त्वशुभं निमित्तं ।
रागात्मको ह्येवं उपैति शर्म कफात्मको रूक्षं इवोपयुज्य ।। १६.६० ।।

व्यापाददोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तं ।
द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्शीत इवोपचारः ।। १६.६१ ।।

व्यापाददोषक्षुभिते तु चित्ते सेव्या अवपक्षोपनयेन मैत्री ।
द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचराः ।। १६.६२ ।।

मोहानुबद्धे मनसः प्रचारे मैत्राशुभा चैव भवत्ययोगः ।
ताभ्यां हि संमोहं उपैति भूयो वाय्वात्मको रूक्षं इवोपनीय ।। १६.६३ ।।

मोहात्मैकायां मन्सः प्रवृत्तौ सेव्यस्त्विदं प्रत्ययताविहारः ।
मूढे मनस्येष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ।। १६.६४ ।।

उल्कामुखस्तं हि यथा सुवर्णं सुवर्णकारो धमतीह काले ।
काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ।। १६.६५ ।।

दहेत्सुवर्णं हि धमन्नकाले जले क्षिपन्संशमयेदकाले ।
न चापि सम्यक्परिपाकं एनं नयेदकाले समुपेक्षमाणः ।। १६.६६ ।।

संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य ।
सम्यङ्निमित्तं मनसा त्ववेक्ष्यं नाशो हि यत्नोऽप्यनुपायपूर्वः ।। १६.६७ ।।

इत्येवं अन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे ।
भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विधीनुवाच ।। १६.६८ ।।

यथा भिषक्पित्तकफानिलानां य एव कोपं समुपैति दोषः ।
शमाय तस्यैव विधत्ते व्यधत्त दोषेषु तथैर्व बुद्धः ।। १६.६९ ।।

एकेन कल्पेन सचेन्न हन्यात्स्वभ्यस्तभावादशुभान्वितर्कान् ।
ततो द्वितीयं क्रमं आरभेत न त्वेव हेयो गुणवान्प्रयोगः ।। १६.७० ।।

अनादिकालोपचितात्मकत्वाद्बलीयसः क्लेशगणस्य चैव ।
सम्यक्प्रयोगस्य च दुष्करत्वाच्छेत्तुं न शक्याः सहसा हि दोषाः ।। १६.७१ ।।

अञ्व्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण ।
तद्वद्तदेवाकुशलं निमित्तं क्षिपेन्निमित्तान्तरसेवनेन ।। १६.७२ ।।

तथाप्यथाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः ।
हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ।। १६.७३ ।।

यथा क्षुधार्तोऽपि विषेण पृक्तं जिजीविषुर्नेच्छति भोक्तुं अन्नं ।
तथैव दोषावहं इत्यवेत्य जहाति विद्वानशुभं निमित्तं ।। १६.७४ ।।

न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः ।
गुणं गुणे पश्यति यश्च यन्त्र स वार्यमाणोऽपि ततः प्रयाति ।। १६.७५ ।।

व्यपत्रपन्ते हि कुलप्रसूता महःप्रचारैरशुभैः प्रवृत्तैः ।
कण्ठे मनस्वीव युवा वपुष्मानचाक्षुषैरप्रयतैर्विषक्तैः ।। १६.७६ ।।

निर्धूयमानास्त्वथ लेशतोऽपि तिष्ठेयुरेवाकुशला वितर्काः ।
कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषां ।। १६.७७ ।।

स्वप्तव्यं अप्येव विचक्षणेन कायक्लमो वापि निषेवितव्यः ।
न त्वेव संचिन्त्यं असन्निमित्तं यत्रावसक्तस्य भवेदनर्थः ।। १६.७८ ।।

यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्योऽपि न दातुं इच्छेत् ।
प्राज्ञस्तथा संहरति प्रयोगं समं शुभस्याप्यशुभस्य दोषैः ।। १६.७९ ।।

एवंप्रकारैरपि यद्युपायैर्निवार्यमाणा न पराञ्मुखाः स्युः ।
ततो यथास्थूलनिबर्हणेन सुवर्णदोषा इव ते प्रहेयाः ।। १६.८० ।।

द्रुतप्रयाणप्रभृतींश्च तीक्ष्णात्कामप्रयोगात्परिखिद्यमानः ।
यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्वपि वरितव्यं ।। १६.८१ ।।

ते चेदलब्धप्रतिपक्षभावा नैवोपऽम्येयुरसद्वितर्काः ।
मुहूर्तं अप्यप्रतिवध्यमाना गृहे भुजङ्गा इव नाधिवास्याः ।। १६.८२ ।।

दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रं उत्पीड्य च जिह्वयापि ।
चित्तेन चित्तं प्ररिगृह्य चापि कार्यः प्रयत्नो न तु तेऽनुवृत्ताः ।। १६.८३ ।।

किं अत्र चित्रं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् ।
आक्षिप्यमाणो हृदि तन्निमित्तैर्न क्षोभ्यते यः स कृती स धीरः ।। १६.८४ ।।

तदार्यसत्याधिगमाय पूर्वं विशोधयानेन नयेन मार्गं ।
यात्रागतः शत्रुविनिग्रहार्थं राजेव्य्लक्ष्मीं अजितां जिगीषन् ।। १६.८५ ।।

एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि ।
कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गं ।। १६.८६ ।।

कौण्डिन्यननदकृमिलानिरुद्धास्तिप्योपसेनौ विमलोऽथ राधः ।
बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिनिन्दवत्साः ।। १६.८७ ।।

भद्दालिभद्रायणसर्पदाससुभूतिगोदत्त्सुजातवत्साः ।
संग्रामजिद्भद्रजिदश्वजिच्च श्रोणश्च शोणश्च स कोटिकर्णः ।। १६.८८ ।।

क्षेमाजितो नन्दकनन्दमाता वुपालिवागीशयशॉयशोदाः ।
महाह्वयो वल्कलिराष्ट्रपालौ सुदर्शानस्वागतमेघिकाश्च ।। १६.८९ ।।

स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः ।
पूर्णश्च पूर्णश्च स पूर्णकश्च शोनापरान्तश्च स पूर्ण एव ।। १६.९० ।।

शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः ।
सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश्च गवां पतिश्च ।। १६.९१ ।।

यं विक्रमं योगविधावकुर्वंस्तं एव शीघ्रं विधिवत्कुरुष्व ।
ततः पदं प्राप्स्यसि तैरवाप्तं सुखावृतैस्त्वं निवतं नियतं यशश्च ।। १६.९२ ।।

द्रव्यं यथा स्यात्कटुकं रसेन तच्चोपयुक्तं मधुरं विपाके ।
तथैव वीर्यं कटुकं श्रमेण तस्यार्थसिद्ध्यै मधुरो विपाकः ।। १६.९३ ।।

वीर्यं परं कार्यकृतौ हि मूलं वीर्यादृते का चन नास्ति सिद्धिः ।
उदेति वीर्यादिह सर्वसंपन्निर्वीर्यता चेत्सकलश्च पाप्मा ।। १६.९४ ।।

अलब्धस्यालाभो नियतं उपलब्धस्य विगमस्
तथैवात्मावज्ञा कृपञं अधिकेभ्यः परिभवः ।
तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो
नृणां निर्वीर्याणां भवति विनिपातश्च भवति ।। १६.९५ ।।

नयं श्रुत्वा शक्तो यदयं अभिवृद्धिं न लभते
परं धर्मं ज्ञात्वा यदुपरि निवासं न लभते ।
गृहं त्यक्त्वा मुक्तौ यदयं उपशान्तिं न लभते
निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः ।। १६.९६ ।।

अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते
प्रसक्तं व्यामथ्नन्ज्वलनं अरणिभ्यां जनयति ।
प्रयुक्ता योगे तु ध्रुवं उपलभन्ते श्रमफलं
द्रुतं नित्यं यान्तो गिरिं अपि हि भिन्दन्ति सरितः ।। १६.९७ ।।

कृष्ट्वा गां परिपाल्य च श्रमशतैरश्नोति सस्यशारियं
यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति ।
शत्रूणां अवधूय वीर्यं इषुभिर्भुङ्क्ते नरेन्द्रश्रियं
तद्वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्द्धयः ।। १६.९८ ।।


Sऔन्दरननदे महाकाव्य आर्यसत्यव्याख्यानो नाम षोडशः सर्गः ।