सामग्री पर जाएँ

सौन्दरनन्दकाव्यम्/पञ्चदशः सर्गः

विकिस्रोतः तः
← चतुर्दशः सर्गः सौन्दरनन्दकाव्यम्
पञ्चदशः सर्गः
[[लेखकः :|]]
षोडशः सर्गः →

सर्ग १५

यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कं उत्तमं ।
ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ।। १५.१ ।।

नासाग्रे वा ललाटे वा भ्रुवोरन्तर एव वा ।
कुर्वीथाश्चपलं चित्तं आलम्बनपरायणं ।। १५.२ ।।

सचेत्कामवितर्कस्त्वां धर्षयेन्मानसो ज्वरः ।
क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः ।। १५.३ ।।

यद्यपि प्रतिसंख्यानात्कामानुत्सृष्टवानसि ।
तमांसीव प्रकाशेन प्रतिपक्षेण ताञ्जहि ।। १५.४ ।।

तिष्ठत्यनुशयस्तेषां छन्नोऽग्निरिव भस्मना ।
स ते भावनया स्ॐय प्रशाम्योऽग्निरिवाम्बुना ।। १५.५ ।।

ते हि तस्मात्प्रवर्तन्ते भूयो बीजादिवाङ्कुराः ।
तस्य नाशेन ते न स्युर्बीजनाशादिवाङ्कुराः ।। १५.६ ।।

अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनां ।
तस्मात्तान्मूलतश्छिन्धि मित्रसंज्ञानरीनिव ।। १५.७ ।।

अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः ।
बहुसाधारणाः कामा बर्ह्या ह्याशिविषा इव ।। १५.८ ।।

ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये ।
भ्रष्टाः शोकाय महते प्राप्ताश्च न वितृप्तये ।। १५.९ ।।

तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थतां ।
कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति ।। १५.१० ।।

चलानपरिनिष्पन्नानसाराननवस्थितान् ।
परिकल्पसुखान्कामान्न तान्स्मर्तुं इहार्हसि ।। १५.११ ।।

व्यापादो वा विहिंसा वा क्षोभयेद्यदि ते मनः ।
प्रसाद्यं तद्विपक्षेन मणिनेवाकुलं जलं ।। १५.१२ ।।

प्रतिपक्षस्तयोर्ज्ञेयो मैत्री कारुण्यं एव च ।
विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव ।। १५.१३ ।।

निवृत्तं यस्य दुःशील्यं व्यापादश्च प्रवर्तते ।
हन्ति पांसुभिरात्मानां स स्नात इव वारणः ।। १५.१४ ।।

दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः ।
आर्यः को दुःखं अपरं सघृणो धातुं अर्हति ।। १५.१५ ।।

दुष्टेन चेह मनसा बाध्यते वा परो न वा ।
सद्यस्तु दह्यते तावत्स्वं मनो दुष्टचेतसः ।। १५.१६ ।।

तस्मात्सर्वेषु भूतेषु मैत्रीं कारुण्यं एव च ।
न व्यापादं विहिंसां वा विकल्पयितुं अर्हसि ।। १५.१७ ।।

यद्यदेव प्रसक्तं हि वितर्कयति मानवः ।
अभ्यासात्तेन तेनास्य नतिर्भवति चेतसः ।। १५.१८ ।।

तस्मादस्कुशलं त्यक्त्वा कुशलं ध्यातुं अर्हसि ।
यत्ते स्यादिह चार्थाय परमार्थस्य चाप्तये ।। १५.१९ ।।

संवर्धन्ते ह्यकुशला वितर्काः संभृता हृर्दि ।
अनर्थजनकास्तुल्यं आत्मनश्च परस्य च ।। १५.२० ।।

श्रेयसो विघ्नकरणाद्भवन्त्यात्मविपत्तये ।
पात्रीभावोपघातात्तु परभक्तिविपत्तये ।। १५.२१ ।।

मनःकर्मस्वविक्षेपं अपि चाभ्यस्तुं अर्हसि ।
न त्वेवाकुशलं स्ॐय वितर्कयितुं अर्हसि ।। १५.२२ ।।

या त्रिकामोपभोगाय चिन्ता मनसि वर्तते ।
न च तं गुणं आप्नोति बन्धनाय च कल्पते ।। १५.२३ ।।

सत्त्वानां उपघाताय परिक्लेषाय चात्मनः ।
मोहं व्रजति कालुष्यं नरकाय च वर्तते ।। १५.२४ ।।

तद्वितर्कैरकुशलैर्नात्मानं हन्तुं अर्हसि ।
सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव ।। १५.२५ ।।

अनभिज्ञो यथा जातं दहेदगुरु काष्ठवत् ।
अन्यायेन मनुष्यत्वं उपहन्यादिदं तथा ।। १५.२६ ।।

त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच्च संहरेत् ।
त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेदशुभं तथा ।। १५.२७ ।।

हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधं ।
मनुष्यतं तथा प्राप्य पापं सेवेत नो शुभं ।। १५.२८ ।।

तद्बुद्ध्वा प्रतिकषेण वितर्कं क्षेप्तुं अर्हसि ।
सूक्ष्मेण परिकीलेन किलं दार्वन्तरादिव ।। १५.२९ ।।

वृध्ह्यवृद्ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति ।
स्वभावो जीवलोकस्य परीक्ष्यस्तन्निवृत्तये ।। १५.३० ।।

संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा ।
को जनः स्वजनः को वा मोहात्सक्तो जने जनः ।। १५.३१ ।।

अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस्तव ।
अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्य्ति ।। १५.३२ ।।

विहगाना यथा सायं तत्र तत्र समागमः ।
जातौ जातौ तथा श्लेषो जनस्य स्वजनस्य च ।। १५.३३ ।।

परिश्रयं अभुविधं संश्रयन्ति यथाध्वगाः ।
प्रातियान्ति पुनस्त्यक्त्वा तद्वज्ज्ञातिसमागमः ।। १५.३४ ।।

लोके प्रकृतिभिन्नेऽस्मिन्न कश्चित्कस्य चित्प्रियः ।
कार्यकारञसंबद्धं बालुकामुष्टिवज्जगत् ।। १५.३५ ।।

बिभर्ति हि सुतं माता धरयिष्यति मां इति ।
मातरं भजते पुतृओ गर्भेणाधत्त मां इति ।। १५.३६ ।।

अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा ।
तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ।। १५.३७ ।।

अहितो दृष्यते ज्ञातिरज्ञातिर्हितः ।
स्नेहं कार्यान्तराल्लोकश्छिनत्ति च करोति च ।। १५.३८ ।।

स्वयं एव यथालिक्य रज्येच्चित्रकरः स्त्रियं ।
तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः ।। १५.३९ ।।

योऽभवद्बान्धवजनः परलोके प्रियस्तव ।
स ते कं अर्थं कुरुते त्वं वा तस्मै करोषि कं ।। १५.४० ।।

तस्माज्ज्ञात्वितर्केण मनो नावेष्टुं अर्हसि ।
व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ।। १५.४१ ।।

असौ क्षेमो जनपदः सुभिक्षोऽसावसौ शिवः ।
इत्येवं अथ जायेत वितर्कस्तव कश्चन ।। १५.४२ ।।

प्रहेयः स त्वया स्ॐय नाधिवास्यः कथं चन ।
विदित्वा सर्वं आदीप्तं तैस्तैर्दोषाग्निभिर्जगत् ।। १५.४३ ।।

ऋतुचक्रनिवर्ताच्च क्षुत्पिपासाक्लमादपि ।
सर्वत्र नियतं दुःखं न क्व चिद्विद्यते शिवं ।। १५.४४ ।।

क्व चिच्छितं क्व चिद्धर्मः क्व चिद्रोगो भयं क्व चित् ।
बाधतेऽभ्यधिकं लोके तस्मादशरणं जगत् ।। १५.४५ ।।

जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद्भयं ।
नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते ।। १५.४६ ।।

यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति ।
नास्ति का चिद्गतिर्लोके गतो यत्र न बाधय्ते ।। १५.४७ ।।

रमणीयोऽपि देशः सन्दुभिक्षः क्षेम एव च ।
कुदेश इति विज्ञेयो यत्र क्लेशैर्विधयते ।। १५.४८ ।।

लोकस्याभ्याहत्स्यास्य दुःखैः शरीरमानसैः ।
क्षेमः कश्चिन्न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ।। १५.४९ ।।

दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।
छन्दरागं अतः स्ॐय लिकचित्रेषु मा कृथाः ।। १५.५० ।।

यदा तस्मान्निवृत्तस्ते छन्दरागो भविष्यति ।
जीवलोकं तदा सर्वं आदीप्तं इव मंस्यसे ।। १५.५१ ।।

अथस्कश्चिद्वितर्कस्ते भवेदमरणाश्रयः ।
यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा ।। १५.५२ ।।

मुहूर्तं अपि विश्रम्भः कार्यो न खलु जीविते ।
निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः ।। १५.५३ ।।

बलस्थोऽहं युवा वेति न ते भवितुं अर्हति ।
मृत्युः सर्वास्ववस्थासु हन्ति नावेक्षते वयः ।। १५.५४ ।।

क्षेत्रभूतं अनर्थानां शरीरं परिकर्षतः ।
स्वास्थ्याशा जिविताश वा न दृष्टार्थस्य जायते ।। १५.५५ ।।

निवृतः को भवेत्कायं महाभूताश्रयं वहन् ।
परस्परविरुद्धानां अहिनां इव भाजनं ।। १५.५६ ।।

प्रश्वसित्ययं अन्वक्ष यदुच्छ्वसिति मानवः ।
अवगच्छ तदाश्चर्यं अविश्वास्यं हि जीवितं ।। १५.५७ ।।

इदं आश्चर्यं अपरं यत्सुप्तः प्रतिबुध्यते ।
स्वपित्युत्थाय वा भूयो बह्वमित्रा हि देहिनः ।। १५.५८ ।।

गर्भात्प्रभृति यो लोकं जिघांसुरनुगच्छति ।
कस्तस्मिन्विश्वसेन्मृत्यावुद्यतासावराविव ।। १५.५९ ।।

प्रसूतः पुरुषो लोके श्रुतवान्बलवानपि ।
न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति ।। १५.६० ।।

साम्ना दानेन भेदेन दण्डेन नियमेन वा ।
प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ।। १५.६१ ।।

तस्मान्नायुषि विश्वासं चञ्चले कर्तुं अर्हसि ।
नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ।। १५.६२ ।।

निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलं ।
कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः ।। १५.६३ ।।

तस्मादेषां वितर्काणां प्रहाणार्थं समासतः ।
आनापानस्मृतिं स्ॐय विषयीकर्तुं अर्हसि ।। १५.६४ ।।

इत्यनेन प्रयोगेण काले सेवितुं अर्हसि ।
प्रतिपक्षान्वितर्काणां गदानां अगदानिव ।। १५.६५ ।।

सुवर्णहेतोरपि पांसुधावको विहाय पांसून्बृहतो यथादितः ।
जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य हेमावयवान्नियच्छति ।। १५.६६ ।।

विमोक्षहेतोरपि युक्तमानसो विहाय दोषा बृहतस्तथादितः ।
जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य धर्मावयान्नियच्छति ।। १५.६७ ।।

क्रएणाद्भिः शुद्धं कनकं इह पांसुव्यवहितं
यथाग्नौ कर्मारः पचति भृषं आवर्तयति च ।
तथा योगाचारो निपुञं इह दोषव्यवहितं
विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ।। १५.६८ ।।

यथा च स्वच्छन्दादुपनयति कर्माश्रयसुखं
सुवर्णं कर्मारो बहुंविधं अलङ्कारविधिषु ।
मनःशुद्धो भिक्षुर्वशगतं अभिज्ञास्वपि तथा
यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ।। १५.६९ ।।


Sऔन्दरनन्दे महाकाव्ये वितर्कप्रहाणो नाम पञ्चदशः सर्गः ।