सूत्रार्थरत्नावली/प्रथमोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | सूत्रार्थरत्नावली तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
॥ श्रीः ॥
॥ हरिः ॥
॥ अथ प्रथमाध्यायस्य तृतीयः पादः ॥
तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयः प्रायेणास्मिन्पादे क्रियते।
1.अधिकरणं ॥
अत्रोभयत्र प्रसिद्धसर्वाधारत्वलिंगं ब्रह्मणि समन्वीयते।
<1-3-1>
(1) द्युभ्वाद्यायतनं स्वशब्दात् ॥ ॥
ननु रुद्रस्यैव द्युभ्वाद्यायतनत्वं भवेत्। अत्रोक्तप्राणाधारत्वस्य प्राणानां ग्रंथिरसी(महा ना. 16-2)त्यादिना तस्मिन्प्रतीतेः। मन ओतंचोत्यादिना मन आयतनत्वस्य तस्मिन्नैवोक्तत्वात्। प्राणाधारत्वलिंगेन प्राणेश्वर (धृतसूक्ते.)इत्यादिना तस्य प्रतीतेः। जीवस्य वा भवेत्। स एषोंऽतश्चरत (मुं. 2-2-6)इत्यादिना जीवलिंगप्रतीतेः। इति प्राप्ते सूत्रमुपन्यस्यति ॥
॥ ॥ द्युभ्वाद्यायतनं स्वशब्दादिति ॥ अस्यार्थः ॥ द्युभ्वाद्यायतनं यस्मिन्निति (मुं. 2-2-5.) वाक्योक्तस्वर्ग भूम्यादि सर्वाश्रयो विष्णुरेव। न त्वन्यः। कुतः। स्वशब्दात् स्वेति शब्दः स्वशब्दः स्वशब्दगृहीत ब्रह्मवाचकात्मशब्दादित्यर्थः ॥
॥ एवंच तमेवैकमात्मानमि(मुं. 2-2-5.)त्यात्मशब्दाद्विष्णोर्द्युभ्वाद्यायतनत्वमिति सिद्धं ॥
</1-3-1>
<1-3-2>
(2) ॥ मुक्तोपसृप्यव्यपदेशात् ॥ ॥
ननु विष्णौ मुख्योऽप्यात्मशब्दोऽरा इव रथनाभावित्यत्र बहुधाजायमानत्वरूपजीवलिंगात्। तस्य जीववादेव प्राणित्वसिद्धेः। ततश्च जीव एव द्युभ्वाद्यायतनं इति प्राप्ते सूत्रं पठति ॥
॥ ॥ मुक्तोपसृप्यव्यपदेशादिति ॥ अस्यार्थः ॥ द्युभ्वाध्यायतनत्वं न विष्णोरन्यस्य। किंतु विष्णोरेव। कुतः। मुक्तोपसृप्यव्यपदेशात्। भावप्रधानोऽयं। द्युभ्वाद्यायतनस्य वस्तुनोऽमृतस्यैषसेतुरिति मुक्तप्राप्यत्ववचनात्तस्य चान्यत्रायोगादित्यर्थः ॥
॥ एवंचामृतस्यैषसेतु(मुं. 2-2-5.)र्ब्रह्मविदाप्नोति परमि(तै. 2-1.)त्यादिषु मुक्तप्राप्यत्ववचनाद्विष्णोर्द्युभ्वाद्यायतनत्वमिति सिद्धं ॥
</1-3-2>
<1-3-3>
(3) ॥ नानुमानमतच्छब्दात् ॥ ॥
ननु विष्णुप्रापकवत् रुद्रप्रकृत्योरपि प्रापकसद्भावात्तयोर्द्युभ्वाद्यायतनत्वं स्यादिति प्राप्ते सूत्रं पठति ॥
॥ ॥ नानुमानमतच्छब्दादिति ॥ अस्यार्थः ॥ अनुमानं अनुमानमिति वा। मनुमानसिद्धप्रामाण्ययुतपाशुपताद्यागमैः सर्वाश्रयतया कल्पितं। रुद्रप्रधानादिकं द्युभ्वाद्यायतनंव। कृतः। अतच्छब्दात् भस्मधरोग्रत्वादितच्छुतिलिंगाद्यभावादित्यर्थः ॥
॥ एवंच रुद्रादिशब्दानां सावकाशत्वेन प्राणानामि(महा ना. 16-2.)त्यादिवाक्यस्य रुद्रपरवानिर्णयेनासाधकत्वात्। निरवकाशानां च भस्मधरोग्रादि शब्दानामभावात्। ततश्च विष्णोर्द्युभ्वाद्यायतनवमिति सिद्धं ॥
</1-3-3>
<1-3-4>
(4) ॥ प्राणभृच्च ॥ ॥
ननु स एष (मुं. 2-2-6.) इत्यत्र जायमानत्वरूपजीवलिंगश्रवणात्प्राणित्वसिद्धेश्च जीवसामान्यस्य वायुना वै गौतमसूत्रेणायं लोक इति (बृ. 5-7-2.) विषयभूतलोकाधारत्वस्य वायुनिष्ठत्वेन श्रवणाद्वायोर्वा द्युभ्वाद्यायतनत्वं स्यादिति प्राप्ते सूत्रमुपन्यस्यति ॥
॥ ॥ प्राणभृच्चेति ॥ जीवोऽप्यत एव द्युभ्वाद्यायतन इत्यर्थः ॥
॥ एवंच प्रागुक्तसावकाशसाधकसद्भावेऽपि निरवकाशात्मशब्दाभावादेव तत्प्रापकत्वेनाभिमतस्य बहुधा जन्मादेरजायमान इति (तै.आ. 3-13-1.) श्रुतेर्विष्णावेव संभवाच्च न जीवस्य वायोर्वा द्युभ्वाद्यायतनत्वमिति सिद्धं ॥
</1-3-4>
<1-3-5>
(5) ॥ भेदव्यपदेशात् ॥ ॥
ननु जीवलिंगस्य किं विष्णुत्वप्रतिपादनायासेन जीवस्यैव द्युभ्वाद्यायतनत्वे विष्णोस्तल्लाभसंभवात्। न चोक्तहेतुविरोधः। जीवेशाभेदाभिप्रायेण जीवेऽप्यात्मशब्दाद्युक्तिसंभवाज्जीव एव द्युभ्वाद्यायतनत्वेन प्रतिपाद्यो भवेदिति प्राप्ते सूत्रमाह ॥
॥ ॥ भेदव्यपदेशादिति ॥ अस्यार्थः ॥ अन्यमीशमिति जीवेशयोर्भेदोक्तेर्न तयोरैक्यमित्यर्थः।
॥ एवंच जुष्ठं यदा पश्यती(मुं. 3-1-1.)त्यत्र दर्शनकर्तृत्वेन प्रकृतजीवस्येशपदोक्तेश्वराद्भेदोक्ते र्विष्णुरेव द्युभ्वाद्यायतनत्वेन प्रतिपाद्य इति सिद्धं ॥
</1-3-5>
<1-3-6>
(6) ॥ ॥ प्रकरणात् ॥ ॥
ननु जीवस्य कस्माच्चिदीशादन्यत्व मुच्यते न तु परमात्मनः। ततश्च न तयोर्भेद इति प्राप्ते पराकुर्वत्सूत्रमाह ॥
॥ ॥ प्रकरणादिति ॥ अस्यार्थः ॥ अन्यमि(मुं. 3-1-1.)त्यादेर्विष्णुप्रकरणत्वात्। अत्र जीवस्य विष्णुभेद एवोच्यते। न त्वन्यस्माद्भेद इत्यर्थः ॥
॥ एवंच द्वेविद्य(मुं. 1-1-4.)इत्यस्य परविद्याविषयवस्तुनोऽत्राधीतत्वेन विष्णुप्रकरणत्वात्परमात्मन एव भेदव्यपदेशावगतेर्विष्णुरेव द्युभ्वाद्यायतन इति सिद्धं ॥
</1-3-6>
<1-3-7>
(7) ॥ स्थित्यदनाभ्यां च ॥ ॥
एवं न केवलं जुष्टमिति भेदश्रुतेर्जीवेशभेदोऽत्र प्रकरणे विवक्षित इति ज्ञायते किंतु लिंगादपीत्याह सूत्रकृत् ॥
॥ ॥ स्थित्यदनाभ्यां चेति ॥ अस्यार्थः ॥ ईशजीवयोर्द्वासुपर्णे(मुं. 3-1-1.) त्यादिवाक्योक्तं कर्मफलानुपजीवनस्तितितदुपजीवनरूपहेतुभ्यां च न तयोरैक्यं वाच्यमित्यर्थः ॥
॥ एवंच निर्दिष्टश्रुत्या जीवेशयोर्भेदस्य सिद्धत्वान्न जीवः किंतु विष्णुरेव द्युभ्वाद्यायतन इति सिद्धं ॥
</1-3-7>
॥ इति द्युभ्वाधिकरणं ॥
2.अधिकरणं ॥
अत्र भूमनाम्नो विष्णौ समन्वयः क्रियते।
<1-3-8>
(8) ॥ भुमा संप्रसादादध्युपेदशात् ॥ ॥
ननु भूमाख्यः प्राणो भवेत्। प्राणो वेति (छां. 7-15-1.)प्राणस्योत्तमत्वमुक्त्वा तदुत्तममनुकत्वा भूम्न आम्नातत्वात्। उत्क्रांत प्राणान् शूलेने(छां. 7-15-3.)त्यनेनोक्त्रमणलिंगश्रवणात्। न चेदं लिंगे विष्णाववकाशमर्हति। सर्वगतत्वात्। प्राणशब्दस्य वायुवाच्यत्वात्। ततश्चानंदमयोऽपि स एवेति प्राप्ते सूत्रमुपन्यस्यति ॥
॥ ॥ भूमा संप्रसादादध्युपदेशादिति ॥ अस्यार्थः ॥ भूमा यो वै भूमेति (छां. 7-23.) श्रुतौ भूमशब्दोक्तपूर्णो। विष्णुरेव। कुतः। संप्रसादात् भूम्नस्तत्सुखमित्यनेन संप्रसादशब्दितपूर्णसुखरूपत्वाभिधानात्। किंच अध्युपदेशात् नामादेरपि तदुपरि नामादिदेवतोत्तमत्वेन भूम्नोऽभिदानाच्चेत्यर्थः ॥
॥ एवंच विष्णुरेवायं भूमा। पूर्णसूखत्वात्। तस्य चान्यत्र निरवकाशत्वात्। किंचास्य भूम्नः सर्वेषामुपर्युपदेशः श्रूयते। न चास्यान्यत्रावकाशः। न चोपक्रमे प्राणशब्दश्रवणेन कथमसौ विष्णुरिति वाच्यं। प्राणशब्देनापि विष्णोरुक्तत्वात्। न चोत्क्रमणादि लिंगविरोधः। तमुत्क्रंतमिति(बृ. 6-4-2.)श्रुतिसिद्धत्वेन तस्य विष्णावेव मुख्यत्वात्। अथवाऽयं प्राणो वायुरेव। तथाऽपि न तस्य भूमत्वप्राप्तिः। एष तु वेत्यादिना सूचित प्रश्नाद्यध्याहारेण प्राणाद्विष्णोर्भूयस्त्वमुक्त्वा भूम्न आम्नानात्। सर्वेषां नामादीनामुपरि विष्णोः सर्वोत्तम त्वेनाभिधानात्। भूमा विष्णुरेवेति सिद्धं ॥
</1-3-8>
<1-3-9>
(9) ॥ धर्मोपपत्तेश्च ॥ ॥
युक्त्यंतरेण विष्णोर्भूमत्वप्रतिपादयत्सूत्रं पठति ॥
॥ ॥ धर्मोपपत्तेश्चेति ॥ अस्यार्थः ॥ स एवाधस्तादित्यादिना (छां. 7-25.) भूम्नि सर्वगतत्वादिधर्मश्रवणात्। तस्य च विष्णोरेवोपपत्तेः। विष्णुरेव भूमेत्यर्थः ॥
॥ एवंच प्राणपदेन वाय्यंतर्गतस्य विष्णोरभिधानात्। आत्मन आकाश(तै.आ. 2-1.)इत्यत्र संभूतपदेन भूतस्य तदभिमानिदेहस्य स्वरूपोत्पत्त्यभिधानेऽपि तदभिमानिनो हरेश्च देहसंबंधप्रादुर्भावयोश्चाभिधानवत् भूमा वाव प्राणादित्यनेन स्वरूपोत्तमत्वस्य भूम्नोऽभिधानेऽपि वाय्वंतर्गताद्रूपात्प्रसादोन्मुखत्वरूपोत्तमत्वविशिष्टभूमाभिधानसंभवेन प्रश्नप्रतिवचनसहिष्णुत्वसंभवात्। किंच स एवाधस्तादित्यादिना भूम्नि सर्वगतत्वादयो धर्माः श्रूयंते। नैतेऽन्यत्रावकाशा लभंते। ततश्च निरवकाशेभ्यः सर्वगतत्वादिभ्यो भूमा विष्णुरेवेति तस्यैवानंदमयत्वमिति सिद्धं ॥
</1-3-9>
॥ इति भूमाधिकरणं ॥
3.अधिकरणं ॥
अत्राक्षर नामसमन्वयः क्रियते।
<1-3-10>
(10) ॥ अक्षरमंबरांतधृतेः ॥ ॥
नन्वेतदक्षरं मध्यमं श्रीतत्वमेव। अदृष्टमिति श्रुतेः (बृ. 5-8-11)। अहं सोममित्यादिना (ऋ. 10-125-2.) तद्धर्मत्वेनावगतचंद्रसूर्याद्याधारत्वस्य सूर्याचंद्रमसावि(बृ. 5-8-9.)त्यादिनाऽक्षरप्रतीतेश्च। न च श्रीतत्वलिंगतया प्रसिद्धचंद्रसूर्याद्याधारत्वबलाद्यद्यक्षरं श्रीतत्वमुच्यते। तर्हि विष्णुलिंगतया प्रसिद्धादृश्यत्वादिबलाद्विष्णुरेव किं न स्यादिति वाच्यं। अदृश्यत्वादीनां येत्त्वक्षरमनिर्देश्यमि(भ.गी. 12-3.) त्यादिना सावकाशत्वात्। न चाक्षरश्रुतेरदृश्यत्वादिलिंगानां च मध्यमोत्तमाक्षरयोः साम्येऽत्र मध्यममेवोच्यत इति निर्बेधे को हेतुरिति वाच्यं। न तदश्नाति किंचनेत्यक्षरस्यानशनोक्तेः। तच्च विष्णोर्विरुद्धं। अत्ता चराचर ग्रहणादित्युक्तत्वात्। न च मध्यमाक्षरस्यानशनांगीकारे विरोधीऽस्ति। अत एतदक्षरं मध्यमं श्रीतत्वमेवेति प्राप्ते सूत्रितं ॥
॥ ॥ अक्षरमंबरांतधृतेरिति ॥ अस्यार्थः ॥ अक्षरं तद्वा एतदित्यक्षरशब्दवाच्यं ब्रह्मैव। न चित्प्रकृतिः। कुतः अंबरान्तधृतेः। स्मिन्नक्षरे एतस्मिन्खल्वक्षर(बृ. 5-8-11.) इति आकाशांतपदार्थधारकत्वश्रवणादित्यर्थः ॥
एवंचाकाश एव तदोतंच प्रोतंचे(बृ. 5-8-7.)त्याकाशाख्यप्रकृतेः सर्वाधारत्वमुक्त्वा एतस्मिन्खल्वक्षर इत्यादिनाऽक्षरस्य तदाधारत्वश्रवणादक्षरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-3-10>
<1-3-11>
(11) ॥ सा च प्रशासनात् ॥ ॥
युक्त्यंतरेण विष्णोरेवाक्षरत्वं प्रतिपादयत्सूत्रं व्याचष्टे ॥
॥ ॥ सा च प्रशासनादिति ॥ अस्यार्थः ॥ चो यतः। सा अंबरांतधृतिः। प्रशासनात् विष्णोराज्ञमात्रादेव भवतीति एतस्य वेति श्रुता उक्ता। अतोऽपि ब्रह्मैवाक्षर शब्दवाच्यं। न चेतनप्रकृतिरित्यर्थः ॥
एवंचाक्षरस्याज्ञामात्रेण सर्वाधारत्वश्रवणात्। सप्तार्धगर्भेति (ऋ. 1-164-36.) श्रुतेः। अतोऽक्षरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-3-11>
<1-3-12>
(12) ॥ अन्यभावव्यावृत्तेश्च ॥ ॥
युक्त्यंतरेण विष्णोरक्षत्वं प्रतिपादयत्सूत्रमाह ॥
॥ ॥ अन्यभावव्यावृत्तेश्चेति ॥ अस्यार्थः ॥ अन्यभावानां विष्ण्वन्यवस्तुस्वभावानां स्थूलत्वादीनां। अस्थूलमनण्विति (बृ. 5-8-8.)श्रुतावक्षरे व्यावृतेरभावस्य कथनाच्च ब्रह्मैवाक्षरमित्यर्थः ॥
एवंचास्थूलमित्यादिनाऽन्यवस्तुस्वभावानां स्थौल्यादीनां व्यावृत्त्यभिधानादक्षरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-3-12>
॥ इति अक्षराधिकरणं ॥
4.अधिकरणं ॥
त्रानेकप्रकरणात्मकं `सदेव' इत्यादिस्थानं समन्वीयते।
<1-3-13>
(13) ॥ ईक्षतिकर्मव्यपदेशशात्सः ॥ ॥
ननु सत् प्रधानमेव भवेत्। न विष्णुः। सतो बहु स्यामिति(छां. 6-2.) बहुधाभावाख्यविकारित्वश्रवणात्। न च विकारीत्वं परमात्मनि संभवति। अविकारः सदा शुद्ध इत्यादिना तस्याविकारित्वात्। ततश्च प्रधानमेव सदिति तस्यैव जगत्कर्तृत्वमिति प्राप्ते सूत्रमाह ॥
॥ ॥ ईक्षतिकर्मव्यपदेशात्स इति॥ अस्यार्थः ॥ सदेवेत्यादि(छां. 6-2.) प्रकरणस्थितसदादिशब्दवाच्यः विष्णुरेव न प्रधानं। कुतः। ईक्षतिकर्मव्यपदेशात् तदैक्षतेति (छां. 6-2-3.) चेतननिष्ठैक्षतेति शब्दोपलक्षितदर्शनाख्यक्रियाभिधानादित्यर्थः ॥
॥ एवंच तदैक्षतेति ईक्षत्याख्यव्यापारश्रवणात्तेन प्रेक्षापूर्वकारित्वलाभात्। ईक्षणस्याचेतने प्रधाने कथमप्ययोगात्। माभूत्तर्ह्यचेतना प्रकृतिः। चेतना प्रकृतिः किं न स्यादिति चेत्। चेतनप्रकृतेः स्त्रीत्वेन स्वातंत्र्येण सर्जकत्वायोगात्। न च बहुभावाख्यप्रधानलिंगश्रवणेन स न विष्णुरिति वाच्यं। अजायमानो बहुधा विजायत (तै.आ. 3-13.1.)इत्याविकारस्यापि बहुभावश्रवणेन तस्य सावकाशत्वात्। सदिति विष्णुरेवोक्तस्तस्यैव स्रष्टत्वमिति सिद्धं ॥
</1-3-13>
॥ इति सदधिकरणं ॥
5.अधिकरणं ॥
अत्र सर्वाधारतयाऽन्वेष्टव्यतया च साक्षाद्वा व्यवधानेन वा सामान्यतो हृत्पद्मस्थत्वलिंगस्य ब्रह्माणि समन्वयः क्रियते।
<1-3-14>
(14) ॥ दहर उत्तरेभ्यः ॥ ॥
नन्वाकाश एव हृपद्मस्थो भवेत्। दहरोऽस्मिन्निति (छां. 8-1.) पद्मस्थे दहराकाशस्थितिश्रवणात्। तस्यांते सुषिरमिति(महा ना. 11.)व्याख्यानाच्च। आकाशशब्देन यदि सुषिरमेवाभिमतं तस्मिंश्च यदंतरिति हृत्पद्मस्थाकाशगतः सर्वाधारतयोच्येत तर्हि वाक्यान्वयानुपपत्तेः। तथाहि। तस्मिन्नित्यत्र विष्णुत्वाभिप्राये किं तत्र विद्यत इति प्रश्नस्य ब्रह्म विद्यत इति परिहारं विना यावन्वा इत्यादरेभिप्रायासंगतिः। आकाशपक्षे त्वस्त्यस्यान्वयः। हृदयाकाशस्थमुपास्यमित्युक्ते किं तत्र स्थितमिति प्रश्ने यावान्वेति प्रागुक्ताकाशस्य विशिष्योभेऽस्मिन्नित्यादिपरिहारसंश्लोषात्। न च यावानित्यादिनाऽऽकाशाख्यो विष्णुः सर्वाधारतया परिहारे कभ्यत इत्यन्वयोपपत्तिः। तमिन्सर्वं प्रतिष्ठितमिति साक्षात्सुषिरस्यैव सर्वाधारत्वोक्तिविरोधात्। अत आकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वं। अतो भगवदितरदेव चंद्रादित्याधाराक्षरमिति प्राप्ते सूत्रितं ॥
॥ ॥ दहर उत्तरेभ्य इति ॥ अस्यार्थः ॥ दहरे दहरं पुण्रीकं वेश्मेति वाक्योक्तहृत्पद्मस्थाल्पाकाशे स्थितो विष्णुरेव जीवादिः। कतुः। उत्तरेभ्यः य आत्मा अपहतपाप्मे(छां. 8-7.)त्याद्युत्तरवाक्योक्तनिर्गतपाप्मत्वादिधर्म्येभ्य इत्यर्थः ॥
एवंच दहरपद्मस्थो विष्णुरेव भवेत्। अपहतपाप्मेत्याद्युत्तरवाक्ये हृत्पद्मस्थस्यापहतपाप्मत्वादिगुणश्रवणात्। पापाद्यभवास्यान्यत्र कथंचिद्योगेऽपि सर्वथा सत्यकामत्वादिकस्यायोगात्। योऽशनयेति(बृ. 5-5.)श्रुतेः। निरपेक्षगुणानामन्यत्राभावात्। नित्यतीर्णेति(पाद्म.)वचनत्। सापेक्षनिरपेक्षयोर्निरपेक्षस्य स्वीकार्यत्वात्। अतो हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥
</1-3-14>
<1-3-15>
(15) ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिंगं च ॥ ॥
युक्त्यंन्तरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रमुपन्यस्यति ॥
॥ ॥ गतिशब्दाभ्यां तथा हि दृष्टं लिंगं चेति ॥ अस्यार्थः ॥ गतिशब्दाभ्यां अहरहर्गच्छन्त्य एतं ब्रह्मलोकमिति (छां. 8-3-2.) वाक्ये श्रुताभ्यां सुप्तप्राप्यत्वब्रह्मशब्दाभ्यां हेतुभ्यां। दहरहृतपद्मस्थं ब्रह्मैव। किंच यतः अरश्चेति (छां. 8-5-3.) श्रुतौ तथा सुप्तप्राप्यत्ववत्। हि विष्णुनिष्ठत्वेन प्रसिद्धं। लिंगं अरण्याख्यसुधासमुद्राश्रयलोकवत्त्वरूपज्ञापकं। हृत्पद्मस्थे दृष्टं उक्तं। अतोऽपि दहरहृत्पद्मस्थो विष्णुरेवत्यर्थः ॥
एवंचाहरर्हगच्छन्त्य इति सुप्तप्राप्यत्वाभिधानात्। सुप्तप्राप्यावस्य विष्णुलिंगत्वात्। सता सोभ्येति (छां. 6-8.) श्रुतेः। अरण्यनामामृतसमुद्रद्वयाश्रयलोकवत्त्वरूपलिंगस्य हृत्पद्मस्थ्स्य दृष्टावाच्च। अरश्चेति श्रुतेः। ततश्च विष्णुरेव हृत्पद्मस्थ इति सिद्धं।
</1-3-15>
<1-3-16>
(16) ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धे ॥ ॥
हेत्वंतरेण विष्णोर्हृत्पद्मस्थत्वं प्रतिपादयत्सूत्रं पठति ॥
॥ ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेरिति ॥ अस्यार्थः ॥ धृतेः स एष सेतुर्विधृतिरिति (छां. 8-4.) हृत्पद्मस्थस्य सर्वाधारत्वश्रवणाच्च विष्णुरेव हृत्पद्मस्थः। किंच छांदाग्ये हृत्पद्मस्थनिष्टतयोक्तस्य महिम्नः सर्वेश्वरत्वादेः। अस्मिन् एष सर्वेश्वर इति वाजसनेयवाक्ये। उपलब्धेःश्रवणात्। तत्समाख्यानादपि विष्णुरेव हृत्पद्मस्थः। ननु समाख्यानादपि कुतो विष्णुरेवेत्यत उक्तं। अस्येत्यादि। अस्य विष्णुमहिम्नः। अस्मिन् वाजसनेयकवाक्ये। श्रवणादेवेत्यर्थः ॥
एवंच वाजसनेयके वाक्ये य एषोतर्हृदय (बृ. 6-4-22.) इत्याद्युक्त्वैष सर्वेश्वर इत्यादिना हृदये विष्णोरुक्तत्वेन तत्सामाख्यानात्। एतस्मिन्खल्वक्षरे, (बु. 5-8-11.) सहिसर्वाधिपतिः, (महा ना. 11.) सर्वेशो विष्णुरेवैकः, (सकांदे.) इत्यादि श्रुतिस्मृतीषूक्तलिंगानामन्यत्र सावकाशत्वाभावात्। अतो हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥
</1-3-16>
<1-3-17>
(17) ॥ प्रसिद्धेश्च ॥ ॥
समाख्यारूपयुक्त्यंतरेण विष्णोर्हृत्पद्मगताकाशस्थत्वं साधयत्सूत्रं पठति ॥
॥ ॥ प्रसिद्धेश्चेति ॥ अस्यार्थः ॥ दहरं विपाप्ममिति (महा ना. 10-7.) श्रुतौ विष्णोर्हृत्पद्मस्थत्वप्रसिद्धेश्च स एव हृत्पद्मस्थ इत्यर्थः ॥
एवंच दहरं विपाप्ममिति समाख्यारूपश्रुत्यंतरे विष्णोर्हृत्पद्मस्थत्वप्रसिद्धेः। न च प्रश्नोत्तरयोरसंगतिः। ब्रह्मपुरशब्देनैव हृत्पद्मस्थस्य ब्रह्मत्वे सिद्धे स्वरूपमात्रे प्रश्नायोगात्। कीदृशं तदिति भावेन किं तदिति प्रश्ने ब्रह्मस्वरूपन िरूपणाय यावानित्यादिपरिहारसंश्लेषात्। न च साक्षात्पद्मगतस्य विष्णुत्वाभ्युपगमे सुषिरशब्दस्याकाशवाचित्वेन पद्मगताकाशस्यैव विष्णुत्वांगीकारे वा दहरपद्मस्याकाशत्वं विष्णोस्त्वाकाशगतत्वमिति तस्यैव सर्वाधारत्वमित्यभ्युपगमेऽपि वा साक्षात्सुषिरस्य सर्वाधारत्वोक्तेः सुषिरश्रुतिवि रोधः। यथा मंदिरस्थमंजूषांतमपि वस्तु मंदिरस्थमिति संगीयते तथेहापि सुषिरश्रुतेः सुषिरस्याकाशस्यैव साक्षात्सर्वाधारत्वप्रतिपादिकायास्तस्यांत इति (महा ना. 11.) सुषिरपदघटितश्रुतेः पद्मगतसुषिरांतस्थपरमात्मानमपेक्ष्य प्रवृत्तत्वात्। अतो हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥
</1-3-17>
<1-3-18>
(18) ॥ इतरपरामर्शात्स इति चेन्नासंभवात् ॥ ॥
नन्वाकाशस्य सर्वाधारतया हृत्पद्मस्थत्वं जीवस्यैव भवेत्। उत्तरत्र परंज्योतिरित्युक्त(छां. 8-12-3.) हृत्पद्मस्थात्मतया परामर्शात्। दहरस्थत्वलिंगात्। न चान्वयानुपपत्तिः। विष्णुपक्षे वाक्ययोजनावज्जीवपक्षेऽपि योजयितुं शक्यत्वादित्यादिना भगवतो हृत्पद्मस्थत्वमाक्षिप्य समादधत्सूत्रमाह।
॥ ॥ इतरापरामर्शात्स इति चेन्नासंभवादिति ॥ अस्यार्थः ॥ इतरपरामर्शात्। स्वेन रूपेणाभिनिष्पद्यक (छां. 8-12-3.) इत्युक्तस्य जीवस्य हृत्पद्मस्थात्मतया एष आत्मे (छां. 4-15-1.) त्येतच्छब्देन परामर्शात् ग्रहणात्। जीव एव हृत्पद्मस्थ इति चेन्न। कुतः। असंभवात् हृत्पद्मनिष्ठतया श्रुतानामपहतपाप्मत्वादिगुणानां जीवे स्वातंत्र्येणासंभवादित्यर्थः।
एवं च जीवस्यापहतपाप्मत्वाद्यसंभवेन विष्णुरेव हृत्पद्मस्थ इति सिद्धं।
</1-3-18>
<1-3-19>
(19) ॥ उत्तराच्चेदाविर्भूतस्वरूपमस्तु ॥ ॥
नन्वेष संप्रसाद इत्युक्तजीवस्य स तत्र पर्येतीत्यादिना सत्यकामत्वप्रतीतेस्तत एव विशोकत्वादिसिद्धेरुक्तगुमसंभवादिति जीव एव हृत्पद्मस्थ इति प्राप्ते समादधत्सूत्रं पठति ॥
॥ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्त्विति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। नेतिशे षः। तथा च उत्तरात् स तत्र पर्येता(छां. 8-12-3.)त्युत्तरवाक्यात्। जीवस्य सत्यकामत्वादिप्रतीतेः। तत एव विशोकत्वादेः संभवात्। स एव हृत्पद्मस्थ इति चेन्न। कुतः। यतस्तद्वाक्ये स्वेनेत्युत्तरवाक्यबलात् आविर्भूतस्वरूपः मुक्त एव प्रतिपाद्यः। न जीवमात्रं। मुक्तश्च न स्वोतोऽपहतपाप्मत्वादिगुणकः। अतो न तस्यापि हृत्पद्मस्थत्वमित्यर्थः ॥
एवंचोत्तरवाक्ये मुक्तजीवस्योच्यमानत्वेन हृत्पद्मस्थस्य देहांतर्वर्तितया मुक्तत्वायोगात्। न चैतद्वाक्यस्य मुक्तविषयत्वेऽपि मुक्तस्यापि जीवत्वेऽपहतपाप्मत्वादिसंभवाभावेन जीव एव तद्गुणको हृत्पद्मगततया भाविभाविनोच्यत इति वाच्यं। मुक्तस्यापीश्वरप्रसादादेव तद्गुणाविर्भावेन स्वतोऽपहतपाप्मत्वाद्यसंभवात्। हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥
</1-3-19>
<1-3-20>
(20) ॥ अन्यार्थश्च परामर्शः ॥ ॥
ननु `एषः' इति(छां. 8-3-4)जीवं परामृश्य `आत्मा' इति तस्य हृत्पद्मस्थात्मत्वाभिधानादमुख्यापहतपाप्मत्वादिगुणोऽपि जीव एतच्छब्दपरामर्शबलाद्धृत्पद्मस्थात्मा स्यादिति प्राप्ते सूत्रितं ॥
॥ ॥ अन्यार्थश्च परामर्श इति ॥ अस्यार्थः ॥ चः एवार्थे। परामर्शः एष आत्मेति वाक्यगतैत्छब्दः। अन्यार्थः परंज्योतिरित्युक्तपरमात्मार्थ एव न जीवार्थ इत्यर्थः ॥
एवंचैष आत्मेति परमात्मानमेवैष इति परामृश्य तस्यात्मत्वोक्तेर्न जीवः किंतु विष्णुरेव हृत्पद्मस्थ इति सिद्धं ॥
</1-3-20>
<1-3-21>
(21) ॥ अल्पश्रुतेरिति चेत्तदुक्तं ॥ ॥
ननु यथा जीवेऽसंभाव्यमानापहतपाप्मत्वादिगुणश्रवणान्नजीवस्तथा परमात्मन्यसंभाव्यमानजीवलिंगस्याप्यल्पस्थानस्थितत्वस्य श्रवणात्। ततश्च हृत्पद्मस्थो जीव एवेति प्राप्ते सूत्रं पठति ॥
॥ ॥ अल्पश्रुतेरिति चेत्तदुक्तमिति ॥ अस्यार्थः ॥ अल्पश्रुतेः दहर (छां. 7-1-1.) इत्यल्पस्थानस्थितत्वोक्तेः। जीव एव हृत्पद्मस्थ इति चेत्। नेति शेषः। कुतः। यतस्तदुक्तं। तत्तु अल्पस्थानस्थितत्वं। उक्तं निचाय्यत्वादेव व्योमवच्चेत्यत्र व्याप्तस्यापि विष्णोः उपासनार्थमुच्यत इत्युक्तं आत्मांतर्हृदय इति श्रुत्युक्तं च। अत इत्यर्थः ॥
एवंच निचाय्यात्वादेवमित्यत्र सर्वगतस्यापि विष्णोर्व्योमवदल्पस्थानस्थितेरुक्तत्वात्। एषम(छां. 3-14-3.)इत्यत्र सर्वगततया श्रुत्युक्तत्वाच्च हृत्पद्मस्थो विष्णुरेवेति सिद्धं ॥
</1-3-21>
॥ इति दहराधिकरणं ॥
6.अधिकरणं ॥
अत्रानुकूल्येन गृह्यमाणत्वं लिंगं ब्रह्मणि समन्वीयते।
<1-3-22>
(22) ॥ अनुकृतेस्तस्य च ॥ ॥
ननु ज्ञानिसुखस्यैवानुकूल्येन गृह्यमाणत्वं भवेत्। परमं सुखमिति (कठ. 5-13, 14.) सुखश्रुतेः। तेषां सुखमिति ज्ञानिसुखस्यैव प्रकृतत्वात्। तस्यैवतच्छब्देन परामर्शस्य युक्तत्वात्। न च वाच्यं भगवतोऽपि प्रकृतत्वात्तत्परामर्शोऽयमिति। तस्य नपुंसकशब्देनाप्रकृतस्य तदित्यादिपरमार्शायोगात्। संभवत्समीपपरामर्शं विहाय दूरस्थपरामर्शग्रहणे कारणाभावादिति प्राप्ते सूत्रितं ॥
॥ ॥ अनुकृतेस्तस्यचेति ॥ अस्यार्थः ॥ चः समुच्चये। तस्येति श्रुतिप्रतीकग्रहणं। अनुकृतिः अनुक्रिया। तथाच कथं नु तद्विजानीयामिति (कठ. 5-14.) ज्ञानार्थं प्रार्थितत्वरूपानुकूल्येन गृह्यमाणं ब्रह्मैव। कुतः। अनुकृतेः तमेव भांतमनुभाति सर्वमिति (कठ. 2-5-15) वाक्यशेषे सूर्यादीनां भगवत्क्रियानुसारिप्रकाशाख्य क्रियाकर्तृत्वश्रवणात्। तस्य भासा सर्वमिदं विभातीति (कठ. 2-5-15) जगतः परमात्मप्रभाप्रकाशत्वश्रुतेरित्यर्थः ॥
एवंच तमेव भांतमिति सूर्यादितेजसां विष्ण्वधीनत्वश्रवणात्। तस्य भासेति सर्वजगत्प्रकाशकत्वोक्तेश्च। अहं तत्तेज इति (चतुर्वेदशिखायां.)श्रुत्या यदादित्यगतमिति (भ.गी. 15-12.) स्मृत्याच तल्लिंगद्वयस्य विष्णुलिंगत्वावगतेः न च सुखश्रुतिविरोधः। परमं सुखमिति (कठ. 5-13, 14.) सुखश्रुतेरपि तत्परत्वात्। चेतनश्चेतनानामिति परमात्मनोऽपि प्रकृतत्वात्। यदनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामित्यानुकूल्येन गृण्हंति। तदनिर्देश्यं सुखमेतत्प्रकृतपरमात्मनो रूपमिति मन्यंत इति वाक्ययोजनया परमात्मनः परामर्शोपपत्तेः। सूर्यादिप्रकाशनियामकत्वादीनां लिंगानामन्यत्रानवकाशेन दूरस्थ परामर्शस्यैव न्याय्यत्वात्। ततश्चानुकूल्येन गृह्यमाणो विष्णुरेवोति सिद्धं ॥
</1-3-22>
<1-3-23>
(23) ॥ ॥ अपि स्मर्यते ॥ ॥
यदेताल्लिंगद्वयस्य विष्णुनिष्ठत्वमहमिति। (चतुर्वेदशिखायां.) श्रुत्योपपादितं तत्स्मृत्याऽप्युपपादयत्सूत्रमुपन्यस्यति ॥
॥ ॥ अपि समर्यत इति ॥ अस्यार्थः ॥ न केवलं हेतुकृतानुकृत्वादेर्विष्णुधर्मत्वं श्रूयते। किंतु कृष्णादिभिर्यदादित्यगतं तेज (भ.गी. 15-12.)इत्यादिस्मृत्यादिषूच्यत इत्यर्थः ॥
एवंच यदादित्यगतमित्यादिस्मृत्युक्तत्वेनापि विष्णुधर्मत्वश्रवणादानुकूल्येन गृह्यमाणं ब्रह्मैवेति सिद्धं ॥
</1-3-23>
॥ इति अनुकृत्याधिकरणं ॥
7.अधिकरणं ॥
अत्रेशाननामसमन्वयः क्रियते ॥
<1-3-24>
(24) ॥ ॥ शब्दादेव प्रमितः ॥ ॥
नन्वीशानो वायुरेव भवेत्। एवमेवैष (प्रश्न. 3-4.) इत्यत्र प्राणव्यवस्थापकत्वं योऽयं मध्यमेति (बृ. 3-5-21.) मध्यमत्वं कुविदंग इति (ऋ. 7-91-1.) सर्वदेवोपास्यत्वमेवमादिवायुधर्माणां श्रवणात्। न चेदमानिष्टं। वायोरपि जीज्ञास्यताऽभ्युपगमात्। विष्णुजिज्ञास्यत्वस्याबाधात्। ततश्चेशानपदोक्तगुमस्य वायुनिष्ठत्वान्न विष्णोः सर्वगुणपूर्णत्वमिति प्राप्ते सूत्रितं ॥
॥ ॥ शब्दादेव प्रमित इति ॥ अस्यार्थः ॥ विष्णुरेव ईशानो भूतभव्यस्येति (कठ. 4-12.) ईशानशब्दवाच्यत्वेन प्रमितः तत्त्वतो निश्चितः। न तु वायुः। कुतः। शब्दादेव मध्ये वामनमिति (कठ. 5-3.) निरवकाशवामनश्रुतेरेवेत्यर्थः ॥
एवंच वामनश्रुतिसद्भावात्। तस्याश्च महायोगरूढिसिद्धायास्तत्प्रमापकत्वात्। लिंगापेक्षया श्रुतेः प्राबल्यात्। तेषामपि लिंगानां तद्वैत्वं प्राण (तै.आ. 3-14-4.) इत्यत्र वैष्णवत्त्वस्य सिद्धत्वात्। विष्णुरेवेशान इति सिद्धं ॥
</1-3-24>
<1-3-25>
(25) ॥ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ ॥
ननु माभूत्प्राणव्यवस्थापकत्वादिलिंगेनेशनस्य वायुत्वसिद्धिः। अंगुष्ठमात्रत्वलिंगेन तु सिध्येदेव। तस्य विष्णावसंभवात्। यद्यपि विष्णौ परिमितत्वं संभवति। तथाऽप्यंगुष्ठमात्र इति (महा.ना. 16-3.) विशिष्योक्तिबललभ्यपरिमाणांतरव्यवच्छेदस्यासंभव एवेति प्राप्ते समादधत्सूत्रमाह ॥
॥ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वादिति ॥ अस्यार्थः ॥ तु शब्द ेवार्थे। अपि शब्दार्थेच। तथा च सर्वगतस्यापि विष्णोः अंगुष्ठमात्रत्वोक्तिः हृद्यपेक्षया अंगुष्ठपरिमितहृदयाकाशापेक्ष्यैव। न तावता विष्णोः परिच्छिन्नत्वं ज्ञेयमित्यर्थः। ननु पश्वादीनामंगुष्ठाभावात्कथंतन्मात्रवचनं सर्वाधिकारिकमित्यत उक्तं। मनुष्याधिकारत्वादिति। तथा चैतद्विद्योपासनस्य मनुष्याधिकारिकत्वात्। तान्प्रत्येतद्विद्याप्रवृत्तिसंभवात्। एश्वादीनामंगुष्ठाभावेपि न दोष इति भावः ॥
एवंच हृद्यवकाशेऽभिव्यक्तस्य परमात्मनोंऽगुष्ठमितत्वेन तथोपासनायैव श्रुतावंगुष्ठमात्रत्वस्योक्तत्वेन परिमाणांतरव्यवच्छेदाभिप्रायकल्पनायोगात्। यद्यपीतरप्राणिनामंगुष्ठाभावस्तथाऽपि मनुष्याणामेव वेदविद्याधिकारात्तान्प्रत्यंगुष्ठमात्रत्वोक्तेर्युक्तत्वात्। तस्मादीशानो विष्णुरेवेति ईशानपदोक्तं गुणक्त्वं जीज्ञास्यत्वं च तस्यैवेति सिद्धं ॥
</1-3-25>
॥ इति वामनाधिकरणं ॥
8.अधिकरणं ॥
अत्र देवानां ब्रह्मविद्याधिकारः समर्थ्यते।
<1-3-26>
(26) ॥ ॥ तदुपर्यपि बादरायणः संभवात् ॥ ॥
ननु न देवानां वेदविद्याधिकारः संभवति। तेषामनादिनित्यपदत्वे वा विद्यादिना प्राप्तपदत्वेवाऽधिकारासंभवात्। देवानां प्राप्तपदत्वेनावाप्तमोक्षेतरसकलपुरुषार्थानां सर्वज्ञत्वे मोक्षप्राप्तिं जानतां क्वापि कामनाऽसंभवात्। देवानामुत्पत्तिविनाशित्वे ततः पूर्वं देवताऽभावेन देवत्वप्राप्त्यर्थं देवैरनुष्ठीयमानशतकृत्वादिकर्मणां व्यंग्यत्वेन देवादिपदाप्रापकत्वात। न हि व्यंगं कर्म फलजनकं। बाह्यकृतयज्ञादेरपि फलजनकत्वप्रसंगात्। तथा चासतो वंध्यापुत्रस्याधिकारादरशनाद्देवानां नाधिकार इति प्राप्ते सूत्रितं ॥
॥ ॥ तदुपर्यपि बादरायणः संभवादिति ॥ अस्यार्थः ॥ तदुपर्यपि देवत्वयोग्यमनुष्याणां न केवलं मनुष्यत्वदशायां किंतु देवादित्वप्राप्त्यनंतरमपि वेदविद्याधिकारोऽस्ति। कुतः। संभवात् तेषाम्यप्यधिकारप्रयोजकविशिष्टबुद्धेर्योगादिति बादरायणो भगवान्वक्तात्यर्थः ॥
एवंच न देवानां तिर्यगादीनामिव वेदविद्याधिकारोऽसंभावितः। संभावकस्य विशिष्टबुध्यादेर्भावात्। सत्यां च संभावनायामयं प्रयोग उपजायते। देवा वेदविद्याधिकारवंतः। तदुपर्यपि देवत्वप्राप्त्युपर्यपि देवाधिकारोपयोगिनोः सामर्थ्यविद्वत्वयोरर्थित्वस्य मोक्षगतातिशययोग्यत्वादेव संभवात्। न च देवा न विद्याधिकारिणोऽमनुष्यत्वार्त्तिर्यगादिवदिति मानं। विशिष्टबुध्यादिराहित्यस्योपाधित्वात्। न च जरितार्यादिष्वनधिकारेऽपि विशिष्टबुध्यादेः सत्वेन विशिष्टबुध्यादिराहित्याभावेन साध्याव्यापकत्वान्नायमुपाधिरिति। तेषामधिकारत्वे नानधिकाररूपसाध्यस्य तत्राभावात्। अयमग्ने जरितेति ((ऋ. 10-142.1.) श्रुतेः। ननु तेषामप्यधिकारे पूर्वाधिकरणविरोधः। अमनुष्यत्वादित्यधिकारानिषेधादिति चेन्न। भावानवबोधात्। पूर्वाधिकारिणेंऽगुष्ठाभावेनांगुष्टमात्रविद्यायामनधिकार उक्तः। इह तु तत्रोक्तसमंगीकृत्य विद्यांतराधिकाराभिधानात्। अतो देवानां वेदविद्याधिकार इति सिद्धं ॥
</1-3-26>
<1-3-27>
(27) ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ ॥
ननु यद्देवानां सादिविनाशित्वमिति द्वितीयकल्पमंगीकृत्य वेदविद्याधिकारकथनं तदयुक्तं। देवानां सादिविनाशित्वे ततः पूर्वं देवताऽभावेन पूर्वकल्पे प्रवृत्तकर्मण्युद्देशाभावाद्वैयर्थ्याख्यविरोधापत्तेरित्याक्षिप्य समादधत्सूंत्रं पठति ॥
॥ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनादिति ॥ अस्यार्थः ॥ देवदीनां सादित्वे कर्मणि पूर्वकल्पे प्रवृत्तयज्ञादिकर्मणि विषये। विरोधः उद्देश्याभावनिमित्तवैयर्थ्याख्यविरोधः स्यादिति चेन्न। कुतः। अनेकप्रतिपत्तेः। अनेकेषां योग्यमनुप्याणां। देवतापदप्राप्तेर्दशनात् यत्र पूर्व इति (तै.आ. 3-12.) श्रुतावुक्तत्वादित्यार्थः ॥
एवंच तेषां प्रवाहतोऽनादिनित्यत्वेनैतद्देवानामभावेऽपि देवतांतरसद्भावात्। तेह नाकमिति श्रुतौ एकैकगणशोऽनंतानां देवत्वादियोग्यमनुष्याणां विद्याकर्मभ्यां पूर्व पूर्व देवतापदप्राप्तेर्दर्शनात्। ततश्च वैयर्थ्याख्यविरोधाभाव इति सिद्धं ॥
</1-3-27>
<1-3-28>
(28) ॥ शब्द इति चेन्नातःप्रभवात्प्रत्यक्षानुमानाभ्यां ॥ ॥
ननु वेदानित्यत्वे प्रामाण्यायोगेन नित्यत्वं तादंगीकार्यं। वाचा विरूपेति (ऋ. 8-64-6.) श्रुतेः। तद्वाच्या देवा यद्यनित्यास्तार्हि पूर्वदेवतापरित्यागेनान्यदेवतावाचकत्वमग्युपेयं। न चैतद्धटते। वाक्यस्यार्थेन स्वाभाविकसंबंधात्। न हि किमपि वाक्यं कंचित्कालं कंचिदर्थं प्रतिपाद्य तमपहाय कालंतरेऽर्थांतरं प्रतिपादयतीति भाविकसंबंधात्। न हि किमपि वाक्यं कंचित्कालं कंचिदर्थं प्रतिपाद्य तमपहाय कालांतरेऽर्थांतरं प्रतिपादयतीति दृष्टचरं येन वेदेऽपि तथा स्यात्। वदे तथात्वमंगीकुर्वाणेन वेदस्यार्थेन सग्बन्धः काल्पनिक इत्यंगीकार्यः। तथा काल्पनिकसम्बन्धस्याप्रामाण्यप्रयोजकत्वाद्वेदाप्रामाण्यं। काल्पनिकसम्बन्धस्य प्रामाण्यप्रयोजकत्वेऽपि वेदप्रामाण्यं न घटते। प्रामाणिकत्वेन पूर्वदेवताप्रवाहनियमेऽपि प्रमाणाभावेनोत्तरकल्पेष्वपि देवताप्रवाहनियमाभावेन काल्पनिकसम्बन्धस्याप्यभावादित्याक्षिप्य समादधत्सूत्रमाह ॥
॥ ॥ शब्द इति चेन्नातः प्रभवाप्रत्यक्षानुमानाभ्यामिति ॥ अस्यार्थः ॥ विरोध इति वर्तते। देवानामाद्यन्तवत्त्वे शब्दे वेदे। अप्राण्याख्यविरोधः स्यात्। नित्यत्वेन श्रुतिसिद्धवेदवाचां कदाचिद्वाच्यहीनत्वादिति भावः। इति चेन्न। अतः धाता यथेति (महाना. 5-7) वेदवाक्यात्। तथा प्रत्यक्षानुमानाभ्यां। महतां प्रत्यक्षात्। देवानां प्रवाहतः उत्पत्तिसाधकलिंगाच्च। प्रभवात्। प्रतिकल्पं नियमेन प्रभवशब्दितोत्पत्त्यवगमाच्चोक्तं युक्तमिति भावः ॥
एवंच सूर्याचंद्रमसाविति श्रुतेः। महतां प्रत्यक्षात्। उत्तरकऽल्पः देववान् अप्रलयकालत्वादित्यनुमानस्य च भावात्। न च संबंधस्य काल्पनिकत्वान्न प्रामाण्यप्रयोजकत्वमिति वाच्यं। अन्यान्यदेवतासंबंधस्यानादिनिधनेति प्रामाण्यसिद्धत्वेनाकाल्पनिकत्वात्। तथा च वैयर्भ्याख्यविरोधाभाव इति सिद्धं ॥
</1-3-28>
<1-3-29>
(29) ॥ ॥ अत एव च नित्यत्वं ॥ ॥
युक्त्यंतरेण देवप्रवाहस्य नित्यतां साधयत्सूत्रमुपन्यस्यति
॥ ॥ अत एव च नित्यत्वमिति ॥ अस्यार्थः ॥ अत एव पूर्वपक्ष्युक्तवेदनित्यत्वादेव। तदन्यथाऽनुपपत्त्याऽपि तद्वाच्यदेवताप्रवाहस्य नित्यवं सिध्यतीत्यर्थः ॥
एवंच परेणाभिहितवेदनित्यत्वस्यान्यताऽनुपपत्त्यैव देवताप्रवाहनित्यत्वस्य सिद्धत्वात्। वाच्यस्य नित्यत्वाभावे एवं रूपाया वाचो नित्यत्वं नोपपद्यते। उत्पत्तिविनाशित्वात्स्वरूपनित्यत्वायोगेन तेषां प्रवाहरूपेणैव नित्यत्वं सिद्धं ॥
</1-3-29>
<1-3-30>
(30) ॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ॥
ननु देवताप्रवाहस्य नित्यत्वेऽपि वेदप्रामाण्यस्यानुपपद्यमानत्वं भवेत्। पूर्वकल्पमुक्तानामुत्तरकल्पे पुनरावर्तनन्वे मुक्तेरपुनरावृत्तित्वात्। तदन्येषां पुनरावर्तनत्वे धर्मिभूतदेवानित्यत्वहेतुकं विरोधाभावेऽपि नामरूपादिधर्मवैचित्र्यकृतविरोधापत्तेः। वाचकवेदस्य प्रतिकल्पं पाठभेदाभावेनैकविधत्वात्। वाच्यदेवानां च नानाविधनामरूपवत्त्वादिति प्राप्ते सूत्रमाह ॥
॥ ॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्चंति ॥ अस्यार्थः ॥ आ वृत्तावपि पूर्वकल्पे मुक्तानां देवानां पुनः स्वपदेषु असत्त्वेऽपि। अविरोधः तत्प्रतिपादकैकविधवेदाप्रामाण्याख्यविरोधो नास्ति। कुतः। समाननामरूपत्वात् एतत्कल्पोत्पन्नानामपि देवानां प्राचीनतुल्यनामरूपत्वात्। तथा च प्रतिपाद्यस्याप्येकविधत्वात् न तद्बोधकवेदाप्रामाण्यमिति भावः एकविधत्वमेव कुत इत्यत उक्तं। दर्शनात्स्मृतेश्चेति। यथा पूर्वमिति (महाना. 5-7.) श्रुतेः। अनादिनिधनेति स्मृतेश्चेत्यर्थः ॥
एवंचेंद्रादिदेवतानां वेदे यादृशे नामरूपे प्रतिपाद्येते तयोरेव कल्पांतरे जायमानानां देवानाभभ्युपगमात्। तत्प्रामाणिकत्वे यथा पूर्वमिति श्रुतेरनादिनिधनेति स्मृतेश्च सद्भावात्। तथा च वेदाप्रामाण्याख्यविरोधाभाव इति सिद्धं ॥
</1-3-30>
<1-3-31>
(31) ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ॥
ननु न देवानां वेदविद्याधिकारो युक्तः। वेदविद्या मुख्यफलार्थास्तदितरफलार्धाश्चेति। द्विविधाः। मोक्षेतरफला अपि ब्रह्मकर्मभेदान्मधुविद्याऽग्निष्टोमविद्या चेति द्विविधाः। तत्र तावन्न देवानां मोक्षेतरफलकद्विविधविद्यास्विकारो युज्यते। तत्साध्यानां मोक्षेतरफलानां मध्ये केषांचिद्योग्यानां प्राप्तत्वेनायोग्यानां च प्राप्तुमशक्यत्वेनार्थित्वाभावादिति जैमिनिमतावलंबेन वेदविद्याधिकारत्वस्य सामान्यनिषेप्राप्ते सूत्रमाह ॥
॥ ॥ मध्वादिष्वसंभवादनधिकारं जैमिनिरिति ॥ मध्वादिषु असौवाऽऽदित्यो देव मध्वि (छां. 3-1-1.) त्याद्युक्तं मध्वादिविद्यासु। अनधिकारं देवानामधिकाराभावं। जैमिनिराचार्यो मन्यते कुतः। असंभवात् तेषामर्थित्वतत्पदयोग्यत्वाद्ययोगादित्य्रथः ॥
एवंच कक्षद्वयमध्ये प्रथमे तथा द्वितीयस्य प्रथमेऽसंभवात्। द्वितीयस्य द्वितीयेऽर्थित्वाभावाच्चाधिकारस्य निषेधान्नत्वधिकारमात्रस्य निषेधात्। जैमिन्याचार्यमताविरोध इति सिद्धं ॥
</1-3-31>
<1-3-32>
(32) ॥ ज्योतिषि भावाच्च ॥ ॥
ननु मास्तुमोक्षेतरफलविद्यास्वधिकारो देवानां। तथाऽपि सत्यं ज्ञानि(तै. 2-1-1)त्यादिमोक्षार्थविद्यास्वधिकारो भविष्यति। तत्रार्थित्वसंभवादित्याशंकां परिहरत्सूत्रं पठति ॥
॥ ॥ ज्योतिषि भावाच्चेति ॥ अस्यार्थः ॥ ज्योतिषि देवानां ज्ञाने। भावात् सर्ववस्तूनां विषांतयतर्भूतत्वात् सिद्धज्ञानानां देवानां न ज्ञानार्थता युज्यत इति न मोक्षविद्यास्वधिकार इत्यर्थः ॥
एवंच देवानां सार्वज्ञ्येन सर्वब्रह्मकर्मविद्यासाध्यज्ञानानां नियमेन प्राप्तत्वेनात एव वेदद्रष्टृत्वात्। ततश्च तेषामुभयविद्यासाध्यज्ञानेऽर्थिताया असंभवात्। तस्माज्जैमिनिमताविरोध इति सिद्धं ॥
</1-3-32>
<1-3-33>
(33) ॥ भावं तु बादरायणोऽस्ति हि ॥ ॥
एवं देवैर्मोक्षेतरयोग्यफलानां प्राप्तत्वात्। अयोग्यानां प्राप्तुमशक्यत्वात्। मोक्षस्यापि ब्रह्मज्ञानित्वेनार्थतो लब्धत्वात्। अर्थित्वाभावेन तेषां कास्वपि विद्यास्वधिकाराभावेन जैमिनिमतावलंबिना समर्थिते पुनरधिकारं समर्थयत्सूत्रमुपन्यस्यति ॥
॥ ॥ भावं तु बादरायणोऽस्ति हीति ॥ अस्यार्थः ॥ बादरायणस्तु। हि यस्मात्। देवानामप्यस्ति विद्यासाध्यपूर्वप्रकाशविशेषो मोक्षफलेऽतिशयश्चास्ति। तस्माद्भावं देवानामधिकारसद्भावं मन्यत इत्यर्थः। जैमिनिमतं तु देवानां प्राप्तज्ञानफलार्थमनधिकाराभिप्रायमित्यवधेयं ॥
एवंच यद्यपि देवाः प्राप्तपदा ब्रह्मज्ञानित्वात्सिद्धमोक्षतदिरफलाः प्राप्तुमशक्यायोग्यफलाश्च। तथाऽपि प्राप्तपदानामपि देवानां मध्वादिविद्यासूक्तोपासना क्रमकरणाभ्यां फलविशेषभावेन स्वस्वयोग्यरय ज्ञानमात्रेणासाध्यस्य मोक्षफलेऽतिशस्य भावेन सिद्धेरर्थित्वसंभवात्। मोक्षफल आनंदातिशयरूपविद्याफलस्य भावेन ज्ञानार्थमप्यधिकारसंभवात्। यावत्सेवापर इति स्कांदवचनात्। भगवद्व्यतिरिक्तानां निरुपचरितसार्वज्ञ्याभावेन विद्याविचारेण ज्ञानलाभसंभवात्। जैमिनिमतस्य देवानां प्राप्तफलार्थमनधिकाराभिप्रायेणाविरुद्धत्वात्। एवं भगवता बादायणेन देवानां मध्वाद्यशेषाविद्यास्वधिकाराभावस्योक्तत्वात्। ततश्च सर्वदेवोपास्यत्वं विष्णोर्युक्तमिति सिद्धं ॥
</1-3-33>
॥ इति देवताधिकरणं ॥
9.अधिकरणं ॥
अत्र त्रिवर्णेतरस्य शूद्रस्य वेदोक्तब्रह्मविद्याधिकारो निराक्रियते ॥
<1-3-34>
(34) ॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ॥
ननु शूद्राणां वेदविद्याधिकारो भवेत्। अहहारेत्वेति (छां. 4-2-3.)श्रुतेः। मनुष्यत्वात्। भगवता सूत्रकृताऽधिकारप्रयोजकत्वेन मनुष्याधिकारत्वादित्यनेन मनुष्यत्वस्याभिधानात्। अन्यथाऽविशेषात्त्रवैर्णिकस्यापि नत्न स्यात्। शूद्रस्य विशिष्टबुध्यादेः सत्वात्। तस्य पौत्रायणस्य वैदिकसंवर्गविद्याध्ययनदर्शनादिति प्राप्ते सूत्रितां ॥
॥ ॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हीति ॥ अस्यार्थः ॥ अस्य पौत्रायणाख्यस्य राज्ञः। तदनादरश्रवणात् हंसकृत गम्वर एनमि(छां. 4-1-3.) त्यनादरश्रवणान्निमित्तात्। शुका शोकः। तथाऽपि कुतः शोक इत्यत उक्तं। सूच्यते हीति। हि यस्मात्। स हि संजिहान एवे(छां. 4-1-5.)त्युत्तरवाक्येन सूच्यते तथा ज्ञायते। तस्माच्छोकः। अस्मादेव निमित्तात्। राजा रैक्वेन ऋषिणा शूद्रेति संबोधितः। न तु वर्णावरत्वाभिप्रायेणेत्यर्थः। तथा च नैतत्ज्ञापकबलेन शूद्रस्य वेदविद्याधिकारो मंतव्य इति भावः ॥
एवंच संस्कारविधुरत्वात। अध्ययनादेः संस्कार सापेक्षत्वात्। नाग्निरित्यनेन(पैंगि श्रुतौ) शूद्रस्य संस्कारनिषेधपरत्वात्। ततश्च त्रिवर्णेतरस्य शूद्रस्य ब्रह्मविद्याधिकारनिषेध इति सिद्धं ॥
</1-3-34>
<1-3-35>
(35) ॥ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिंगात् ॥ ॥
ननु शूद्रस्य रूढार्थ एवांगीकार्यः। योगाद्रूढेः प्राबल्यात्। पौत्रायणनिदर्शनेनैव शुद्रस्य वेदाधिकार सिद्धेः। शूद्रस्यापि पौत्रायणस्य वैदिकसंवर्गविद्याध्ययनदर्शनात्। न च पात्रौयणः शूद्र एवं नेति वाच्यं ॥ अहहारेत्वा शूद्रेति (छां. 4-2-3.) संबोधितत्वेन तस्य शूद्रत्वादिति प्राप्ते तन्निरासार्थं सूत्रमाह ॥
॥ ॥ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिंगादिति ॥ अस्यार्थः ॥ चः लिंगांतरसमुच्चये। उत्तरत्रायमश्वतरीरथ (छां. 4-2-2.) इत्युत्तरवाक्ये। श्रुतेनेति शेषः। चैत्ररथेन चित्रशब्दादश्वतरीयुक्तरथसंबंधित्वरूपेण लिंगात्। लिंगेन च ज्ञापकेन चास्य। क्षत्रियत्वावगतेश्च क्षत्रियत्वज्ञानात्। न पौत्रायणं शूद्र इत्यर्थः ॥
एवंच पौत्रायणस्य शूद्रत्वे प्रमाणाभावात्। शूद्रशब्देन संबोधनस्याप्रामाण्यात्। न च शूद्रशब्देन संबोधनमेव तत्र प्रमाणं शोकाद्रवणयोगेन तत्र शूद्रशब्दस्य प्रवृत्तत्वेन तस्य रूढिलभ्यवर्णावरकत्वासाधकत्वात्। किंच नासौ पौत्रायणः शूद्रः। महतां क्षत्रियत्वानुभवात्। अन्येषामयमश्वतरीरथ इति चैत्ररथेन लिंगेन तत्र क्षत्रियत्वावगतेश्च। ततश्च शूद्रस्य वेदानधिकारत्वं सिद्धं ॥
</1-3-35>
<1-3-36>
(36) ॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ॥
ननु शूद्रस्य वेदाधिकारः स्यात्। तस्यापि रथित्वसंभवात्। रथस्य यत्र वेद इति (ब्रह्मवैवर्ते.) वेदव्याप्यत्वाच्छूद्रे च तदभावाद्रथस्याप्यभाव इति शंकाऽनुदयात्। शूद्रेऽपि वेदाधिकारांगीकारात्। इति प्राप्ते तत्परिहाराय सूत्रं पठति ॥
॥ ॥ संस्कारपरामर्शात्तदभावाभिलापाच्चेति ॥ अस्यार्थः ॥ साध्यसमुच्चये च शब्दः। संस्कारपरामर्शात् अष्टवर्षं ब्राह्मणमुपनयीत। तमध्यापयीतेति तच्छब्देन उपनयनाख्यसंस्कारयुक्तस्य वचनात्। तदावाभिलापात् शूद्रस्य नाग्निर्न यज्ञ इति (पैंगि श्रुतौ.) संस्काराभावाभिधानात्। न तस्य वेदाद्यधिकार इत्यर्थः ॥
एवंचाध्ययनार्थं संसारसापेक्षत्वावगमात्। शूद्रस्य संस्काराभावस्योक्तत्वात्। उत्तमस्त्रीणां तु न शूद्रवत् सपत्नीमि(मंत्रप्रश्न. 1-16.)त्यादिष्वधिकारदर्शनात्। स्त्रीणां प्रदानकर्मैवेति व्यासस्मृतेः। तथा च शूद्रस्य वेदानधिकार इति सिद्धं ॥
</1-3-36>
<1-3-37>
(37) ॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ॥
नन्वथाऽपि शूद्रस्य वेदाधिकारो युक्तः। शूद्रं नोपनीयेतेति निषेधाभावेन तस्यापि संस्कारसंभवात्। नाग्निरिति (पैंगि.) श्रुतौ तु संस्काराभावस्यैवोक्तत्वेन सर्वथा न कार्यमिति निषेधाभावान्न तद्विरोध इति प्राप्ते सूत्रितं ॥
॥ ॥ तदभावनिर्धारणे च प्रवृत्तेश्चेति ॥ अस्यार्थः ॥ चोऽवधारणे। तदभावनिर्धारणे सत्यकामाख्य पुरुषस्य शूद्रत्वाभावनिश्चये सत्येव। प्रवृत्तेः गौतमस्य तदुपनयने प्रवृत्तत्वात्। अस्मात्ज्ञापकान्न शूद्रस्य संस्कारो युज्यत इत्यर्थः ॥
एवंच विपक्षे बाधकोक्तिरूपतया व्यतिरेकव्याप्त्युक्तिरूपतया वा सत्यकामस्य शूद्रत्वाभावनिर्णायकत्वेन गौतमस्य प्रवृत्त्युपपत्तेः। नैतदब्राह्मण इति(छां. 4-4.)श्रुतेः संस्कारनिषेधज्ञापकलिंगाच्च। ततश्च शूद्रस्य वेदानधिकारत्वं सिद्धं ॥
</1-3-37>
<1-3-38>
(38) ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ॥
ननु विशेषादित्युक्तरीत्या शूद्रस्यापि विशिष्टबुध्यादिमत्त्वेनाधिकारः सिध्येत्। अन्यथा तेन देवताद्यधिकारसिद्धिरपि न स्यादिति प्राप्ते सूत्रमाह ॥
॥ ॥ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्चेति ॥ अस्यार्थः ॥ श्रवणाध्ययनार्थप्रतिषेधात् शूद्रस्य वेदश्रवणतदध्ययनतदर्थावधारणानां श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणमिति (गौतमधर्म. 12-4-7.) श्रुतौ प्रतिषिद्धत्वात्। स्मृतेः नाग्निर्न यज्ञः शूद्रस्येति निषेधकस्मृतेश्च न तस्य वेदविद्याधिकार इत्यर्थः ॥
एवंच शूद्रस्यवेदश्रवणाध्ययनार्थावधारणानां प्रतिषिद्धत्वात्। तथा च निषिद्धत्वे सति विशिष्टबुध्यादिमत्त्वस्यैव वेदाधिकारप्रयोजकत्वेनाभिमतत्वात्तस्य च शूद्रेऽभावात्। स्मृत्या च तस्यैवाध्ययननिषेधावगमात्। विदुरादीनामुत्पन्नज्ञानविशेषवत्त्वान्निषेधविषयत्वाभावेनापवादिविषयत्वात्। ततश्च शूद्रादीनामधिकाराभावाच्छूद्रादिभिर्वेदविद्याविज्ञेयो न भवति भगवन्हरिरिति सिद्धं ॥
</1-3-38>
॥ इति अपशूद्राधिकरणं ॥
10.अधिकरणं ॥
अत्र वज्रनाम ब्रह्मणि समन्वीयते।
<1-3-39>
(39) ॥ कंपनात् ॥ ॥
ननु यदिदं किमि(कठ. 6-2.)त्यत्रोक्तं वज्रमिंद्रायुधमेव स्यात्। वज्रश्रुतेः। उद्यतत्वलिंगाच्च। तर्ह्यायुध एवोपपद्यते। न च वज्रज्ञानेन मोक्षोक्तेर्विष्णुरिति वाच्यं। लिंगमात्राच्छ्रुतिलिंगयोः प्राबल्यात्। न च लिंगस्य निरवकाशतया प्राबल्यं। श्रुतिलिंगयोरपि निरवकाशत्वात्। न चैवं सति मोक्षजनकज्ञानविषयत्वलिंगस्य विष्ण्वैकनिष्ठत्वविघातादस्य वज्रस्येंद्रायुधत्वं नानिष्टमिति वाच्यं। फलोपहितस्य मोक्षजनकज्ञानविषयत्वलिंगस्याविघातेऽपि तद्योग्यत्वरूपलिंगस्य विष्ण्वैकनिष्ठत्वविघातात्। ततश्च वज्रमिंद्रायुधमेवेति न विष्णुज्ञानादेव मोक्ष इति प्राप्ते सूत्रमाह ॥
॥ ॥ कंपनादिति ॥ अस्यार्थः ॥ महद्भयं वज्रमिति वज्रशब्दवाच्यो विष्णुरेव। न त्विंद्रायुधं। कुतः। कंपनात् सर्वं प्राण एजतीति (कठ. 6-2.) कंपनशब्दितसर्वचेष्टकत्वलिंगश्रवणादित्यर्थः ॥
एवं चैजतीति कंपनवचनात्। अमृतास्त (कठ. 6-2.) इति फलोपहित मोक्षजनकज्ञानविषयत्वाभिधानात्। न चोद्यतत्वलिंगाविरोधः। उद्यतत्वलिंगस्योद्यमित्त्वार्थत्वेन सावकाशत्वात्। न च वज्रश्रुतिविरोधः। वज्रश्रुतेरपि वर्जनाद्वज्र इति उच्यत इति वचनात्सावकाशत्वात्। ततश्च विष्णुरेव वज्र इति तस्यैव मोक्षजनकज्ञानयोग्यतेति सिद्धं ॥
</1-3-39>
॥ इति कंपनाधिकरणं ॥
11.अधिकरणं ॥
अत्रोभयत्रप्रसिद्धज्योतिर्नाम ब्रह्मणि समन्वीयते।
<1-3-40>
(40) ॥ ज्योतिर्दर्शनात् ॥ ॥
ननु जीव एवेदं ज्योतिः। स समान इति(बृ. 6-3-6.)जीवलिंगात्। इमं लोकमिति श्रुतेश्च। किंचास्यादित्यज्योतिरि(बृ. 6-3-2.)त्यादिनाऽऽत्मज्योतिष्ट्वमुक्त्वा कतम आत्मेति(बृ. 6-3-2.) प्रश्ने ज्योतिराम्नायते। न च तद्विष्णोः संभवति। न तत्र सूर्यो भाती(कठ. 2-5-15.)त्यादेः। न च यस्यादित्यादिज्योतिष्ट्वमुक्तं सजीव एवास्त्विति। तस्यैवेत्यत्र परमात्मज्योतिष्ट्वमुक्त्वा कतम आत्मेति प्रश्ने ज्योतिषाम्नाज्ज्योतिर्विष्णुरिति। तथा सति परमात्मन उदयास्तमयादिशून्यत्वेन सदा सद्भावात्। आदित्येनैवायमित्याद्यवधारणं न स्यात्। अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्यस्यैवार्थस्य प्रत्यभिज्ञानाच्च। तस्मादिदं ज्योतिर्जीव एवेति प्राचीनब्रह्मत्वोपादनमयुक्तमिति प्राप्ते सूत्रमाह ॥
॥ ॥ ज्योतिर्दर्शनादिति ॥ अस्यार्थः ॥ योऽयमंतर्जोतिरिति (बृ. 6-3-7.) ज्योतिः शब्दावाच्यो विष्णुरेव। न जीवः। कुतः। दर्शनात् विष्णुरेव ज्योतिरिति (चतुर्वेदशिखायां.) श्रुतेरित्यर्थः ॥
॥ एवंच विष्णुरेवेदं ज्योतिः। ज्योतिःश्रुतेर्विष्ण्वैकवाचित्वात्। मुख्यार्थासंभव एवामुख्यार्थस्य ग्राह्यत्वात्। न च विष्णुपक्ष उभयलोकसंचरणानुपपत्तेरमुख्येऽपि जीवरूपोऽर्थो ग्राह्यः। तस्यापि प्राज्ञेनात्मनेति (बृ. 6-3-35.) तस्मिन्प्रमाणसिद्धत्वेन मुख्यार्थग्रहणे बाधकाभावात्। न चेमं लोकमित्याद्युक्तलिंगविरोधः। अंतर्णी तणिच्त्वेन तेषामपि सावकाशत्वोपपत्तेः। न चादित्यादिज्योतिष्ट्वविरोधः। तस्य जीवत्वांगीकारात्। न च तस्यैव स्वयं ज्योतिष्ट्वाभिधानेन जीवस्य प्रसिद्धत्वेन प्रश्नायोग्यतया ज्योतिष्ट्वानभिधानात्। न चावधारणानुपपत्तिः। तस्य ब्राह्मज्योतिःषु तस्य प्राधान्यज्ञापनार्थत्वात्। अन्यव्यावर्तकत्वस्य वागादिसत्वेनायोगात्। विशिष्यभगवतो ज्योतिष्ट्ववचनं तु स्वापे ज्योतिरंतराभावाभिप्रायेणेति द्रष्टव्यं। तस्मादिदं ज्योतिर्विष्णुरिति ज्योतिश्चरणाभिधानादिति प्राग्व्युत्पादितविष्णुत्वं न बाधितमिति सिद्धं ॥
</1-3-40>
॥ इति ज्योतिरधिकरणं ॥
12.अधिकरणं ॥
अत्रोभयत्रप्रसिद्धमाकाशनाम ब्रह्मणि समन्वीयते।
<1-3-41>
(41) ॥ आकाशोऽर्थांतरत्वादिव्यपदेशात् ॥ ॥
नन्वयमाकाशो वै नामे (छां. 8-14-1.) त्यत्राकाशः प्रसिद्धाकाश एव स्यात्। त्चछब्दस्याकाशे रूढत्वात्। विष्णौ च यौगिक्त्वात्। योगस्य रूढेर्बलक्त्वात्। प्रसिद्धाकाशपरित्यागेन सर्वाधारत्वलिंगेन विष्णुग्रहणे वै नामेत्युक्तनिपातद्वयविरोधसद्भावात्। नामरूपनिर्वाहकत्वामात्रस्याकाशपक्षे प्रसिद्धत्वान्निपातविरोधसाग्याभावात्। विष्णुपक्षे विष्णुस्तन्निर्वाहकत्वं चेति द्वयमप्यप्रसिद्धं ॥ आकाशपक्षे तु तन्निर्वाहकत्वमात्रमप्रसिद्धमिति वैषम्यात्। नामरूपनिर्वाहकत्वलिंगं त्वाकाशस्योपादानत्वात्संभावितं न तु विष्णोरिति प्राप्ते सूत्रमाह ॥
॥ ॥ आकाशोऽर्थांतरत्वादिव्यपदेशादिति ॥ आकाशो हवै नामेति श्रुत्युक्ताकाशेो विष्णुरेव। नत्वव्याकृताकाशः। कुतः। अर्थांतरत्वादिव्यपदेशात् ते यदंतरेति (बु. 8-14-1.) वाक्ये विष्णोर्नामरूपराहित्याख्याविलक्षणार्थत्वस्यादिशब्दगृहीतब्रह्मत्वामृतत्वयोश्च उक्तत्वादित्यर्थः ॥
एवंचोक्तहेतुद्वयसद्भावात्। अनामरूपत्वस्य तल्लक्षणत्वेनावर्णमिति (आथर्वणी.) श्रुतिसिद्धत्वात् एको दाधारे(ऋ. 1-154-4)त्यप्रसिद्धत्वाभावेन निपातद्वयाविरोधात्। लोकप्रसित्ध्यपेक्षया श्रुतिप्रसिद्धेः प्राबल्येन तस्या एव ग्राह्यत्वात्। प्रत्युताकाशस्य नामरूपत्वेनाकाशग्रहण एव विरोधः। ततश्चाकाशो। विष्णुरेवेति तस्यैव सर्वाधारत्वमिति सिद्धं ॥
</1-3-41>
॥ इति आकाशाधिकरणं ॥
13. अधिकरणं ॥
अत्र स्वप्नादिद्रष्टृत्वलिंगं ब्रह्मणि समन्वीयते।
<1-3-42>
(42) ॥ सुषुप्त्युक्रांत्योरेभेदेन ॥ ॥
नन्वयं स्वप्नादिद्रष्टा जीवो भवेत्। तस्य तस्मिन्प्रसिद्धत्वात्। जीवेशयोरभेदेन जीवेऽप्यमुख्यासंगत्वलिंगस्यासंभवात्। अशरीरस्य विष्णोः स्वप्नादिद्रष्टृत्वायोगात्। कारणगतस्य कार्ये संभवेऽपि कार्यगतस्य कारणेऽयोगात्। जीवेशाभेदस्य विशेषणद्वयसामानाधिकरण्यान्यथाऽनुपपत्त्यैव सिद्धेः। राजासाधारणधर्मस्यापि कोशस्यामात्यगतत्ववदीशासाधारणधर्मस्यासंगत्वस्य श्रुतिबलाज्जीवगतत्वसंभवात्। इति प्राप्ते सूत्रितं ॥
॥ ॥ सुषुप्त्युत्क्रांत्योर्भेदेनेति ॥ अस्यार्थः ॥ स यत्तत्र किंचित्पश्यतीति (बृ. 6-3-15.) श्रुत्युक्तस्वप्नादिद्रष्टा परमात्मैव। न जीवः। कुतः। असंगो ह्यं पुरुष इत्युक्तासंगत्वलिंगादिति हेतुर्बहिरेवाध्याहार्यः। नन्वीश्वराभेदेन जीवेऽप्यसंगत्वोक्तिः संभवत्रीत्यत उक्तं। सुषुप्त्येत्यादि। तथा च सुषुप्त्युक्त्रांत्योः प्राज्ञेनात्मना संपरिष्वक्तं इति (बृ. 6-3-21.) प्राज्ञेनात्मनाऽन्वारूढ इति (बृ. 6-3-35) च सुषुप्त्युक्त्रांतप्रकरणयोः। भेदेन जीवेशयोर्भिन्नत्वेनोक्तेः। न तयोरैक्यमित्यर्थः ॥
एवंचासंगत्वलिंगात् तद्विष्णोरेवोपपद्यते। न तु जीवस्य। बद्धत्वात्। सुषुप्त्युत्क्रांतप्रकरणयोर्भेदाभिधानेन जीवेशयोरभेदाभावात्। अतो गुणगुणिभावापन्नासंगत्वलिंगाद्विष्णुरेव स्वप्नादिद्रष्टा। असंगत्वमपीशमात्रनिष्ठं। ततश्चासंगो ह्ययं पुरुष इति वाक्यमपीशपरमेवेति प्रमामाभावात्। राजधनवदसंगत्वं नान्यनिष्ठमिति सिद्धं ॥
</1-3-42>
॥ इति सुषुप्त्यधिकरणं ॥
14.अधिकरणं ॥
अत्र ब्राह्मणनाम ब्रह्माणि समन्वीयते।
<1-3-43>
(43) ॥ पत्यादिशब्देभ्यः ॥ ॥
नन्वयं ब्राह्मणो विरिंचोभवेत्। अस्मिन्बहुशोऽजशब्दश्रवणात्। न चाजत्वयोगेनाजः शब्दो विष्णौ सावकाश इति वाच्यं। ब्राह्मणशब्दसहपठितस्याजशब्दस्य विष्णावनवकाशात्। न चात्मजशब्देन सहपाठादजशब्दो विष्णौ सावकाश इति वाच्यं। आत्मशब्दस्यात्मा विरिंच इत्यादिना विरिंचेऽषि प्रवृत्तेः। न चासंगत्वलिंगानवकाशान्न विरिंचो ब्राह्मण इति वाच्यं। विष्णुविरिंचयोरभेदेनासंगत्वलिंगस्य तस्मिन्संभवात्। तथा च ब्राह्मणो विरिंच इति प्रागुक्तनित्यमहिमत्वं विष्णोरनुपपन्नमिति प्राप्ते सूत्रमाह ॥
॥ ॥ पत्यादिशब्देभ्य इति ॥ एषनित्यो महिमा बाह्मणस्येति (बृ. 6-4-23.) श्रुत्युक्तब्राह्मणो विष्णुरेव। न विरिंचः। कुतः। पत्यादिशब्देभ्यः। सर्वस्याधिपतिरित्यादिसर्वाधिपत्यादिवाचि(बृ. 6-4-22.) श्रुतिभ्य इत्यर्थः।
एवंच निर्दिष्टश्रुतिषु पत्यादिशब्दसद्भावात्। न च विष्णोर्ब्राह्मणत्वेऽजशब्दविरोधः। अज शब्दस्य न जायत इति योगेनोपपत्तेः। ब्राह्मणशब्दस्य ब्राह्मणा वेदेन भण्यत इति योगेनोपपत्त्याऽजशब्दापहाराभावात्। न चाभेदात्पतित्वादेर्विरिंचेऽपि संभवः। तदभेदे मानाभावात्। ब्राह्मणाजशब्दयोरुक्तरीत्याऽन्यथोपपत्तेः। तत एते व्यजायंतेति भेदश्रुतिबाहुल्येन तयोरभेदे मानाभावात्। ततश्च विष्णुरेवायं ब्राह्मणो नित्यमहिमादिरिति सिद्धं ॥
</1-3-43>
॥ इति ब्राह्मणाधिकरणं ॥
॥ इति प्रथमाध्यायस्य तृतीयः पादः ॥