सूत्रार्थरत्नावली/प्रथमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | सूत्रार्थरत्नावली द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
॥ हरिः ॥
॥ अथ प्रथमाध्यायस्य द्वितीयः पादः ॥
लिंगात्मकानां शब्दानां विष्णौ प्रवृत्तिः प्रदर्श्यतेऽस्मिन्पादे प्राधान्येन।
<1-2-1>
1.अधिकरणं ॥
अत्रान्यत्र प्रसिद्धसर्वगतत्वरूपभावलिंगे ब्रह्मणि समन्वीयते।
॥ (1) ॥ सर्वत्र प्रसिद्धोपदेशात् ॥ ॥
नन्वादित्य एवायं सर्वगतो भवेत्। तस्यैतस्यासावादित्य (ऐ.आ.3-2-3) इत्यादि बव्हादित्यचश्रुतेः। सूर्य आत्मेति सौरमंत्रोदाहरणाच्च। एतमस्यामेतमिति क्षित्यादिषूक्त्वादित्येऽनुक्तत्वलिंगाच्च ॥ यद्वा ॥ सर्वजीवानामेतत्सर्वगतत्वं। चक्षुर्मयत्वादिलिंगात्। न च चक्षुर्मयत्वादिलिंगमंतर्यामिविषयं। तस्यापरिच्छिन्नत्वेन सर्वेषु भूतोऽष्वित्युक्ताल्पौकस्त्वायोगात्। तस्माद्विष्ण्वन्यस्यैव सर्वगतत्वेन तस्यैव प्रागुक्तं प्राणत्वमानंदमयत्वं चेति प्राप्ते सूत्रमाह ॥
॥ ॥ सर्वत्र प्रसिद्धोपदेशादिति ॥ अस्यार्थः ॥ तत्त्विति वर्तते। सर्वत्र पृथिव्यादिषु। उच्यमानं वस्तु तत्तु नारायणाख्यं ब्रह्मैव नत्वन्यत्। कुतः। प्रसिद्धोपदेशात् एतमेव ब्रह्मेति (ऐ.आ.3-2-3-12) सर्वगते वस्तुनि नारायणवाचित्वेन श्रुत्यादिप्रसिद्धब्रह्मशब्दश्रवणादित्यर्थः ॥
॥ एवंचैतमेवेति सर्वभूतगते वस्तुनि नारायणैकनिष्ठत्वेन स यस्चायमिति (ऐ.आ.3-2-3) श्रुतिप्रसिद्धब्रह्मशब्दोपदेशात्सर्वेषु भुतेष्वंतर्गततयोच्यमानो नारायण एवेति सिद्धं ॥
</1-2-1>
<1-2-2>
(2) ॥ विविक्षितगुणोपपत्तेश्च ॥ ॥
युत्त्म्यंतरेण विष्णोरेवात्रोक्तसर्वगतत्वं प्रतिपादयत्सूत्रमवतारयति ॥
॥ ॥ विवक्षितगुणोपपत्तेश्चेति ॥ अस्यार्थः ॥ चः समुच्चयेऽवधारणे वा। सर्वगते श्रुत्येति शेषः। ततश्च विवक्षितानामितः परं सर्वगते श्रुत्या तन्निष्ठतया वक्तुं योग्यानां वक्ष्यमाणानां वाऽश्रुतत्वादिगुणानां विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेरन्यत्रानुपपत्तेश्च विष्णुरेव सर्वगत इत्यर्थः ।थ।
॥ एवंच स योऽतोऽश्रुतः, (ऐ.आ.3-2-4) न ते विष्णो, (ञ.7-99-2) स सविता, (चतुर्वेदशिखायां) इत्यादिश्रुतिभिः सर्वत्रगतनिष्ठतया वक्तुं योग्यानां वक्ष्यमाणानामश्रुतत्वादिगुणानां विष्णोरेव योग्यत्वेन सर्वत्रोच्यमानो नारायण एवेति सिद्धं ॥
</1-2-2>
<1-2-3>
(3) ॥ अनुपपत्तेस्तु न शारीरः ॥ ॥
ननु यथा ब्रह्मशब्दादश्रुतत्वादिलिंगैश्च विष्णुः सर्वगत इत्युच्यते तथाऽऽदित्यो रस (ऐ.आ.3-2-3) इत्यादित्यशब्दाच्चक्षुर्मय इति (ऐ.आ.3-2-1) श्रुतौ ज्ञानकरणात्मकदेहाभिमानित्वेन जीवे प्रसिद्धचक्षुर्मयत्वादिलिंगैश्चादित्यः सर्वजीव वा भवेयुरिति प्राप्ते सूत्रितं ॥
॥ ॥ अनुपपत्तेस्तु न शारीर इति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। शारीरः जीवः। आदित्यो वा। न सर्वगतः। कुतः। अनुपपत्तेः एकस्य जीवस्य सर्वशरीरस्थत्वायोगादेवेत्यर्थः ॥
॥ एवंच सर्वजीवस्य समानभोगरूपोपपत्तिविरुद्धत्वात्। एकैकस्य जीवस्य सर्वशरीरस्थत्वानुपपत्तेः एकस्य जीवस्यादित्यस्य वा सर्वशरीरस्थत्वे सर्वसुखदुःखादिभोगप्राप्त्या सर्वगतत्वायोगेन श्रुतेर्बाधितविषयत्वप्रसंगात्। तस्मात्सर्वभूतेष्वंतर्गततयोच्यमानो नारायण एवेति सिद्धं ॥
</1-2-3>
<1-2-4>
(4) ॥ कर्मकर्तृव्यपदेशाच्च ॥ ॥
युत्त्म्यंतरेण शारीरस्य सर्वगतत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ ॥ कर्मकर्तृव्यपदेशाच्चेति ॥ अस्यार्थः ॥ सर्वगते वस्तुनि आत्मानमिति (ऐ.आ.3-2-3) कर्मत्वस्य जीवेच शंसतीति तद्विरुद्धकर्तृत्वस्य व्यपदेशात् उक्तत्वाच्च न जीवः सर्वगत उत्यर्थः ॥
॥ एवंच सर्वत्रोक्तस्य सर्वगतस्य प्रकृतस्यैतमात्मानमित्यैतरेयश्रुतौ शंसनक्रियायां स एतमात्मानमिति कर्मत्वेन शारीरस्य च तस्यामेव कर्तृत्वेन व्यपदेशात्। एकस्यां क्रियायां तयोरुत्सर्गतो भिन्नत्वनियमादपवादकारणाभावाच्च सर्वत्रोच्यमानो विष्णुरेवेति सिद्धं ॥
</1-2-4>
<1-2-5>
(5) ॥ शब्दविशेषात् ॥ ॥
ननुब्रह्मशब्दाद्विष्णुरेव सर्वगत इति न युज्यते। तच्छब्दस्य जीवेऽपि वृत्तेः। न चासौ जीवेऽमुख्य इति तदग्रहः। चक्षुर्मयत्वादिबाधकबलेनामुख्यार्थस्यापि ग्रहणोपपत्तेः। न चाश्रुतत्वादिगुणशून्यरूपबांधकेन न जीवः। श्रुत्वाप्येनमिति गीतयां जीवस्याद्भुतत्वादिश्रवणात्। नाप्येकशरीरस्थत्वानुपपत्तिर्बाधिका। तस्या विष्णावपि साम्यात्। न च चक्षुर्मयत्वादिबाधकान्नजीवः। एकस्यैव कर्मकर्तृत्वयोरुपपत्तेः। ततश्च सर्वगतो जीव एवेति प्राप्ते सूत्रितं ॥
॥ ॥ शब्दविशेषादिति ॥ अस्यार्थः ॥ एतमेव ब्रह्मेति (ऐ.आ.3-2-3) वाक्ये ब्रह्मशब्दस्यावधारणार्थक एवशब्दाख्यविशेषणवत्त्वात्। ब्रह्मशब्दो न जीवपर इत्यर्थः ॥
एवंच निर्दिष्टवाक्ये हेतुत्वेन प्रकृतब्रह्मशब्दस्य सावधारणत्वरूपविशेषवत्त्वात्। एवकारशिरस्क ब्रह्मशब्दवाच्यत्वे जीवस्य मुख्यब्रह्मत्वप्राप्तं स्यात्। तच्चायुक्तं। तस्याब्रह्मत्वेन प्रसिद्धत्वात्। अतः सर्वगतो विष्णुरेवेति सिद्धं ॥
</1-2-5>
<1-2-6>
(6) ॥ स्मृतेश्च ॥ ॥
श्रुतिसमाख्ययाऽपि विष्णोः सर्वगतत्वं साधयत्सूत्रमुपन्यस्यति ॥
॥ ॥ स्मृतेश्चेति ॥ अस्यार्थः ॥ समुच्चये। न केवलं श्रुत्युक्तत्वाद्ब्रह्मशब्दो न जीवपर इति। किंतु अहमात्मा गुडाकेश (भ.गी.10-20) इत्यादिस्मृतिसद्भावाच्च ब्रह्मशब्दो न जीवपर इत्यर्थः ॥
॥ एवंच निर्दिष्टस्मृतिवाक्यात्। जीवेशयोर्भेदमिथ्यात्वकल्पनस्य सूत्रकृताऽविवक्षितत्वात्। द्वासुपर्णेत्यादि (मुं.उ.3-1-1) प्रमाणविरुद्धत्वेन च तथा न कल्पनीयत्वात्सर्वगतो विष्णुरेवेति सिद्धं ॥
</1-2-6>
<1-2-7>
(7) ॥ अर्भकौकस्त्वात्तद्वपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ॥
ननु सर्वेषु भुतेष्वित्यत्पस्थाने साकल्येन स्थितिकथनात्। जीवधर्मव्यपदेशाच्च। सर्वगतो जीव एव न विष्णुः अपरिच्छिन्ने जीवधर्मरहिते च तस्मिंस्तदुभयव्यपदेशायोगादिति प्राप्ते समादधत्सूत्रमुपन्यस्यति ॥
॥ ॥ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्चीति ॥ अस्यार्थः ॥ अर्भकौकस्त्वात् सर्वेषु भुतेष्विति (ऐ.आ.3-2-3) सर्वगतवस्तुनः सर्वप्राणिहृदयाकाशरूपाल्पस्थानकत्वकथनात्। तद्व्यपदेशात् तस्य जीवस्य तच्छ्रुतिलिंगादिना व्यपदेशात् उक्तत्वाच्च। नेति चेत् ब्रह्मैव सर्वगतमित्युक्तं नेति चेत्। न। कुतः। तेषां विष्णावेधोपपत्तेरिति शेषः। न च वैयर्थ्यं। एवं निचाय्यत्वात् एवमर्भकौकस्त्वादिरूपेण विष्णोरेवोपास्यत्वात्। तथा च नवैयर्थ्यमिति भावः। श्रुतिलिंगादिनां ब्रह्मपरत्वेन न तद्विरोध इति भावः। व्याप्तस्य विष्णोः कथमल्पस्थानस्थितिरित्यत उक्तं। व्योमवच्चेति। यथाऽऽकाशस्य व्याप्तस्यापि गृहाद्येकदेशावस्थितिः तद्वद्विष्णोरपीत्यर्थः ॥
॥ एवंचापरिच्छिन्नादिरूपस्यार्भकौस्वादिकथनमप्रयोजनं। उतायुक्तं। नाद्यः। तस्य तेन रूपेणोपास्यत्वेन व्यपदेशस्य सप्रयोजनत्वात्। न द्वितीयः। सर्वगतस्यापि व्योम्नोंऽशस्य साकल्येनाल्पौकस्त्वदर्शनेन तदभेदादाकाशस्याल्पौकस्त्ववद्भगवतः साकल्येनाल्पौकस्त्वोपपत्तेः। ईश्वरस्य सर्वेंद्रियस्वामित्वेन चक्षुर्मयत्वादेरप्युपपत्तेः। न चादित्येऽनुक्तत्वलिंगविरोधः। यश्चासावादित्य इति पूर्ववाक्य आदित्यस्थत्वस्योक्तत्वेनानुक्तत्वस्यासिद्धत्वात्। अतः सर्वगतो विष्णुरेवेति सिद्धं ॥
</1-1-7>
<1-2-8>
(8) ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ॥
पुनरुक्तमाक्षिप्य समादधत्सूत्रमाह ॥
॥ ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यादिति ॥ अस्यार्थः ॥ यतो ब्रह्मणः व्योमवत्सर्वजीवशरीरस्थत्वे संभोगप्राप्तिः समानभोगप्राप्तिरित्यतो बाधकान्न ब्रह्म सर्वगतमिति चेन्न। कुतः। वैशेष्यात् विष्णोः सामर्थ्यविशेषवत्त्वादित्यर्थः। तथा च न तस्य जीवसमानभोगप्राप्तिरिति भावः ॥
॥ एवंच सर्वज्ञताऽल्पज्ञताभेदात्। सामर्थ्यवैशेष्याच्चाग्निस्तंभनवतो दाहाभाववत्समानभोगाप्राप्तेः सर्वगतोविष्णुरेवेति सिद्धं ॥
</1-2-8>
॥ इति सर्वगतत्वाधिकरणं ॥
2.अधिकरणं ॥
अत्र लोकतोऽन्यत्र प्रसिद्धादितिशब्देन सहोक्तात्तृत्वलिंगस्य हरौ समन्वयः क्रियते ।
<1-2-9>
(9) ॥ अत्ता चराचरग्रहणात् ॥ ॥
ननु जन्मादिसूत्रोक्तसंहर्तृत्वापरपर्यायात्तृत्वं स यद्यदेवेति (बृ.3-2-5) वाक्येनादितेरेवास्तु। अदितुश्रुते (कठ.4-7) रदितित्वमिति निरवकाशलिंगाच्च। न च योगबलाददितिश्रुतिर्विष्णुविषया। अदितित्वलिंगस्य निरवकाशत्वात्। न च स इति पुल्लिंगानुपपत्तिः। पुंशाक्तियुक्तत्वेन कूटस्थोऽक्षरउच्यत (भ.गी.15-16) इत्यादिवत्पुल्लिंगोपपत्तेश्चेति प्राप्ते सीत्रं पठति ॥
॥ ॥ अत्ता चराचरग्रहणादिति ॥ अस्यार्थः ॥ अत्ता सर्वं वाऽत्तीत्युक्तसर्वात्ता विष्णुरेव। नत्वदितिः। कुतः। चराचरग्रहणात् चराचरस्य चेतनाचेतनात्मकप्रपंचस्य सर्वमिति श्रुतावद्यतयोक्तत्वादित्यर्थः ॥
एवंचाद्यत्वेन चराचस्य ग्रहणात्। न चादितिश्रुतिविरोधः। अदितिश्रुतेर्यो देवानां नामधेति (ऋ.10-82-3) श्रुतिबलेन विष्णुपरत्वस्य वक्तुं शक्यत्वात्। न चादितित्वरूपाखंडधर्मविरोधः। विष्णोरपि विद्वद्रूढिविषयत्वेनादितित्वरूपाखंडधर्मस्यापि तत्रावर्जनीयत्वात्। अतो विष्णोरेवैतद्वाक्यप्रतिपाद्यत्वेनात्तृत्वान्न पूर्वोक्त लक्षणस्यातिव्याप्तिरिति सिद्धं ॥
</1-2-9>
<1-2-10>
(10) ॥ प्रकरणाच्च ॥ ॥
यदा निरवकाशसर्वात्तृत्वलिंगमात्रात्सावकाशादितिश्रुत्यादितित्वलिंगयोर्बाधेनात्ता विष्णुरेवेति सिद्धं। तदा किमुवाच्यं निरवकाशप्रकारणसमुच्चितलिंगादित्यर्थं प्रतिपादयत्सूत्रं पठति ॥
॥ ॥ प्रकारणाच्चेति ॥ अस्यार्थः ॥ नैवेह किंचनेति विष्णुप्रकरणबलाच्च विष्णुरेवास्ता इत्यर्थः ॥
॥ एवंच नेहासीत्किंचने (ब्रह्मवैवर्ते) त्यप्संवत्सरसृष्टयादिना। निरवकाशविष्णुप्रकरणबलादत्ता विष्णुरेवेति सिद्धं ॥
</1-2-10>
॥ इति अत्तृत्वाधिकरणं ॥
3.अधिकरणं ॥
अत्र लोकतोऽन्यत्र प्रसिद्धकर्मफलभोक्तृत्वलिंगस्य विष्णौ समन्वयः प्रतिपाद्यते।
<1-2-11>
(11) ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ॥
ननु ऋतं पिबंताविति वाक्योक्तौ जीवौ न त्वेकः परमेश्वरः। द्विवचनश्रुतेः (कठ.1-3-1) एकस्मिन्द्विवचनायोगात्। एवंच हरिवज्जीवस्यापि स्वातंत्र्येण पातृत्वेन तद्वदेवसर्वात्तृत्वमपि। स्वतंत्रस्य तदनगीकारे कारणाभावात्। ततश्चातिव्याप्तिः ॥ यद्वा ॥ तद्वाक्योक्तौ जीवपरौ। द्विवचनश्रुतेः। एवमपि जीव एव पाता न विभुः। कर्मबंधविधुरस्य कर्मफलात्तृत्वायोगात्। न च सर्वं वाऽत्तीति सर्वात्तृत्वोक्तिविरोधः। अनश्रन्नन्य इति (मुं.उ.3-1-1) श्रुतिविरोधेन संकोचसंभवात्। न च पिबंताविति द्वयोः पातृत्वोक्तिविरोधः। छन्निन्यायेन पातृत्वोपचारांगीकारात्। तथाऽपि जीवेशत्वे को हेतुरिति चेत्। एकस्य पातृत्वान्यथाऽनुपपत्त्या जीवत्वे सिद्धे द्वितीयस्य सजातीयस्यैव ग्राह्यत्वात्। न च द्वावपि जीवौ युक्तौ। एकस्मिन् शरीरे भोक्तजीवद्वयायोगात्। तस्माज्जीवेशावेव ग्राह्यौ। तथाऽपि जीवस्यैव पातृत्वेन न तस्य लक्षणत्वाभिमतं सर्वात्तृत्वमित्यसंभवः ॥ यद्वा ॥ पुनरस्तुद्वावपि जीवौ। न चैकस्मिन् शरीरे बोक्तृजीवद्वयायोगाः। व्रीह्यादिशरीर उत्पत्स्यमानजीवस्य प्रमाणांतरसिद्धत्वान्न तु तु न तस्य भोक्तृत्वमिति चेन्न। तच्छरीरावच्छेदेन पातृत्वाभावेऽपि वस्तुतः पातृत्वसद्भावात्। एवं चेश्वरस्य कर्मफलात्तृत्वाभावेनासंभव एवेति प्राप्ते सूत्रितं ॥
॥ ॥ गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति ॥ अस्यार्थः ॥ तत्त्विति विपरिणामेनानुवर्तते। आत्मानौ आदेयं मातेति व्युत्पत्त्या ऋतं पिबंताविति (कठ.1-3-1) श्रुतिस्थपिबच्छब्दोदितशुभफलकर्मभोक्तारौ आत्मांतरात्माख्यौ विष्णुरूपे एव। न तु जीवेश्वरौ। कुतः। हि यस्मात्। तौ गुहां प्रविष्टौ। तस्मादित्यर्थः। हि शब्देन गुहास्थितत्वलिंगस्य यो वेदेति (तै.2-1) श्रतिप्रसिद्धिं सूचयति। द्विरूपतया शरीरगुहास्थितत्वे प्रमाणमाह। तर्द्दशनादिति। तस्य हरेः द्विरूपतया शरीरहृदयगुहास्थितत्वस्य तस्य घर्मा समंतेति (ऋ.10-114-1) श्रतावुक्तत्वादित्यर्थः ॥
॥ एवंचोक्तवाक्ये यौ पिबंतौ तौ विष्णुरूपे एव। गुहाप्रविष्टत्वलिंगात्। न चैतल्लिंगं जीवेऽप्यस्तीति न विष्णुत्वनिर्णायकमिति वाच्यं। यो वेदनिहितमिति गुह्यनिहितत्वस्येश्वरे प्रसिद्धत्वेन प्रसिद्धस्यैव ग्राह्यत्वात्। न च द्विवचनश्रुतिविरोधः। रूपद्वयाभिप्रायेण सावकाशत्वात्। न चैकैकेनैव रूपेण प्रवेशेन रूपद्वयाभावः। धर्मा समंतात्रिवृतमिति प्रमाणेनैकस्मिन्नपि शरीरे रूपद्वयस्यैव सिद्धत्वात्। न च विष्णोः पातृत्वांगीकारेऽनश्रन्नन्य इत्यादिश्रुतिविरोध। शुभं पिबत्यसाविति (पाद्मे) प्रमाणेन विष्णोः पातृत्वस्य सिद्धत्वेन तस्या अशुभभोगाभावविषयत्वात्। न च पूर्णस्य कर्मबंधविधुरत्वेन कर्मफलभोगानुपपत्तिः। नियोगतो भोगासंभवेऽपि स्वेच्छया तत्संभवात्। ततश्च विष्णोरेव पातृत्वेनात्तृत्वलक्षणं युक्तमिति सिद्धं ॥
</1-2-11>
<1-2-12>
(12) ॥ विशेषणाच्च ॥ ॥
यदा निरवकाशगुहानिहितत्वलिंगस्य सावकाशाद्विवचनश्रुतितोऽपि प्राबल्याद्विष्णोः प्रकृत्यर्थभोक्तृत्वसंभवाच्च स एव पातेति सिध्यति। किं पुनर्निरवकाशश्रुत्याऽपीत्यर्थं प्रतिपादयत्सूत्रं पठति ॥
॥ ॥ विशेषणाच्चेति ॥ अस्यार्थः ॥ चो युक्तिसमुच्चये। यः सेतुरिति (कठ.1-3-2) एकवचनेन विशेषणादेक एव पाता। स च सेतुत्वब्रह्मत्वादिना विशेषितत्वाद्विष्णुरेव न जीव इत्यर्थः ॥
॥ एवंच न केवलं गुहाप्रविष्टत्वलिंगबलादेव पिबंतौ विष्णुरूपे किंतु यः सेतुरीजानानामिति श्रुतौ ब्रह्मैकवचनशब्दाभ्यां विशेषणादपि विष्णुरेव पातेति सिद्धं ॥
</1-2-12>
॥ इति गुहाधिकरणं ॥
4.अधिकरणं ॥
अत्र चक्षुरंतःस्थत्वलिंगं ब्रह्माणि समन्वीयते।
<1-2-13>
(13) ॥ अंतर उपपत्तेः ॥ ॥
ननु य एषोंऽतरक्षिणीति (छां.4-15) वाक्योक्तोऽग्निरेवाक्षिस्थो भवेत्। य एष आदित्य (छां.4-11) इत्यग्नेरेवादित्यस्थत्वाभिधानात् न चाग्नेरादित्यस्थत्वेऽप्यक्षिस्थत्वं कुत इति वाच्यं। आदित्यश्चक्षुर्भूत्वेति श्रुतेः। अक्ष्यादित्ययोरकेत्वात्। आदित्यस्थत्वेनाग्नेरक्षिस्थत्वसिद्धेः। न च सोऽहमस्मी (छां.4-10-5) त्युपदिष्टः कुतोऽग्निरिति। अस्मिन्नुपदेशे बव्हग्निश्रुतिसद्भावात्। न च यश्चासाविति समाख्याबलाद्विष्णुरेवादित्यस्थः। सोऽहमस्मीत्यभ्यासादभ्यासस्य च समाख्यातो बलवत्त्वात्। न च विष्णुग्रहणेऽपूर्वताया अभ्यासस्यापि बाधः। स च एवं विद्वानित्यर्थवादात्। अर्थवादस्य चापूर्वयाः प्राबल्यात्। अत आदित्यस्थोऽग्निस्ततोऽक्षिस्थश्चेति प्राप्ते सूत्रमाह ॥
॥ ॥ अंतर उपपत्तेरिति ॥ अस्यार्थः ॥ य एषोंऽतरक्षिणीति श्रुत्युक्तोंऽतरः चक्षुरंतस्थितो विष्णुरेव न त्वग्निः। कुतः। उपपत्तेः एतदमृतत्वब्रह्मशब्दादीनां अंतरे श्रवणात्। तेषां च विष्णावेवोपपत्तेरित्यर्थः ॥
॥ एवंचैतदमृतमभयमि (छां.4-15-1) त्यमृतत्वाभयत्वादिलिंगश्रवणाद्ब्रह्मादिशब्दश्रुतेश्च विष्णुरेव चक्षुरंतर इति सिद्धं ॥
</1-2-13>
<1-2-14>
(14) ॥ स्थानादिव्यपदेशाच्च ॥ ॥
युक्त्यंतरेण विष्णोश्चक्षुरंतःस्थत्वं साधयत्सूत्रमुपन्यस्यति ॥
॥ ॥ स्थानादिव्यपदेशाच्चेति ॥ अस्यार्थः ॥ ब्रह्मस्थानभूताक्षिशक्तेः तदधिष्ठातृब्रह्मशक्तेश्च व्यपदेशात् सर्पिर्वोदकं वा सिंचती (छां.4-15) त्युक्तत्वाच्चक्षुरंतःस्थो विष्णुरेवेत्यर्थः ॥
॥ एवंच सर्पिर्वोदकमिति श्रुतौ स्थानशक्तेर्वामनि (छां.4-15-3) र्भामनिरिति (चतुर्वेदशिखायांस्वरूपशक्तेश्चोक्तत्वात्। तयोश्चान्यत्रासंभवात्। चक्षुरंतःस्थो विष्णुरेवेति सिद्धं ॥
</1-2-14>
<1-2-15>
(15) ॥ सुखविशिष्टाभिधानादेव च ॥ ॥
प्रकरणबलाच्चक्षुरंतःस्थत्वं विष्णोः प्रतिपादयत्सूत्रमुपन्यस्यति ॥
॥ ॥ सुखाविशिष्टाभिधानादेव चेति ॥ अस्यार्थः ॥ चः समुच्चये। सुखविशिष्टाभिधानात् कं ब्रह्मेत्यादि (छां.4-10) प्रकरणे विशिष्टसुखस्य पूर्मसुखस्य अभिधानादेव चक्षुरंतरो विष्णुरेव। किमु खं ब्रह्मेति पूर्णज्ञानादपीत्यर्थः ॥
॥ एवंचोपक्रमे प्राणो ब्रह्म कं ब्रह्मोति श्रवणेनास्य प्रकरण स्यवैष्णवत्वात् तत्र पूर्णसुखस्य खं ब्रह्मेति पूर्णज्ञानस्य चाभिधानात्। पूर्णानंदत्वस्य निरवधिक पूर्णानंदत्वाभिप्रायकत्वात्। मुख्ये सत्यमुख्यायोगात् अतश्चक्षुरंतरो विष्णुरेवेति सिद्धं ॥
</1-2-15>
<1-2-16>
(16) ॥ श्रुतोपनिषत्कगत्यभिदानाच्च ॥ ॥
नन्वेतदुपक्रमे सुखज्ञानयोरभिधानेऽपि नाक्षिस्थप्रकरणस्य वैष्णवत्त्वं युक्तं। छांदोग्ये प्राणो ब्रह्मेति ((छां.4-10) विद्यां य एष आदित्य इति (छां.4-11) विद्यां चोक्त्त्वाऽग्निभिरुपकोसलं प्रति `अस्मद्विद्या चात्मविद्या चोक्ता' इत्युक्तत्वेनाद्याया विष्णुविषयत्वस्य द्वितीयायाश्चाग्निविषयत्वस्यैव युक्तत्वात् य एषोंतराक्षिणी (छां.4-15) त्यक्षिस्थविद्याया आदित्यविद्ययैकार्थत्वात्। न चोपक्रमविरोधः। व्हयाग्यग्निमितिवदुपक्रमस्योपपत्तेः। आत्मविद्यायाः पृथगुक्तत्वेनास्मद्विद्याया अंतर्यामिपरत्वायोगात्। तस्मादग्निविषयत्वमेव चक्षुंरतःस्थविद्याया इति प्राप्ते सूत्रितं ॥
॥ ॥ श्रुतोपनिषत्कगत्यभिधानाच्चेति ॥ अस्यार्थः ॥ श्रुतोपनिषदां श्रुतमतध्यातैताद्विद्यानां पुंसां। केन वायुना। कयोः कार्यपरब्रह्मणोः ॥ गतेः प्राप्तेः। स एनान्ब्रह्मगमयतीति (छां.4-15) श्रुतावाभिधानाच्च चक्षुरंतरो विष्णोरेवेत्यर्थः ॥
॥ एवंच स एनानित्युपसंहारेऽभिधानेनाक्षिस्थविद्याया विष्णुविषयत्वात्। अन्यविद्याया अन्यप्राप्त्ययोगादस्य प्रकरणस्य वैष्णवत्त्वं सिद्धं ॥
</1-2-16>
<1-2-17>
(17) ॥ अनवस्थितेरसंभवाच्च नेतरः ॥ ॥
ननु सोऽहमस्मी (छां.4-10-5) त्याद्युपदेशस्यांतर्यामिविषयत्वकल्पनया विष्णोरक्षिस्थत्वाग्रहणे उपदेशबलेनैवाग्नेरक्षिस्थत्वं किं न स्यादित्यतो बाधकसद्भावादिति समादधत्सूत्रं पठति ॥
॥ ॥ अनवस्थितेरसंभवाच्च नेतर इति ॥ आस्यार्थः ॥ इतरः अग्निः। चक्षुरंतरो न किंतु विष्णुरेव। कुतः। अनवस्थितेः जीवस्याग्नेर्जीवांतरनियामकत्वे तस्यापि जीवत्वाविशेषात् तस्यापि नियामकांतराभ्युपगमे तस्याप्येवमेवमित्यनवस्थानात् अग्न्यादिजीवस्य जीवांतरनियामकत्वासंभवाच्चेत्यर्थः ॥
॥ एवंचाग्नेरपि जीवत्वेन नियामकत्वासंभवेन चक्षुर्गतत्वसंभावनाविरहात्। अस्तु वा कथंचित्संभावना। तथाऽपि नासौ चक्षुरंतरोऽभ्युपगंतव्यः। अग्नेरपि जीवत्वेन तत्प्रेरणाय जीवांतरस्य भाव्यत्वात्। तस्याप्येवं तस्याप्येवमित्यनवस्थितेः। तस्माद्विष्णुरेवाक्ष्यादित्यस्थो दृष्टिगोचरोऽतः स एवानंदमयस्तज्ज्ञानादेव मीक्ष इति सिद्धं ॥
</1-2-17>
॥ इति अंतराधिकरणं ॥
5.अधिकरणं ॥
अत्रांतःस्थत्वरूपभावसहितं नियमनिक्रियात्मकं लिंगं ब्रह्मणि समन्वीयते।
<1-2-18>
(18) ॥ अंतर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ ॥
ननु प्रकृतिरेवांतर्यामी। यस्य पृथिवीत्यादिना (बृ.5-7-3) पृथिव्यादिशरीरत्वव्यपदेशात्। शरीरशब्दस्य स्वरूपेऽपि प्रयोगदर्शनेन तस्य तत्रोपपत्तेः। न च यः पृथिव्यामित्यादिना पृथिव्यादिस्थत्वोक्तिविरोधः। व्याप्तं कार्येषु कारणमिति वचनात्। तस्य तत्रोपपत्तेः। न च प्रकृतेरचेतनत्वेन पृथिव्यादिनियामकत्वायोगः। कार्यस्य कारणाधीनत्वेन चेतनप्रकृतेरपि नियामकत्वोपचारोपपत्तेः। न चामृतत्वविरोधः। तस्य विष्णाविवात्रापि योगेनोपपत्तेः। तत्तजीवानां वैतदंतर्यामित्वं। पृथिव्यादिशरीरत्वादेस्तेप्वति सुघटत्वात्। ततश्च प्रवृत्यादेरेवांतर्यामित्वेन तत्र श्रुतममृतन्वं नाक्षिस्थस्य विष्णुत्वसाधकमिति प्राप्ते सूत्रितं ॥
॥ ॥ अंतर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति ॥ अस्यार्थः ॥ एषत आत्मांऽतर्यामीति (बृ.5-7-3) श्रुत्युक्तोंऽतर्यामी विष्णुरेव न प्रधानादि। कुतः। अधिदैवादिषु अधिदैवाध्यात्माधिभूतादिप्रकरणेषु। तद्धर्मव्यपदेशात् तस्मिन् अंतर्यामिणि तस्य यं पृथिवी न वेदेति (बृ.5-7-3) श्रुतौ उक्तस्याविदितत्वादिब्रह्मधर्मस्य व्यपदेशात् उक्तत्वादित्यर्थः ॥
एवंच पृथिव्यादिदेवताऽविदितत्वांतराख्यधर्मव्यपदेशादंतर्यामी विष्णुरेवेति सिद्धं ॥
</1-2-18>
<1-2-19>
(19) ॥ न च स्मार्तमतद्धर्माभिलापात् ॥ ॥
एवं निरवकाशलिंगेन विष्णोरंतर्यामित्वं समर्थ्य प्रकृत्यादेरंतर्यामित्वं तत्प्रकृतिजीवसाधारणं युक्त्या पराकुर्वत्सूत्रमाह ॥
॥ ॥ न च स्मार्तमतद्धर्माभिलापादिति ॥ अस्यार्थः ॥ चः समुच्चये। स्मार्त कापिलस्मृत्युक्तं। प्रधानं जीवश्च अंतर्यामी न। कुतः। अतद्धर्माभिलापात् तद्धर्माणां प्रधानजीवधर्माणां त्रिगुणत्वसंसारित्वादीनां। अनभिलापात् अनुक्तत्वादित्यर्थः ॥
॥ एवंच विष्ण्वसाधारणपृथिव्याद्यविदित्वादिधर्मोपदेशवत्कपिलस्मृत्युक्तप्रकृतिप्रधानजीवासाधारणोपादानत्वडत्वत्रिगुणत्वसंसारित्वादिधर्माणामनुक्तत्वादंतर्यामी विष्णुरेवेति सिद्धं ॥
</1-2-19>
<1-2-20>
(20) ॥ शारीरश्चोभयोऽपि हि भेदेनैनमदीयते ॥ ॥
जीवस्यांतर्यामित्व तत्साधकाभावेन निरस्तमपि पुनर्बाधकाख्यविशेषयुक्त्या निराकुर्वत्सूत्रमुपन्यस्याति ॥
॥ ॥ शारीरश्चोभयेऽपि हि भेदेनैनमधीयत इति ॥ आस्यार्थः ॥ चो नञोऽनुकर्षणार्थः ॥ हि यस्मात्। उभये माध्यंदिनाः काण्वाश्च। आत्मनोंऽतरं (बृ.5-7-22) विज्ञानादंतर (बृ.5-7-22) इति। एनं जीवं। अंतर्यामिणः सकाशात्। भेदेन भिन्नत्वेन। अधीयते पठंति। तस्माच्छारीरो जीवश्च नांतर्यामीत्यर्थः ॥
॥ एवंचोभयशाखिभिरात्मानमंतर इति विज्ञानादंतर इति च जीवस्यब्रह्मणो भेदेनोपदेशादंतर्यामी विष्णुरेवेति सिद्धं ॥
</1-2-20>
॥ इति अंतर्याभ्यधिकरणं ॥
6.अधिकरणं ॥
अत्रादृश्यत्वाद्यभावाख्यलिंगं ब्रह्मणि समन्वीयते।
<1-2-21>
(21) ॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ ॥
ननु यत्तदद्रेश्यमि (मुं.1-1-6) त्युक्तादृश्यत्वादिगुणको न विष्णुः किंतु जडप्रकृतिः। अक्षरात्संभवतीहेति (मुं.1-1-7) अरशब्दश्रवणात्। न चाक्षरशब्दो विष्णावपि सावकाशः। तत्परतः पराभिधानात्। न च विष्णोः परोऽस्ति। पृथिव्यादिदृष्टांतेनोपादानतया जगत्कारणत्वाभिधानाच्च। चित्प्रकृतेरेवैतददृश्यत्वादिकं। तस्यामक्षरशब्दस्य कूटस्थ इति (भ.गी.15-16) स्मृतिसिद्धत्वात्। विकारित्वेन जगत्कारणत्ववचनं विकाराभिमानित्वाद्युज्यते। अश्ररात्परत (मुं.2-1-2) इत्येतदपि परतोऽक्षरादिति सामानाधिकरण्येनोपपद्यते। हिरण्यगर्भस्य वेतददृश्यत्वादिकं। सब्रह्मविद्यामित्यादि (मुं.उ.1-1-1) ब्रह्मशब्दात्। रुद्रस्य वैतददृश्यत्वादिकं। कर्तारमीशमि (मुं.उ.3-1-3) तीशशब्दश्रवणादिति प्राप्ते सूत्रितं ॥
॥ ॥ अदृश्यत्वादिगुणको धर्मोक्तेरिति ॥ अस्यार्थः ॥ अदृश्यत्वादिगुणकः यत्तदद्रश्यमिति श्रुत्युक्तादृश्यत्वादिधर्मविशिष्टाक्षरशब्दवाच्यो विष्णुरेव। न प्रकृत्यादिः। कुतः। धर्मोक्ते ऋगादिपरविद्याविषयत्वरूपविष्णुधर्मस्य ययेति श्रुत्युक्तत्वादित्यर्थः ॥
एवंचाथ परायये (मुं.1-1-5) त्यदृश्यत्वादिगुणकस्य परविद्याविषयत्वाभिधानाददृश्यत्वादिगुणको विष्णुरेवेति सिद्धं ॥
</1-2-21>
<1-2-22>
(22) ॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ ॥
ननु विष्णुप्रापकपरविद्याविषयत्ववज्जडप्रकृतिविरिंचरुद्रप्रापकानामपि भावात्त एवादृशत्वादिगुणकाः किं न स्युरित्यतो विशेषयुक्त्या पराकुर्वत्सूत्रं पठति ॥
॥ ॥ विशेषणभेदव्यपदेशाभ्यां च नेतराविति ॥ अस्यार्थः ॥ चः समुच्चये इतरौ प्रकृतिद्वयं विरिंचरुद्रौ च। नादृश्यत्वादिगुणकौ। कुतः। विशेषणभेदव्यपदेशाभ्यां प्रतिज्ञाद्वये क्रमेणैककैहेत्वन्वयः। यः सर्वज्ञ इति (मुं.1-1-9) सार्वज्ञ्यादिविशेषणात्। तस्मादेतदिति (मुं.1-1-9) अदृश्यत्वादिगुणकाक्षराद्विरिंचरुद्रयेर्भेदोक्तेश्चेत्यर्थः ॥
॥ एवंच जडप्रकृतित्वविरोधिसार्वज्ञ्यादिविशेषणस्य तस्मादेतदिति विरिंचत्वविरोधि जुष्टं यदापश्यत्यन्यमिति (मुं.3-1-2) रुद्रत्वविरोधिभेदव्यपदेशस्य चाभावेनासंभवात्। न च परतःपराभिधानान्न विष्णुरिति वाच्यं। अपरं त्वक्षरमिति (स्कांदे) त्र्यक्षराभिधानेन परतो मध्यमाक्षरात्परत्वसंभवेनाविरोधाददृश्यत्वादिगुणको विष्णुरेवेति सिद्धं ॥
</1-2-22>
<1-2-23>
(23) ॥ ॥ रूपोपन्यासाच्च ॥ ॥
युत्क्यंतरेण विष्णोरेवादृश्यत्वादिगुणकत्वं साधयत्सूत्रमवतारयति ॥
॥ ॥ रूपोपन्यासाच्चेति ॥ अस्यार्थः ॥ यदा पश्यःपश्यत (मुं.3-1-3) इति विष्ण्वसाधारणस्वर्णरूप प्रतिपादनाच्चादृश्यत्वादिगुणको विष्णुरेवेत्यर्थः ॥
एवंच विष्ण्वसाधारणरुक्मरूपप्रतिपादनात्। एको नारायण इत्यत्र शुक्लादिरूपाणां मनुष्यादौ मिश्रीकरणस्योक्तत्वाददृश्यत्वादिगुणको विष्णुरेवेति सिद्धं ॥
</1-2-23>
॥ इति अदृश्यत्वाधिकरणं ॥
7.अधिकरणं ॥
अत्र पाचकत्वाद्यनेकलिंगसमन्वयसिध्यर्थं ब्रह्मणि वैश्वानरनामसमन्वयः क्रियते ॥
<1-2-24>
(24) ॥ वैश्वानरः साधारणशब्दविशेषात् ॥ ॥
ननु नायं वैश्वानरो विष्णुः। साधकशून्यत्वात्। सर्वगतत्वलिंगस्यान्यवप्रसिद्धवैश्वानरश्रुत्या बाधितत्वात्। न च लिंगस्य निरवकाशत्वेन तेन श्रुतिबाधः। श्रुतेरपि। निरवकाशत्वात्। वैस्वानरश्रुतेर्निबाधसाधकशून्यत्वेनाग्निविष्ण्वोः साधारणन्येन चान्यनिश्चायकत्वाभावात्। अतो वैश्वानरो न विष्णुरिति प्राप्ते सूत्रमा ॥
॥ ॥ वैश्वानरः साधारणशब्दविशेषादिति ॥ अरयार्थः ॥ वैश्वानरः यस्त्वेतमित्यादि(छां.5-18-1) वाक्यगतवैश्वानरादिशब्दवाच्यो विष्णुरेव नत्वग्निः। कुतः। साधारणशब्दविशेषात्। अग्निविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य आत्मानं वैश्वानरमिति श्रुतावात्मशब्देन विशेषितत्वादित्यर्थः ॥
॥ एवंच साधारणस्यापि वैश्वानरशब्दस्य विष्ण्वैकनिष्ठतया श्रुत्यादिसिद्धेनात्मानं वैश्वानरमित्यात्मशब्दविशेषितत्वाद्विष्णुपरत्वसंभवात्। प्रसिद्ध्यादेरन्यथोपपन्नत्वेन निर्णयकारणाभावाच्छब्दविशेषादात्मशब्दाद्वैश्वानरो विष्णुरेवेति सिद्धं ॥
</1-2-24>
<1-2-25>
(25) ॥ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ ॥
ननु नायं वैश्वानरो विष्णुरेवेति घटते। सामानाधिकरण्यविरोधात्। विष्णुत्वनिश्चायकवदग्नित्वनिश्चायकसद्भावादिति प्राप्ते सूत्रमाह ॥
॥ ॥ स्मर्यमाणमनुमानं स्यादितीति ॥ अस्यार्थः ॥ इति स्मर्यमाणं अहं वैश्वानरोभूत्वे (भ.गी.15-14) त्युक्तं विष्णोर्वैश्वानरत्वं। अनुमानं वैश्वानरविद्यायाः गीतोक्तभगवत्परत्वस्यानुमापकं। स्यात् भवेदित्यर्थः ॥
॥ एवंच गीतास्मृतेर्वैश्वानरविद्यासमानोक्तिरूपत्वादस्यास्तत्समाख्यानान्निर्णयकत्वेन वैश्वानरो विष्णुरेवेति सिद्धं ॥
</1-2-25>
<1-2-26>
(26) ॥ शब्दादिभ्योंऽतः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविधमपि चैनमधीयते ॥ ॥
ननु वैश्वानरमृत अजातमग्निमी (ऋ6-7-1) त्यग्निशब्दस्य वैश्वानरे तध्दुतं भवति। हृदयं गार्हपत्य (छां5-18-2) इत्याग्निलिंगस्य येनेदमन्नं पच्यत (बृ.7-9-1) इत्यादिना पाचकत्वेनांतः-प्रतिष्ठानस्य च श्रवमात्। एतेषां विष्णावनवकाशात्। इत्यादिना वैश्वानरस्य विष्णुत्वमाक्षिप्य समादधत्सूत्रमाह ॥
॥ ॥ सभ्दादिभ्योंऽतःप्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविधमपि चैनमधीयत इति ॥ अस्यार्थः ॥ युक्तिसमुच्चये च शब्दः। शब्दादिभ्यः अग्निशब्द होमाधिकरणत्वलिंगादित्यर्थः। अंतःप्रतिष्ठानात् पाचकत्वेन शरीरांतरावस्थानाच्च। वैश्वानरो न विष्णुः किंतु अग्निरेवेति चेन्न। कुतः। तथा दृष्ट्युपदेशात्। अग्न्यादिनामलिंगकर्मवत्त्वेन दृष्ट्युपदेशात् उपासनोपदेशादित्यर्थः। तथा च अग्न्यादिश्रुतिलिंगानां विष्णौ सावकाशत्वान्न तद्विरोध इति भावः। किंचात्रोक्तात्मत्वब्रह्मत्वादीनां अग्न्यादावसंभवाच्च वैश्वानरो विष्णुरेव। अपि च यतः छंदोगाः एनं वैश्वानरं। पुरुषविधं पुरुषसूक्तप्रतिपाद्यनारायणमानगुणकमेव। अधीयते अभिदधति। अतोऽपि विष्णुरेवेत्यर्थः। च शब्देन पुरुषसूक्तस्य विष्णुपरत्वं बहुप्रमाणसिद्धमिति सूचयति ॥
॥ एवंच सर्वनामा सर्वकर्मेत्यादिना महोपनिषदि तत्तन्नामलिंगत्वेन दृष्ट्युपदेशात्। को न आत्मा किं ब्रह्मोति (छां.5-11-1) विष्णेरेवारंभात्। चंद्रमा मनसो जात (तै.5-18-2) इत्यादीना वैश्वानरस्य तद्विधत्वाभिधानाच्च। ततश्च वैश्वानरो विष्णुरेवेति सिद्धं ॥
</1-2-26>
<1-2-27>
(27) ॥ अतएव न देवता भूतंच ॥ ॥
ननु वैश्वानरशब्दस्य तेजसि भूतेऽग्निदेवतायां च प्रसिद्धत्वादत्राप्यसौ तत्परः स्यादिति प्राप्ते तन्निरासाय सूत्रमुपन्यस्यति ॥
॥ ॥ अत एव न देवता भूतं चेति ॥ अस्यार्थः ॥ देवता अग्न्यादिरूपा। भूतं तदभिमन्यमानतेजोभूतं च। वैश्वानरशब्द वाच्यं न। कुतः। अतएव निरवकाशात्मशब्दादि हेतेरेवेत्यर्थः ॥
एवंच निरवकाशात्मशब्दश्रवणाद्वैश्वानरशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-2-27>
<1-2-28>
(28) ॥ साक्षादप्यविरोधं जैमिनिः ॥ ॥
ननु लोके वेदे चाग्न्यादिपदानामीशादन्यत्र व्यवहारप्रसिद्धिदर्शनात्। तस्य च कारणांतराभावात्तदन्यथाऽनुपपत्त्याऽन्येषां वाच्यत्वमंगीकार्यं। अन्यथा तद्विरोधः स्यादिति प्राप्ते तन्निरासाय सूत्रं व्याचष्टे ॥
॥ ॥ साक्षादप्याविरोधं जैमिनिरिति ॥ अस्यार्थः ॥ साक्षात् मुख्यवृत्त्या। अपि ब्रह्मणोऽग्न्यादिशब्दवाच्यत्वेऽपि। अविरोधं अज्ञानादिनिमित्तांतरेण अग्न्यादौ तत्तच्छब्दविरोधाभावं। जैमिनिराचार्यो वक्तीत्यर्थः ॥
॥ एवंचाग्न्यादिशब्दानां ब्रह्मवदग्न्याद्यवाचित्वेप्यग्न्यादिज्ञानार्थमभिज्ञैरन्यत्र व्यवहारात्। अनभिज्ञैस्तु परममुख्यार्थभगवदज्ञानादेव मुख्यार्थेऽग्न्यादावेव प्रयोगेण प्रसिध्युपपत्तेरग्न्यादिशब्दा विष्णुवाचकाः। न च जैमिन्यादिमतानां व्यासमतेन परस्परं विरोधः। व्यासचित्तस्थितं मतापरपर्यायं ज्ञानाख्यमहाकाशमपेक्ष्य गृहाद्यवच्छिन्नाकाशत्वपरिमितविषयाणि कानिचिदेतान्यूरीकृत्य जैमिन्याद्या व्यवहरंति। व्यासचित्तस्थिताकाशादिति (स्कांद) स्मृतेः। अतस्तेषां मतानामविरोध इति सिद्धं ॥
</1-2-28>
<1-2-29>
(29) ॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ ॥
ननु लौकिकप्रसिद्धेरज्ञानादिमूलत्वेनान्यथोपपत्तावपि वैदिकाग्न्यादिसूक्तमंत्रादिप्रसिध्यन्यथाऽनुपत्त्याऽग्न्यादीनां सूक्तादिगताग्न्यादिशब्दवाच्यत्वं स्यात्। तत्राज्ञानादिमूलकत्वकल्पनाऽयोगेनान्यथोपपत्त्यभावात्। नापि व्यवहारार्थत्वेनान्यथोपपत्तिः। अनादित्वादिति प्राप्ते सूत्रितं ॥
॥ ॥ अभिव्यक्तेरित्याश्मरथ्य इति ॥ अस्यार्थः ॥ अभिव्यक्तेः अग्न्यादिषु ब्रह्मोपास्तौ कृतायां तेषु ब्रह्मणोऽभिव्यक्तेः। तन्निमित्तोऽग्न्यादिसूक्तनियम इति आश्मरथ्याचार्यो मन्यत इत्यर्थः ॥
॥ एवंचाग्न्यादिसूक्तैरुपासकानामग्न्यादौ च भगवदभिव्यक्त्या सूक्तनियमसंभवादग्न्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं। ततश्चाश्मरथ्याचार्यमतेनाविरोध इति सिद्धं ॥
</1-2-29>
<1-2-30>
(30) ॥ अनुस्मृतेर्बादरिः ॥ ॥
॥ प्रकारांतरेण सूक्तादिनियमस्यान्यथोपपत्तिं कथयत्सूत्रमुपन्यस्यति ॥
॥ ॥ अनुस्मृतेर्बादरिरिति ॥ अस्यार्थः ॥ अनुस्मृतेः तत्तसूक्ताद्युपासकैरग्न्यादिष्वेव ब्रह्मणोऽनुस्मृतेः अनुसंधानाद्धेतोः। अग्न्यादिसूक्तव्यवस्थेति बादरिर्वक्तीत्यर्थः ॥
॥ एवंचाग्न्यादिसूक्तैरुपासकानामग्न्यादौ विष्णोः स्मर्तव्यत्वात्सूक्तनियमसंभवादग्न्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं। तथाच बदरात्मजस्य शुकाचार्यस्य मतस्याविरोध इति स्थितं ॥
</1-2-30>
<1-2-31>
(31) ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ॥
रीत्यंतरेण सूक्तनियमस्यान्यथोपपत्तिं प्रतिपादयत्सूत्रं व्याचष्टे ॥
॥ ॥ संपत्तेरिति जैमिनिस्तथा हि दर्शयतीति ॥ अस्यार्थः ॥ हि यस्मात्। तं यथेति हि प्रसिद्धाश्रुतिः तथा दर्शयति यथा जैमिनिमतं तथा प्रतिपादयति। तस्माज्जैमिनिः स्वोक्त्यनुकूलश्रुत्यनुसारेम संपत्तेः अग्न्यादिसूक्तोपासकानामग्न्यादिप्राप्तिहेतोः। तद्विवक्षया सूक्तादिनियम इति आहेत्यर्थः ॥
॥ एवंचाग्न्यादिसूक्तादिषु मुख्यतः पर ब्रह्मण एव प्रतिपाद्यत्वेऽपि सूक्तादिनियमो युज्यते। भगवदुपासकानामग्न्यादिप्राप्तिर्भवति। अतो लौकिकव्यवहाराविरोध इति जैमिनिर्मन्यते। अतः सूक्तनियमोऽभ्युपगंतव्य इति सिद्धं ॥
</1-2-31>
<1-2-32>
(32) ॥ आमनंति चैनमस्मिन् ॥ ॥
नन्वग्न्यादिसूक्तादिभिर्ब्रह्मोपासकस्याग्न्यादिप्राप्तिर्भवतीति वक्तुं न युक्तं। मद्भक्ता यांती (गी.7-23) त्यादेरन्योपासकस्यान्यप्राप्त्ययोगात्। श्रुतेति सूत्रे तदनभ्युपगमाच्चेति प्राप्ते सूत्रमाह ॥
॥ ॥ आमनंति चैनमस्मिन्निति ॥ अस्यार्थः ॥ चः शंकानिवर्तकः। यस्मात् एनं विष्णुं। अग्न्यादौ आमनंति तत्स्थतया योऽग्नौ तिष्ठन्नि (बृ.5-7-5) त्याद्याः श्रुतयः प्रतिपादयंति। तस्मात्कथमग्न्यादिषु विष्णूपास्त्याऽग्न्यादि प्राप्तिर्भवतीति शंका निवृत्ता। कुतः। अग्न्यादिपदेन तत्स्थभगवत्प्राप्तेरेवाभिप्रेतत्वादित्यर्थः ॥
॥ एवंच तत्तत्सूक्तोपासकानामग्न्यादिपदेन तदंतर्गतविष्णुप्राप्तेर्विवक्षितत्वात्। विष्णूपासकस्याग्न्यादिप्राप्त्युक्तेरयोगात्। न च विष्णोरग्न्याद्यंतर्गतत्वासिद्धिः। योऽग्नौ तिष्ठन्नित्यादिश्रुतेः। अतोऽग्न्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-2-32>
॥ इति वैश्वानराधिकरणं ॥
॥ इति प्रथमाध्यायस्य द्वितीयः पादः ॥