सूत्रार्थरत्नावली/प्रथमोऽध्यायः/चतुर्थः पादः
← प्रथमोऽध्यायः, तृतीयः पादः | सूत्रार्थरत्नावली चतुर्थः पादः [[लेखकः :|]] |
॥ श्रीः ॥
॥ हरिः ॥
॥ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥
श्रुतिलिंगाभिरन्यत्रैव प्रसिद्धानामपि शब्दानां सामस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिः प्रदर्श्यतेऽस्मिन्पादे।
1.अधिकरणं ॥
अत्रान्यत्रैव प्रसिद्धावरत्वदुःखित्वाद्यर्थकशब्दा ब्रह्मणि समन्वीयंते।
<1-4-1>
(1) ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ ॥
ननु प्रधानाद्येवाव्यक्तादिशब्दवाच्यं। तच्छब्दानां प्रधानादावेव प्रसिद्धत्वात्। न च तेषां विष्णावपि सावकाशत्वं। तत्राव्यक्तस्य पुरुषावरत्वश्रवणात्। विष्णोश्च न तत्समाभ्यधिकश्च दृश्यत इति प्रमाणविरोधेन तदयोगात्। महदादिकं स्वसदृशकारणजन्यं कार्यत्वात्। घटवदित्यादिसांख्योपन्यस्तानुमानसिद्धत्वात्। किंचाव्यक्तस्य परममहत्त्वश्रवणात्प्रधानमेवाव्यक्तशब्दवाच्यं। दुःखिबद्धत्वादिप्रतीतेः। क्षेत्रज्ञा एव जीवशब्दवाच्या। न विष्णुः। यत एव केषांचिच्छाखासु प्रधानादिकस्याव्यक्तादिशब्दवाच्यत्वेनोक्तत्वात्तत्त्विति सर्वशब्दानां परमेश्वराभिधायकत्वं यदुक्तं तदयुक्तमिति प्राप्ते सूत्रितं ॥
॥ ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति चेति ॥ अस्यार्थः ॥ अपिरेवार्थे। चः स्मृतिसमुच्चये। यतः आनुमानिकं सांख्यानुमानकल्पितं प्रधानाद्येव। एकेषां शाखिनां शाखासु स्थिताव्यक्तात्पुरुष (कठ. 3-11) इत्यादिवाक्यगताव्यक्तादिश्ब्बैरुच्यते। अतो न विष्णोः सर्वशब्दवाच्यत्वं युज्यत इति चेन्न। यतः विष्णुरेवाव्यक्तादिशब्दवाच्यः। न प्रधानादिः। कुतः वतः अव्यक्तमिति (पिप्पलादशाखा.) श्रुतिः अव्यक्तोऽक्षर (भ.गी. 8-11.) इति स्मृतिश्च। दर्शयति विष्णोरेवाव्यक्तादिशब्दवाच्यत्वं प्रतिपादयति। अत इत्यर्थः। कथं तर्ह्यन्यत्राव्याक्तादिशब्दव्यवहार इत्यत उक्तं। शरीररूपकेत्यादि। क प्रत्ययः कुत्सने। तथा च शरीररूपकविन्यस्तगृहीतेः। यथा शरीरं पुरुषतंत्रं। तथा परमात्मतंत्रत्वेन निमित्तेन शरीरसने कुत्सितत्वात्। वस्तुतः अशरीरे प्रधानादौ। विन्यस्तस्य स्थितस्य परमात्मन एवाव्यक्तादिशब्दैः गृहीतेः गृहणात्। तथा च परमात्मसंबंधादेवान्यत्र प्रकृत्यादावव्यक्तादिशब्दवाच्यत्वव्यवहार इत्यर्थः ॥
एवंचाव्यक्तादिशब्दवाच्यः परमात्मैव। अव्यक्तादिशब्दप्रवृत्तिनिमित्तस्वामित्वात्। अतिशयेनप्रवृत्तिनिमित्ताधिकरणत्वाच्च ईश्वराधीनस्य तत्प्रवृत्तिनिमित्तस्याधिकरणत्वेन तस्यापि तत्परममुख्यत्वांगीकारात्। तथा चाव्यक्तादि शब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-1>
<1-4-2>
(2) ॥ सूक्ष्मं तु तदर्हत्वात् ॥ ॥
नन्वस्त्वेवं श्रौतस्मार्तप्रयोगबलेनाव्यक्तादिशब्दानां भगवद्वाचित्वं। तथाऽपि तत्र तेषां न परममुख्यत्वं स्यात्। श्रुतिस्मृतिषु तत्र तत्प्रयोगस्यामुख्यवाच्येऽपि संभवादिति प्राप्ते सूत्रमाह ॥
॥ ॥ सूक्ष्मं तु तदर्हत्वादिति ॥ अस्यार्थः ॥ यतः सूक्ष्मं तु सूक्ष्ममेवाव्यक्तादिशब्दवाच्यं। कुतः। तदर्हत्वात्। तस्य सूक्षमस्याव्यक्तशब्दप्रवृत्तिनिमित्तयोग्यत्वात्। तत्र च सूक्ष्मत्वं विष्णोरेव। अतस्तस्यैवाव्यक्तशब्दवाच्यत्वमित्यर्थः ॥
एवंचाव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्तत्वोपयोगिसूक्ष्मत्वे विष्णोरेवातिशयत्वात्। मुख्ये च विद्यमानेनामुख्यस्यायुक्त्वात्। यत्तत्सूक्ष्ममिति (पिप्पलाद.) श्रुतेश्च। अतो विष्णुरेवाव्यक्तादिशब्दवाच्य इति सिद्धं ॥
</1-4-2>
<1-4-3>
(3) ॥ तदधीनत्वादर्थवत् ॥ ॥
नन्वस्त्वेवं विष्णावेवाव्यक्तादिप्रातिपदिकानां मुख्यता। तथाऽप्यव्यक्तात्पुरुषः पर(कठ. 3-11.) इत्यादावव्यक्तादिशब्दैर्विष्णुवाच्यत्वेन गृहीतिर्न युक्ता। तथा सति महतः परमिति (कठ. 3-11.) श्रुतेस्तथाऽव्यक्तादित्यवरत्वापेक्षकावधित्ववाचिपंचमीश्रुतेस्तथा सोऽवर इति साक्षादवरुश्रुतेस्तथा च जीवा इति दुःखिबद्धत्वादिश्रुतीनां च निरनिष्ट इत्यादिप्रमाणविरोधेन भगवदसंभवदर्थकत्वात्तासां नैरर्थ्यापातात्। अतो बाधकादव्यक्तादिशब्दैरमुख्यमपि प्रधानाद्येवावश्यं वाच्यतया ग्राह्यमिति प्राप्ते सूत्रितं ॥
॥ ॥ तदधीनत्वादर्थवदिति ॥ अस्यार्थः ॥ दर्शयति चेत्यत्रत्यश्च शब्दोऽनुवर्तते। परमात्मन्येव परावरदुःखिबद्धत्वादिवाचिशब्दजातं। अर्थवत् प्रवृत्तिनिमित्तरूपार्थवत्। न व्यर्थं। कुतः। तदधीनत्वात् तेषां प्रधानादिगतपरावरत्वादिधर्माणां भगवदधीनत्वात्। तथा चान्यगतप्रवृत्तिनिमित्तस्वामित्वेन निमित्तेनापि। भगवति परावरादिशब्दप्रयोगो युक्त एवेत्यर्थः ॥
एवंच यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयत (स्कांदेः) इतीश्वराधीनस्य प्रवृत्तिनिमित्तस्याधिकरणत्वेन तस्यापि तद्वाचित्वांगीकारात्। तस्मिन्नेव तदव्यक्तत्वादिगुणदोषोभयवाचिशब्दजातस्य प्रवृत्तिनिमित्ताख्यार्थयुक्तत्वेन नैरर्थक्याभावात्। अतः परावरत्वादिशब्दजातं विष्णौ युक्तमिति सिद्धं ॥
</1-4-3>
<1-4-4>
(4) ॥ ज्ञेयत्वावचनाच्च ॥ ॥
एवं श्रौतस्मार्तप्रयोगनिमित्तातिशयाभ्यां प्रथमद्वितीयोक्ताभ्यां भगवत्येवाव्यक्तादिशब्दानां मुख्यत्वात्। बाधकाभावे च मुख्यार्थस्यैव ग्राह्यत्वात्। अवरत्वादिश्रुतिनैरर्थ्यबाधकस्य च तृतीय उद्धृतत्वान्मुख्यार्थो भगवानेवाव्यक्तादिशब्दैर्वाच्य इति यदुक्तं तदेव युक्त्त्यंतरेण प्रतिपादयत्सूत्रमाह ॥
॥ ॥ ज्ञेयत्वावचनाच्चेति ॥ अस्यार्थः ॥ तमेवैकं जानथेति (मुं. 2-2-5.) विष्णोरेव मोक्षार्थ ज्ञेयत्ववचनात्। अन्येषां तदवचनात्। प्रत्युत विमुंचथेति हेयत्ववचनात्। अत्रत्याव्यक्तादिशब्दैर्विष्णुरेव वाच्य इत्यर्थः ॥
एवंच विष्णोरेव मुमुक्षुज्ञेयत्व उक्तवचनात्प्रधानादेस्तदभावात्। मोक्षफलकवेदानां तद्धेतुज्ञानविषयब्रह्मज्ञापन एव प्रवृत्तत्वात्। प्रतिवाक्यं तत्परत्वस्य चादावंत (हरिवंशे.)इत्यादिवचनसिद्धत्वात्। यत्ज्ञानान्मोक्षः स एव प्रतिपाद्य इत्यभ्युपगंतव्यः। स्वतः प्राप्तमुख्यवृत्तित्यागे कारणाभावाद्विष्णुरेवाव्यक्तादिशब्दवाच्यो न प्रधानादिरिति सिद्धं ॥
</1-4-4>
<1-4-5>
(5) ॥ वदतीति चेन्न प्राज्ञो हि ॥ ॥
ननु न प्रधानस्य मोक्षार्थं ज्ञेयत्वे वचनाभावः। अनाद्यनंतमिति(कठ. 3-15.)वचनसद्भावादित्याक्षिप्य समादधत्सूत्रमाह ॥
॥ ॥ वदतीति चेन्न प्राज्ञो हीति ॥ अस्यार्थः ॥ ननु अनाद्यनंतमिति काठकवाक्यं। वदति प्रधानं प्रतिपाद्यते। इतीति तस्यापि ज्ञेयत्वमस्तीति। चेन्न। कुतः। हि यतः। प्राज्ञः तत्र प्राज्ञशब्दितः परमात्मैव तत्र प्रतिपाद्यते। न प्रधानं। अतो न तस्य ज्ञेयत्वं मंतव्यमित्यर्थः ॥
एवंच विष्णोः सर्वस्मात्परत्वोक्तावपि महतो महीयानिति(कठ. 2-20.)श्रुत्या सर्वस्मात्स्थूलात्परस्य महतः परत्वस्य कैमुत्येनं सिद्धत्वात्। तथा च नैतद्वाक्यबलेनान्यस्य किंतु भगवत एव मोक्षार्थं ज्ञेयत्वमिति सिद्धं ॥
</1-4-5>
<1-4-6>
(6) ॥ प्रकरणात् ॥ ॥
ननु विशेषतो महत्परत्वस्य प्रधानलिंगस्यामुख्यार्थतामंगीकृत्यानाद्यनंतादिवाक्यस्य विष्णुपरत्वग्रहणे कारणाभावात्। प्रधानमेवात्रोच्यत इति प्राप्ते सूत्रमाह ॥
॥ ॥ प्रकरणादिति ॥ अस्यार्थः ॥ वैष्ववरूपाणां त्रयाणां प्रकरणबलाच्च प्राज्ञेवात्र प्रतिपाद्य इत्यर्थः ॥
एवंचैतत्प्रकरणार्थोपासकस्य विष्णुपदप्राप्त्युक्त्यैतत्प्रकरणस्य वैष्णवत्वात्। सोऽध्वन इति (कठ. 3-9.) श्रुतेः। अतो विष्णोरेवैतत्प्रकरणप्रतिपाद्यत्वमिति सिद्धं ॥
</1-4-6>
<1-4-7>
(7) ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ॥
हेत्वंतरेणानाद्यनंतादिवाक्येऽन्यस्यापि प्रतिपाद्यतां पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ ॥ त्रयाणामेव चोपन्यासः प्रश्नश्चेति ॥ अस्यार्थः ॥ युक्तिसमुच्चये चो यत इत्यर्थे च। एव शब्दः प्रकारत्रैविध्यपरामर्शकः। तथा च यतः एवं त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मरूपाणां त्रयाणामेव। तद्विषयक एव प्रश्नः नचकेतर्षिणा यमं प्रति कृतः। तेषामेवोपन्यासः प्रतिवचनं चात्र प्रकरणे दृश्यते। अतो नात्र प्रधानं प्रतिपाद्यमित्यर्थः ॥
एवं चोक्तत्रयाणामेव प्रश्नप्रतिवचनयोस्तस्मिन्प्रकरणे दृश्यमानत्वात्। अविज्ञातप्रार्थनमिति वचनाद्विरोधाभावात्। ततश्चोक्तहेतुत्वेनानाद्यनंतादिवाक्यस्य भगवत्प्रतिपाद्यत्वं सिद्धं ॥
</1-4-7>
<1-4-8>
(8) ॥ महद्वच्च ॥ ॥
नन्वव्यक्तादि शब्दानां विष्णुरेव मुख्यवाच्य इत्ययुक्तं। तेषां प्रधानादावेव प्रसिद्धत्वात्। न चाष्यक्तादिशब्दप्रवृत्तिनिमित्तस्य भगवति मुख्यत्वेन तच्छब्दानां तत्रैव मुख्यत्वमुक्तमिति वाच्यं। यत्र शब्दस्य प्रसिद्धिस्तत्र तस्य मुख्यवाच्यता। यत्र च यस्य मुख्यं प्रवृत्तिनिमित्तमस्ति तस्य मुख्यत्वमित्यस्यादृष्टचरत्वात्। दृष्टांताभावेन निमित्तातिशयत्वस्य तस्मिंस्तत्साधनायोगादिति प्राप्ते सूत्रमाह ॥
॥ ॥ महद्वच्चेति ॥ अस्यार्थः ॥ चः दार्ष्टांतिकसमुच्चये। महांतं विभुमात्मानमि(कठ. 2-22.)त्यादिवाक्यगतमहच्छब्दस्य यथा विष्णुपरत्वमेव न महत्तत्वपरत्वं तद्वदव्यक्तादिशब्दस्यापीत्यर्थः ॥
एवंच महच्छब्दस्यैव दृष्टांतत्वात्। न च प्रसिद्धिविरोधः। महांतं विभुमिति श्रुतौ महच्छब्दो महतत्त्वे प्रसिद्धोऽपि परममहत्त्वाख्यप्रवृत्तिनिमित्तवात्तस्य भगवति मुख्यवाच्यत्वेनांगीकारात्। तथाऽव्यक्तादिशब्दानामन्यत्रप्रसिद्धत्वेपि परमाव्यक्तत्वादिप्रवृत्तिनिमित्तवत्त्वात्तस्मिन्नेव परममुख्यवृत्तित्वांगीकारात्। तथा चाव्यक्तादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-8>
<1-4-9>
(9) ॥ चमसवदविशेषात् ॥ ॥
ननु परमात्मनि प्रवृत्तिनिमित्तस्यातिशयत्वेऽपि नाव्यक्तादिशब्दानां तत्र परममुख्यता। तत्र प्रसिद्धिवैधुर्येण वाच्यताया एवाभावात्। किं नामातिसहनवति पुरुषे सिंहशब्दस्यैव गौणता। तथा च महद्वच्चेत्ययुक्तं। महच्छब्दस्य स्वतो भगवद्वाचित्वेन प्रवृत्तिनिमित्ताधिक्यात्परममुख्यत्वसंभवेऽप्यव्यक्तादिशब्दानां भगवद्वाचित्वस्यैवाभावेन वैषम्यादिति प्राप्ते समादधत्सूत्रमाह ॥
॥ ॥ चमसवदविशेषादिति ॥ अस्यार्थः ॥ चमसवत् यथा यज्ञपात्रे प्रसिद्धस्यापि चमसशब्दस्य इदं तच्छिर इति (बृ. 4-2-3.) श्रुतिबलेन शिरोवाचकता। तद्वदव्यक्तादिशब्दस्य प्रधानादौ प्रसिद्धत्वेऽपि विष्णुवाचकत्वमेव। कुतः। नामानीति (भाल्लवेय.) श्रुतेः। ननु तथाऽपि कुतो विष्णुवाचकत्वमित्यत उक्तं। अविशेषादिति। नामानि सर्वाणीति श्रुतेः इदमिति श्रुत्या विशेषाभावादित्यर्थः ॥
एवंच चमसशब्दस्य यज्ञपात्रविशेषे प्रसिद्धत्वेन शनिरोवाचकत्वेनाप्रसिद्धत्वेऽपीदं तच्छिर इति श्रुतिबलेन यथा शिरोवाचक्त्वं। तथा तद्दृष्टांतेनाव्यक्तादिशब्दानां भगवत्यप्रसिद्धत्वेऽपि नामानीत्यनुशासनरूपश्रुतिबलात्तेषां भगवद्वाचकत्वस्य निश्चयसंभवेन तच्छिर इति नामानीति च श्रुत्योरनुशासनत्वेऽविशेषात्। ततश्चाव्यक्तादिशब्दवाच्यो हरिर्भवत्येवेति सर्वशब्दवाच्यत्वं तस्योपपन्नमिति सिद्धं ॥
</1-4-9>
॥ इति आनुमानिकाधिकरणं ॥
2.अधिकारणं ॥
अत्र कर्मतदंगेष्वेव प्रसिद्धानां ज्योतिष्टोमादिशब्दानां भगवति स्मन्वयः प्रतिपाद्यते।
<1-4-10>
(10) ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ॥
ननु ज्योतिरादिशब्दा न विष्णुवाचकाः किंतु ज्योतिष्टोमादिकर्मतदंगवाचकाः। तत्रैव प्रसिद्धत्वात्। तेषां विष्णुवाचित्वे कालकर्मक्रमाद्यभिधायकाभावेन तदभावाख्यविरोधापातात्। ततस्तदभिधायकप्रमाणांतराभावेन विहितानुष्ठानलोपप्रसंगादिति प्राप्ते सूत्रमाह ॥
॥ ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके इति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। ज्योतिः ज्योतिषा यजेतेत्यादिवाक्योक्तज्योतिरादिशब्दवाच्यं ब्रह्मैव। न ज्योतिष्टोमादि। कुतः। हि यस्मात्। एके शाखिनः। उपक्रमात् एष इममित्युपक्रम्य तथा सर्वशब्दाभिधेयत्वेन हरिमेव। तावा एता (ऐ.आ. 2-2-2.) इत्यत्राधीयंते पठंति। तस्मादित्यर्थः ॥
एवंच हरिरेव ज्योतिरादिशब्दवाच्यः। एष इमं लोकमित्युपक्रम्य तावा एता इति सर्वशब्दवाच्यत्वाभिधानात्। न च श्रुतौ लक्षणाभिप्रेतं। उपलक्षणतया शतर्च्यादिशब्दानां योगास्योक्तत्वात्। न च शब्दानामन्यत्ररूढत्वेन महातात्पर्यविषयत्वं रूढार्थस्यैव विष्णोस्त्ववांतर तात्पर्यविषयत्वममुख्यविषयत्वादिति वाच्यं। तस्माच्छतर्चिन इत्यननेन योगेन रूढ्यार्थापहारोक्तेः। तत्कुत इति चेत्। एवमेष परमात्मानं मुख्यतो यौगिकार्थं संतं शतर्च्यादिनामभिराचक्षते न तु रूढत्वेऽपि मुनीन्महातात्पर्यविषयतयाऽऽचक्षत इति प्रतीतेः। अतो ज्योतिरादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-10>
<1-4-11>
(11) ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ ॥
किं ज्योतिरादिशब्दा रूढ्या परमात्मवाचकाः। उत योगेन। नाद्यः। तदभावात्। गुणपूर्त्यसिद्धेश्च। न द्वितीयः। तेन रूढ्यार्थापहारायोगात्। नापि योगः संभवति। ज्योतिषां स्तोम इत्यादिरूपेण ज्योतिष्टोमादिशब्दानां योगो वाच्यः। न हि स्तोमादिशब्दानामन्यपरत्वानभ्युपगमे योगः संभवति। भगवन्नामावृत्तित्वप्राप्तेः। तच्चभ्दानामन्यपरत्वांगीकारे किं ज्योतिष्टोमादिशब्दैरेव विशेषतोऽपराद्धं। ततश्च ज्योतिरादिशब्दानां भगद्वाचित्वाभावेन न समन्वयसूत्रं युक्तमिति प्राप्ते सूत्रितं ॥
॥ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोध इति ॥ अस्यार्थः ॥ च एवार्थे समुच्चयेवा। तथाच मध्वादिवत् यथा मधिविद्यादिगतमध्वादिशब्दानां विष्णुवाचित्वेऽप्यविरोधः। तथा परमात्मनः सर्वशब्दवाच्यत्वेऽभ्युगतेऽपि न कर्माद्यभावविरोधः। कुतः। शब्दानामन्यत्र योगरूढिवृत्ती अभ्युण्गम्यैवेश्वरे महायोगवृत्त्यंगीकारादित्यध्याहारः। तदपि कुतः। कल्पनोपदेशात्। प्राण ऋच इति सर्वशब्दवाच्यत्वस्य विष्णोः कल्पनाशब्दितोपासनार्थमुक्तत्वात्। तस्य च सर्वशब्दार्थमुख्यगुमवत्त्वरूपमहायोगवृत्तिं विनाऽयोगादित्यर्थः ॥
एवंच यथा खलु मधिविद्यायामसौवाऽऽदित्य (छां. 3-1-1.)इत्यादिना मध्वादिपदार्थतया परमात्मोपसनोपदेशेऽपि न लौकिकमध्वादिवाचकाभावेन तदभावे विरोधः। अन्यत्र रूढिमनिवार्यैव महायोगवृत्त्या मध्वादिशब्दानामीश्वरादौ वृत्त्यभ्युपगमात्। तथा च सर्वशब्दवाच्यत्वे परमात्मनोऽभ्युपगतेऽप्यन्यस्यापि वाक्यप्रतिपाद्यत्वांगीकारात्। तदर्थं विभक्त्यंतरांगीकाराच्च। न च कर्माद्यभावापातः। नाप्युत्पत्त्यसंभवो नापि सर्वेषां विधातत्वप्रसंगः। अतः कर्मतदंगवाचिशब्दवाच्यो हरिरिति सिद्धं ॥
</1-4-11>
॥ इति ज्योतिरुपक्रमाधिकरणं ॥
3.अधिकरणं ॥
अत्र प्रातिपदिकेन प्रत्ययमुखेन बहुत्वसंख्याविशिष्टवस्तुवाचिनामाधाराधेयवाचिनां च शब्दानां समन्वयः क्रियते।
<1-4-12>
(12) ॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ॥
ननु पंचजनादिशब्दवाच्यो न विष्णुः। कंत्वन्ये। तस्य बहुत्वसंख्याविशिष्टवस्तुवाचित्वात्। ईश्वरे चासाधारणधर्मतया बहुत्वायोगात्। न च स्वस्य बहुत्वाभावेऽप्यन्यगतबहुत्वनियामकत्वाद्बहुत्ववाचकशब्वृत्तिस्तेन चेश्वरस्य बहुत्वनियामकत्वरूपासाधारणधर्मलाभ इति वाच्यं। वशीकृतबहुजनेऽपि राजनि बहुत्ववाचिशब्दादर्शनात्। न चादर्शनेऽप्यवरादिशब्दवद्वृत्तिसंभवः। सोऽवर इत्यादिश्रुतिबलेनावरशब्दवाच्यत्वे सिद्धेऽवरत्वनियामकत्वस्य निमित्तमात्रत्वाब्युपगमात्। न च प्रकृते तथाविधं नियामकमस्ति। सर्वे वेदायत्पदमि(कठ. 2-15)तीत्यस्य संकोचसंभवेनानियामकत्वात्। प्रतिशरीरमात्मांऽतरात्मरूपद्वयस्य प्रामाणिकत्वेन ऋतंपिबंता(कठ. 1-3-1.)वित्यादिद्वित्त्वसंभवेऽपि प्रतिशरीरं रूपबहुत्वे मानाभावेन बहुत्वायोगात्। अतः पंचजनादिशब्दवाच्यताऽसंभवादिति प्राप्ते सूत्रितं ॥
॥ ॥ न संख्योपसंग्रहादपि नानाभावादतिरेकाच्चेति ॥ अस्यार्थः ॥ संख्योपसंग्रहात् यस्मिन्पंच पंचजना इति (बृ. 6-4-17.) बहुत्वसंख्यावचनात्। अपि यस्मिन्नित्याधाराधेयभावनिर्देशादपि। विष्णोः पंचजनादिशब्दवाच्यत्वे विरोधोनास्ति। कुतः। नानाभावात् भगवतः बहुरूपाणां सत्त्वात्। अतिरेकाच्च यस्मिन्नित्युक्ताधाररूपस्य पंचना इत्युक्तोधयरूपस्य सविशेषाभिन्नत्वाच्चेत्यर्थः ॥
एवंच पंचजनादिशब्दवाच्यो भगवानेव। बाधकाभावात्। न च बहुत्वानुपपत्तिः। बाधकाभावात्। प्राणादिपंचजननियमनाय बहुरूपत्वेन बहुत्वोपपत्तेः। न चाधाराधेयभावानुपपत्तिः। सभगव इति स्वे महिग्नीति (छां. 7-24-1.) स्वाधारत्वस्य प्रमाणसिद्धत्वात्। पंचजनादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-12>
<1-4-13>
(13) ॥ प्राणादयो वाक्यशेषात् ॥ ॥
नन्वस्तु बहुत्वादिकमुपपन्नं। तथाऽपि पंचजनस्य विष्णुत्वे विशेषहेतोरभावात्। सर्वे वेदा इत्यस्य साधारणत्वेन संकोचसंभवेनानियामकत्वाद्बहुत्वसंभवेऽपि न पंचजनादिशब्दवाच्यो हरिरिति प्राप्ते सूत्रमाह ॥
॥ ॥ प्राणादयो वाक्यशेषादिति ॥ अस्यार्थः ॥ भगवद्रूपत्वेनोक्ताः पंचजनास्तु प्राणादेः। प्राणादयः द्वितीयानिर्दिष्टप्राणचक्षुःश्रोत्रान्नमनोभिधाः ज्ञेयाः। कुतः। वाक्यशेषात् ते च भगवद्रूपविशेषा एव। कुतः। विष्णोरन्यत्रासंभावित प्राण प्रामपदत्वादिप्रतिपादकं। प्राणस्य प्राणमि (छां. 6-4-18.)त्यादिवाक्यशेषादित्यर्थः ॥
एवंच स उ प्राणस्येति (केन. 2.) वाक्यश्येषे प्राणादिनां प्राणपदत्वोक्तेः। तस्य च विष्णुलिंगत्वात्। तस्मात्पंचजनादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-13>
<1-4-14>
(14) ॥ ज्योतिषैकेषामसत्यन्ने ॥ ॥
ननु न पंचजनादिशब्दवाच्यो विष्णुः। मांध्यदिनवाक्यशेषोक्तानां प्राणादिप्राणत्वादिप्रदानां विष्णुत्वेऽपि काण्वानां वाक्यशेषे चतुर्णामेवोक्तत्वेन तस्य तद्गतयस्मिन्निति पूर्ववाक्यतो भिन्नार्थत्वात्। अत्रापि वाक्यशेषस्य यस्मिन्नित्यतो भिन्नार्थत्वावश्यंभावात्। एकस्यैवाधाराधेयभावाभावात्। अतः पंचजनानां विष्णुत्वाभावादिति प्राप्ते सूत्रं पठति ॥
॥ ॥ ज्योतिषैकेषामसत्यन्न इति ॥ अस्यार्थः ॥ एकेषां काण्वादीनां। शाखायां। अन्ने अन्नाख्यभगवद्रूपे। असति अनुक्तेऽपि। ज्योतिषा तदाख्यभगवद्रूपेण पंचत्वसंख्यापूर्तिर्ज्ञातव्येत्यर्थः ॥
एवंचास्मिन्वाक्यशेषे अन्नस्यान्नमितिरूपे कथिते सत्यपि तद्देवा ज्योतिषां ज्योतिरिति (बृ. 6-4-16.) किंचिद्दूरोक्तेन पंचत्वसंभवेन भिन्नविषयत्वाभावात्। अतो बहुत्वसंख्या विशिष्टवाचिशब्दवाच्योऽपि हरिरेवेति सिद्धं ॥
</1-4-14>
॥ इति न संख्योपसंग्रहाधिकरणं ॥
4. अधिकरणं ॥
अत्रावांतरकारणवाच्याकाशादिशब्दसमन्वयः ब्रह्मणि क्रियते।
<1-4-15>
(15) ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ ॥
नन्वाकाशादिशब्दवाच्यो न विष्णुः। तेषामात्मादिकार्यत्वश्रवणात्। न च परमात्मनस्तत्संभवति। न जायतेति श्रुतेः। किंच लोके तावद्भिन्नयोरेव कार्यकारणभावोपलब्धो नत्वभिन्नयोरित्यात्माकाशयोरभिन्नत्वेन तथाभावो विरुद्धः। न चाकाशादिसंभवस्य तदधीनत्वेन संभूतशब्दोपपत्तिरिति वाच्यं। सुतोत्पत्तौ जनके जातशब्दप्रयोगादर्शनात्। आकाशगतरूपस्यान्यगतसंभवनियामकत्वे आत्मशब्दस्यानुपयोगात्। आत्मन इत्यस्यानन्वयं स्यात्। तस्मादात्मशब्दोदितस्यैव मुख्यकारणस्य विष्णुत्वं नत्ववांतरकारणानामाकाशादीनामिति प्राप्ते सूत्रितं ॥
॥ ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेरिति ॥ अस्यार्थः ॥ आत्मन आकाशः संभूतः आकाशद्वायुरित्यादौ (तै. 2-1.) कार्यत्वे सति कारणत्वरूपावांतरकारणवाचकाकाशादिशब्दैराकाशादिषु स्थितो विष्णुरेव। कारणत्वेन च शब्दात्कार्यत्वेन चोच्यते। न भूतं। कुतः। यथाव्यपदिष्टोक्तेः। स योऽतोऽश्रुत (ऐ.आ. 3-2-4.) इत्यादौ विष्णुः यथा यादृशेनाविदितत्वादिरूपेण व्यपदिष्टः उक्तः। तद्रूपयुक्तस्यैवाकाशादिषु यमाकाशो न वेदे (बृ. 5-7-12.)त्यादिवाक्येनोक्तत्वादित्यर्थः ॥
एवंच कार्यत्वे सति कारणत्वाभिधायकाकाशः संभूत इत्यादिश्रुतिभागगताकाशादिशब्दवाच्यो विष्णुरेव। नामानि सर्वाणीति श्रुतेः। आकाशाद्युत्पत्तावाकाशांतर्गतत्वेन भगवतोऽभिव्यक्त्या कार्यत्वस्य वाय्वादिरूपाभिव्यक्तिहेतुत्वेन कारणत्वोपपत्त्या कार्यकारणभावाविरोधात्। तथा चावांतरकारणाकाशादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-15>
॥ इति आकाशाधिकरणं ॥
5.अधिकरणं ॥
अत्र विष्णौ प्रकारांतरेण पूवोक्तसर्वशब्दसमन्वयासंभवमाशंक्य परिह्रियते।
<1-4-16>
(16) ॥ समाकर्षात् ॥ ॥
नन्वथाऽपि भगवतः सर्वशब्दवाच्यत्वं न संभवति। सर्वशब्दानां मुख्यतस्तस्यैकवाचित्वे ततोऽन्यत्र जगति शब्दप्रयोगरूपो वा हानादिरूपो वा व्यवहाराभावापातेन तल्लोपप्रसंगात्। तस्य चानिष्टत्वात्। परमात्मैव मुख्यतः सर्वशब्दवाच्य इत्यवधारणानुपपत्तेरिति प्राप्ते सूत्रमाह ॥
॥ ॥ समाकर्षादिति ॥ अस्यार्थः ॥ स्वतो मुख्यवृत्त्या परमात्मवाचिनः शब्दान्। ततः समाकृष्यान्यत्रवाचकत्वशक्त्यंगीकारात्। नान्यत्र व्यवहारलोपप्रसंग। इत्यर्थः ॥
एवंच मुख्यतः परमात्मवाचकानां शब्दानामन्यत्र व्यवहारार्थं समाकृष्य परमेश्वरेण संकेतितत्वेन सर्वव्यवहारोपपत्तेः। परस्य वाचका इति (पादम.) स्मृतेः। तथा च सकलशब्दपरममुख्यार्थत्वं हरेरिति सिद्धं ॥
</1-4-16>
<1-4-17>
(17) ॥ जगद्वाचित्वात् ॥ ॥
ननु यदि परमात्मनि शब्दा मुख्या अन्यत्रामुख्यास्तर्हि तस्मिन्नेव प्रसित्ध्या भाव्यं। कथमन्यत्र प्रसिद्धिः तथा च प्रसित्ध्यन्यथाऽनुपपत्त्याऽन्यस्यैव मुख्यवाच्यत्वं कल्प्यमिति प्राप्ते सूत्रं पठति ॥
॥ ॥ जगद्वाचित्वादिति ॥ अस्यार्थः ॥ लोकव्यवहाराच्छब्दानां जगद्वाचित्वज्ञानात्तेषां तत्र प्रसिद्धिर्युक्तेत्यर्थः ॥
एवंच लोकस्य बहिर्मुखत्वेन जगत्येव व्यवहाराच्छब्दानां तत्र व्युत्पत्त्या प्रसिद्धिः। परमात्मनि तु व्युत्पत्त्यभावेन प्रसित्ध्यभावोपपत्तेः। तस्मात्सर्वशब्दमुख्यवाच्यत्वं विष्णोरिति सिद्धं ॥
</1-4-17>
<1-4-18>
(18) ॥ जीवमुख्यप्राणलिंगादितिचेद्व्याख्यातं ॥ ॥
नन्वस्तु प्रवृत्तिनिमित्तस्वामित्वात्परमात्मनो मुख्यतः शब्दवाच्यत्वं। तथाऽपि तस्यैव किंतु जीवमुख्यप्राणयोरपि। तयोः सर्वस्वामित्वस्यास्य यदैकां शाखामिति (छां. 6-11-2.) वायुना हि सर्वे लोका इत्यादिश्रुतिसिद्धत्वादित्याक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥
॥ ॥ जीवमुख्यप्रामलिंगादिति चेद्व्याख्यातमिति ॥ अस्यार्थः ॥ अस्य यदैकां शाखां जीवो जहातीति वायुना हि लोका नेनीयंत इति वाक्ये च जीवमुख्यप्राणलिंगात् जीवमुख्यप्राणलिंगयोः श्रवणात्। तयोरपि तत्तच्छब्दमुख्यवाच्यता स्यादिति चेन्न। कुतः। यस्मात्त्द्वाक्यजातं तत्तदंतर्यामिपरतया व्याकृतं। तस्मादित्यर्थः ॥
एवंच श्रुतीनां तदंतर्गतभगवद्विषयतयोपासात्रैविध्यादिति व्याख्यानाद्विष्णोरेव मुख्यतः शब्दार्थत्वमिति सिद्धं ॥
</1-4-18>
<1-4-19>
(19) ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ ॥
ननु यत्तावदुक्तं समाकर्षेण वाच्यत्वादेकस्य मुख्यवाच्यत्वमन्यस्य स्वतोवाच्यत्वात्परममुख्यवाच्यत्वमिति तदुक्तं। वेदस्य काम्यफलार्थमप्रवृत्तत्वेन समाकर्षे प्रयोजनाभावात्। एकस्य वाच्यत्वमेव नेत्यन्यस्य विष्णोर्मुख्यत एव वाच्यत्वं भवेन्न तु परममुख्यतो वाच्यत्वमिति प्राप्ते सूत्रं पठति ॥
॥ ॥ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेव इति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। एतेन विष्णोरन्यत्र शब्दान् समाकृष्य कर्मादिप्रतिपादनमपि युक्तमेव। कुतः। यस्मात् अन्यार्थं परमात्मज्ञानार्थमेव। तत्कुत इति चेत्। प्रश्नव्याख्यानाभ्यां श्वेतकेतुप्रश्नात् यथा सौम्येत्युद्दाकवचनाच्चेति (छां. 6-1.) जैमिनिराचार्यो मन्यते। किंच एके शाखिनः स्पष्टंयस्तं न वेदेति (ऋ. 1-164-39.) अन्यज्ञानस्य परमात्मज्ञानार्थतां पठंति। तस्मादपीत्यर्थः ॥
एवंच युक्तमेव वेदः समाकर्षेण कर्मदिकं वदतीति। कर्मादिज्ञानस्य गवत्ज्ञानार्थत्वं कुत इति चेत सर्वमिदमिति विज्ञातस्याप्यस्य फलं कस्मिन्विज्ञाते भवति। एतत्ज्ञानमात्रस्याफलत्वादिति शौनकप्रश्ने सर्वमपरविद्यया विज्ञातं भवति। विज्ञातं च परविद्याविषयपरमात्मज्ञानेन सफलं भवतीत्यंगिरसो व्याख्यानात्। अपि चैवमेक शाखिनो यस्तन्नवेदेत्यादिना पठंति। अतो कर्मादिज्ञानस्य भगवत्ज्ञानार्थत्वमिति जैमिनिराचार्यो मन्यते। ततश्च विष्णोः परममुख्यवाच्यत्वमिति सिद्धं ॥
</1-4-19>
<1-4-20>
(20) ॥ वाक्यान्वयात् ॥ ॥
ननु न परमात्मज्ञानार्थं कर्मादिकं वेदेन वक्तव्यं। अन्यदनुक्त्वा वेदेन परमात्ममात्रकथनेऽपि तत्ज्ञानसंभवात्। न च व्युत्पत्त्युनुपपत्तिः। ज्योतिष्टोमादिशब्दानां विष्णौरूढेरभावात्। योगस्यच ज्योतिष्ठोमेनेति पदावयवानामप्यन्यपरत्वानभ्युपगमेऽयोगादिति वाच्यं। खंडपदमात्रस्यान्यवाचकत्वाभ्युपगमात्। तथा चान्यकथने प्रयोजनाभावान्न तत्र समाकर्षो युक्त इति प्राप्ते सूत्रं पठति ॥
॥ ॥ वाक्यान्वयादिति ॥ अस्यार्थः ॥ ब्रह्मणि वाक्यसमन्वयमवेक्ष्य वेदेन कर्मादिकमपि प्रतिपादनीयमित्यर्थः ॥
एवंच न केवलं परमात्मनि श्रुतेः पदसमन्वयो विवक्षितः किं तर्हि वाक्यसमन्वयोऽपि। न चासावन्यत्र समाकर्षाभावे सित्ध्यतीति समाकर्षो वक्तव्य इति सिद्धं ॥
</1-4-20>
<1-4-21>
(21) ॥ प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्यः ॥ ॥
ननु परमात्मज्ञानार्थं कर्मादिकमुच्यत इत्युक्तं। तत्केन प्रकारेणेत्याकांक्षायां सूत्रमुपन्यस्यति ॥
॥ ॥ प्रतिज्ञासिद्धेर्लिंगमाश्मरथ्य इति ॥ वेदेन कर्मादिप्रतिपादनं। यतःप्रति ज्ञासिर्द्धेर्लिंगं ज्ञानमेव मोक्षहेतुः नान्यदित्येवंरूपायाः नान्यः पंथा इति (तै.आ. 12-73.) प्रतिज्ञातार्थसिद्धेः साधकं। अतस्तदुपयोगित्वेन तत्प्रतिपादनं युक्तमित्याश्मरथ्याचार्यो मन्यत इत्यर्थः ॥
एवंच नान्यः पंथा इति ब्रह्मज्ञानेन मोक्षः प्रतिज्ञातः। तत्सित्ध्यर्थं कर्मादिकं सपरिकरं निरूप्य तस्यानित्यदुःखशिरस्कफलकत्वमुच्यते। एवं कर्मादिकमनित्यफलकत्वेन नान्य इति सिद्धमित्येवंरूपेण कर्मवचनस्योपयोग इत्याश्मरथ्याचार्यो मन्यते। तथा च भगवत्ज्ञानार्थं कर्मादिकमुच्यत इति सिद्धं ॥
</1-4-21>
<1-4-22>
(22) ॥ उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥ ॥
प्रकारांतरेण कर्मादिवचनस्य भगवत्ज्ञानोपयोगं प्रदर्शयत्सूत्रमुपन्यस्यति ॥
॥ ॥ उक्रमिष्यत एवं भावादित्यौडुलोमिरिति ॥ अस्यार्थः ॥ उक्रमिष्यतः ज्ञानान्मोक्षमिच्छतोऽधिकारिणः। एवं ज्ञानसाधनतया। भावात् कर्मादेरप्यनुष्ठयेत्वान्मोक्षार्थज्ञानसाधनत्वेन वेदेन कर्मादिप्रतिपादनं युक्तमेवेत्यौडुलोमिराचार्यो मन्यत इत्यर्थः ॥
एवंच संसारादुत्क्रमणेच्छोर्मुमुक्षोर्ज्ञानस्येव कर्मादरेप्यंतःकरणशुद्धिद्वारा मोक्षसाधनभगवत्ज्ञानसाधनत्वेन निमित्तेन संपाद्यत्वाद्वेदानां कर्मादिवाचित्वमावश्यकमित्यौडुलोमिराचार्यो मन्यते। न च कर्मादेः फलश्रुतिविरोधः। तस्याः कर्मणि रुचिजननार्थत्वात्। तथा चोक्तं युक्तमिति सिद्धं ॥
</1-4-22>
<1-4-23>
(23) ॥ अवस्थितेरिति काशकृत्स्नः ॥ ॥
प्रकारांतरेण कर्मादिवचनस्य ब्रह्मज्ञानोपयोगित्वं प्रदर्शयत्सूत्रं पठति ॥
॥ ॥ अवस्थितेरिति काशकृत्स्न इति ॥ अस्यार्थः ॥ सर्वाधारे भगवति कर्मादीनां अवस्थितेः अवस्थानात्। भगवतः कर्माद्याधारत्वज्ञानायाधेयभूतकर्मादिस्वरूपं वेदेन प्रतिपाद्यत इति काशकृत्स्नाचार्यो मन्यत इत्यर्थः। अनेकाधिकारिकत्वान्मतानां न विरोध इति ध्येयं ॥
एवंचैव सेतुर्विधारणं (बृ. 6-4-22.) इत्यादौ परमात्मन्यवस्थित्युक्तेः। तस्याश्च सर्वाधारत्वेन ज्ञातव्यमिति ज्ञानार्थत्वात्। अस्य चाधेयज्ञानं विनाऽयोगात्तदर्थं वेदेन कर्मादिकमुच्यत इति साक्षादेव कथं ब्रह्मज्ञातव्यमिति ज्ञान्यपेक्षितस्वेतरसर्वाधारत्वरूपप्रकारसमर्पकत्वेन वेदानां कर्मादिजगद्वाचित्वमन्यार्थं परमात्मज्ञानार्थमिति काशकृत्स्नाचार्यो मन्यते। तथा च भगवज्ज्ञानार्थं वैदिकशब्दानामन्यत्र समाकर्षेण व्यवहारोपपत्तेर्युक्तं हरेः सकलशब्दपरममुख्यार्थत्वमिति सिद्धं ॥
</1-4-23>
॥ इति समाकर्षाधिकरणं ॥
6.अधिकरणं ॥
अत्र स्त्रीशब्दानां ब्रह्माणि समन्वयः क्रियते।
<1-4-24>
(4) ॥ प्रकृतिश्च प्रतिज्ञादृष्टांतानुपरोधात् ॥ ॥
ननु न प्रकृत्यादिशब्दवाच्यो हरिः। स्त्रीलिंगशब्दवाच्यताव्यापकस्त्रीत्वाभावात्। नैनमिति स्त्रीत्वनिषेधात्। न च नपुंसकशब्दवृत्तिवस्त्रीशब्दवृत्तिः किं न स्यादिति वाच्यं। तत्कल्पनाऽयोगात्। अथ स्त्रीभूतस्यापि स्त्रीनियामकत्वात्तच्छब्दवाच्यतेति चिन्न। वशीकृतभार्ये भर्तरि तच्छब्दवाच्यत्वप्रसंगात्। अतः प्रकृत्यादिशब्दानां परमात्मवाचित्वाभावेन समन्वयसूत्रमनुपपन्नमिति प्राप्ते सूत्रमाह ॥
॥ ॥ प्रकृतिश्च प्रतिज्ञादृष्टांतानुपरोधादिति ॥ अस्यार्थः ॥ ईश्वरो न केवलं पुल्लिंगाभिधेयः। किंतु प्रकृतिः। सैषा प्रकृतीत्याद्युक्तप्रकृत्यादिस्त्रीलिंगशब्दवाच्यश्च भवति। कुतः। एवं सत्येव प्रतिज्ञादृष्टांतानुपरोधात् हंतैतमिति प्रतिज्ञायाः यथेति नदीसमुद्रदृष्टांतस्य चानुपरोधात् अविरोधात्। अन्यथा तद्विरोधः स्यादित्यर्थः ॥
एवंच हरिरेव प्रकृत्यादिशब्दवाच्यः। हंतैतमेव पुरुषमिति श्रुतौ विष्णौ सर्वशब्दवाच्यत्वं प्रतिज्ञाय तत्रैव नदीसमुद्रद्रष्टांताभिधानात्। अन्यथा प्रतिज्ञादृष्टांतोपरोधः स्यात्। अतः प्रकृत्यादिशब्दवाच्यो हरिरेवेति सिद्धं ॥
</1-4-24>
<1-4-25>
(25) ॥ अभिध्योपदेशाच्च ॥ ॥
एवं सामान्यप्रमाणेन प्रकृत्यादिशब्दवाच्यतां हरेः प्रतिपाद्येदानीमशेषस्त्रीशब्दोपलक्षकप्रकृतिशब्दवाच्यत्व एव विशिष्यप्रमाणं प्रतिपादयत्सूत्रं पठति ॥
॥ ॥ अभिध्योपदेशाच्चेति ॥ अस्यार्थः ॥ अभिध्यायाः ईश्वरेर्छायाः। उपदेशात् मायांत्विति (श्वे. 4-10.) श्रुतौ प्रकृतिशब्दवाच्यत्वोक्तेश्च इच्छाऽभिन्नेश्वरस्यापि तच्छब्दवाच्यत्वाच्चेत्यर्थः ॥
एवंच भगवदभिन्नेच्छाया मायांतु प्रकृतिमिति श्रुतौ प्रकृतिर्वासनेत्येवमिति स्मृतौ च प्रकृतिशब्दवाच्यत्वाभिधानात्। सोऽभिध्यास इति स्मृतेश्च। अतो न केवलं पर्वोक्तसामान्यहेतोः किं तु प्रकृतिशब्दवाच्येच्छात्मकत्वोक्तेश्च प्रकृतिर्ब्रह्मैवेति सिद्धं ॥
</1-4-25>
<1-4-26>
(26) ॥ साक्षाच्चोभयाम्नानात् ॥ ॥
नन्वथाऽपि विष्णोरिच्छाद्वारा प्रकृतिशब्दवाच्यत्वेऽपि न साक्षात्तच्छब्दवाच्यत्वं। प्रमाणाभावात्। नामानीति श्रुतेः संकोचसंभवादिति प्राप्ते सूत्रमाह ॥
॥ ॥ साक्षाच्चोभयाम्नानादिति ॥ अस्यार्थः ॥ चोऽवधारणे। साक्षात् द्वारमंतरेणैव। उभयाम्नानात् एष स्त्र्यैष पुरुष इति (पैंगिश्रुति.) वाक्येन प्रकृतिपुरुषोभयशब्दवाच्यत्वाभिधानात्। ईश्वरस्य प्रकृत्यादिशब्दवाच्यत्वमावश्यकमित्यर्थः ॥
एवंच निर्दिष्टश्रुतौ भगवतः प्रकृतिपुरुषत्वाभिधानेनैतच्छ्रुत्यैवार्थादिच्छाद्वारमंतरापि प्रकृतिशंब्दवाच्यत्वलाभात्। अन्यथा पुरुषशब्दवाच्यत्वमपि न स्यादविशेषात्। ततश्च प्रकृत्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-26>
<1-4-27>
(27) ॥ आत्मकृतेः परिणामात् ॥ ॥
ननु यद्यपि भगवतः प्रकृतिशब्दवाच्यत्वं श्रुत्योक्तं। प्राप्ते न तद्युक्तं। तत्र तस्य प्रवृत्तौ निमित्ताभावात्। सिद्धांतिभिः संकेतमात्रत्वस्यानभ्युपगतत्वादिति प्राप्ते परिहरत्सूत्रमाह ॥
॥ आत्मकृतेः परिणामादिति ॥ अस्यार्थः ॥ प्रकृतिपरिणामं विधाय तत्प्रेरणाय आत्मकृतेः त्वस्य बहुधाकरणात् प्रकृतिशब्दवाच्यो विष्णुरेवेत्यर्थः ॥
एवंच प्रकृष्टाकृतिरिति योगसंभवेन निमित्ताभावासिद्धेः। प्रकृतेः स्वतः परिणामसामर्थ्याभावात्तत्र स्थित्वा तां परिणम्य महदादिनियाकत्वेनात्मनो बहुधाकरणात्। अथ हेष आत्मेति (भाल्लयेव.)श्रुतेः। अविकारोऽपि परम इति (नारदीय.) स्मृतेश्च। ततः प्रकृत्यादिशब्दवाच्यो विष्णुरेवेति सिद्धं ॥
</1-4-27>
<1-4-28>
(28) ॥ योनिश्च हि गीयते ॥ ॥
ननु परमात्मनः स्त्रीत्वेऽपि प्रकृतिशब्दवाच्यत्वाभिधायकप्रमाणसद्भावेऽपि स्त्रीशब्दवाच्यत्वं न युक्तं। तस्याव्यवधानेन सूतिकर्तृत्ववाचित्वनियमात्। न च परमात्मनस्तदस्ति। व्यापकाभावेच व्याप्यायोगात्। प्रकृतिशब्दवाच्यताभिधायकवाक्यस्य मृदव्रीवीदित्यादि(शतपथब्राह्मणं 6-1-3-2.)वाक्यवत्कथंचिन्ने यत्वादिति प्राप्ते परिहरत्सूत्रं पठति ॥
॥ ॥ योनिश्च हि गीयत इति ॥ अस्यार्थः ॥ हि यस्मात्। ईश्वरः यद्भूतयोनिमिति (मुं. 1-1-6.) श्रुत्या योनिः स्वदेहादेवापत्योत्पादकश्च। गीयते प्रतिपाद्यते तस्मात्प्रकृत्यादिस्त्रीलिंगशब्दवाच्य इत्यर्थः ॥
एवंच व्यवधानेनिति (ब्रह्मांड.) स्मृतेः। योनित्वस्यापि श्रुतिसिद्धत्वेन व्यापकाभावासिद्धेः। ततश्च विष्णुरेवाशेषस्त्रीशब्दवाच्य इत्युपपन्नं समन्वयसूत्रमिति सिद्धं ॥
</1-4-28>
॥ इति प्रकृत्यधिकरणं ॥
7.अधिकरणं ॥
अत्र निषेध्यनिषेधार्थाः शब्दाः ब्रह्मणि समन्वीयंते।
<1-4-29>
(29) ॥ एतेन सर्वे व्याख्याता व्याख्याताः ॥ ॥
ननु न विष्णुरैवासदादिशब्दवाच्यः। केषांचिदभाववाचित्वात्। केषांचिन्निःश्वरूपवाचित्वात्। पर मात्मनोभावरूपेनाभावत्वादिकं न युज्यते। न च स्वस्य निःस्वरूपत्वाभावेऽप्यसतस्तधीनत्वेन तच्छब्दवृत्तिरिति वाच्यं। नियम्यस्वरूपशून्यस्य नियम्यत्वायोगादिति प्राप्ते सूत्रं पठति ॥
॥ ॥ एतेन सर्वे व्याख्याता व्याख्याता इति ॥ अस्यार्थः ॥ एतेन पूर्वोक्तहेतुनैव। सर्वे शून्यादिशब्दाः। मुख्यतो भगवद्वाचिन एवेत्यर्थः। एतदध्यायादिमारभ्यांतमुक्तस्यार्थस्य इत्थमेवेत्यवधारणार्थमध्यायांतेद्विरुक्तिः ॥
एवंच परमात्माधीनत्वादियुक्तिसमुदायात्। न च निषेधमुखवेद्यत्वाद्यभावात्तदभावः। निषेधमुखवेद्यत्वाभावेऽपि दुर्जनाव्यक्तत्वादिना शमूनं कुरुत इत्यादियोगेन च शून्यादिशब्दवाच्यात्वोपपत्तेः। एष ह्येव शून्य इति (महोपनिषत्.) श्रुतेः। न च नियम्यस्वरूपविधुरत्वात्तदधीनत्वमयुक्तमिति वाच्यं। स्वरूपवैधुर्येऽपि निषेधमुखवेद्यत्वादि धर्माणां तदधीनत्वात्। अतोऽसदादिशब्दवाच्यत्वस्य हरेरुपपन्नत्वेन युक्तमशेषस्वरवर्णपदवाक्यात्मकशास्त्रयोनित्वं ततो जगज्जम्नादिकर्तृत्वं मुख्यानंतगुणवत्त्वं च विष्णोः सिद्धं ॥
</1-4-29>
॥ इति एतेन सर्वे व्याख्याताधिकरणं ॥
॥ इति प्रथमाध्यायस्य चतुर्थः पादः ॥
॥ इति प्रथमाध्यायः समाप्तः ॥