सामग्री पर जाएँ

सूत्रार्थरत्नावली/द्वितीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः सूत्रार्थरत्नावली
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ द्वितीयाध्यायस्य द्वितीयः पादः ॥

इतरेषां चानुपलब्धेरिति नये सामान्यतो निराकृतसमयानां विशेषतो निराकरणं क्रियतेऽस्मिन्पादे ॥

1.अधिकरं ॥

अत्राचेतनप्रवृत्तिमतं निराक्रियते।

<2-2-1>
(1) ॥ रचनानुपपत्तेश्च नानुमानं ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। सांख्यसमये महदादिकं स्वसदृशकारणजन्यं। कार्यत्वात्। घटवदित्यनुमानेन प्रकृतेः कारणत्वं प्रसाध्य तस्या अनन्याधीनतया कार्योन्मुखत्वाभिधानात्। अतः प्रकृतेरेवानन्याधीनतयाऽशेषकार्योन्मुखत्वेन नेश्वरकर्तृत्वं चास्तीति न जगत्कारणत्वं युक्तमिति प्राप्ते पराकुर्वत्सूत्रमाह।

॥ ॥ रचनानुपपत्तेश्च नानुमानमिति ॥ अस्यार्थः ॥ अनुमीयत इत्यनुमानं। सांख्यानुमानकल्पितं। प्रधानं न जगत्कर्तृ। कुतः रचनानुपपत्तेः। प्रधानस्य जडत्वेन स्वतः प्रवृत्त्यनुपपत्तेः। अचेतनस्य स्वतः प्रवृतौ प्रमाणाभावाच्चेत्यर्थः ॥

एवंच युक्तमेव विष्णोः जगत्कर्तृत्वं। कार्यं स्वसदृशकारणवदित्यनुमानेन कारणतया परिकल्पितस्य प्रधानस्याचेतनत्वेन स्वतः कार्योन्मुखत्वायोगात्। प्रधानस्य स्वतः प्रवृत्त्यभावेऽचेतनत्वाख्यहेतुसूचनादसिद्धेः परिहृतत्वात्। तद्विरुद्धोपपत्तेरेव तदभावसाधकत्वात्। प्रागुक्तानुमानस्य कारणत्वमात्रसाधकत्वेन स्वतः कार्योन्मुखत्वासाधकत्वात्। प्रमाणांतरस्य चाभावात्। अतो निरीश्वरसांख्यमतस्याप्रामाणिकत्वेन तद्विरोधाभावाद्युक्तं जन्मादिकारणत्वलक्षणमिति सिद्धं ॥
</2-2-1>

<2-2-2>
(2) ॥ प्रवृत्तेश्च ॥ ॥

एवं प्रधानस्य स्वतः प्रवृत्तिकर्तृत्वेऽचेतनत्वस्वतःप्रवृत्तिशून्यत्वप्रमाणाभावैर्निराकृत्य युक्त्यंतरेणापि तन्निराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ प्रवृत्तेश्चेति ॥ अस्यार्थः ॥ अहं करोमीति चेतनस्यैव प्रवृत्तेर्दर्शनाच्च न प्रधानं जगत्कर्तृ इत्यर्थः ॥

एवंच कुलालादेर्घटादिसृष्टौ व्यापारस्याहं करोमीत्यनभवसिद्धत्वात्। किंच पटादिसृष्टेश्चेतनेच्छानुसारित्वदर्शनेन महदादिसृष्टेरपि तथाऽभ्युपगंतव्यत्वात्। महदादिसृष्टिश्चेतनेच्छानुसारिणी सृष्टित्वाद्धटसृष्टिवदिति मानांतरविरोधात्। चेतनस्य प्रवृत्तिः क्रिया। सा च कृतिं विना नोपपन्ना। सा च नेच्छां विना। सा च न ज्ञानं विनेति प्रवृत्त्यादिकार्याणां स्वस्वकारणाविना भूतत्वेन प्रवृत्त्या इच्छापूर्वकत्वसाधनसंभवात्। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-2>

<2-2-3>
(3) ॥ पयोंऽबुवच्चेत्तत्रापि ॥ ॥

नन्वचेतनयोरपि पयोंऽबुनोः स्वतः प्रवृत्तिर्द्दृश्यते। अतस्तत्रैवाचेतत्वहेतोर्व्यभिचारात्। अचेतनस्य स्वतः प्रवृत्तौ च स एव दृष्टांतो भविष्यतीति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ ॥ पयोंऽबुवच्चेत्तत्रापीति ॥ अस्यार्थः ॥ अपि शब्दश्चेतनप्रवृत्त्याकर्षणार्थः। पयोंऽबुवत् यथाऽचेतनयोः पयोंऽबुनोः प्रवृत्तिर्दृष्टा तथा प्रधानस्याप्यस्त्विति चेन्न। कुतः। यतः। तत्रापि पयोंऽब्वादावपि अंततः ईश्वरादेव प्रवृत्तिः। न स्वतः प्रवृत्तिरित्यर्थः ॥

एवंचैतस्य वाऽक्षरस्य प्रशासन इति(बृ. 5-8-9.) श्रुत्या तत्रापीश्वरनिमित्तप्रवृत्तिसद्भावावगमात् तथा च पूर्ववाद्युक्तप्रत्यनुमानदृष्टांते पयोंऽब्वादौ सिद्धांत्यभिमतसाध्यस्यैव सत्वान्न तदनुमानस्य सत्प्रतिपक्षता न वा व्यभिचारः। अतो जन्मादिकारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-3>

<2-2-4>
(4) ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ॥

ननु श्रुतिसामर्थ्येन पयोंऽबुनोः प्रवृत्तेरीश्वरधीनतया तत्र व्यभिचाराभावेऽप्ययस्कांतशिलादिरूपाचेतनांतस्य प्रवृत्तौ सिद्धायां भविष्यति तत्र व्यभिचारः। सेत्स्यति च प्रधानस्य स्वतः प्रवृत्तौ साध्यायामयस्कांतादिक्मेव निदर्शनं। उदाहरणनियमस्यानाश्रयणीयत्वादित्याशंकामपाकुर्वत्सूत्रं पठति ॥

॥ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वादिति ॥ अस्यार्थः ॥ व्यतिरेकानवस्थितेः न ऋत इति (ऋ. 10-113-9.) श्रुत्या ईश्वरव्यतिरेकेण कस्यापि कर्मणः असत्त्वावगमात्। तत एवाचेतनस्यैव स्वतः प्रवृत्तिरिति निरीश्वरसांख्यमतस्याप्रामाणिकत्वात्। अतः एवानपेक्षत्वात्सद्भिरनादरणीयत्वान्न तद्विरोधो विष्णुकर्तृत्वस्येत्यर्थः ॥

एवंच न ऋते त्वत्क्रियत इति श्रुत्या सर्वस्यापीश्वराधीनत्वावगमात्। ईश्वरव्यतिरेकेण तं विना कस्यापि कर्मणोऽनवस्थितिश्रुतेरचेतनत्वहेतोः कुत्रापि व्यभिचाराभावात्। पूर्ववाद्युक्तानुमाने दृष्टांतालाभात्। सांख्यपरिकल्पितानुमानस्याप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च महाजनपरिगृहीतत्वाभावान्नानुमानपरिकल्पितं प्रधानं जगत्कर्तृ। अतो निरीश्वरसांख्यमतस्याप्रामाणिकत्वेन तद्विरोधाभावाद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-4>
॥ इति रचनानुपपत्त्याधिकरणं ॥

2.अधिकरणं ॥

अत्र सेश्वरसांख्यमतं. निराक्रियते।

<2-2-5>
(5) ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ॥

ननु नेश्वरस्य स्वातंत्र्येण कर्तृत्वं युक्तं। परमेश्वरानुगृहीतप्रधानादेव। पर्जन्यानुगृहीत पृथिव्या अंकुरोत्पत्तिवज्जगदुत्पत्तिसंभवात्। अतो नेश्वरस्य स्वातंत्र्येण जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सूत्रमाह ॥

॥ ॥ अन्यत्राभावाच्च न तृणादिवदिति ॥ अस्यार्थः ॥ तृणादिवत् यथा पृथिवीजन्यतृणादिकार्ये पर्जन्यं सहकारिमात्रं तथा प्रकृतिजन्यमहदादिकार्येऽपीश्वरः अनुग्राहकः। न स्वतंत्र इति सेश्वरसांख्यपक्षोऽपि न। कुतः। अन्यत्राभावात्। ईश्वरादन्यत्र तत्प्रेरणां विना जगतोऽभावादीश्वरस्य प्रकृतिसत्तादिप्रदत्वाच्चेत्येर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। स्वातंत्र्येण तत्प्रेरणामंतरेण कस्यापि वस्तुनोऽभावात्। मूलकारणभूतायाः प्रकृतेरपि तदधीनसत्ताकत्वाच्च। अतः सेश्वरसांख्यमतस्याप्रामाणिकत्वेनाविरोधकत्वाद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-5>
॥ इति अन्यत्राभावाधिकरणं ॥

3.अधिकरणं ॥

अत्र लोकायतिकपक्षो निराक्रियते।

<2-2-6>
(6) ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॥

ननु नेश्वरस्य स्वातंत्र्येण कर्तृत्वं युक्तं। अंतरेणापीश्वरं पूर्वस्मात्पूर्वस्मादुत्तरोत्तरोत्पत्तिसंभवात्। चैतन्योत्पत्तेरपि मदिरोत्पत्तिवत्स्वभावदेवोपपत्तेः। न च श्रुत्यादिबाधः। तस्या अप्रमाण्यात्। न च तस्या अप्रामाण्ये धर्माद्यसिद्धिप्रसंगः। अतींद्रियवस्तुनोऽभावेनेष्टत्वात्। अत इश्वराभावान्नेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सूत्रं पठति।

॥ ॥ अभ्युपगमेऽप्यर्थाभावादिति ॥ अस्यार्थः ॥ नेत्यनुवर्तते। अनभ्युपगमेऽपि चार्वाकैः स्वशास्त्रस्य सिद्धांतत्वानभ्युपगमे सिद्धमस्मदिष्टं। अभ्युपगमेऽपि अर्थाभावात्। सिद्धांतत्वव्यापकयोः अर्थशब्दितविषयप्रयोजनयोः असत्त्वांगीकारात् स्वव्याघातः स्यादिति न तत्पक्षोऽपि युक्त इत्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। चार्वाकसमयस्य विषयप्रयोजनादिशून्यत्वेनाप्रमाणत्वेन विरोधाभावात्। तथाहि। न तावत्तत्समयस्यातींद्रियो विषयः। तदभावात्। नाप्यैंद्रियकं। तस्य प्रत्यक्षसिद्धत्वेन शास्त्रानपेक्षणात्। नापि स्वर्गापवर्गादि श्रोतृफलं। तदलाभात्। नापि दृष्टं धनादि। तस्य कृष्यादिलघूपायसाध्यत्वात्। नापि प्रणेतुः प्रयोजनं। न च धर्माद्यभावप्रतिपादनद्वारा लोकोपकारः प्रयोजनमिति वाच्यं। धर्माद्यभावज्ञाने परस्परहिंसादिनाऽपकारस्यैव प्राप्तेः। नाप्युपकारः स्वतः प्रयोजनं। सुखदुःखावाप्तिहानिरूपत्वाभावात्। न वा तेनापि किंचित्साध्यं प्रयोजनं। एवं विधेऽधिकारी दूरोत्सारितः। तदभावादेव संबंधोऽपि अतश्चार्वाकसमयस्याप्रामाणिकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-6>
॥ इति अभ्युपगमाधिकरणं ॥

(7) ॥ अधिकरणं ॥

अत्र पुरुषोपसर्जनप्रकृतिकर्तृवादो निराक्रियते।

<2-2-7>
(7) ॥ पुरुषाश्मवदिति चेत्तत्रापि ॥ ॥

ननु न हरेर्जगत्कारणत्वं युक्तं। चेतनोपसर्जनशरीरस्याश्मानयनादिकर्तृत्वदर्शनेन पुरुषोपसर्जनप्रधानेनैव जगदुत्पत्तिसंभवात्। प्रधानं चेतनसंनिधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति मानसद्भावात्। अत ईश्वरस्यैवाभावाज्जगत्कारणत्वलक्षणं तस्यैवेत्येतद्‌दूरोत्सारितमिति प्राप्ते सूत्रमाह ॥

॥ ॥ पुरुषाश्मवदिति चेत्तत्रापीति ॥ अस्यार्थः ॥ पुरुषाश्मवत् यथा पुरुषसंबंधादचेतनं शरीरं अश्मानयनादौ प्रवर्तते तथाऽचेतनप्रकृतिः चेतनसंबंधात्प्रवर्तत इति चेन्न। कुतः। यतः तत्रापि शरीरप्रवृत्तावपि चेतनस्य ईश्वरस्यैव कर्तृत्वेन दृष्टांताभावः अत इत्यर्थः ॥

एवंच युक्तमेव हरेर्जगत्कारणत्वं। पुरुषोपसर्जनप्रकृतेर्जगत्कारणत्वसाधने दृष्टांताभावात्। न च शरीरमेव दृष्टांत इति वाच्यं। न ऋते त्वत्क्रियत इति (ऋ. 10-113-9.) श्रुत्या शरीरप्रवृत्तावपि परमात्माधीनत्वेन दृष्टांतस्य साध्यविकलत्वात्। ततश्च मतांतरविरोधाभावेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-7>

<2-2-8>
(8) ॥ अंगित्वानुपपत्तेः ॥ ॥

एवं श्रुतिलक्षणहेतुना दृष्टांते साध्यवैकल्यमभिधाय हेत्वंतरेण दृष्टांते साध्यवैकल्योपपादनाय सूत्रमुपन्यस्यति ॥

॥ ॥ अंगित्वानुपपत्तेरिति ॥ अस्यार्थः ॥ पुरुषास्यांगत्वेंऽगीकृते सति अंगमंगीति वाक्ये अंगित्वस्य प्राधान्यस्य उक्त्त्यनुपपत्तेः। न पुरुषोपसर्जनप्रकृतिकर्तृत्वपक्षे दृष्टांतोऽस्तीत्यर्थः ॥

एवंच यदि पुरुषोपसर्जनं शरीरमेव कर्तृ स्यात्तर्हि पुरुषोँऽगी शरीरमंगमिति प्रामाणिकलौकिकव्यवहारो न स्यात्। अस्ति चासौ। अतो नायं दृष्टांतः। तस्मात्पुरुषसंवलितशरीरस्यैव स्वतः प्रवृत्तावुच्यमानायां पुरुषस्यांगत्वाप्रधानत्वावश्यं भावादंगमिति स्मृतौ पुरुषस्यांगित्वव्यवहारः शरीरं प्रति प्राधान्यव्यवहारोपदेशोऽनुपपन्नः स्यात्। एवं दार्ष्टांतिकेऽपि पुरुषस्य प्रधानांगत्वापत्त्यांऽगित्वव्यवहारानुपपत्तिः। तथा च दृष्टांताभावो बाधश्च दर्शिते। अतो मतांतरविरोधाभावेन युक्तं जगत्कारत्णवलक्षणमिति सिद्धं ॥
॥ इति पुरुषाश्माधिकरणं ॥
</2-2-8>

5.अधिकरणं ॥

अत्र प्रकृत्युपसर्जनपुरुषकृर्तृवादो निराक्रियेत।

<2-2-9>
(9) ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ ॥

ननु न हरेर्जगत्कारणत्वं युक्तं। प्रधानोपसर्जनपुरुषादेव जगदुत्पत्तिसंभवेनेश्वरवैयर्थ्यात्। तथा च प्रयोगः। विमता प्रवृत्तिः अचेतनोपसर्जनपुरुषाधीना प्रवृत्तित्वात् अश्मानयनादिप्रवृत्तिवदिति। अतो न जगत्कारणत्वलक्षणं युक्तमिति प्राप्ते सूत्रमाह ॥

॥ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगादिति ॥ अस्यार्थः ॥ शब्देनांगित्वानुपपत्तेरित्यस्य समाकर्षः। यथा प्राचीनपक्षान्यप्रकारेण प्रकृत्युपसर्जनपुरुषकर्तृत्वस्यानुमितौ साधनेऽपि। ज्ञशक्तिवियोगात्। ज्ञस्य जीवस्य शरीरसंबंधार्थं प्रवृत्तिशक्तिवियोगात् आंगित्वानुपपत्तेरेवेत्यर्थः ॥

एवंच युक्तमेवेश्वरस्य जगत्कारणत्वं। प्रकृत्युपसर्जनपुरुषस्य कर्तृत्वे मानाभावात्। अथ मतं। प्राचीनमतादन्यथाऽनुमितमिति। तथा सति दृष्टांते साध्याभावात्। केवलस्य प्रवृत्तिशक्तेरंगीकारे शरीरवैयर्भ्यं। नोचेच्छरीरसंबंधाभावप्रसंगेनाश्मानयनादिप्रवृत्तिर्न स्यात्। अस्ति चासौ। अतः पुरुषस्य शरीरसंबंधघटकोऽश्मानयनादिशक्तिप्रद ईश्वरोंऽगीकार्य इति कथं न दृष्टांतः साध्यविकलः। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-9>

<2-2-10>
(10) ॥ विप्रतिषेधाच्चासमंजसं ॥ ॥

एवं प्रत्येकं दूषितान्यनीश्वरमतानि सामान्यदूषणेनापि निराकुर्वत्सूत्र पठति ॥

॥ ॥ विप्रतिषेधाच्चासमंजसमिति ॥ अस्यार्थः ॥ विप्रतिषेधात् सकलश्रुतिस्मृतियुक्तिविरुद्धत्वादनीश्वरमतं असमंजसं अयुक्तमित्यर्थः ॥

एवंच द्यावाभूमी जनयन् (श्वे.. 3-3.)। यतो वा (तै. 3-1.)। य सर्वज्ञ (मुं. 1-1-9.) इत्यादिश्रुतीनां उत्पत्तिस्थितिसंहाराः। स्रष्टा पाता तथैवात्ता। इत्यादि स्मृतीनां। विमतं सकर्तृकं कार्यत्वात्। चिच्चैत्त्ये केनचिन्नियेतेऽस्वतंत्रत्वात्। इत्यादियुक्तीनां च विरोधेन प्रकृतिस्वातंत्र्यादिरूपमर्थं वदतोऽन्योनीचो नास्तीति (पाद्मे.) वचनात्। ततश्च सकलश्रुतिस्मृतियुक्तिविरुद्धत्वात्सर्वमप्यनीश्वरमतमप्रमाणं। अतो न सांख्यादिमतविरोधेन न लक्षणासंभव इति सिद्धं ॥
</2-2-10>
॥ इति अन्यथाऽनुमित्यधिकरणं ॥

6.अधिकरणं ॥

अत्र परमाण्वारंभवादोऽपाक्रियते।

<2-2-11>
(11) ॥ महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्यां ॥ ॥

ननु द्रव्यादिपदार्थाः सप्तैव। तत्र द्रव्याणि पृथिव्यादिनवैव। गुणास्तु रूपादिचतुर्विंशतिरेव। कर्म चोत्क्षेपणादिपंचविधं। सामान्यमनेकविधं। जातिरूपमुपाधिरूपं च समवायस्त्वेक एव। विशेषास्त्वनंताः। एतत्त्रितयं नित्यमेव। तत्रानित्यं कारणत्रितयजन्यं। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणं। परमाण्वादिद्रव्यमेव। तत्र परमाणवो द्व्यणुकादिक्रमेणावयविनमारभंते। समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यसमवायिकारणं। तत्र कार्यद्रव्यस्यावयवसंयोग एव कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणं भवति। कारणगुणकर्म च कार्यगुणानां कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणं। कर्मणश्च कारणगतगुणकर्मणि कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणं। तत्र परिमाणं कारणगतं। कार्यगतपरिमाणस्थासमवयिकारणं भवति। परमाणुद्‌व्यणुकतूलगतं परिमाणं न द्‌व्यणुकत्र्यणुकतूलपिंडगताः परिमाणाः असमवायकारणं। किंतु द्‌व्यणुकत्र्यणुकगतसंख्ययैव। तूलपिंडपरिमाणं तु प्रचयेन भवति। एतदन्यत्कारणं निमित्तं। ईश्वरादृष्टकालादि। तत्रेश्वर आत्मविशेषः। आत्मा च संख्यादिचतुर्दशगुणयुक्तः। परमेश्वरस्तु संख्यादिपंचगुणकः। कर्तृत्वोपयोगिज्ञानेच्छा प्रयत्नशाली च शिष्टषड्‌गुणायोग्य इति कथं तस्यानंतगुणक्त्त्वं युक्तं। अतो व्यर्थ एव पूर्वाध्याय इति प्राप्ते सूत्रितं।

॥ ॥ महद्दीर्घवद्वा ह्रस्वपरिमंडलाभ्यामिति ॥ अस्यार्थः ॥ महद्दीर्घवत् वैशेषिकमते त्र्यणुकादिगतान्महत्त्वात् दीर्घत्वाच्च चतुरणुकादिगतपरिमाणमुत्पद्यते। तथा ह्रस्वपरिमंडलाभ्यामपि द्व्यणुकपरमाणूभयगत ह्रस्वत्त्वपारिमांडिल्यपरिमाणाभ्यामपि त्र्यणुकद्व्यणुकगतपरिमाणोत्पत्तिः स्यादित्यर्थः ॥ अन्यथा महत्त्वदीर्घत्वाभ्यामपि कार्योत्पत्तिर्न स्यादिति वा शब्दार्थः। तस्माद्वैशेषिकमतमनुपपन्नमिति भावः ॥

एवंच युक्तमेव हरेरनंतगुणपरिपूर्णत्वलक्षणं। वैशेषिकादीनामनुपपन्नभाषित्वेन तत्समयस्याप्रामाणिकत्वात्। यच्चोक्तं। ह्रस्वाणुपरिमाणयोर्नासमवायिकारणत्वमिति। तन्न। तथासति महत्त्वदीर्घत्वयोरपि तदभावापातात्। महद्दीर्घपरिमाणयोः कारणत्वेऽनयोरपि तत्साम्यात्। अविशेषात्। तस्मादुत्पत्तिविरुद्धत्वान्न तयोरसमवायिकारणत्वं। किंत्वेतयोरेवेति वैशेषिकाद्युक्तमसमंजससमेवेति न तद्विरोध ईश्वरानंतगुणत्वस्येति युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-11>

<2-2-12>
(12) ॥ उभयथाऽपि न कर्मातस्तदभावः ॥ ॥

एवं वैशेषिकादिमते महत्त्वदीर्घत्वादेरसमवायिकारणत्वखंडनरीत्यासमवायिकारणमात्रं निरस्तं भवतीत्यमिप्रेत्य निमित्तकारणमप्येवं निराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ उभयथाऽपि न कर्मातस्तदभाव इति ॥ अस्यार्थः ॥ उभयथाऽपि ईश्वरेच्छया नित्यत्वानित्यवरूपपक्षद्वयेऽपि। न परमाणुषु क्रियोत्पत्तिसंभवः। अतस्तदभावः तस्मिन्द्व्यणुकादिकार्याभावः स्यादित्यर्थः ॥

एवंचेश्वरेच्छा निमित्तकारणमिति चेत्। सा किं नित्याऽनित्या वा। उभयथाऽपि न परमाणुकर्म संभवति। यदीश्वरेच्छा नित्या तर्हि प्रलये सत्यामपि तस्यां परमाणुचेष्टाभावेनाऽन्यदाऽपि तदभावः। अथानित्या तत्कारणाभावेनेश्वरेच्छानुत्पत्त्या परमाणुकर्माभावः। न च वाच्यं पूर्वकल्पीयेच्छाऽनित्याऽपि यागवन्निमित्तमिति। प्रमाणाभावात्। अथ नेश्वरेच्छा कारणं तदेवास्तु। तर्ह्यन्यत्रापि कारणं न स्यात्। स एव परमते परमाणुकर्माभावेन संयोगाभावाद्‌व्यणुकादिकार्याभावः। वैदिकेश्वरपक्षे तु सत्यामपीश्वरेच्छायां सर्वं कार्यानुत्पादिकमीश्वराचिंत्यशक्तित एवोपपद्यते। न च परपक्षे सममेतत्। तस्यानुमानगम्येश्वरत्वेन वेदैकगम्येश्वरत्वाभावात्। अतो वैशेषिकाद्युक्तस्यासामंजस्येन युक्तं हरेरनंतगुणत्वलक्षणमिति सिद्धं ॥
</2-2-12>

<2-2-13>
(13) ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ ॥

एवं वैशेषिकादिपक्षे निमित्तकारणासंभवं दर्शयित्वा समवायिकारणमपि निराकुर्वत्सूत्रमाह ॥

॥ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेरिति ॥ अस्यार्थः ॥ वैशेषिकैः अवयवावयव्यादीनां भिन्नत्वनिमित्तेन समवायाभ्युपगमात् समवायसंबंधांगीकारात्। साम्यात् समवाय्यसमवायिनोरपि भिन्नत्वसाम्यात्। तत्रापि समवायाभ्युपगमे अनवस्थितेः। अनवस्थानाच्च तन्मतमयुक्तमित्यर्थः ॥

एवंच यदपि परमाण्वादिद्रव्यं समवायिकारणमिति। तन्न। अवयवावयविनोर्भिन्नत्वमंगीकृत्य विशेषणविशेष्यभावोपपत्तये समवायाभ्युपगमात्। समवायस्यापि भिन्नत्वसाम्येन मृद्धटसमवाय इत्यादिविशेषणविशेष्यभावोपपत्तये समवायांतरापेक्षा स्यात्। तत्राप्येवमित्यनवस्थानात्। मूलभूतावायवावयव्यादिसंबंधस्यैवासिध्या तदसिद्धिः। तेषां प्रथमसंबंधसिध्यर्थमभ्युपगंतव्यानां संबंधांतराणां सुतरामसिद्धेः। समवायस्य स्वनिर्वाहकत्वे स्वस्मिन्स्वयमेव विशेषणविशेष्यभावबुद्धिजनकत्वेंऽगीकृते समवायासिद्धेः। गुणगुण्यादिभेदं तत्समवायं चांगीकृत्य तत्स्वनिर्वाहकत्वकल्पनापेक्षया लाघवेन गुणगुण्यादेरभेदमंगीकृत्यैकस्य द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तौ समवायवैयर्थ्यात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-13>

<2-2-14>
(14) ॥ नित्यमेव च भावात् ॥ ॥

एवं परमते कारणत्रयनिरासेन सृष्टिं निरस्य प्रलयनिरासार्थं प्रवृत्तं सूत्रमुपन्यस्यति ॥

॥ ॥ नित्यमेव च भावादिति ॥ अस्यार्थः ॥ दोषसमुच्चये चः। ईशेच्छापरमाण्वादिकारणानां सदात्वात्। वैशेषिकमते नित्यमेव सर्वदैव। भावात् कार्योत्पत्तिः स्यात्। न तु कदाचिदित्यर्थः ॥

एवंच परमते लयासंभवः। समवायिकारणासमवायिकारणनिमित्तकारणानां सद्भावेन कार्यानुत्पादे कारणाभावात्। समवायिकारणपरमाणूनां सदातनत्वे समवायस्यैव जनित्वांगीकारे सर्वं कार्यं नित्यं जनिमदेव स्यात्। समवायिकारणादिसत्वे कायोत्पत्त्युपरमे कदाऽपि तस्मात्कार्योत्पत्तिर्न स्यात्। सति पुष्कलकारणे कार्यानुत्पादे तस्य तत्कारणत्वायोगात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-14>

<2-2-15>
(15) ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ ॥

एवं परमाणूनां नित्यत्वमुभ्युपेत्य तदारंभकवादो दूषितः। इदानीं नित्यत्वमपाकुर्वत्सूत्रमुपन्यस्याति ॥

॥ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनादिति ॥ अस्यार्थः ॥ किंच वैशेषिकमते पार्थिवाप्यतैजसपरमाणूनां रूपादिमत्त्वात्। विपर्ययः नित्यत्वविपरीतानित्यत्वं स्यात्। कुतः। दर्शनात् यद्रूपादिमत्तदनित्यमिति व्याप्तेः घटादौ दृष्टत्वादित्यर्थः ॥

एवंच वस्तुतस्तु न परमाणूनां नित्यत्वमुपपद्यते। प्राकृतरूपत्वेनावश्यं भावात्। दृश्यते खलु लोके यत्प्राकृतरूपादिमत्तदनित्यमिति। पार्थिवाप्यतैजसपरमाणूनां भौतिकरूपरसगंधस्पर्शवत्त्वादनित्यत्वं। ततश्च परमाणूनां नित्यत्वाभावेनोक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-15>

<2-2-16>
(16) ॥ उभयथा च दोषात् ॥ ॥

ननु यद्रूपादिमत्तदनित्यमिति सामान्यव्याप्तिः। यन्निरवयवं द्रव्यं तन्नित्यमिति विशेषव्याप्तिर्बलवती। अतस्तया बाधितत्वेन रूपादिमत्त्वं परमाणूनामनित्यत्वं न साधयेत्। अस्तु वा परमाणूनां सादित्वं। तथाऽपि न द्व्यणुकादिकार्याभावः। पारमाणूनां कारणांतरेणोत्पत्तौ तेभ्यो द्‌व्यणुकाद्युत्पत्तिसंभवादिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ ॥ उभयथाच दोषादिति ॥ अस्यार्थः ॥ वैशेषिक उभयथा च मरमाणुनित्यत्वानित्यत्वरूपपक्षद्वयेऽपि। दोषात् तद्वत्सर्वनित्यत्वकारणाभावनिमित्तकतदुत्पत्तिभावस्य दोषसत्त्वात् न तत्पक्षो युक्त इत्यर्थः ॥

एवंच यदुक्तं। यद्रूपादिमत्तदनित्यमिति सामान्यव्याप्तिरिति। तन्न। रूपादिमत्यनित्यत्वापवादकस्य विशेषप्रमाणस्याभावात्। न च निरवयवत्वं विशेषप्रमाणं। रूपादिमत्त्वेन परमाणौ तदभावस्यापि साधयितुं शक्यत्वात्। यदप्यनित्यत्वे दोषाभाव इति। तन्न। त्वन्मते परमाणूनां कारणासंभवेनानुत्पत्तौ द्‌व्यणुकादिकार्यानुत्पत्तिप्रसंगलक्षणबाधकसद्भावात्। एवं पक्षद्वयेऽपि दोषदुष्टत्वेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-16>

<2-2-17>
(17) ॥ ॥ अपरिग्रहाच्चात्यंतमनपेक्षा ॥ ॥

एवं प्रपंचेन दूषितं परमाण्वारंभवादमप्रामाणिकत्वेनापि दूषयत्सूत्रमाह ॥

॥ ॥ अपरिग्रहाच्चात्यंतमनपेक्षेति ॥ अस्यार्थः ॥ अपरिग्रहात् वैशेषिकमतस्य श्रुत्यादिपरिग्रहशून्यत्वात् तद्विरुद्धत्वाच्च। तत्रात्यंतमनपेक्षा अनादरः कार्य इत्यर्थः ॥

एवंच वैशेषिकमतस्य सकलश्रुतिस्मृत्याद्यपरिगृहीतत्वात्तद्विरुद्धत्वाच्च। प्रधानकारणत्ववादापेक्षयाऽतिशयेनानादरणीयत्वात्। आन्वीक्षकीमिति मोक्षधर्मवचननिंदितत्वाच्च। अतः परमाण्वारंभवादस्यानुपपन्नत्वेनाविरोधाद्युक्तं पूर्वाध्यायोक्तमीश्वरस्यानंतगुणपूर्णत्वमिति सिद्धं ॥
</2-2-17>
॥ इति वैशेषिकाधिकरणं ॥

7.अधिकरणं ॥

अत्र परमाणुपुञ्जवादिमतमपाक्रियते।

<2-2-18>
(18) ॥ सुमुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। वैभाषिकसौत्रांतिकमत विरुद्धत्वात्। रूपविज्ञानवेदनासंज्ञासंस्काररूपेणावस्थितं खलु जगत्परमार्थसत्तदशेषं परमाणुसमुदायात्मकं। नत्ववयवी नाम कश्चिदस्ति। परमाणुसमुदाय एव घटादिबुध्द्युपपत्तौ परमाणुपरिमाणस्य तदारब्धस्य वाऽवयविनोऽभ्युपगमस्य व्यर्थत्वात्। विद्यमानं च सर्वं क्षणिकमेव। असत्त्वस्य क्षणिकत्वव्याप्त्यभावात्। व्यापकाभावे व्याप्यायोगात्। तच्चैतत्कार्यजातं कालकर्मरूपनिमित्तेनैव भवति। नोपादानापेक्षा। ततः पूर्व पूर्व परमाणूनां विनाशेनोपादानाभावेप्युत्तरोत्तरपरमाणूनां सृष्टिः कालकर्मादिनैव भवतीति किमीश्वरेण कृत्यं। नचेश्वरे प्रमाणमस्ति। वेदादेरप्रमाणत्वात्। अत ईश्वरस्यैवाभावेन तस्य जन्मादिकारणत्वमयुक्तमिति प्राप्ते सूत्रितं ॥

॥ ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिरिति ॥ अस्यार्थः ॥ यतः समुदायै परमाणुसमुदायेऽनेकत्वसंख्यारूपे मिलितानेकपरमाणुनिमित्तकेंऽगीकृते सत्यपि विरलानेकहेतुके वांऽगीकृते सति। तदप्राप्तिः तस्य समुदायस्य विरलानेकहेतुकस्याप्राप्तिः अनुपपत्तिः। कुतः। अन्योन्याश्रयादिदोषादिति शेषः। तदुपपादितं टीकायां। अतः परमाणुपुंज एव घटावयवीति बौद्धपक्षोऽपि न क्षम इत्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वाभिधानं। वैभाषिकसौत्रांतिकयोरनुपपन्नभाषित्वेन तत्समयस्याप्रामाण्यात्। यदुक्तं। कालकर्मादिनिमित्तेन क्षणिकपरमाणुनिमित्तकः समुदायो भवति नत्ववयवी कश्चिदस्तीति। तन्न। तत्र किमयं समुदाय एकपरमाणुहेतुको वाऽनेकपरमाणुहेतुको वेति। नाद्यः। एकस्मात्समुदाय इत्यस्य व्याहतत्वात्। द्वितीयेऽपि किं मिलितानेकहेतुको विरलानेकहेतुको वा। नाद्यः। मेलनस्यैव समुदायत्वेनात्माश्रयात्। समुदायद्वयस्य कार्यकारणभावांगीकारेऽन्योन्याश्रयात्। व्यक्तिबाहुल्यांगीकारेऽनवस्थानात्। नोत्तर। विरलपरमाणुप्रवाहस्य सदा सद्भावेन समुदायरूपकार्यविरलात्मकप्रलयाभावप्रसंगात्। अतो समुदायस्य प्राप्त्यभावेन गोघटादिबुद्धिवेद्यो नत्ववयवी कश्चिदस्तीति पक्षस्यायुक्तत्वेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-18>

<2-2-19>
(19) ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ ॥

नन्वस्त्वेव सदा समुदायोत्पत्तिः। तथाऽपि न प्रलयाभावः। वित्तिव्यवहाराभावादेव प्रलयोपपत्तिरिति प्राप्ते सूत्रमाह ॥

॥ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोप्तत्ति मात्रनिमितत्वादिति ॥ अस्यार्थः ॥ ननु परमाणुपुंजस्य सदा सत्त्वेऽपि नास्मत्पक्षे प्रलयानुपपत्तिः। कुतः। तद्व्यवहारादेरितरेतरप्रत्ययत्वात्। इदमिदंचेति परमाणुपरस्परापेक्षाबुद्धिनिमित्तकत्वात्। तथा च तादृशबुध्यभावकाले समुदायव्यवहारादेरसत्तवात्प्रलयोपपत्तिरित चेन्न। कुतः। उत्पत्तिमात्रनिमित्तत्वात् परमाणूनां स्वसमुदायोत्पत्तिमात्रनिमित्तत्वात्। न तेभ्योऽपेक्षाबुध्द्यादेरप्युत्पत्तिः संभवतीति मात्र शब्दार्थः। तथा च तन्निमित्तकव्यवहारादिः क्षणिकमते न कदाऽपि संभवतीत्यर्थः ॥

एवंच वित्तिव्यवहारयोः कदाऽप्ययोगेन सृष्ट्यभावप्रसंगात्। तथाहि। आदौ परमाणूनां दर्शनंततोऽपेक्षा ततो व्यवहार इति क्रमः। नचासावुपपद्यते। परमाणूनां क्षणिकत्वेन कार्यमुत्पाद्य नष्टत्वात्। न ह्यन्यत्र प्रदर्शनमन्यत्रापेक्षाऽन्यत्र व्यवहार इति संभवति। अतिप्रसंगात्। एवं पुरुषेऽपि विरलपरमाणुजन्यानां मिलितपरमाणूनां स्थायित्वाभ्युपगमे प्रतिक्षणे कार्योत्पादप्रसंगः। तथा चाल्पतरकालेऽप्येकैकस्मात्परमाणुपुंजात्मकघटादनेककार्योत्पत्त्याकुलालशालापरिपूर्तिप्रसंगः। अतो युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-19>

<2-2-20>
(20) ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ ॥

एवं विरलपरमाणुभ्यो मिलितपरमाणूत्पत्तिमभ्युपेत्य व्यवहाराद्यसंभवो दर्शितः। अथ विसदृशकार्योत्पत्तिमपि पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ उत्तरोत्पादे च पूर्वनिरोधादिति ॥ अस्यार्थः ॥ चोऽवधारणे। समुच्चये च। नेत्यनुवर्तते। सामर्थ्यादिति शेषः। तथा च न केवलं क्षणिकमते समुदायव्यवहारानुपपत्तिः। किंतु विशेषकार्योत्पत्तिश्च न युक्ता। कुतः। उत्तरोत्पादे च कारणस्य सदृशकार्यजननसामर्थ्यात्तेनकारणं प्रथमं स्वसदृशमुत्पाद्य पश्चाद्विसदृशकार्यमुत्पाद्यतां कोदोष इत्यतोऽप्याह। उत्तर इति। तथा च उत्तरस्य स्वसदृशकार्योत्पादे उत्पत्तौ सत्यामेव। पूर्वनिरोधात् पूर्वस्य कारणस्य नाशात् पुनर्विसदृशकार्यजनकत्वासंभव इत्यर्थः ॥

एवंच परमते विशेषकार्योत्पत्त्यसंभवः। कार्यस्यस्वसदृकार्यजनकत्वस्वाभाव्यात्। अन्यथा घटात्पटोत्पत्तिप्रसंगात्। न च स्वसदृशकार्यमुत्पाद्य पश्चाद्वैसादृश्यमपिजनयतीति वाच्यं। कार्योत्पादे तस्य नष्टत्वेन वैसादृश्यजननायोगात्। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-20>

<2-2-21>
(21) ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ ॥

एवं विसदृशकार्योत्पत्तिनिरासेन व्यवहारादिकं पराकृत्येदानीं प्रतिक्षणकार्योत्पत्तिमेव निराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथेति ॥ अस्यार्थः ॥ क्षणिकमते न प्रतिक्षणं कार्योत्पत्तिर्युज्यते। कुतः। असति कारणे कार्यमुत्पद्यत इत्यंगीकारे। प्रतिज्ञोपरोधः तस्य तत्कार्यत्वमिति प्रतिज्ञाय सिद्धांतव्यवहारस्योपरोधो हानिः स्यात्। अन्यथा कारणे सति कार्यमुत्पद्यत इत्यंगीकारे। यौगपद्यं कारणेन सह कारणानां एकदाऽवस्था प्रसज्जतेत्यर्थः ॥

एवंच प्रतिक्षणं कार्योत्पत्त्यंगीकारे किमसति कारणे कार्यमुत्पद्यते। उत सति। आद्ये प्रतिज्ञाहानिः। द्वितीय प्रथमक्षणोत्पन्नानां विरलपरमाणूनां कार्योत्पत्तिसमयेऽपि भावे क्षणिकत्वनियमाभावेन विनाशकसंपत्तिपर्यंतमवस्थानं स्यात्। तन्मतेच कारणे सति कार्यं भवत्येवेति नियमात्पुनः पुनः कार्योत्पत्तिः स्यादिति सकलकार्याणां यौगपद्यं स्यात्। ततश्चैकस्यां घटिकायां कुलालशालापूर्तिप्रसंगः। यद्वा। परमाणूनां क्षणिकत्वेन यस्मिन्क्षणे परमाणवस्तस्मिन्नेव क्षणे कार्यमिति कार्यकारणयोः पौर्वापर्यं न स्यात्। न च क्षणे पूर्वापरमध्यभागोऽस्ति। येन प्रथमभागे परमाणूत्पत्तिः। द्वितीयभागे तु कार्यजनकत्वमिति स्यात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-21>

<2-2-22>
(22) ॥ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ ॥

एवं क्षणिकवादे कार्योत्पतिं निराकृत्य विनाशं च निराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदादिति ॥ अस्यार्थः ॥ एवं क्षणिकमते प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिः प्रतिसंख्याऽप्रतिसंख्यानिरोधयोः प्रतिक्षणविनाशसंतानाविनाशयोः अप्राप्तिः अनुपपत्तिः। कुतः। अविच्छेदात् तद्रीत्या कार्योऽत्पत्तावकार्याणां चाविच्छिन्नत्वादित्यर्थः ॥

एवंच परमते विनाशो न युज्यते। तन्मते विनाशो द्विविधः। कार्यमुत्पाद्य तदपहाय तत्क्षणे नाशः। तस्याप्येवमेवमिति प्रतिक्षणं नाशः। स एव संतानविनाशोऽप्रतिसंख्यानिरोध इति गीयते। संतानं विनैव कारणस्य नष्टत्वात्। अपरस्तु कार्यमुत्पाद्य तेन सहैव मुद्गरप्रहरादिनाक्षणमात्रे नाशः। स एव संताननाशः प्रतिसंख्यानिरोध इति च गीयते। तत्राद्यस्तावन्नयुज्यते। कार्यमुत्पाद्य तत्परित्यागसमये सत्त्वेन ततश्च कार्यजनकत्वमिति नियमात्कार्यमेवोत्पादयेन्न नश्येत्। तद्वियोगसमयेऽप्येवमिति न कदापि निःसंतानो नाशः। नापि संतानविनाशो युज्यते। सतो घटस्य ह्यात्यंतिको विनाशः। अतोऽसौ सत्त्वात्कार्यमुत्पादयेन्न तु नश्येत्। एवमुत्तरत्रापि सत्त्वात्कार्यमेवोत्पादयेन्न तु नश्येदिति ससंतानोच्छेदावसराभावात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-22>

<2-2-23>
(23) ॥ उभयथा च दोषात् ॥ ॥

नन्वथाऽपि सतां भावपदार्थानां क्षणिकत्वं निषेद्भुं न शक्यं। सत्त्वं नामार्थक्रियाकारित्वं। न च णिकतामंतरेण तदुपपन्नं। यदि घट आद्यक्षणे घटांतरमुत्पाद्य स्वयं न नश्येत्तर्हि द्वितीयादिक्षणे घटांतरमपि जनयेत्। घटांतराण्यपि तथेत्यनंतकार्यापातः। तस्मादर्थक्रियाकारित्वरूपसत्त्वसिध्यै भावानां क्षणिकत्वमेष्टेव्यमिति प्राप्ते सूत्रमाह ॥

॥ ॥ उभयथा च दोषादिति ॥ अस्यार्थः ॥ उभयथा कारणे सति कार्यं भवत्येवेति नियमपक्षे तदभावपक्षे च। दोषसत्त्वात् कार्यकारणविशेषकार्यानुत्पत्त्याख्यदोषात्। नान्यतरपक्षावलंबेनार्थापत्त्या क्षणिकपक्षो युक्त इत्यर्थः ॥

एवंच भावानां क्षणिकत्वांगीकारे तत्रार्थक्रियाकारित्वं सत्त्वं। तदन्यथाऽनुपपत्त्या क्षणिकत्वमिति वदता कारणे सति कार्यं भवत्येवेति यो नियम आश्रितः स किं वास्तवो न वा। आद्ये कार्यकारणयोः सव्येतरविषाणवत्समानकालीनत्वेन कार्यकारणभावो न स्यात्। द्वितीये प्रथमक्षणे कार्यानुत्पादकत्वे नार्थक्रियाकारित्वाभावादसत्त्वं स्यात्। ततः कदाऽपि कार्योत्पत्तिर्न स्यात्। ततश्च सत्त्वान्यथाऽनुपपत्त्या कल्प्यमानं क्षणिकत्वं च न स्यात्। अनेन परपक्ष एवोभयथा दोषसत्त्वादस्मत्पक्षे दोषाभावादिति मंतव्यं। अतो युक्तं लक्षणसूत्रमिति सिद्धं।
</2-2-23>

<2-2-24>
(24 ॥ आकाशे चाविशेषात् ॥ ॥

ननु माभूदर्थापत्त्या क्षणिकत्वसिद्धिः। यत्सत्तत्क्षणिकं। यथा दीपादि। संतश्चामी भावाः पदार्था इत्यनुमानेन सेत्स्यति। न च वाच्यं दृष्टांतस्य साध्यविकलतेति। यद्विरुद्धधर्माधिकरणं तन्नाना यथा घटपटौ। तथा चायं दीपः पूर्वोत्तरक्षणविरुद्धधर्माधिकरणं विशेषदर्शनादिति प्राप्ते सूत्रमाह ॥

॥ ॥ आकाशे चाविशेषादिति ॥ अस्यार्थः ॥ चोऽप्यर्थे। दीपदृष्टांतेन सत्त्वहेतुना जगति क्षणिकत्वसाधने आकाशदृष्टांतेनाक्षणिकत्वस्यापि साधनापातः। ननु दृष्टाते साध्यवैकल्यमित्यत उक्तं। आकाशे अविशेषादिति। क्षणिकत्वसाधकत्वेन परोक्तपरिमामविशेषादर्शनादित्यर्थः ॥ तथा च सत्प्रतिपक्षोऽयं हेतुरिति न तेन क्षणिकत्वसिद्धिरिति भावः ॥

एवंच यत्सत्तदक्षणिकं यथाऽऽकाशमित्यक्षणिकत्वस्यापि साधयितुं शक्यत्वात्। न चाकाशे साध्याभावः। विशेषदर्शनाभावेन क्षणिकत्वसाधकाभावात्। न च हेत्वंतरेण तत्सिद्धिः। पंचमस्कंधातिरिक्तत्वेन तत्र तदनभ्युपगमात्। आकाशे सत्त्वं नास्तीति चेत्। किमिदं सत्त्वं यदाकाशे नास्ति। अर्थक्रियाकारित्वं चेत्। त्वन्भते पूर्वोक्तरीत्या कस्याप्यर्थाक्रियाकारित्वाभावेनासिद्धिः। साधनविकलता च निदर्शनस्य। अथ स्वरूपेणेति विद्यमानताऽभावरूपता वा। साप्याकाशेऽस्त्येवेति व्यभिचारो दुष्परिहारः। अतः सत्त्वहेतोः स्वेनैव प्रतिपक्षितत्वान्नानेनापि क्षणिकत्वसिद्धिः। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-24>

<2-2-25>
(25) ॥ अनुस्मृतेश्च ॥ ॥

एवं प्रतिपक्षेण सत्त्वानुमानं निरस्य प्रमाणबाधेनापि निराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ अनुस्मृतेश्चेति॥ अस्यार्थः ॥ तदेवेदमिति प्रत्यभिज्ञानाच्च तद्विरोधात् न सत्त्वहेतुना क्षणिकत्वसाधनं युक्तमित्यर्थः ॥

एवंच सोऽयं घट इति प्रतिज्ञाविरोधः। तथा स्यायित्वसिद्धेः। न च प्रतिज्ञाभ्रांतिः। बाधकाभावात्। घटोऽयं निरंतरोत्तरक्षणवृत्तिध्वंसप्रतियोगी घटत्वात् मुसलाहतैकक्षणवृत्तिवटवदिति चोक्तरीत्या परास्तं। किंच घटशब्देन परमाणूंल्लक्षयित्वा घटत्वशब्देन परमाणुत्वमेव हेतुतया विवक्ष्यते। उत समुदायमैव पक्षीकृत्य घटत्वमेव हेतुतया विवक्ष्यते। नाद्यः। मुसलाहतस्य घटस्य समुदायत्वेन परमाणुत्वाभावात्। तत्र हेत्वभावेन व्याप्तिग्रहणाबावप्रसंगात्। न द्वितीयः। सत एव त्वया क्षणिकत्वस्य साधनीयत्वेनावस्तुनस्तत्साधनस्यानुपयुक्तत्वात्। अतो वैभाषिकसैत्रांतिकमतस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तमीश्वरस्याशेषजगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-25>
॥ इति समुदायाधिकरणं ॥

8.अधिकरणं ॥

अत्र शून्यवादो निराक्रियते।

<2-2-26>
(26) ॥ नासतो दृष्टत्वात् ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। शून्यसमयविरुद्धत्वात्। एकमेव शून्यमतं। तत्र परहितं परमार्थसत्। तस्मादेवाशेषं जगदुपैति। न चासंगस्य तदनुपपत्तिः। संवृत्तिसंबंधेन तदुपपत्तेः। न च श्रुतिविरोधः। तत्प्रामाण्यानभ्युपगमात्। ततश्च शून्यसमयविरुद्धत्वादयुक्तं विष्णोर्जगत्कारणत्वलक्षणमिति प्राप्ते सूत्रितं ॥

॥ ॥ नासतो दृष्टत्वादिति ॥ अस्यार्थः ॥ असतः शून्यस्य। न जगत्कर्तृत्वं युक्तं। कुतः। प्रमाणाभावादिति शेषः। तत्कुतः। अदृष्टत्वात्। क्वाप्यसतः कारणत्वादर्शनात्। अत एवानुमानामयोरप्यभावादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। सून्यसमयस्याप्रामाणिकत्वात्। शून्यमेव जगत्कारणमित्यत्र प्रमाणाभावात्। प्रमाणं भवत्प्रयक्षं वाऽनुमानं वाऽऽगमो वा स्यात्। न तावत्प्रत्यक्षं। शून्यकारणत्वस्याप्रत्यक्षत्वात्। नाप्यनुमानं। दृष्टांताभावात्। घटादावेव कारणत्वदर्शनेऽपि नासौ दृष्टांतः। तस्य त्वन्मतेऽसत्त्वेनासति प्रतिवादिना कारणत्वस्यानुपलब्धत्वेन कारणत्वाभावस्यानुमातुं शक्यत्वेन साध्यवैकल्यात्। आगमोऽपि बौद्धाद्यागमो वा वेदादिर्वा भवेत्। नाद्यः। तत्प्रामाण्यस्य प्रतिवादिनोऽसंमतेः। न द्वितीयः। तत्प्रामाण्यस्य वाद्यसंप्रतिपत्तेः। तथाविधवेदानुपलंभाच्च। अतः शून्यमतस्यायुक्तत्वेनेश्वरस्य जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-26>

<2-2-27>
(27) ॥ उदासीनानामपि चैवं सिद्धिः ॥ ॥

नन्वदृष्टमपि जगत्कारणत्वं सून्यस्याभ्युपगते को दोषः। न चोक्तमदृष्टत्वादेवाप्रामाणिकत्वान्नांगीकारार्हतेति। नादृष्टत्वेन दृष्टानुमानानुपत्तावपि सामान्यतो दृष्टत्वोपपत्तेः। कारणस्य हि कार्यवद्वस्तुत्वेन सत्त्वे निषिद्धे कार्यत्वेन हेतुनाऽसत एव जन्म सेत्स्यतीत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ उदासीनानामपि चैवं सिद्धिरिति ॥ अस्यार्थः ॥ एवं सत्यसतः कार्योत्पादकत्वेंऽगीकृते सति। उदासीनानां हेयोपादेयत्वबुध्यविषयाणां गगनकुसुमादीनां सकाशादपि सारैभ्यादिकार्यसिद्धिः स्यादित्यर्थः। अन्यथा शून्यादपि कार्योत्पत्तिर्न स्यादिति च शब्दार्थः ॥

एवंचासतः कारणत्वे हेयोपादेयबुद्धिविषयतावर्जितानां खपुष्पादीनां सौरभ्यादिकार्यसिद्धिप्रसंगात्। व्यतिरेक्यनुमानस्य तत्रापि कर्तुं शक्यत्वात्। पराभिमतानुमानानां तर्कबाधितत्वात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-27>

<2-2-28>
(28) ॥ नाभाव उपलब्धेः ॥ ॥

ननु भवेदेतद्‌दूषणं। यदि शून्यतत्त्वात्परमार्थतो मृत्पिंडाद्धट इव जगदुत्पद्येत। न चैवं। किं नाम संवृत्ति शब्दिताज्ञानविशेषादसतो रजताकारेणेव शून्यस्यापि जगदाकारेणावभासाख्यविवर्तत्वाभ्युपगमादित्याशंकां पराकुर्वत्सूत्रमाह ॥

॥ ॥ नाभाव उपलब्धेरिति ॥ अस्यार्थः ॥ जगत् अभावः असत् न। कुतः। उपलब्धेः सदिति प्रतीयमानत्वादित्यर्थः ॥

एवंच शून्यस्य जगदाकारेण वृत्त्यंगीकारे जगतो मिथ्यात्वप्रसंगात्। न चेष्टापत्तिः. सदिति प्रतीयमानत्वात्। शून्यस्य रजताकारेणावभासत्वे शुक्तेरेव रजतारोपाधिष्ठानत्वस्यानुभवसिद्धत्वेन शून्यस्य तदधिष्ठानत्वाभावात्। अतो लक्षणसूत्रं युक्तमिति सिद्धं ॥
</2-2-28>

<2-2-29>
(29) ॥ वैधर्म्याच्च न स्वप्नादिवत् ॥ ॥

ननु सदिति दृश्यमानस्यापि स्वाप्नजाग्रत्वादेरज्जुभुजंगादेरसत्त्वात्तद्वज्जगतोऽसत्त्वं किं नस्यादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ वैधर्म्याच्च न स्वप्नादिवादिति ॥ अस्यार्थः ॥ जगत् स्वप्नादिवत् स्वप्नवस्त्वन्यारोपितजाग्रत्त्वादिवदप्यसन्न। कुतः। वैधर्म्यात् स्वाप्नजाग्रत्त्वस्य बाध्यत्वाख्यविलक्षणधर्मवत्त्वात् जगति च तदभावादित्यर्थः ॥

एवंच स्वप्न एवायं न जाग्रद्रज्जुरियं न सर्प इति बाधकप्रत्ययविषयत्ववत्प्रकृते बाधकप्रत्ययविषयत्वाभावेन वैषम्यात्। एतेन परोदीरितप्रतिपक्षानुमानस्य बाधकप्रमाणविषयत्वरूपोपाधिस्तदभावरूपप्रतिपक्षस्य चोक्तत्वात्। तदेवं शून्यमतस्याप्ययुक्तत्वाद्युक्तमीश्वरस्य जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-29>
॥ इति असदधिकरणं ॥

9.अधिकरणं ॥

अत्र विज्ञानवादो निराक्रियते।

<2-2-30>
(30) ॥ न भावोऽनुपलब्धेः ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। विज्ञानवादिमतविरुद्धत्वात्। नित्यनिरंजनं विज्ञानतत्त्वमेव खलु विद्यमानं। तन्मात्रमेतदशेषं जगत्। न ततोऽतिरिक्तं किंचिदस्ति। अतो जगदुत्पत्तावीश्वरेण कृत्याभावादयुक्तं लक्षणसूत्रमिति प्राप्ते सूत्रमाह ॥

॥ ॥ न भावोऽनुपलब्धेरिति॥ अस्यार्थः ॥ जगत् भावः ज्ञानात्मकमपि न। अनुपलब्धेः ज्ञानज्ञेययोरभेदाननुभवादित्यर्थः ॥

एवंच युक्तमेव हरेर्जगत्कारणत्वं। विज्ञानवादिसमयस्यायुक्तत्वेनाविरोधकत्वात्। विज्ञानातिरिक्तं जगन्नास्तीत्यत्र विज्ञानतत्त्वे जगदध्यस्तं चेत्। सदिति प्रतीयमानत्वेनारोपितत्वायोगात्। विज्ञानतत्त्वजगतोरभेद इति चेत्। जगतो ज्ञानात्मकत्वे प्रमाणाभावात्। न च सहोपलंभनियमादभेदो नीलतद्धियोरिति वाच्यं। भेदप्रतीतिविरोधात्। न च सा भ्रांतिः। बाधकाभावात्। नीलादीनां स्वप्रतीत्यभेदवद्भेदस्यापि स्वप्रतीत्यभेदेन यथार्थत्वात् तत्प्रतीतेर्भ्रमत्वायोगाच्च। साहित्यस्य भेदव्याप्तत्वेन सहोपलंभादभेद इति प्रतिज्ञाहेत्वोर्विरोधाच्च। ननु यत्प्रकाशते तद्विज्ञानं यथा ज्ञानं। प्रकाशंते च नीलादय इत्यनुमानेन नीलादीनां ज्ञानत्वसिद्धेरिति चेत्। प्रकाशत इत्यनेन ज्ञानविषयत्वांगीकारे मायावादिना स्ववृत्तिविरोधेन विज्ञाने साधनवैकल्याभिधाने निरुत्तरत्वप्रसंगात्। अज्ञाने व्यभिचाराच्च। प्रकाशत्वांगीकारेऽसिद्धेः। अतो बौद्धमतस्याप्रामाणिकत्वेनाविरोधाद्युक्तं विष्णोर्जगत्कारणत्वमिति सिद्धं ॥
</2-2-30>

<2-2-31>
(31) ॥ क्षणिकत्वाच्च ॥ ॥

युक्त्यंतरेणापि जगतो विज्ञानात्मकत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ क्षणिकत्वाच्चेति ॥ अस्यार्थः ॥ ज्ञानस्यैकक्षणावस्थायित्वाज्जगतः स्थायित्वात्ताद्विरोधान्न तयोरैक्यमित्यर्थः ॥

एवंच ज्ञानस्य क्षणिकत्वाज्जगतश्च स्थायित्वेन तयोरैक्यायोगात्। क्षणिकत्वस्य विनाश्यत्वस्वाभाव्यात्। अतो जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-31>

<2-2-32>
(32) ॥ सर्वथाऽनुपपत्तेश्च ॥ ॥

एवं प्रत्येकं दीषितानि वैभाषिकादिबौद्धमतानि पुनः सामान्यदूषणेन पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ सर्वथाऽनुपपत्तेश्चेति ॥ अस्यार्थः ॥ सर्वप्रकारेणानुपपत्तेः बौद्धराद्धांतस्य युक्तिशून्यत्वात् तद्विरुद्धत्वाच्च न ग्राह्यत्वमित्यर्थः ॥

एवंच प्रत्यक्षक्षणिकत्वकल्पने प्रतिक्षणमुत्पन्नविनाशकल्पने शून्याद्वैतकल्पने विज्ञानाद्वैतकल्पने प्रकटने प्रच्छादने वा नर्ते (ऋ. 10-113-9.)। यच्च किंचित् (महाना. 11.) ब्रह्मण्येवदमाविरासीत्। इत्यादिश्रुतीनां। स एव भूयः। इत्यादिस्मृतीनां। सूत्रोक्तयुकत्त्यादीनां च विरोधित्वेन सर्वेषां वेदविद्धेषिणां पक्षाणामनुपपन्नत्वेन युक्तं विष्णोर्जगत्कारणत्वमिति सिद्धं ॥
</2-2-32>
॥ इति अनुपलब्ध्यकरणं ॥

10.अधिकरणं ॥

अत्र स्याद्वादिमतं दूष्यते।

<2-2-33>
(33) ॥ नैकस्मिन्नसंभवात् ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। जैनमतविरुद्धत्वात्। जैनास्तु सप्तभंगिं जगद्वदंति। तथाहि। सदित्येकप्रकारः। असदित्यपरः। सदसदात्मकमिति तृतीयः। सदसद्विलक्षणमिति चतुर्थः। सत्त्वे सति सद्विलक्षणमिति पंचमः। असद्विलक्षणे सत्यसद्विलक्षणमिति षष्ठः। सदसदात्मकं सदसद्विलक्षणमिति सप्तमश्चेति। ततश्च जगतः कायपरिमाणाज्जीवात्मनो दृष्टादृष्टसाधनैश्चोत्पत्तिसंभवात्किमीश्वरेण कृत्यमित्ययुक्तं लक्षणसूत्रमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ ॥ नैकस्मिन्नसंभवादिति ॥ अस्यार्थः ॥ जैनोक्तसप्तप्रकारा एकस्मिन्वस्तुनि न युक्ताः। कुतः। असंभवात् अप्रामाणिकत्वेन तेषामेकत्रासंभावितत्वादित्यर्थः। सप्तप्रकारस्तु सत्त्वं, असत्त्वं, सदसत्त्वं, सद्विलक्षणत्वं, सत्त्वे सति सद्विलक्षमत्वं, असत्त्वे सति असद्विलक्षणत्वं, सदसत्त्वे सति सदसद्विलक्षणमित्येवं रूपाः ज्ञातव्याः ॥

एवंच युक्तमेव विष्णोर्गत्कारणत्वं। जैनमतस्याप्रामाणित्वात्। सप्तभंगिजगदिति यदुक्तं। तन्न। सदसद्वयातिरिक्तप्रकारस्याप्रामाणिकत्वात्। एकस्मिन्नसंभवाच्च। न चैकैकांगीकारे दोषस्य विद्यमानत्वादंगाक्रियत इति युक्तं। तथात्वे दोषभयेन सर्वमपि त्याज्यं स्यात्। सदसद्‌भ्यामन्यभिंगिन एवाप्रामाणिकत्वेनैकस्मिन्सप्तभंगित्वस्य सुतरामप्रामाणिकत्वात्। ततश्च जैनमतस्यानुपपन्नत्वेनाविरोधाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-33>

<2-2-34>
(34) ॥ एवं चात्माकार्त्स्न्यं ॥ ॥

यदपि जिनेनोक्तं जीवस्याणुत्वे सर्वांगवेदनानुसंधानायोगाद्‌व्याप्तत्वे च देहांतरगतस्याप्यनुसंधानप्रसंगाच्छरीरपरिमितत्वमिति। तत्र किं तत्स्वीयसर्वशरीरावगतचेष्टोपपत्त्यर्थमुपेयते। उत शरीरावच्छिन्नत्वमंतरेणात्मनः स्वतः परिमाणाभावाद्वा। तत्राद्यपक्षं निरसितुं प्रवृत्तं सूत्रमाह ॥

॥ ॥ एवं चात्माकार्त्स्न्यमिति ॥ अस्यार्थः ॥ एवंचात्मनः कायपरिमाणांगीकृते सति। आत्मकार्त्स्न्यं आत्मनः प्राक् पिपीलिकादेहं प्राप्तस्य तत्कायपरिमितस्य जीवस्य। अकार्त्स्न्यं गजगर्दभादिशरीरप्राप्तावपूर्णता स्यादित्यर्थः। एवं गजशरीरं प्राप्तस्यात्मनः पिपीलिकादेहप्राप्तावकार्त्स्न्यमाधिक्यं च स्यादिति द्रष्टव्यं ॥

एवंचात्मनः कायपरिमाणाभ्युपगमेऽपि प्राप्तव्यसर्वशरीरेषु सर्वचेष्टानुपपादकत्वात्। गजगर्दभादिशरीरस्य तत्परिमाणस्यात्मनः पिपीलिकादिशरीरे कर्मवशात्प्राप्ते सति तच्छरीर एवातिरेकः स्यात्। तथा च शरीरपरिमाणत्वभंगः। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-34>

<2-2-35>
(35) ॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ॥

ननु नैकदेहपरिमाण एवात्मा किंतु यदा यच्छरीरं प्राप्नोति तदा तत्परिमाण इति। न चैवं सति प्रागुक्तदोषप्रसक्तिरिति प्राप्ते परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ न च पर्यायादप्यविरोधो विकारादिभ्य इति ॥ अस्यार्थः ॥ पर्यायात् क्रमात्। क्रमेण तत्तद्देहपरिमाणत्वांगीकारादपि। अविरोधः नोक्तदोष इति च न युज्यते। कुतः। यतः पर्यायो। न युज्यते। तदपि कुतः। विराकादिभ्यः तथा सति तत्तत्कालीनपरिमाणभेदेन वस्तुभेदात्। आत्मनो विकारित्वापत्तेः। ततश्चानित्यत्वान्निर्मोक्षत्वादिदोषप्रसंगादित्यर्थः ॥

एवंचात्मनो विकारित्वेनानित्यत्वप्रसंगात्। तथा चानिर्मोक्षप्रसंगः। शास्त्रवैफल्यं च। गजपिपीलिकादिशरीरस्थस्यात्मनः क्रमिकतत्तद्देहपरिमाणत्वाभ्युपगमे चोक्तदोषानपगमेन विकारित्वापत्तेरनित्यतापातात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-35>

<2-2-36>
(36) ॥ अंत्यावस्थितेश्चोभयनित्यत्वादविशेषात् ॥ ॥

इदानीं शरीरावच्छेदमंतरेणात्मनः स्वतः परिमाणाभावात्तदर्थं कायपरिमाणत्वमंगीक्रियत इति द्वितीयपक्षं निराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ अंत्यावस्थितेश्चोभयनित्यत्वादविशेषादिति ॥ अस्यार्थः ॥ पूर्वसूत्रादेवंचेत्यनुषज्यते। अंत्यावस्थितेरित्येतदावर्तते। च शब्दोऽवधारणे समुच्चये च। तथा च एवं सति आत्मनः कायपरिमाणत्वेंऽगीकृते अंत्यावस्तितेः प्रसंग इति शेषः। मोक्षेऽपि सतः आत्मनः शरीरसत्त्वमंगीकार्यं स्यादित्यर्थः। कुतः अंत्यावस्थितेश्च। अंत्यस्य मौक्तिकपरिमाणस्य अवस्थितेः अवश्यमंगीकार्यं स्यादित्यर्थः। कुतः अंत्यावस्थितेश्च। अंत्यस्य मौक्तिकपरिमाणस्य अवस्थितेः अवश्यमंगीकार्यत्वात्। अवच्छेदकशरीरं विना अवच्छेद्यपरिमाणसत्त्वायोगादिति भावः। परिमाणमेव कुत इत्यतोऽप्याह। अंत्येति। अंत्यस्य मौक्तिकात्मस्वरूपस्य मुक्तावस्थितेरवश्यं स्वरूपसत्त्वस्य परिमाणं विनाऽयोगादिति भावः। अस्तु मोक्षेऽपि शरीरं ततः किमित्यत उक्तं। उभयनित्यत्वादिति। तथा सति उभयोः मुक्तिकालीनयोर्देहात्मनोर्नित्यत्वप्रसंगादित्यर्थः। अस्तु मौक्तिकशरीरनित्यत्वं ततः किमित्यत आह। ततश्च सर्वनित्यत्वं स्यादित्यापाद्यवाक्यमध्याहार्यं। अत एव समुच्चयार्थकश्च शब्दः सर्वेषामधुनातनशरीराणां नित्यत्वं स्यादित्यर्थः। कुत इत्यत आह। अविशेषादिति। मुक्तिकालीनानां अधुनातनानां च शरीराणां शरीरत्वाविशेषादित्यर्थः। तस्मान्न कायपरिमाणत्वमात्मनो युक्तमिति भावः ॥

एवंच जीवस्य मोक्षे परिमाणाभाव चेदात्मस्वरूपाभावप्रसंगः। न हि परिमाणशून्यं द्रव्यमस्ति। अस्ति चेच्छरीरमंतरेण परिमाणायोगात्। तत्रापि तच्छरीरमनित्यं चेत्संसारसमानधर्मतापातः। नित्यं चेच्छरीरत्वाविशेषादिदानींतनशरीरमपि नित्यं स्यात्। अतो नात्मनः कायपरिमाणत्वपक्षो युक्तः। तस्माज्जैनमतस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-36>
॥ इति नेकस्मिन्नधिकरणं ॥

11.अधिकरणं ॥

अत्र पाशुपतपक्षोऽपाक्रियते ॥

<2-2-37>
(37) ॥ पत्युरसामंजस्यात् ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। पाशुपतसमयविरुद्धत्वात्। पशुपतिः खलु सार्वज्ञ्यादिगुणशाली। मायामुपादानीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि सर्वं करोति। श्रुतिस्मृतयश्चास्मिन्नर्थे भवंति। अतो लक्षणसूत्रमयुक्तमिति प्राप्ते सूत्रं पठति ॥

॥ ॥ पत्युरसामंजस्यादिति ॥ अस्यार्थः ॥ पत्युः पशुपतेः। जगत्कारणत्वं न युक्तं। कुतः। असामंजस्यात् पारतंत्र्योत्पत्त्यादिदोषवत्त्वादित्यर्थः ॥

एवंच युक्तं विष्णोर्जगत्कारणत्वं। पाशुपतसमयस्याप्रमाणिकत्वात्। न पशुपतिर्गत्कर्ता। पारतंत्र्यजननमरणदोषदुष्टत्वात्। न चासिद्धो हेतुः। यं कामये तं तमुग्रमिति (ऋ. 10-125-5.) श्रुतिसिद्धत्वात्। अपि चैको नारायण आसीदिति (मह.1.) श्रुत्या प्रलये पशुपतेरभावावगमात्। ततश्च पाशुपतसमयस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-37>

<2-2-38>
(38) ॥ संबंधानुपपत्तेश्च ॥ ॥

युक्त्यंतरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ संबंधानुपपत्तेश्चेति ॥ अस्यार्थः ॥ शिवस्याशरीरत्वेन जगता संबंधानुपपत्ते न तस्य कर्तृत्वमित्यर्थः ॥

एवंच न केवलं पारतंत्र्यादेः किंत्वशरीरत्वाच्च पशुपतेर्जगत्कर्तृत्वायोगात्। न ह्यशरीरस्य कर्तृत्वं दृश्यते येन तस्य तथा भवेत्। न च कार्येण जगताऽपि संबंधमात्रमशरीरस्यापि संभवति गगनादेर्घटादिसंयोगवदिति वाच्यं। त्यक्तदेहपुरुषवत्कर्तृत्वरूपसंबंधाभावात्। ततश्च पशुपतेर्जगत्कर्तृत्वायोगेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-38>

<2-2-39>
(39) ॥ अधिष्ठानानुपपत्तेश्च ॥ ॥

हेत्वंतरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ अधिष्ठानानुपपत्तेश्चेति ॥ अस्यार्थः ॥ प्रलये सर्वेषां नष्टत्वात्पुनः सृष्टिकाले पशुपतेः पृथिव्याद्याश्रयानुपपत्तेश्च न तस्य जगत्कर्तृत्वमित्यर्थः ॥

एवंच पशुपतेरधिष्ठानानुपलंभेन कर्तृत्वायोगात्। पृथिव्याद्यधिष्ठाने स्थितस्य कुलालादेर्घटादिकार्यदर्शनेनास्य तदभावात्। सौत्रहेतुना व्यतिरेकव्याप्तेः सामान्यतः पृथिव्याद्यधिष्ठानदृष्टांतेन दर्शितत्वात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-39>

<2-2-40>
(40) ॥ करणवच्चेन्न भोगादिभ्यः ॥ ॥

ननु न प्रलयकाले नित्यतया विद्यमानं प्रकृत्यादिकं साक्षात्प्रयत्नाधिष्ठेयतया शरीरादिवत्। न च साक्षात्प्रयत्नाधिष्ठेय प्रेरणाय शरीरापेक्षा। शरीरप्रेरणार्थमपि शरोरांतरापेक्षाप्रसंगात्। अतः शरीरादिप्रतिनिधिसद्भावात्कर्तृत्वमुपपन्नमिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ ॥ करणवच्चेन्न भोगादिभ्य इति ॥ अस्यार्थः ॥ ननु यतः साधनजातं पशुपतेः कारणवत् शरीरवत्। शरीरेणतुल्यं अधिष्ठानतुल्यं च अतो नोक्तदोष इति चेन्न। कुतः। भोगादिभ्यः शरीरकृतसुखदुःखभोगोत्पत्तिमरणादिदोषेभ्य इत्यर्थः ॥

एवंच कारकसमूहस्य शरीरतुल्यत्वेन शरीरोपादानपरित्यागाभ्यां जननमरणवत्तदुपादानपरित्यागाभ्यामपि जननमरणप्रसंगात्। ततश्च सुखदुःखभोगप्राप्तेः। यज्ञदत्तादेः साक्षात्प्रयत्नाधिष्ठेयविकारात्मकशरीरोपादानहानयोः सतोस्तीन्नमित्तयोरुत्पत्तिविनाशयोर्दर्शनात्। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-40>

<2-2-41>
(41) ॥ अंतवत्त्वमसर्वज्ञता वा ॥ ॥

संबंधानुपपत्तेः, करणवच्च, इत्याभ्यामुक्तशरीरभावाभावपक्षावेव विकल्पभंग्य दोषांतरेण दूषयत्सूत्रं पठित्वा व्याचष्टे ॥

॥ ॥ अंतवत्त्वमसर्वज्ञतावेति ॥ अस्यार्थः ॥ यतः शिवस्य देहित्वतदभावपक्षयोः क्रमेणांतवत्त्वं नाशवत्त्वं असर्वज्ञता न सर्वज्ञत्वं स्यात् अतो न तद्युक्तमित्यर्थः ॥

एवंच पशुपतेर्जगत्कर्तृत्वांगीकारे तस्य शरीरवत्त्वपक्षे विनाशप्रसंगः तदभावे तु ज्ञानाभावः। न चैते दोषा विष्णुपक्षेऽपि बुद्धिमान्मनोवानित्यादिश्रुत्या ज्ञानाभावस्य परिहृतत्वात्। यदात्मको भगवानि(एकायनश्रुतिः)त्यादिनांऽतवत्त्वादिदोषाणां निरस्तत्वात्। तत्र भगवद्देहस्य तत्स्वरूपत्वज्ञानाद्यात्मकत्वेनोक्तत्वात्। अनयैव दिशा शाक्तैयसौरस्कांदगाणपत्यानां समया निराकृता वेदितव्याः। अतः पाशुपतसमयस्यानुपपन्नत्वेनाविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-2-41>
॥ इति पत्युरधिकरणं ॥

12.अधिकरणं ॥

अत्र शक्तिपक्षो दूष्यते।

<2-2-42>
(42) ॥ उत्पत्त्यसंभवात् ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। शाक्तेयमतविरुद्धत्वात्। शक्तिरेव खलु सार्वज्ञ्यादिगुणशालिनी। सकलजगज्जननी। श्रुतिस्मृतीतिहासपुराणेषु पठ्यते। अतो हरेर्न लक्षणसूत्रं युक्तमिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ ॥ उत्पत्त्यसंभवादिति ॥ अस्यार्थः ॥ न शक्तिर्जगत्कारणं। कुतः। उत्पत्त्यसंभवात् शक्तिशब्दितकेवलस्त्रीभ्यः अपत्योत्पत्त्ययोगादित्यर्थः ॥

एवंच महावामानां मते यदुच्यते शक्तिरेव पुरुषाननुगृहीतजगत्कारणमिति न तद्युक्तं। शक्तिरेव पुरुषाननुगृहीता जगत्कारणमित्यस्यार्थस्य प्रमाणादृष्टत्वात्। केवलायास्तस्या जगत्कर्तृत्वासंभवात्। परोदाहृतानामजामेकामि(तै.आ. 10-10-1.)त्यादिप्रमाणानां त्वीश्वराधीनतयैव जगत्कारणत्वाभिधायित्वेनातत्परत्वात्। ततश्च महावामानां मतमप्रामाणमिति युक्त जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-42>

<2-2-43>
(43) ॥ न च कर्तुः करणं ॥ ॥

ननु सार्वज्ञ्यादिगुणाविधुरः सदाशिवः शक्त्यनुग्राहकोऽस्ति। तदनुगृहीतायाः शक्तेः जगत्कारणत्वेऽजामेकामि(तै.आ. 10-10-1.)त्यादिश्रुतेः प्रमाणत्वात्। सदाशिवानुगृहीतशक्तेः जगत्कारणत्वमिति वदतां मध्यमवामानां मतं निराकुर्वत्सूत्रमुन्यस्यति ॥

॥ ॥ न च कर्तुः करणमिति ॥ अस्यार्थः ॥ यतः कर्तुः शक्त्यनुग्राहकशिवस्य च कारणं ज्ञानादिसाधनं। न। अतो न तस्य शक्त्यनुग्राहकत्वमित्यर्थः ॥

एवंच सदाशिवस्य सार्वज्ञ्यादिवैधुर्येणानुग्राहकत्वायोगात्। उत्पत्त्युपयोगिज्ञानादेस्तत्साधनेंद्रियादेस्तत्कारणशरीरस्य चाभावेनात एव पुरुषानुगृहीतशक्तेरपि जगदुत्पत्त्यसंभवात्। अतो मध्यमवामानां मतस्याप्रामाणिकत्वेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-2-43>

<2-2-44>
(44) ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ॥

ननु शक्त्यनुग्राहकपुरुषाभावाच्छक्तेर्जगदुत्पत्तिर्युक्तेत्येव नोच्यते। किंतु तस्य पुंसः सार्वज्ञ्यादेरपि सद्भावेन युक्ततरा शर्तेर्जगदुत्पत्तिरितीत्यंगीकुर्वतामणुवामानां मतनिरासाय सूत्रमुपन्यस्यति ॥

॥ ॥ विज्ञानादिभावे वा तदप्रतिषेध इति ॥ अस्यार्थः ॥ विज्ञानादिभावे वा शिवस्य ज्ञानेच्छादिसत्वेंऽगीकृते च। तदप्रतिषेधः। तस्य शैवपक्षस्य अप्रतिषेधः अनिरासः अनुमितिः कृता स्यात्। स च दूषित एवेत्यर्थः ॥

एवंच यदि शक्त्यनुग्रहकर्तृजगदुत्पत्त्युपयोगिविज्ञानशरीरोंद्रियसत्त्वमंगीक्रियते तत एव शक्त्यनुग्रहकर्तुः शिवादेः कर्त्रंतरमनपेक्ष्यैव जगदुत्पत्त्यादिसंभवात् तदा शक्तिमतस्य पाशुपतमतैक्येन तस्य च निरस्तत्वात् पुनर्निरसने कारणाभावात्। अतोऽणुवामानां मतमप्रमाणमिति जगत्कारणत्वलक्षणं युक्तमिति सिद्धं ॥
</2-2-44>

<2-2-45>
(45) ॥ विप्रतिषेधाच्च ॥ ॥

एवं शाक्तेयमतत्रयं पृथङ्‌निराकृत्य समुदितदूषणेनापि पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ विप्रतिषेधाच्चेति ॥ अस्यार्थः ॥ सकलश्रुतिस्मृतिवुरुद्धत्वाच्च शाक्तेयमतमसमंजसं अयुक्तमित्यर्थः ॥

एवंच नर्ते। (ऋ. 1--113-9.) एको नारायण (महोपनिषत्.)। इत्यादिश्रुतीनां। स एव (भाग. 1-10-23.)। इत्यादि स्मृतीनां। पूर्वोक्तहेतूनां च विरोधेन शिष्टजनैर्जुगुप्सितत्वात्। सर्वमपि शाक्तेयमतमयुक्तमेवेति युक्तं विष्णोर्जगज्जन्मादिकारणत्वलक्षणमिति सिद्धं ॥
</2-2-45>
॥ इति उत्पत्त्याधिकरणं ॥

॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥