सामग्री पर जाएँ

सूत्रार्थरत्नावली/द्वितीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः सूत्रार्थरत्नावली
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥

जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोधमपाकरोत्यस्मिन्पादे ॥

1.अधिकरणं ॥

अत्र वियदुत्पत्तिविषयश्रुतिविरोधः परिह्रियते।

<2-3-1>
(1) ॥ न वियदश्रुतेः ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। अनादिर्वाऽयमाकाश इति श्रुतेः। आकाशस्यानादित्वेनाकाशकारणत्वाभावात्। न चात्मन आकाशः संभूत इति (तै. 2-1.) श्रुत्याऽऽत्मन आकाशकारणत्वमुपपद्यते। अनुभूतियुक्तिबहुवाग्विरुद्धत्वेन तस्याः श्रुतेरप्रामाण्यात्। न च संभूतश्रुतेरर्थांतरपरत्वेनाप्रामाण्याभावः। वाय्वादावप्यन्यार्थतापातात्। न हि यत्र शब्दः श्रूयते तत्रामुख्यो यात्राकृष्यते तत्र मुख्य इति संभवः। तस्मादाकाशश्रुतेरप्रामाण्यादयुक्तं श्रुतिसमन्वयेनाकाशकारणत्वं ब्रह्मण इति प्राप्ते सूत्रमाह ॥

॥ ॥ न वियदश्रुतेरिति ॥ अस्यार्थः ॥ वियत् आकाशं। अनुत्पत्तिमन्न किंत्वीशादुत्पत्तिमदेव। कुतः। अश्रुतेः वियदनुत्पत्तौ श्रुत्यभावादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। आकाशानुत्पत्तौ श्रनुत्यभवादाकाशस्याप्युत्पत्तिमत्त्वेनाकाशकारणत्वे बाधकाभावात्। तथाऽपि जीवकालादिकारणत्वस्यानुक्तत्वेन न विष्णोः सर्वकारणत्वमित्युक्ते वियत्पदेन जीवकालमहदंहकारादेरुपलक्षणत्वेन प्रतिपादितत्वात्। अतः श्रुत्यविरोधेन भगवदितरस्योत्पत्तिसिद्धेर्युक्तः सर्वकारणे परब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥
</2-3-1>

<2-3-2>
(2) ॥ अस्ति तु ॥

ननु न वियत उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यं। उत्पत्तौ प्रमाणाभावेनैव तत्सिद्धेः। न हि घटे प्रमाणाभावे पुनः प्रमाणापेक्षा स्यादिति प्राप्ते सूत्रमाह ॥

॥ ॥ अस्ति त्विति ॥ अस्यार्थः ॥ आकाशोत्पत्तौ आत्मन आकाशः संभूत इति (तै. 2-1.) श्रुतिरस्त्येवेत्यर्थः ॥

एवंचाकाश आत्मनः संभूत इति श्रुतिसद्भावान्नानया श्रुत्याऽनुत्पत्तिः सिध्यति। अतः श्रुत्यविरोधेन वियदादेरुत्पत्तिसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-2>

<2-3-3>
(3) ॥ गौण्यसंभवात् ॥ ॥

ननु न वियत आत्मन आकाश इति श्रुत्योत्पत्तिः साधयितुं शक्या। अनादिर्वेत्यनादित्वाभिदायकश्रुतिविरोधादित्याशंकां पराकुर्वत्सूत्रमाह ॥

॥ ॥ गौण्यसंभवादिति ॥ अस्यार्थः ॥ अनादिर्वाऽयमाकाश इथि श्रुतिर्गौणी। अमुख्यानादित्वपरा। कुतः। असंभवात् तस्या मुख्यार्थत्वे बहुलोत्पत्तिश्रुत्ययोगादित्यर्थः ॥

एवंचानादित्वश्रुतेर्गौणत्वात्। उत्पत्तिश्रुतिबाहुल्यान्यथोपपत्त्या तस्या गौणत्वसिद्धेः। उत्पत्तिश्रुतेर्मुख्यार्थत्वेन सर्वविषयत्वात्। अनादित्वश्रुत्यनुसारेणोक्तव्यवस्थानंगीकारेणाकाशस्य सर्वथाऽनुत्पत्तेरेवाभ्युपगमे तदप्रामाण्यप्रसंगात्ष। बाहुल्यस्य प्राबल्यहेतुतयोत्पत्तिश्रुतेरपि बलवत्त्वेनाप्रामाण्यस्य वक्तुमशक्यतया श्रुतिद्वयप्रामाण्यायोक्तव्यवस्थाया एवाश्रयणीयत्वात्। अतः श्रुत्यविरोधेनाकाशस्योत्पत्तिसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-3>

<2-3-4>
(4) ॥ शब्दाच्च ॥ ॥

न केवलमुक्तव्यवस्थाऽसंभवयुक्तिसिद्धा। अपि तु श्रुतिसिद्धा चेत्यर्थप्रतिपादकं सूत्रमुपन्यस्यति ॥

॥ ॥ शब्दाच्चेति ॥ अस्यार्थः ॥ अथ ह वाव नित्यानीति (भाल्लवेय) श्रुतिबलाच्चानादित्वश्रुतिर्गौणार्थेत्यर्थः ॥

एवंचोक्तव्यवस्थोपपद्यत एव। अथ ह वाव नित्यानीति भाल्लवेय श्रुतेः। एतेनानुभवादिति विरोधस्य परिहृतत्वात्। ततश्च श्रुत्यविरोधेन युक्तो भगवति श्रुतिसमन्वय इति सिद्धं ॥
</2-3-4>

<2-3-5>
(5) ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ॥

ननु कुतोऽनादित्वश्रुतेर्गौणत्वं। मुख्यार्थस्य बाधकाभावात्। अन्यथा न जायते न म्रियत इत्यादावपि गौणार्थः स्यात्। तत्र न जायते (भ.गी. 2-20.) इत्यनुत्पत्त्यभिधायकशब्दस्य परमात्मनि मुख्यत्वदर्शनेन तदेकार्थानादित्वश्रुंतरपि तथात्त्वौचित्यादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ स्याच्चैकस्य ब्रह्मशब्दवदिति ॥ अस्यार्थः ॥ चोऽवधारणे। ब्रह्मशब्दवत् यथा एकस्यैव ब्रह्मशब्दस्य विष्णौ मुख्यत्वं जीवेत्वमुख्यताऽस्ति। तथा एकस्यैवानित्यत्वबोधकशब्दस्य ब्रह्मणि मुख्यार्थता स्यात्। भवेदित्यर्थः।

एवंच भवेदन्यत्र मुख्यानुत्पत्तिमच्छब्दस्याकाशे गौणत्वं। मुख्यार्थस्याकाशे बहुलोत्पत्तिश्रुतिबाधितत्वात्। ब्रह्मणि मुख्यस्यापि ब्रह्मशब्दस्य बाधकवशेन विरिंचादिष्वमुख्यत्वदर्शनात्। अतः श्रुत्यविरोधेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-5>

<2-3-6>
(6) ॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ॥

ननु युक्तं ब्रह्मशब्दस्य परब्रह्मणि मुख्यमन्यत्रामुख्यत्वं। गुणपूर्णत्वरूपशब्दप्रवृत्तिनिमित्तसत्त्वासत्त्वाख्यकारणसद्भावात्। न च तथाऽनुत्पत्तिमच्छब्दे वक्तुं शक्यं। तद्वत्प्रकृते प्रवृत्तिनिमित्तपौष्कल्यभावाभावाख्यकारणानुपलं भादित्याशंकां परिहरत्सूत्रमुपन्यस्याते ॥

॥ ॥ प्रतिज्ञाहानिरव्यातिरेकाच्छब्देभ्य इति ॥ अस्यार्थः ॥ आकाशस्य मुख्यानुत्पुत्त्युक्तौ प्रतिज्ञाहानिः स इदं सर्वमसजतेति (तै. 2-6.) विष्णोः स्रष्ट्रृत्वप्रतिज्ञाहानिः स्यात्। कुतः। अव्यतिरेकात् आकाशस्य सर्वशब्दार्थानतिरिक्तत्वात्। किंच यतः शब्देभ्यः आत्मा वा इदमि(ऐ. 1-1.)त्यादिस्पष्टश्रुतिभ्यश्च ब्रह्मण एव मुख्यानुत्पत्तिः न त्वन्यस्येत्यवसीयते। अत उक्तं युक्तमित्यर्थः ॥

एवंचाकाशस्यापि ब्रह्मवन्मुख्यनित्यत्वे मुख्यतस्तद्वाच्यनुत्पत्तिमच्छब्दवाच्यत्वांगीकारे इदमसृजतेति प्रतिज्ञाहानिसंभवात्। न चात्राकाशमसृजतेत्यनुक्तत्वेन प्रतिज्ञाहान्यभावः। सर्वशब्देनैवाकाशस्य ग्रहणात्। संकोचे कारणाभावात्। आत्मा वा इदमेक एवाग्र इति श्रुतेश्च। अतः श्रुत्यविरोधेन युक्तः समन्वय इति सिद्धं ॥
</2-3-6>

<2-3-7>
(7) ॥ यावद्विकारं तुविभागो लोकवत् ॥ ॥

अनुमानेनापि ब्रह्मण एवानादित्वमन्येषां सादित्वमनुत्पत्तिश्रुतेर्मुख्यामुख्यत्वसिध्यर्थं साधयत्सूत्रमुपन्यस्यति ॥

॥ ॥ यावद्विकारं तु विभागो लोकवादिति ॥ अस्यार्थः ॥ यावच्छब्दोऽवधारणे। यावद्विकारमित्यव्ययं। तु शब्दश्चशब्दार्थे। तथा च यतः यावद्विकारं विक्रियमाणमेव वस्तु। विभागः विभागशब्दिताल्पशक्तिमत् न त्वन्यदिति नियमः सिद्धः। अतो लोकवत् लोक इति। यथा लोके घटादौ विभक्तत्वात् विकारित्वमंगीकृतं। तथा आकाशादेरपि विभक्तत्वहेतुना विकारित्वं सिध्यति। तत एव सादित्वमपि सिध्यतीत्यर्थः ॥

एवंचाकाश उत्पत्तिमान् अल्पशक्तित्वात्। घटादिवदित्यनुमानाच्चाकाशोत्पत्तिसिद्धेरनादित्वश्रुतेर्गौणत्वात्। ब्रह्मानुत्पत्तिमत् अविभक्तत्वात् व्यतिरेकेण घटवदित्यपि मानसद्भावात्। न च प्रकृतिपुरुष इति (बृहत्संहिता.) वचनस्य नित्यानित्यपुरुष इति प्राचीनश्रुतिविरोधः। तत्र प्रकृत्यादेः स्वरूपस्याभूत्वाभवनरूपोत्पत्त्यभावोक्तेः। अत्र पुनः पराधीनविशेषावाप्तिरूपोत्पत्त्युक्तेर्भिन्नविषयत्वेनाविरोधात्। अतः श्रुत्यविरोधेन भगवदितरस्योत्पत्तिसिद्धेर्युक्तः सर्वकारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥
</2-3-7>
॥ इति वियदधिकरणं ॥

2.अधिकरणं ॥

अत्रेश्वरे श्रुतिसमन्वयसिद्धये मुख्यवायोरुपत्तिविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-8>
(8) ॥ एतेन मातरिश्वा व्याख्यातः ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। वायुर्वावेति श्रुतेर्वायोरुत्पत्त्यभावेन कारणत्वाभावात्। न चाकाशानुत्पत्तिवदियं श्रुतिर्गौणी। अथ ह नित्याश्चेति श्रुत्याऽऽकाशस्य नित्यत्वमुक्त्वा वायुनित्यत्वोक्तेः। अन्यथा विशिष्यनित्यत्वोक्तरयुक्ता स्यात्। किंच यदि वायुरुत्पत्तिमान्स्यात्तदा सर्वपेक्षयाऽतिशयितचेतनत्वं सर्वदेवोपास्यत्वं च न स्यात्। यस्य नादिर्न मध्यमिति श्रुत्याऽनादित्वमुक्त्वोदयनिम्लोचाबावस्याप्युक्तेः। ततश्च ताभ्यां शून्यस्योत्पत्तिः संभावयितुं युक्ता। साधकवतः साध्यदर्शनेनानुत्पत्तिसाधकवतोऽप्युत्पत्तिमत्त्वांगीकारेऽनुभवव्याकोपः स्यात्। अतो वायोरुत्पत्त्यभावेनोत्पत्तिश्रुतेरप्रामाण्यान्न श्रुतिसंमन्वयेन विष्णोर्जगत्कारणत्वं युक्तमिति प्राप्ते सूत्रितं ॥

॥ ॥ एतेन मातरिश्वा व्याख्यात इति ॥ अस्यार्थः ॥ एतेन पूर्वोक्तविभक्तत्वादि हेतुना। मातरिश्वा मुख्यवायुः। व्याख्यातः उत्पत्तिमत्त्वेनोक्त इत्यर्थः ॥

एवंच युक्तं विष्णोर्जगत्कारणत्वं। वायोरुत्पत्तिमत्त्वात्। प्राणाद्वायुरिति (तै. 3-12-6.) श्रुतिप्रमाणसद्भावात्। न वाऽनुत्पत्तिश्रुतिविरोधः। तस्याः स्वरूपानुत्पत्तिपरत्वेन गौणत्वात्। न च वायोर्मुख्यानुत्पत्तिमत्त्वाभावे विशिष्यनित्यत्वातेशयचेतनत्वोक्तिविरोधः। स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेणातिशयितत्वाद्युक्तिसंभवात्। अतः श्रुत्यविरोधेन वायोरुत्पत्तिसिद्धेर्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-3-8>
॥ इति मातरिश्वाधिकरणं ॥

3.अधिकरणं ॥

अत्र भगवदुत्पत्तिविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-9>
(9) ॥ असंभवस्तु सतोऽनुपपत्तेः ॥ ॥

ननु न विष्णोः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तं। तस्योत्पत्तिमत्त्वेन जगत्कारणत्वायोगात्। न च तत्र प्रमाणाभावः। असतः सदजायतेति(ऋ. 10-72-2.)श्रुतेः। न चानादित्वश्रुतिप्रतिरुद्धत्वेन तयोत्पत्त्यसिद्धिः। ब्रह्मोत्पत्तिमत् उत्पत्तिमदविशिष्टत्वादित्युत्पत्ति श्रुतेः सयुक्तिकत्वेन प्रबलत्वात्। असत एव तत्कारणत्वेन कारणाभावेनोत्पत्त्यभावः। अतो ब्रह्मणोप्युत्पत्तिमत्त्वादशेषकारणतया समन्वयोऽयुक्त इति प्राप्ते सूत्रितं ॥

॥ ॥ असंभवस्तु सतोऽनुपपत्तेरिति ॥ अस्यार्थः ॥ तु शब्दोऽवधारणे। सतः विष्णोः। असंभवः अनुत्पत्तिरेव नत्वसतः सदजायतेति श्रुत्याऽसतः सकाशादुत्पत्तिर्वाच्या। कुतः। अनुपपत्तेः अतो विष्णोरसदुत्पत्तेरयोगादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। असतः सदुत्पत्तेः क्वाप्यदर्शनेनासतः सकाशादुत्पत्त्यनुपपत्तेः। ब्रह्म वाऽसत् सद्वावप्राण इति(पैंगि.)श्रुतेर्ब्रह्मणः सकाशाद्वायोरुत्पत्तिः श्रुत्यर्थ इति। त्वं देवशक्त्त्यामिति भागवतवचनात्। न च रामकृष्णादिरूपेण हरेर्जायमानत्वं। तद्रूपाणां प्रादुर्भावत्वेन जनेरनुपपन्नत्वात्। प्रत्यक्षत्वं हरेरिति वचनात्। अतः श्रुत्यविरोधेन ब्रह्मणोऽनादित्वसिद्धेस्तत्र श्रुतिसमन्वयेन जगत्कारणत्वं युक्तमिति सिद्धं ॥
</2-3-9>
॥ इति असंभावाधिकरणं ॥

4.अधिकरणं ॥

अत्र तेजोजन्मविषयश्रुतिविरोधः परिह्रियते।

<2-3-10>
(10) ॥ तेजोऽतस्तथा ह्याह ॥ ॥

ननु न श्रुतिसमन्वयेन विष्णोरसाधारण्येन जगत्कारणत्वं वाच्यं। तेजसो वायुजातत्वे श्रुतिसद्भावेन विष्णुवद्वायोरप्यग्निकारणत्वेन विष्णोर्विशेषाभावात्। न च वायुद्वारा परमात्मजातत्वाभिधायकं श्रुतेर्वाच्यं। ब्रह्म वायुद्वारमंतरेण तेजः स्रष्टुमिष्टे चेत्तद्वारवैयर्थ्यं। नोचेत्साम्यं तयोरवर्जनीयं। अतो न जगत्कारणत्वेन सर्वश्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रितं ॥

॥ ॥ तेजोऽतस्तथा ह्याहेति ॥ अस्यार्थः ॥ तेजः तेजोभूतः। अत ब्रह्मण एवोत्पद्यते न वायोः। कुतः। हि यस्मात्। तत्तेज इति (छां. 6-2-3.) श्रुतिः। तथा उक्तप्रकारेण आह वक्ति। तस्मादित्यर्थः ॥

एवंच युक्तमेव तत्र सर्वश्रुतिसमन्वयेन जगत्कारणत्वं। तत्तेजोऽसृजतेति श्रुतेरग्नेर्विष्णुजातत्वात्। न च वायोरग्निरि(तै. 2-1.)त्यादिश्रुतिविरोधः। तत्र वायुद्वारा तेजसो ब्रह्मजातत्वोक्तेः। न च द्वारवैयर्थ्यान्यथाऽनुपपत्त्योभयोरपि कारणत्वं वाच्यं। शक्तस्यापि ब्रह्मणः स्वेच्छयैव द्वारमनुसृत्य कारणत्वस्य प्रमाणसिद्धत्वात्। अतः श्रुत्यविरोधेन तेजसो ब्रह्मजातत्वसिद्धेः सर्वश्रुतिसमन्वयेन जगत्कारणत्वे हरेरिति सिद्धं ॥
</2-3-10>
॥ इति तेजोऽधिकरणं ॥

5.अधिकरणं ॥

अत्राब्जन्मविषयश्रुतिविरोधः परिह्रियते।

<2-3-11>
(11) ॥ आपः ॥ ॥

ननु न हरेः श्रुतिसमन्वयेन जगत्कारणत्वं युक्तं। अपामग्नेराप इति (तै. 2-1.) श्रुतिबलेन तेजोजातत्वात्। न च तदपोसृजतेति (छां. 6-2-3.) श्रुतिविरोधेन प्रतीतार्थे तेजोजातत्वश्रुतेरप्रामाण्यं आपस्तेजसो जायंते। अप्त्वात्स्वेदवदिति युक्तियुक्तत्वेन प्राबल्यात्। तथा च तत्तेज ऐक्षतेति (छां. 6-2-3.) श्रुतेः। ततश्च न ब्रह्मणः श्रुतिसमन्वयेन जगत्कारणत्वमिति प्राप्ते सूत्रमाह।

॥ ॥ आप इति ॥ अस्यार्थः ॥ अत्रापि अतः तथा ह्याहेत्यनुवर्तते। तथा च आपः अतः विष्णोरेवेत्पत्तिमत्त्यः। न त्वन्यतः। कुतः। हि यस्मात्। ब्रह्मैवेदमिति8ुतिस्तथा आह। तस्मादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। अग्नेराप इति श्रुतेरपां परमात्मन उत्पत्तावग्निद्वारमित्येवं परत्वेन ब्रह्मैवेदमग्र इति श्रुतेः। न च श्रुतिद्वयान्यथाऽनुपपत्त्या ब्रह्मतेजसोः साम्येनैव कारणत्वं। कर्ता सर्वस्य वै विष्णुरिति (भविष्यत्पुराण.) वचनविरोधात्। ततश्च श्रुत्यविरोधेनापां ब्रह्मजातत्वसिद्धेर्युक्तं वेदसमन्वयेन जगत्कारणत्वं हरेरिति सिद्धं ॥
</2-3-11>
॥ इति अबधिकरणं ॥

6.अधिकरणं ॥

अत्रान्यद्वारा जगत्कारणे समन्वयसिध्यर्थमपां ब्रह्मद्वारत्वे श्रुतिविरोधः परिह्रियते।

<2-3-12>
(12) ॥ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॥ ॥

ननु न विष्णोर्जगत्कारणत्वं युक्तं। द्वारकारणविषयश्रुतीनां परस्परविरोधेनाप्रामाण्यात्। तथा हि। ता अन्नमसजंते(छां. 6-2.)त्यन्नसृष्टेरप्सृष्ट्यानंतर्यमुच्यते। अद्‌भ्यः पृथिवीति (तै. 2-1.) पृथिवीसृष्टेरप्सृष्ट्यानतर्यं। विरोधेनोभयासंभवात्। न च तत्रान्नशब्देन पृथिव्येव विवक्षिता। अन्नश्रुतेः प्रसिद्धान्नपरत्वे बहुवाक्यानुसारित्वगुणलाभात्। तस्माद्यत्र क्व च वर्षतीति प्रसिद्धान्नलिंगाच्च। न च पृथिवीपदेनान्नसंग्रहः। अद्‌भ्य एवान्नसृष्ट्यंगीकारेऽद्‌भ्यः पृथिवीति श्रुतिविरोधात्। नापि पृथिव्यन्नयांरद्‌ब्यो युगपदुत्पत्तिः। उक्तश्रुतिविरोधात्। न चान्नस्य सृष्टिबेदेनाद्‌भ्य ओषधीभ्योऽपि जन्मबहुकल्पनापातात्। अतः श्रुतिद्वयस्य परस्परविरुद्धत्वेनाप्रामाण्यमेवेति न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रितं ॥

॥ ॥ पृथिव्यधिकाररूपशब्दांतरादिभ्य इति ॥ अस्यार्थः ॥ पृथिवी पृथिव्येव। ता अन्नमासृजंतेति श्रुतिस्थान्न शब्देनोच्यते। न प्रसिद्धान्नां कुतः। अधिकाररूपशब्दांतरादिभ्यः। अधिकारशब्दितभूतप्रकृरणात्। रूपशब्दोक्तकृष्णरूपस्य च श्रवणात्। शब्दांतरं शब्दविशेषः पृथिवी वाऽन्नमिति (तै. 3-9.) श्रुतिविशेषाच्चेत्यर्थः। अपौरुषयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादियुक्तिरादिशब्दार्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। श्रुत्योरविरोधात्। तथा हि। ता अन्नमित्यत्रान्नशब्देन पृथिवी विवक्षिता। तत्तेजोऽस़जतेति (छां 6-2-3.) भूतप्रकरणात्। यद्रोहितमित्यन्नस्य कार्ष्ण्यश्रवणात्। न चैतावल्लक्षणं। आपश्च पृथिवी चान्नमिति (ऐ. आ. 2-3-1.) शब्दांतरे पृथिव्या अन्नशब्दाभिधेयत्वाभिधानात्। न च वृष्टिजत्वलिंगाविरोधः। पार्थिवपदार्थानां वृष्ट्युत्पन्नार्थत्वेनोपपत्तेः। न च श्रुतेरर्थांतर कल्पनाऽयोगेन श्रुत्योर्विरोधेनाप्रामाण्यं। वेदो नाप्रमाणं। अप्रामाण्यकारणदोषशून्यत्वात् प्रत्यक्षवदित्युक्तिविरोधात्। ततश्च विरोधाभावेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-12>
॥ इति पृथिव्यधिकरणं ॥

7.अधिकरणं ॥

अत्र ब्रह्मणः प्रकृताधिबूताधिदैवविषयसंहृतिकर्तृत्वे श्रुतिविरोधः परिह्रियते।

<2-3-13>
(13) ॥ तदभिध्यानादेव तु तल्लिंगात्सः ॥ ॥

ननु न विष्णुः सर्वसंहर्ता। अपि तु रुद्र एव। प्राणानां ग्रंथिरसीति (महाना. 16-2) श्रुतेः न च विष्णोः सर्वशब्दवाच्यत्वेन साश्रुतिर्विष्णुपरा रुद्रपरत्वेऽपि तस्य द्वारकरणाभिधात्री। लोकविरोधात् लोके हि पिता न पुत्रमारकः। मारकोऽपि मूढ एव न प्राज्ञः। ततश्च पितुरीश्वरस्य जगन्मारकत्वांगीकारे मौढ्यमेवेति न च तद्युक्तमिति लोकविरोधो दुर्वारः। न च विष्णोः सर्वसंहर्तृत्वेऽपि यत्प्रयंतीति श्रुतिसद्भावं वाच्यं। तस्या बलवदेतच्छुतिविरोधेनाप्रामाण्यात्। अतो न विष्णोः सर्वसंहर्तृत्वमिति प्राप्ते सूत्रमाह॥

॥ ॥ तदभिध्यानादेव तु तल्लिंगात्स इति ॥ अस्यार्थः ॥ तु शब्दोऽवधारणे। अभिध्यान शब्देनेच्छोच्यते। तच्छब्देन विष्णुर्गृह्यते। तथा च स विष्णुरेव संहारकर्ता न रुद्रः। कुतः। तदमिध्यानात्। तस्याभिध्यानादिति (श्वे. 1-10.) श्रुत्युक्तत्वात्। तस्य विष्णोः अभिध्यानरूपशब्दज्ञापितसंजिहीर्षाविशेषितादनादिबंधसंहारेच्छारूपात् तल्लिंगादेव सादिजगत्संहर्तृत्वसाधकादेवेत्यर्थः। एवकारस्तु भाष्यरीत्या किमु श्रतिभ्य इति कैमुत्यसूचकः ॥

एवंच युक्तमेव विष्णोः सर्वसंहर्तृत्वं। तस्याभिध्यानादिति श्रुतौ तद्ध्यानजन्यप्रसादरूपेच्छाधीनत्वस्य बंधनिवृत्तेरभिधानात्। किंचातस्तदिच्छाधीनत्वेन कर्तृत्वमनुमीयते। एवंचानादेर्बंधस्य लयकार्ता सुतरां सादेर्जगतः संहारकर्तेति सिध्यति। यइदं सर्वं विलापयतीति श्रुतेश्च। रुदादिसंहारकर्तृत्वाबिधायकश्रुतेर्द्वारकारणत्वाबिधायकत्वेन विरोधाभावात्। न च पितृत्वादीश्वरस्य विनाशकत्वे मौढ्यप्रसंगः। लौकिकपितृणां ममतायुक्तत्वेन हंतृत्वायोगेन मौढ्यस्योपाधिकृतत्वेनांगीकारात्। ईश्वरस्य तु तदभावेन विना मौढ्यमपि संहर्तृत्वोपपत्तेः। अतः श्रुतिविरोधाभावेन युक्तं सर्वसंहारकर्तृत्वं विष्णोरिति सिद्धं ॥
</2-3-13>
॥ इति तदभिध्यानाधिकरणं ॥

8.अधिकरणं ॥

अत्राधेभूतादिसंहारक्रमविषयश्रुतिविरोधः परिह्रियते।

<2-3-14>
(14) ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ ॥

ननु श्रुतिसमन्वयेन न भगवतो व्युत्क्रमेण संहर्तृत्वं युक्तं। व्युत्क्रमप्रतिपादकश्रुतेरप्रामाण्यात्। तथा हि। अत एव हीदमिति (भाल्लवेय.) क्रमाल्लयप्रतिपादकश्रुतेः। सा च प्रत्यक्षानुगुणा। क्रमाद्विलीयत इत्याद्याः श्रुतयोऽस्मिन्नर्थे भवंति। ततश्च बलवदेतच्छ्रुतिविरोधेन व्युत्क्रमप्रतिपादकश्रुतेरप्रामाण्यमेवेति न युक्त इति प्राप्ते सूत्रमाह ॥

॥ ॥ विपर्यंयेण तु क्रमोऽत उपपद्यते चेति ॥ अस्यार्थः ॥ तु शब्दोऽवदारणे। अत इत्यावर्तते। अतः उत्पत्तिक्रमात्। विपर्ययेण वैपरीत्येन। क्रमः लयक्रमः। न तूत्पत्तिक्रमेण। अत एव व्युत्क्रमादिति श्रुतरेव। किंच उपपद्यते युज्यते चायं व्युत्क्रमः। कुतः पूर्वोत्पन्नानां उत्तरोत्पन्नेभ्योऽधिकसामर्थ्येन तेषामधिककालवस्थानस्य युक्तत्वादित्यर्थः ॥

एवंच व्युत्क्रमेणैव लयो युक्तः। क्रमश्रुतेः सावकाशत्वेनाबाधकत्वात्। आस्ति व्युत्क्रमशब्देऽपि क्रमप्रवेशः। क्रमाल्लयाभिधायकभाल्लवेयश्रुतावेव व्युत्क्रमेण लयाभिधानात्। अनुरूपः क्रम इति (पाद्म.) वचनाच्च। न च लोकविरोधः। पूर्वेषां पूर्वेषां सामर्थ्याधिक्येन लोकविरोधस्यैवानुगुण्यात्। अतः श्रुत्यविरोधेन व्युत्क्रमाल्लयसिद्धेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-3-14>
॥ इति विपर्ययाधिकरणं ॥

9.अधिकरणं ॥

अत्र पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ क्वचिदपवादशंका निराक्रियते।

<2-3-15>
(15) ॥ अंतराविज्ञानमनसी क्रमेण तल्लिंगादिति चेन्नाविशेषात् ॥ ॥

ननु न विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वं युक्तं। किंतु विज्ञानमनसी अंतरा व्युत्क्रमेण लयकर्तृत्वं। मनसश्च विज्ञानमिति मनस उत्पन्ने विज्ञानतत्त्वे तद्यच्छेद्विज्ञानात्मनीति (कठ. 3-13.) मनस्तत्त्वस्य लयश्रवणात्। लोकानुगुणाच्च। लोके क्रमेण व्युत्क्रमेण च लयदर्शनात्। न च सामर्थ्यतारतम्यविरोधः। मनस उत्पत्तिविषयसामर्थ्याधिक्यविज्ञानस्य तु लयविषये सामर्थ्याधिक्यमित्यंगीकारे बाधकाभावात्। अतः सयुक्तिकलिंगदर्शनविरुद्धायाः क्रमश्रुतेरप्रामाण्योपपत्तेर्न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रमाह ॥

॥ ॥ अंतरा विज्ञानमनसी क्रमेण तल्लिंगादिति च्चेन्नाविशेषादिति ॥ अस्यार्थः ॥ विज्ञानमनसी विज्ञानतत्त्वमनस्तत्त्व। अतरा विना। अन्यत्र क्रमेण व्युत्क्रमेण लयः न तयोरपि। कुतः। तल्लिंगात् मनसश्च विज्ञानमित्यत्र विज्ञानात्पूर्वोत्पन्नतया भूतस्यापि मनसः यच्छे द्वाङ्मनसीति पूर्वमेव लयोक्तिरूपसाधकदर्शनादिति चेन्न। कुतः। अविशेषात् विज्ञानमनस्तत्त्वयोर्यथोत्पत्तिलय इत्यत्र विशेषप्रमाणाभावादित्यर्थः ॥

एवंच युक्तमेव विष्णोर्व्युत्क्रमेण सर्वसंहर्तृत्वं। विज्ञानमनसोरपि बाधकाभावेन व्युत्क्रमेण लयांगीकारात्। सर्वं वैतत्क्रमादुत्पद्यते क्रमाद्विलीयत इति विशेषप्रमाणाभावात्। अतः श्रुत्यविरोधेन सर्वेषां व्युत्क्रमेण लयसिद्धेः समन्वयो युक्त इति सिद्धं ॥
</2-3-15>

<2-3-16>
(16) ॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ ॥

ननु मनसश्च विज्ञानमिति श्रुत्या मनस्तत्त्वाद्विज्ञानतत्त्वस्योत्पन्नत्वेन मनस्तत्त्वस्य विज्ञानतत्त्वे लयांगीकारे विरोध एवापतीत इति प्राप्ते पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ चराचर व्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावबावित्वादिति ॥ अस्यार्थः ॥ चराचरव्यपाश्रयः चराचरशब्दितेंद्रियतद्वृत्तिज्ञानविषयसाधारणः। तद्व्यपदेशस्तु मनसश्च विज्ञानमिति श्रौतव्यवहारस्तु। भाक्तः एकदेशः। मनोविज्ञानशब्दार्थैकदेशभूतेंद्रियवृत्तिज्ञानविषयक एव न तत्त्वविषयकः। कस्मान्निमित्तात्। तद्भावबावित्वात् तस्या अवृत्तिः तस्मिन् चराचर शब्दितचेतनाचेतनविषये। तद्भावेन मनोभावेन आलोचनेन। भावित्वात् उत्पद्यमानत्वात्। अतो नोक्तलिंगदर्शनं बाधकमित्यर्थः ॥

एवंचोक्ताविरोधः। श्रुत्यर्थापरिज्ञानात्। न हि तत्पराश्रुतिर्मनस्तत्त्वाद्विज्ञानतत्त्वस्यौत्पत्तिमाचष्टे। किं तर्हि मन इंद्रियाज्ज्ञानस्योत्पत्तिमाचष्टे। परादव्यक्तमिति (स्कंद.) वचनात्। एवंच श्रुत्यविरोधेन हरौ श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-3-16>
॥ इति अंतराधिकरणं ॥

10.अधिकरणं ॥

अत्र परमात्मनि लयविषयश्रुतिविरोधपरिहारः क्रियते ॥

<2-3-17>
(17) ॥ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ ॥

ननु न विष्णोः श्रुतिवॉसमन्वयो युक्तः। तस्यापि विनाशित्वात्। अंतस्तमसि निलीन इति श्रुतेः। न च नित्यो नित्यानामिति (कठ. 5-13.) श्रुतिविरोधः। ईश्वरो विनाशी चेतनत्वादिति युक्तिसाहित्येन विनाशश्रुतेः प्राबल्यात्। न च स्वातंत्र्येण हेतुनेश्वरस्यानुत्पत्तेः साधित्वेन विनाशायोगः। स्वतंत्रस्यापि लीलया विग्रहग्रहणे सत्यवर्जनीयपातोपपत्तेः। यथालीलया कुड्यात्कुड्यमुत्पततः पातः। न ह्युत्पतनं लीलयेति पातोऽपि लीलयाऽपि तु कारणांतरादवर्जनीयः। अतः सयुक्तिकश्रुतिविरोधेनान्यतरश्रुतेरप्रामाण्यान्नोक्तसमन्वयो युक्त इति प्राप्ते सूत्रं पठति ॥

॥ ॥ नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य इति ॥ अस्यार्थः ॥ आत्मा परमात्मा न विलीयते। कुतः। अश्रुतेः तल्लयस्य क्वाप्यश्रवणात्। किंच ताभ्यः स नित्यो निर्गुण इत्यादिश्रुतिभ्यः नित्यत्वात् विष्णोर्नित्यत्वावगमाच्च न तस्य नाश इत्यर्थः ॥

एवंच युक्तमेव विष्णोर्जगत्कारणत्वं। प्रलयस्याप्रामाणिकत्वात्। न चांतस्तमसि निलीन इति श्रुतिरत्र प्रमाणं। अंतस्तमसि निलीन इत्युत्क्वा पुरुषादीनिति वचनेन निलीनशब्दस्यापिहितार्थत्वात्। अन्यथा नित्यो नित्यानामित्यादिबहुश्रुतिविरोधापातात्। अतः श्रुत्यविरोधेन परमात्मलयस्य निरस्तत्वादुक्तसमन्वयो युक्त इति सिद्धं ॥
</2-3-17>
॥ इति आत्माधिकरणं ॥

11.अधिकरणं ॥

अत्र जीवजन्मविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-18>
(18) ॥ ज्ञोऽत एव ॥ ॥

ननु न भगवतो जगत्कारणत्वं युक्तं। जीवस्यानुत्पन्नत्वात्। नित्यो नित्यानामिति (कठ. 5-13.) श्रुतेः। न चोत्पत्तावपि सर्व एत इति श्रुतिरस्तीति। जीवोनोत्पत्तिमान् अनादित्वात् ईश्वरवदित्यादियुक्तिसहितत्वेनानादित्वश्रुतेः प्राबल्यात्। न च साद्याविशिष्टता हेतोः। अनादिशब्देन तत्सत्ताया अनादिकालीनत्वस्य विवक्षितत्वात्। न च प्रलये जीवादीनां सत्त्वे विवादः। तथा सति जीवाभावेन तद्धर्मस्यादृष्टस्याप्यभावपत्त्या कारणाभावेन जगदुत्पत्तिरेव न स्यात्। अथवा कारणशून्यत्वमनादित्वं विवक्षितं। न च तत्रापि विवादः। कारणानुपलंभात्। अतो न जगत्कारणत्वं युक्तमिति प्राप्ते सूत्रितं ॥

॥ ॥ ज्ञोऽत एवेति ॥ अस्यार्थः ॥ जानातीति ज्ञः जीवः अपि। अतः विष्णोः उत्पद्यत एव। कुतः। अत एव अविनष्टा एवोत्पद्यन्त इति (काषायण.) श्रुतेरेवेत्यर्थः ॥

एवंच युक्त एव समन्वयः। अनादिनित्यानामेव जीवानांते वा एत इति श्रुत्योत्पत्तिविधानात्। न च कारणाभावः। परमेश्वरस्यैव कारणत्वात्। अतः श्रुत्यविरोधेन जीवस्य ब्रह्मजातत्वसिद्धेर्युक्तस्तत्र समन्वय इति सिद्धं ॥
</2-3-18>

<2-3-19>
(19) ॥ ॥ युक्तेश्च ॥ ॥

नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि तस्योत्पत्त्यंगीकारे वंध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिवचनस्य व्याहतत्वादित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ युक्तेश्चेति ॥ अस्यार्थः ॥ अनादिनित्यस्यापि जीवस्येसाधीनदेहवत्त्वरूपोत्पत्तेः युक्तत्वाच्च जीव उत्पत्तिमानेवेत्यर्थः ॥

एवंच नित्यस्यापि जीवस्योपाध्युत्पत्त्यपेक्षयोत्पत्त्युपपत्तेः। तथाऽपि स्वरूपलाभरूपोत्पत्तेरलाभेऽपि पराधीनविशेषावाप्तिरूपोत्पत्तेरेव विवक्षितत्वेन तदभावस्येष्टत्वात्। अतः श्रुत्यविरोधेन जीवस्य ब्रह्मजातत्वसिद्धेर्युक्तस्तत्र समन्वय इति सिद्धं ॥
</2-3-19>
॥ इति ज्ञाधिकरणं ॥

12.अधिकरणं ॥

अत्र जीवधर्मे परिमाणेऽणुत्वश्रुतिविरोधः परिह्रियते ॥

<2-3-20>
(20) ॥ ॥ उत्क्रांतिगत्यागतीनां ॥ ॥

ननु न जीवोऽणुः। व्याप्ता ह्यात्मान इति (काषायण.) श्रुतिविरुद्धत्वात्। न चाणुत्वेऽपि (गौपवन.) श्रुतिरस्तीति वाच्यं। व्याप्तिश्रुतेः सयुक्तिकत्वेन प्राबल्यात्। तब्दाधितैतच्छ्रुतेः प्रामाण्यायोगात्। आत्मा नाणुः सर्वदेहावच्छेदेन स्पर्शादिग्राहित्वात्। नाप्यणुत्वेयुगपत्सर्वेंद्रियैर्ज्ञानं भवति। न चात्मादेहपरिमाणः। मध्यमपरिमितत्वेनानित्यत्वप्रसंगात्। अतः परिशेषादात्मनो व्यापकत्वमेव स्वीकार्यं। तथा प्रयोगोऽपि सर्वमिदं मूर्त्तमात्मना सृष्टं मूर्त्तत्वान्मच्छरीरवदिति। ततश्चाणुत्वश्रुतेरप्रामाण्येन श्रुतिमात्रस्य प्रामाण्यनैयत्त्याभावान्न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रमाह ॥

॥ ॥ उत्क्रांतिगत्यागतीनामिति ॥ अस्यार्थः ॥ सोऽस्मादित्यादिवाक्योक्तदेहोत्क्रमणं लोकांतरगमनैतल्लोकागमनरूपहेतूनां सकाशादणुरेवजीवः न विभुरित्यर्थः ॥

एवंच जीवोऽणुरेव न व्याप्तः। उत्क्रांतिगत्यागतिमत्त्वात्। पतत्रिशरीरवदिति। अत्र महत्परिमाणातिरिक्तपरिमाणस्यैव विवक्षितत्वेन दृष्टांतस्य साध्यविकलत्वाभावात्। सोऽस्माच्छरीरादिति (पौष्यायण.) श्रुतिबलेन विभुत्वबाधकानामणुत्वसाधकानां हेतूनामसिद्धत्वात्। न च मध्यमपरिमाणत्वेनान्यतासिद्धिः। तस्यानित्यत्वप्रसंगेन निराकृतत्वात्। अतः श्रत्यविरोधेन जीवाणुत्वे सिद्धे युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-20>

<2-3-21>
(21) ॥ स्वात्मनाचोत्तरयोः ॥ ॥

ननु न जीवस्योत्क्रांत्यादिकं परमेश्वरेणेति युज्यते। किंतु तस्य स्वयमेव संभवति। न च सोऽस्माच्छरीरादिति (पौष्यायण.) श्रुतौ जीवस्योत्क्रांत्याद्येव श्रूयते न त्वन्याधीनता विविनिषेधो वाऽतो न तया दृढनिर्णयाभाव इति वाच्यं। एकः प्रसूयत इति स्मृत्या जीवस्य स्वातंत्र्येणोत्पत्तिविनाशयोरुक्तत्वेन तदनुसारेण श्रुतेरपि जीवस्योत्क्रांत्यादेः पराधीनतानिषेधार्थपरत्वात्। इति प्राप्ते पराकुर्वत्सूत्रं पठति ॥

॥ ॥ स्वात्मना चोत्तरयोरिति ॥ अस्यार्थः ॥ च शब्द एवार्थः। जीवः स्वात्मना स्वतंत्रपरमात्मनैव तत्प्रेरणयैवोत्क्रांत्यादिमान् न स्वतः। कुतः। उत्तरयोः सकाशात् स एतेनैव स्वात्मना एष ह्येनं जीवमिति (पौष्यायण.) उत्तरवाक्यद्वयबलादित्यर्थः ॥

एवंच स्वात्मशब्दवाच्येन परमात्मनाऽनुगृहीतजीवस्य मातृदेहस्थगर्भप्रवेशस्य तत्प्रेरणैव जनेर्मोक्षार्थं चोर्ध्वगमनस्य चोक्तत्वात्। स एतेनैवेति श्रुतेः। स्वात्मशब्दस्य भगवति विद्वद्रूढेर्दर्शितत्वात्। निर्दिष्टस्मृतेस्तु प्रसवादि दुःखानुभवे परमात्मदत्तस्वातंत्र्यप्रतिपादकत्वेनाविरोधात्। अत उत्तरवाक्यबलाज्जीवस्योत्क्रांत्यादयः परमात्मनेवैति सिद्धं ॥
</2-3-21>

<2-3-22>
(22) ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ ॥

नन्वथाऽपि न जीवोऽणुः। व्याप्ता ह्यत्मनश्चेतना निर्गुणाश्चेति (काषायण.) व्याप्तिश्रुतिविरोधेनाणुत्वायोगात्। बहुवचनश्रवणाद्‌व्यप्तिश्रुतेः परमात्मनि निरवकाशात्। उत्क्रांत्यादिकस्य तु मनोगतत्वेन जीवात्मन्युपचरितत्वादिति प्राप्ते पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ नाणुरतच्छ्रुतेरितिरेन्नेतराधिकारादिति ॥ अस्यार्थः ॥ ननु न जीवोऽणुः। कुतः। अतच्छ्रुतेः व्याप्ता ह्यात्मन इत्यणुत्वविरुद्धव्याप्तत्वश्रुतेः श्रवणादिति चेन्न। कुतः। इतराधिकारात् परमात्मप्रकरणात्। तथा च व्याप्तत्वश्रुतेः परमात्मविषयत्वात्। नाणुत्वबाधकत्वमित्यर्थः ॥

एवंच स आत्मेदं सृजति स द्विधेदमित्यादिना प्रकृतस्य परमात्मन एवात्राभिधानात्। न चास्य वाक्यस्य विष्णुरत्वे बहुवचनविरोधः। स आत्मा स आत्मानः स ईश इत्यादिना बहुवचनांतपदवाच्यत्वेन तस्यैव प्रकृतत्वात्। निर्गुणा इति बंधराहित्योक्तेश्च। ततश्चैतच्छ्रुतिबाधेनोत्क्रांत्यादीनामौपचारिकत्वकल्पनायोगात्। अतः श्रुत्यविरोधेन जीवाणुत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-22>

<2-3-23>
(23) ॥ स्वशब्दोन्मानाभ्यां च ॥ ॥

ननु यदुक्तं व्याप्तिश्रुतिरीश्वरविषयातत्प्रकरणादिति। तन्न। श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वात्। तन्मात्रेण बहुवचनश्रुतेरीश्वरकविषयत्वेन संकोचरूपबाधायोगादित्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ स्वशब्दोन्मानाभ्यां चेति ॥ अस्यार्थः ॥ चः समुच्चयो। न केवलं प्रकरणबलाद्व्याप्तत्वश्रुतिर्विष्णुपरा। किं तर्हि एषो ह्यात्माध्युद्गतोमानशक्तेरिति (काषायणश्रुति.) वाक्यस्थस्वशब्दगृहीतब्रह्मवाचकात्मशब्दादुन्मानशब्दितापरिमितत्वलिंगाच्च व्याप्तत्वश्रुतिर्विष्णुपरैव न जीवपरेत्यर्थः ॥

एवंचोक्तदोषो भवेत्। यदि प्रकरणमात्रेण व्याप्तिश्रुतेस्तद्विषयमुच्येत। न चैवं। किं नामैषोह्यात्माऽध्युद्‌गत इति वाक्यशेषे श्रुतात्मशब्दापरिमितत्वलिंगाभ्यां। तथा च श्रुतिलिंगसहितप्रकरणेन केवलया बहुवचनश्रुतेर्बाधस्य युक्तत्वात्। अतः श्रुत्यविरोधेन जीवाणुत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-23>

<2-3-24>
(24) ॥ अविरोधश्चंदनवत् ॥ ॥

नन्वथाऽपि न जीवस्याणुत्वं युक्तं। अणोस्तस्य शरीरकैकदेशस्थत्वेन तदन्यत्राभावेन कस्याप्यप्राप्तकरणेन क्रियानिवर्तकत्वाभावेन सर्वशरीरगतस्पर्शज्ञानायोगस्तत्र तत्र चक्षुरादिषु तैस्तैर्युगपद्रूपादिपरिज्ञानायोगादिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ ॥ अविरोधश्चंदनवदिति ॥ अस्यार्थः ॥ चंदनवत् चंदनरस इव। यथा चंदनबिंदोरेकदेशपतितत्वेऽपि स्वांशैः शरीरव्याप्तिः। तथाऽविरोधः जीवस्याणुत्वेऽपि स्वाशैर्देहव्याप्तौ न विरोध इत्यर्थः ॥

एवंचाणोरपि जीवस्याणुत्वव्याप्त्यविरोधेनाणुत्वेऽप्यंशैः सर्वशरीरव्याप्तिर्युज्येत। अतस्तत्र तत्र परिज्ञानायोगाख्यविरोधाभावात्। शरीरैकदेशनिपतितगंधसाराख्यमलयगिरितरुकाष्ठकृतद्रव्यबिंदोरिव जीवस्यांशैः सर्वशरीरव्याप्त्यंगीकारात्। अमुमात्रोऽप्ययं जीव इति (ब्रह्मांडपुराणे.) स्मृतेः ततश्च श्रुत्यविरोधेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-24>

<2-3-25>
(25) ॥ अवस्थितिवैशेष्यादिति चेन्नत्भ्युपगमाद्धृदि हि ॥ ॥

ननु भवतां चंदनबिंदोव्याप्त्यव्याप्ती। तस्य सांशत्वेन शरीरैकदेशे सम्यगवस्थानस्यान्यत्रासम्यगवस्थानस्य च विशेषस्यानुभवसिद्धत्वात्। जीवस्य तु सांशत्वाभावेन तद्विशेषाभावात्। अन्यथाऽनित्यत्वप्रसंगादिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृति हीति ॥ अस्यार्थः ॥ ननु युक्तं चंदनबिंदोः शरीरे व्याप्तत्वं। कुतः। अवस्थितवैशेष्यात् देहे क्वचित्प्रदेशे सम्यगवस्थानसत्वात् न तथा जीवस्य तदभावादिति चेन्न। कुतः। यतः हृदि हि हृदि ह्येष इति (प्र. 3-6.) श्रुतिः जीवस्यापि हृदि सम्यगवस्थानमवयवांतरे त्वसम्यगवस्थानांगीकारादित्यर्थः ॥

एवंच जीवस्यापि चंदनबिंदुवत्सांशत्वांगीकारेण चंदनबिंदुवद्देहे हृदयतदितरस्थानयोः सम्यगसम्यगवस्थानाभ्युपगमात्। न चानित्यत्वप्रसंगः। सांशत्वमात्रस्यानित्यत्वे प्रयोजकाभावेन किंत्वारंभकांशवत्त्वस्य प्रयोजकत्वसंभवेन तस्य च जीवेऽभावात्। अन्यथा प्रकृत्यादेरपि दशदिक्संबंधेन सांशत्वादनित्यत्वप्रसंगात्। हृदि ह्येष आत्मेति श्रुतेः। अतः श्रुत्यविरोधेन युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-25>

<2-3-26>
(26) ॥ गुणाद्वाऽऽलोकवत् ॥ ॥

एवं स्वरूपतदंशाभ्यामात्मनः शरीरव्याप्त्यव्याप्ती सदृष्टांतमुक्त्वा प्रकारांतरेणापि तदुपपादकसूत्रमुपन्यस्यति ॥

॥ ॥ गुणाद्वाऽऽलोकवदिति ॥ अस्यार्थः ॥ वा शब्दः प्रकारांतरे। आलोकवत् प्रदीपस्येव। यथा दीपस्य प्रभया व्याप्तिः तद्वदणोरपि जीवस्य। गुणात् प्रकाशगुणात्। व्याप्तिर्युज्यत इत्यर्थः ॥ अविरोध इति सूत्रोक्तांशतो व्याप्तिः देवानां गुणाद्वेति सूत्रोक्तप्रकाशतो व्याप्तिस्तु मनुष्याणामिति विवेको द्रष्टव्यः ॥

एवंच केषांचिद्गुणेन केषांचिदंशैर्व्याप्त्यंगीकारात्। असम्यक्सम्यगिति चेति (स्कांद.) स्मृतेः। यथाऽऽलोकस्य प्रकाशाख्यगुणेन व्याप्तिः प्रदीपरूपेणाव्याप्तिरेवं ज्ञानाख्यगुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति संभवेन परिज्ञानायोगाख्यविरोधाभावात्। अतः श्रुत्यविरोधेन जीवाणुत्वसिद्धेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-3-26>
॥ इति उत्क्रांत्यधिकरणं ॥

13.अधिकरणं ॥

अत्र जीवस्यैकरूपत्वानेकरूपत्वविषयश्रुतिविरोधः परिह्रियते ॥

<2-3-27>
(27) ॥ व्यतिरेको गंधवत्तथा च दर्शयति ॥ ॥

ननु जीवो नैकदाऽनेकशरीरावच्छिन्नः किंत्वेकेनैव। स एकधेति (गौपवन.) श्रुतेः। न चान्यत्रापि स पंचधेति (पाराशर्यायण) श्रुतिरस्तीति वाच्यं। तस्या युक्तिविरुद्धत्वेनाप्रामाण्यात्। अनेकशरीरावच्छिन्नत्वं हि विभुत्वेन वा सांशत्वेन वा भवेत्। न चोभयोः संभवः। अणुत्वे निरवयवत्वे च श्रतिसद्भावात्। न चोभयाभावेऽपि योगिनामघटितघटकसामर्थ्योपेतत्वेनापेपन्नमनकेशरीरत्वं। समुद्रपानादिकं च तेषां दृष्टचरमिति वाच्यं। तथात्वे जीवस्येश्वरगुणसाम्यप्रसंगात्। अतः सयुक्तिकैतच्छ्रुतिविरोधेन बहुरूपश्रुतेरप्रामाण्यान्न श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रितं ॥

॥ ॥ व्यतिरेको गंधवत्तथा च दर्शयतीति ॥ अस्यार्थः ॥ च शब्दोऽचिंत्ययेति (पाद्म) स्मृति समुच्चायकः। गंधवत् गंधस्येव। यथा पुष्पगंधस्य स्वांशैः। व्यतिरेको विभागस्तथाऽणोरपि जीवस्य स्वांशैः ईशशक्त्या व्यतिरेको युज्यते। कुत एतत्प्रतिपादयति। येतोऽथेति (शांडिल्य) श्रतिः तथा दर्शयति। अत एवेत्यर्थः ॥

एवंच न जीवस्यैकरूपत्वमिति नियमः। अपि तु योगाद्यापादितेश्वरानुग्रहेण केषांचिद्युगपदेकलूपत्वमपि। न चांशिनं विहायांशस्य गमनानुपपत्तिः। दृश्यते खलु गुणस्यापि गंधस्य धर्मिणं विहायान्यत्र गतिः। सति चैवं काऽनुपपत्तिः। द्रव्यस्यांशस्यांशिनं विहायान्यत्र गमने चैकधेति श्रुत्यविरोधः। तस्याः स्वरूपैक्याविषयत्वात्। अथैक एव सन्निति श्रुतेः। अतः श्रुत्यविरोधेन जीवस्य बहुरूपत्वोपपत्तेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-27>
॥ इति व्यतिरेकाधिकरणं ॥

14.अधिकरणं ॥

अत्र जीवस्य परमात्माभिन्नत्वादिविषयश्रुतिविरोधः परिह्रियते।

<2-3-28>
(28) ॥ पृथगुपदेशात् ॥ ॥

नन्वभिन्न एव जीवः परमात्मना। तत्त्वमसी(छां. 6-8-7.)त्यादि श्रुतेः। यद्यपि श्रुतिरियं श्वेतकेतोरेव साक्षादैक्यं बोधयति। तथाऽपि सर्वजीवाभेदेतात्पर्यवत्त्वेन भवत्येव सर्वजीवाभेदे प्रमाणं। सतु तावज्जीवो न रामादिवद्भगवदंशः। नैव सोम्येति पूर्ववाक्यपर्यालोचनया तथाऽवगमात्। न च जीवत्वाविशेषे कस्यचिद्‌ब्रह्माभेदः कस्यचिन्नेति संभवति। ततश्च सर्वजीवानां ब्रह्माभेदं विवक्षित्वैव सा तस्य ब्रह्माभेदं वक्ति। न च विपर्ययेऽपि द्वा सुपर्णे(श्वे. 4-6.)त्यादिश्रुतिरस्ति। अद्वैतश्रुतेः सोपपत्तिषड्‌विधतात्पर्यलिंगयुक्तत्वेन बलवत्त्वात्। अतोऽद्वैतश्रतेरद्वैत एव तात्पर्येण तद्विरुद्धभेदश्रतेरतत्त्वावेदकेत्वमेवेति न भगवतः श्रुतिसमन्वय इति प्राप्ते सूत्रितं।

॥ ॥ पृथगुपदेशादिति ॥ अस्यार्थः ॥ जीवः परमात्मना पृथक् भिन्नः। कुतः। उपदेशात् भिन्नोऽचिंत्य इति (कौशिक.) श्रुतेरित्यर्थः ॥

एवंच भिन्न एव जीवो भगवता। भिन्नोऽचिंत्य इति श्रुतेः। न चाभेदेऽपि श्रुतिरस्तीति वाच्यं। विरुद्धधर्माधिकरणस्य युक्तियुक्तत्वेन भेदश्रुतेः प्राबल्यात्। अतः श्रुत्यविरोधेन जीवेशयोर्भेदसिद्धेर्ब्रह्माणि श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-3-28>

<2-3-29>
(29) ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ ॥

नन्वेवं तर्ह्यद्वैततत्त्वमसीत्याद्यद्वैतश्रुतेर्निविषयत्वेनाप्रामाण्यं प्राप्तमित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदिति ॥ अस्यार्थः ॥ प्राज्ञवत् ब्रह्मणीव यथा प्राज्ञे ब्रह्मणि सर्वं खल्विदं ब्रह्मेति (छां. 3-14-1.) जगदभेदोक्तिः। तथा जीवे। तद्व्यपदेशः तत्त्वमसीति ब्रह्मैक्योक्तिर्युज्यते। कुतः। तद्गुणसारत्वात्। जीवस्य ब्रह्मगुणसदृशचिदानंदादिगुणस्वरूपत्वान्निमित्तादित्यर्थः ॥

एवंचाभेदश्रुतेरपि प्रामाण्यं। तथाऽपि जीवस्य परमात्मगुणसदृशानंदादिगुणवत्त्वात्। अहं ब्रह्मास्मी(बृ. 3-4-10.)त्यादिश्रुतिगतानां ब्रह्मादिशब्दानां गौण्यावृत्त्या जीवे प्रवृत्तत्वेन सादृश्याभेदस्य श्रुत्यर्थत्वात्। तत्त्वमसीत्यादिब्रह्मवाचकशब्दस्य जीवे गौणवृत्त्यंगीकार इवासिपदस्यजीवार्थेलक्षणांगीकारेऽपि सादृस्याभेदप्रतीतेश्च। अभेदाभावेप्यभेदव्यपदेशस्य तद्गुणसारत्वेन सर्वं खल्वित्यादौ दर्शनात्। तत्त्वंपदबोध्ययोर्विशिष्टयोरैक्यस्य बाधितत्वात्। निर्विशेषयोर्विशेषणविशेष्यभावायोगेनाभेदबोधनायोगात्। अभेदस्य नीलमुत्पलमित्यादाविव तद्भावतत्वात्। निर्विशेषयोर्विशेषणविशेष्यभावायोगेनाभेदबोधनायोगात्। अभेदस्य नीलमुत्पलमित्यादाविव तद्भावमुखेनैव बोधनीयत्वात्। यथा गंगायां घोष इत्यादिलौकिकवाक्यस्य गंगादिपदामुख्यार्थद्वारक एव वाक्यार्थो न तु मुख्यार्थद्वारकः। नैवं वेदे। वेदो हि स्वपदानां महायोगादिवृत्त्याऽर्थं प्रदिपाद्यैव गौण्यादिवृत्त्याऽर्थांतरं प्रतिपादयतीत्याह। पररीत्या प्राप्तिसद्भावेनाप्राप्तिनिषेधायोगाभावात्। अतः श्रुत्यविरोधेन जीवब्रह्मणोर्भेदसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-29>
॥ इति पृथगधिकरणं ॥

15.अधिकरणं ॥

अत्र जीवनित्यत्वविषयश्रुतिविरोधः परिह्रियते।

<2-3-30>
(30) ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ॥

नन्वनित्य एव जीवः। ब्रह्मन् लयमभ्युपैतीत्यनित्यत्वश्रुतेः। न च सोऽनादिनेति श्रुतिस्तस्य नित्यत्वेऽस्तीति वाच्यं। अनित्यत्वश्रुतेः सयुक्तिकत्वेन प्राबल्यात्। उक्ता खलु जीवस्योत्पत्तिर्ज्ञोऽत एवेति। ततश्च जीवो विनाशी। भावत्वेसत्युत्पत्तिमत्त्वादिति मानसद्भावात्। न च तत्रोपाधेरेवोत्पत्तिरुक्ता न तु जीवस्येति। उपाधेरुत्पत्तिमत्त्वाद्विनाशे प्रतिबिंबविनाशस्यावर्जनीयत्वात्। अतः सयुक्तिकश्रुतिविरोधात्तस्यानादिकर्मसंबंधाद्युक्तेस्तदभिधायकश्रुतेरप्रामाम्यादयुक्तः श्रुतिसमन्वय इति प्राप्ते सूत्रितं ॥

॥ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनादिति ॥ अस्यार्थः ॥ यावदात्मभावित्वाच्च जीवस्य यावत्परमात्मसत्त्वात्। नित्यत्वादिति यावत्। न दोषः सोऽनादिनेति पुण्यपापंसंबधबोधकश्रुत्यप्रामाण्यदोषो नास्ति। कुत एतत्। तद्दर्शनात् तस्य नित्यत्वस्य नित्यो जीव इति (अग्निवेश्य.) तावुक्तत्वात् च आत्मा नित्यः जीव इति (भारते.) स्मृतिद्वयाच्चेत्यर्थः ॥

एवंच जीवो नित्य एव। नित्यः पर इति श्रुतावात्मवज्जीवस्यापि नित्यत्वाभिदानात्। तथाऽऽत्मानित्य इति स्मृतौ जीवस्य नित्यत्वमुक्त्वा तच्छरीरादेरनित्यत्वाभिधानात्। न चोपाधिनाशे प्रतिबिंबस्य जीवस्यापि नाशो दुष्परिहारः। तस्याप्रतिबिंबत्वात्। न च रूपं रूपमिति (बृ. 4-5-19.) श्रुतिर्जीवस्य प्रतिबिंबत्वमापादयतीति वाच्यं। तस्यास्तदधीनत्वे सति तत्सदृशत्वरूपगौणप्रतिबिंबत्वपरत्वेन मुख्यप्रतिबिंबत्वानावेदकत्वात्। न चैकस्मिन्नुपाधावेस्यैव प्रतिबिंबो नान्यस्येति संभवति। दर्पणादावपि तथा प्रसंगात्। अपि च प्रतिबिंबस्योपाध्येकदेशवृत्तित्वनियमेन जीवस्य चिच्छरीरकैदेशवृत्तित्वं प्राप्नोति। किं च बाह्यशरीरे प्रतिबिंबभावे तद्बाह्यशरीरनाशे जीवनाशो दुष्परिहारः। तदभावे तु जीवोपाधिर्द्विधा प्रोक्ता इत्यादौ तस्योपाधित्ववचनमयुक्तमेवापतति। अथ तस्योपाधित्ववचनं गौणं तर्हि चिच्छरीरस्यापि तद्वचनं गौणमस्तु। अर्धजरतीयानुपपत्तेः। अस्तु वा जीवस्य प्रतिबिंबत्वं। तथाऽपि बिंबोपाधितत्सन्निधीनां नित्यत्वेन न जीवस्य नाशो भवति। कारणाभावात्। उपाध्यनित्यतावचनानि बाह्योपाधिविषयाणि। अतः श्रुत्यविरोधेन जीवस्य नित्यत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-30>
॥ इति यावदधिकरणं ॥

16.अधिकरणं ॥

अत्र जीवस्यानंदादिरूपत्वतदभावश्रुत्योर्विरोधः परिह्रियते।

<2-3-31>
(31) ॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ॥

ननु न जीवो ज्ञानानंदादिरूपः। सुखदुःखाद्विमुक्त इति (पैंगि.) श्रुतेः। न चानंदादिरूपत्वेऽपि स बलमानंद (गौपवन.) इति श्रुतिरस्तीति नानंदादिरूपात्वाभावनिर्णयः संभवतीति वाच्यं। जीवो नानंदादिरूपः। ततोपलब्धियोग्यत्वे सति तथाऽनुपलभ्यमानत्वादिति मानसद्भावेनानानंदश्रुतेः सयुक्तिकत्वात्। न च प्रतिबंधकवशेनानुपलब्धिस्तन्निवृत्त्यर्थं प्रयत्नसंभवः। जीवस्याहमिति नित्याभिव्यक्तत्वेन तत्स्वरूपभूतानां व्यवधानस्यैवानुपपत्तेः। किंचावरणं नामाज्ञानं। तस्य वशादननुभव इति चेत्। जीवस्यानंदादिरूपत्वे आनंदाद्यज्ञानमनुपपन्नमिति चोदितेऽज्ञानवशादज्ञानमुपपन्नमिति परिहारायोगात्। आवरणं शरीरादिति चेत्। वैपरीत्यमपि वक्तुं शक्यत्वात्। तदेवं सयुक्तिकश्रुतिविरोधादप्रमाणमेवान्याश्रुतिरतो नेश्वरे श्रुतिसमन्वयो युक्त इति प्राप्ते सूत्रमाह ॥

॥ ॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगादिति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। पुंस्त्वादिवत् पुंस्त्वादेरिव पुरुषयोषिदादीनामपत्योत्पत्तिशक्तिस्वरूपत्वेऽपि कालविशेषे तदभिव्यक्तिः। तथा सतः जीवस्वरूपत्वेन मुक्तेः पूर्वमपि विद्यमानस्यैवास्य ज्ञानानंदादेरभिव्यक्तियोगात् मुक्तावभिव्यत्क्या निमित्तभूतया योगात् आनंदी भवतीति (पैंगि.) श्रुत्युपपत्तेः। न जीवस्यानंदादिरूपत्वे तच्छ्रुतिविरोध इति जीव आनंदादिरूप एवेत्यर्थः ॥

एवंच भवत्येव जीव आनंदादिरूपः। तथाश्रुतेः। न चानंदी भवतीति श्रुतिविरोधः। यथा पुरुषयोषिदादीनामपत्योत्पत्तिशक्तिस्वरूपत्वेऽपि कालतस्तदभिव्यक्तेर्नायं पूर्वं पुमानिदानीं पुमानित्यादि युज्यते। एवं जीवस्वरूपत्वेन मुक्तेः पूर्वमपि सतो ज्ञानानंदादेरीश्वरप्रसादेनाभिव्यक्तिनिमित्तेनानंदी भवतीत्यादिव्यपदेशोपपत्तेः। नापिप्रयत्नानुपपत्तिः। तदभिव्यक्त्यर्थमेव मुमुक्षूणां तदुपपत्तेः। न चावरणानुपपत्तिः। ज्ञानाभावातिरिक्ताविद्याया एवावरणत्वाभ्युपगमात्। तदेवं श्रुत्यविरोधेन जीवस्यानंदादिरूपत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-31>

<2-3-32>
(32) ॥ नित्योपलब्धयनुपलब्धिप्रसंगोऽन्यतरनियमो वाऽन्यथा ॥ ॥

ननु जीवस्वरूपभूतानामानंदादीनां प्रागनभिव्यक्तानां मोक्षेऽभिव्यक्तिरित्ययुक्तं। जीवस्वरूपस्य नित्याभिव्यक्तत्वादिति प्राप्ते सूत्रमाह ॥

॥ ॥ नित्योपलब्ध्यनुपलब्धिप्रसंगोऽन्यतरनियमो वाऽन्यथेति ॥ अस्यार्थः ॥ वा शब्दो व्यवस्थितविकल्पार्थः। उपलब्धिः अनुभवः। अन्यथा जीवस्यानंदादिरूपत्वमंगीकृत्य आवरणानंगीकारे नित्योपलब्धनुपलब्धिप्रसंगः। यथायोग्यमन्वयः। मुक्तियोग्यानां नित्यमानंदाद्यनुभवः स्यात्। तमोयोग्यानां न कदाप्यानंदानुभवः स्यात्। किंतु स्वरूपदुःखानुभव एव स्यात्। एवं मध्यममनुष्याणामन्यतरनियमः अन्यतरयोः सुखदुःखानुभवयोः नियमः साम्यमेव स्यात्। प्रतिबंधकीभूतावरणगतादित्यर्थः। तस्माज्जीवस्यावरणमंगीकार्यमिति भावः।

एवंच जीवस्वरूपस्यानंदादिरूपत्वमंगीकृत्यावरणनिवृत्त्यनंगीकारे आवरणाभावो मूलमिति चेत्। देवदानवमानवानां नित्यं स्वस्वरूपोपलब्धिप्रसंगात्। आवरणाभावेऽनुभवाभावायोगात्। आवरणनिवृत्त्यनंगीकारे तु देवदानवमानवानां कदाऽपि स्वस्वरूपानुपलब्धिप्रसंगात्। प्रतिबंधकस्य तदातनत्वात्। नित्यानंद इति श्रुतिविरुद्धत्वात्। अतः श्रुत्यविरोधेन जीवस्यानंदादिरूपत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-32>
॥ इति पुंस्त्वाधिकरणं ॥

17.अधिकरणं ॥

अत्र जीवकर्तृत्वविषयश्रुतिविरोधः परिह्रियते।

<2-3-33>
(33) ॥ कर्ता सास्त्रार्थवत्त्वात् ॥ ॥

ननु जीवो न कर्ता। नान्यः कर्तेति श्रुतेः। न च यत्कर्म कुरुत इति (बु. 6-4-5.) श्रुतिर्जीवकर्तृत्वे प्रमाणं। अकर्तृकत्वश्रुतेः सयुक्तकत्वेन प्राबल्यात्। समर्थितं खल्वीश्वरस्यैवानन्ययोगेन कर्तृत्वमितरव्यपदेशादित्यादौ। ततश्च जीवस्य कर्तृत्वमेव नास्तीत्येष उ एव साधुकर्म कारयतीत्यादिसमन्वयो न युक्त इति प्राप्ते सूत्रं पठति ॥

॥ ॥ कर्ता सास्त्रार्थवत्त्वादिति ॥ अस्यार्थः ॥ जीवोऽपि कर्ता। कुतः। तथा सत्येव शास्त्रार्थवत्त्वात् विधिनिषेधरूपशास्त्रस्य प्रयोजनवत्त्वात्। अन्यथा वैयर्थ्यप्रसंगादित्यर्थः ॥

एवंचोक्तश्रुतिसमन्वयो युक्त एव। जीवस्यापि कर्तृत्वेन तत्प्रेरकत्वसंभवात्। अन्यथा विधिनिषेधशास्त्रवैयर्थ्यं स्यात्। न हि कर्तारमंतरेणारण्यरोदनायमानशास्6स्य सार्थक्यं भवेत्। अतः श्रुत्यविरोधेन जीवस्य कर्तृत्वसिद्धेर्युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-33>

<2-3-34>
(34) ॥ विहारोपदेशात् ॥ ॥

नन्वथाऽपि जीवस्य न वास्तवं कर्तृत्वमभ्युपेयं। जीवस्य स्वतः कर्तृत्वाभावेऽपि परगतकर्तृत्वे स्वीयत्वाग्रहोऽस्त्येव। अतः काल्पनिककर्तृत्ववंतं जीवं प्रति विधिनिषेधशास्त्रप्रवृत्तिर्भवेदित्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ विहारोपदेशादिति ॥ अस्यार्थः ॥ मुक्तावपि जक्षन्क्रीडन्निति विहारकर्तृत्वोक्तेः जीवः परमार्थत एव कर्ता न काल्पनिककर्तेत्यर्थः ॥

एवंच मोक्षेऽपि स्त्रीभिर्वा यानैर्वे(छां. 8-12-3.)त्यादिना विहारकर्तृत्वोपदेशात्। न च मोक्षे सतो व्यावहारिकत्वसंभवः। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-34>

<2-3-35>
(35) ॥ उपादानात् ॥ ॥

नन्वस्तु तर्हि जीवस्य मोक्षे कर्तृत्वं पारमार्थिकं। प्रामाणिकत्वात्। संसारे तु व्यावहारिकमेव। तावता शास्त्रसार्थक्यं भवेदित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ उपादानादिति ॥ अस्यार्थः ॥ जीवस्य मोक्षार्थे साधनाद्यनुष्ठानदर्शनात्। ततः फलदर्शनाच्च। न जीवः संसारेऽपि काल्पनिककर्तेत्यर्थः ॥

एवंच मोक्षार्थं साधनाद्युपादानदर्शनात्। न च तदपि परगतमेव जीव आरोप्यमिति वाच्यं। फलाभावप्रसंगात्। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-35>

<2-3-36>
(36) ॥ व्यपदेशाच्चाक्रियायां न चेन्निर्देशविपर्ययः ॥ ॥

एवं संसारे शास्त्रार्थवत्त्वरूपयुक्त्या साधनाद्युपादानप्रत्यक्षेण च साधितं जीवकर्तृत्वं श्रुत्याऽपि समर्थयत्सूत्रमाह ॥

॥ ॥ व्यपदेशाच्चाक्रियायां न चेन्निर्देशविपर्यय इति ॥ अस्यार्थः ॥ क्रियायां आत्मानमेव लोकमुपासीते (बृ. 3-4-15.) त्युक्तोपासनक्रियायां। व्यपदेशात् जीवस्य कर्तृत्वोक्तेश्च। जीवः कर्ता। न चेत् कर्तृत्वं न चेत्। निर्देशविपर्ययः। निर्देशस्य जीवस्य कर्तृत्वेनेश्वरस्य कर्मत्वेन वचनस्य। विपर्ययः आत्मैवोपासीतेत्येवं रूपवैपरीत्यं स्यादित्यर्थः ॥

एवंचात्मानमेव लोकमुपासीतेति श्रुतौ जीवस्य कर्तृत्वव्यपेदशात्। जीवस्योपासनाक्रियायां कर्तृत्वेन श्रुत्यनभिमतत्वे क्रियाया अकर्तृकत्वजडकर्तृत्वयोरसंभवाच्छ्रुतिवैयर्थ्यापत्त्या तत्परिहाराय परमात्मन एव क्रियाकर्तृत्वेन तदभिमतत्वे आत्मैव लोकमिति निर्देशः स्यात्। तथा चास्य कर्तत्वान्नास्ति चासौ विपरीतनिर्देशस्तस्मान्न जीवोऽकर्ता किंतु कर्तैवेति विपर्ययपर्यवसाने जीवस्यापि कर्तृतासिद्धेः। अतः श्रुत्यविरोधेन समन्वयो युक्त इति सिद्धं ॥
</2-3-36>

<2-3-37>
(37) ॥ उपलब्धिवदनियमः ॥ ॥

नन्वेवं जीवस्यापि कर्तृत्वे कथमितरव्यपदेशादित्यादावीश्वर एव कर्तेति समर्थितं। कथं च नान्यः कर्तेति श्रुतिरुपपद्यते। अतस्तद्विरोधोऽस्त्येवेत्याशंकां परिहरत्सूत्रं पठति ॥

॥ ॥ उपलब्धिवदनियम इति ॥ अस्यार्थः ॥ उपलब्धिवत् उपलब्धाविव। यथा जीवस्योपलब्धौ ज्ञाने। अनियमः स्वेच्छानुसारेण ज्ञानालाभः तथा क्रियायामपि अनियमो युक्त इत्यर्थः ॥

एवंच यथेदमहं ज्ञास्यामीतीच्छायामपि न स्वेच्छानुसारेण ज्ञानलाभो जीवस्य। एवमिदं करिष्यामीति संकल्पेऽपि न स्वेच्छानुसारेण कार्यसिद्धिः। ईश्वरस्य तु स्वेच्छानुसारेण कार्यसिद्धिर्भवतीति स्वातंत्र्याभिप्रायेणेश्वर एव कर्ता न जीवः कर्तेत्युच्यत इत्यभिप्रायकत्वात्। ततश्च जीवस्य कर्मणि नियमाभावेनेश्वरस्य तु तद्भावसिद्धेः। अनन्याधीनकर्तृत्वविवक्षयेश्वरस्येव कर्तृत्वस्य न जीवस्येति प्रागुक्तत्वात्। न तु सर्वथा कर्तृत्वाभावाभिप्रायेणेति न पूर्वोक्तविरोधः। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेः समन्वयो युक्त इति सिद्धं ॥
</2-3-37>

<2-3-38>
(38) ॥ शक्तिविपर्ययात् ॥ ॥

नन्वीश्वरस्य जीववत्साधनासापेक्षकर्तृत्वेनाविशेषात्। ईश्वरस्यैव स्वतंत्र्यं न जीवस्येत्येतत्कुत इत्याकांक्षायां परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ शक्तिविपर्ययादिति ॥ अस्यार्थः ॥ ईशजीवयोः शक्तिविपर्ययात् पूर्णापूर्णरूपशक्तिभेदमपेक्ष्य कर्तृत्वमपि स्वतंत्रपरतंत्रभेदभिन्नमित्यर्थः। यद्वा। ईश्वरवत् जीवे पूर्णशक्त्यभावान्न तस्य स्वतंत्रकर्तृत्वमित्यर्थः ॥

एवंचेश्वरस्य सकलसाधननियामकत्वेन साधनस्वातंत्र्यसद्भावात्। कार्यसिद्धौ च स्वातंत्र्यसापेक्षत्वात्। जीवस्य तु साधनस्वातंत्र्याभावेन फलस्वातंत्र्याभावात्। ततश्च जीवस्याल्पसक्तित्वेन स्वातंत्र्याभावाद्युक्तः समन्वय इति सिद्धं ॥
</2-3-38>

<2-3-39>
(39) ॥ ॥ समाध्यभावाच्च ॥ ॥

युक्त्यंतरेणेशजीवयोः स्वातंत्र्यपारतंत्र्ये समर्थयत्सूत्रमुपन्यस्यति ॥

॥ ॥ समाध्यभावाच्चेति ॥ अस्यार्थः ॥ समाधिः अलंबुद्धिः। तदभावात् न जीवस्य स्वतंत्रकर्तृत्वं किंतु परतंत्रकर्तृत्वमेवेत्यर्थः ॥

एवंचेश्वरस्य पूर्णकामत्वात्फलस्वातंत्र्यं जीवस्य तदभावात्फलस्वातंत्र्याभावः। ततश्च जीवेशयोः स्वातंत्र्यपारतंत्र्योः प्रतीयमानत्वेन ताभ्यां निमित्ताभ्यां कर्मणि नियमानियमयोः प्रतिपत्तव्यत्वात्। अतः श्रुत्यविरोधेन समन्वयो युक्त इति सिद्धं ॥
</2-3-39>

<2-3-40>
(40) ॥ यथा च तक्षोभयथा ॥ ॥

ननु जीवस्य न स्वातंत्र्येण कर्तृत्वं चेत्तर्हि श्रुतिस्मृत्यादौ कथं कर्तेत्युच्यते। अस्वातंत्र्यकर्तरि कर्तृशब्दप्रयोगाभावेन तस्य स्वतंत्रकर्तृत्वमात्रप्रत्यायकत्वादिति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ ॥ यथाच तक्षकोभयथेति ॥ अस्यार्थः ॥ दार्ष्टांतिकसमुच्चये च शब्दः। यथा तक्षा वर्धकिः। उभयथा प्रासादादिकारयितृप्रेरितत्वेन तत्कर्तृत्वेन च व्यपदिश्यते तथा ईश्वरनियतोऽपि जीवः कर्तेति वक्तुं शक्यत इत्यर्थः ॥

एवंचास्वतंत्रेऽपि कर्तरि प्रासादकर्तायं तक्षेति प्रयोगदर्शनेन कर्तृशब्दस्य स्वतंत्रकर्तृमात्रप्रत्यायकत्वनियमाभावात्। जीवस्यापीश्वरनियतत्वस्य घटादिकर्तृत्वस्य च सद्भावात्। अतो जीव कर्तृत्वसिद्धेः समन्वयो युक्त इति सिद्धं ॥
</2-3-40>

<2-3-41>
(41) ॥ परात्तु तच्छ्रुतेः ॥ ॥

ननु किं तक्ष्ण इव जीवस्य कर्तृत्वशक्तिर्जीवाधीनैव। ईश्वराधीनत्वं तु वचनवेतनदानादिवदुत कर्तृत्वशक्तिरपीश्वराधीना। आद्य ईश्वरस्यैव कर्तृत्वमिति गतः पक्षः। द्वितीये न जीवस्य कर्तृत्वशक्तिरिति प्राप्ते समादधत्सूत्रमाह ॥

॥ ॥ परात्तु तच्छ्रुतेरिति ॥ अस्यार्थः ॥ जीवस्य कर्तृत्वशक्तिः परात्तु परमात्मानमनुसृत्यैव तदधीनैवास्ति। कुतः। तच्छ्रुतेः कर्तृत्वं कारणत्वं चेति (पौंगिश्रुतौ.) जीवकतृत्वस्येशाधीनत्वश्रवणादित्यर्थः ॥

एवंच कर्तृत्वं करणत्वं चेति श्रुतिबलेन जीवस्य कर्तृत्वशक्तेरीश्वराधीनत्वांगीकारात्। ईश्वरस्य कर्तुमकर्तुमन्यथाकर्तुमिति सामर्थ्यसद्भावेन तदिच्छयैव जीवादीनां कर्तृत्वादिसंपत्तिदर्शनात्। अतः श्रुत्यविरोधेन समन्वयो युक्त इति सिद्धं ॥
</2-3-41>

<2-3-42>
(42) ॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्यः ॥ ॥

नन्वस्मिन्पक्षेऽपि दोष उक्तः। यदि कर्तृत्वशक्तिरीश्वराधीना तर्हि तस्यैव कर्तृत्वं न जीवस्य। दारु प्रतिमावदन्यादीनस्येति पुनः शास्त्रवैयर्थ्यापात इति प्राप्ते पराकुर्वत्सूत्रमाह ॥

॥ ॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्य इति ॥ अस्यार्थः ॥ तुरवधारणे। यतः परमात्मा विहितप्रतिषेधावैयर्थ्यादिभ्यः। तादर्थ्ये चतुर्थी। विधिनिषेधशास्त्रावैयर्थ्याय स्वस्य वैषम्यनैर्धृण्यपरिहाराय च कृतप्रयत्नापेक्षः जीवकर्मप्रयत्नयोग्यतापेक्षमाण एव जीवं प्रेरयति न त्वनपेक्षःसन्। अतो जीवशक्तेरीशाधीनत्वेऽपि तस्यापेक्षितकृतिमत्त्वमस्त्येवेत्यर्थः।

एवंच विधिनिषेधशास्त्रयैयर्थ्यपरिहाराय स्वस्य वैषम्यनैर्घृण्यपरिहाराय च जीवकर्मप्रयत्नयोग्यतापेक्ष्यैवेश्वरो जीवं प्रेरयतीत्यंगीकारात्। पूर्वकर्मप्रयत्नं चेति (भविष्यत्पर्वणि) वचनात्। जीवस्य विधिवाक्यतदर्थज्ञाने तज्जन्यसाधनफलेच्छयोः साधनविषयककृतौ च भगवत्प्रेर्यत्वेऽपि न विधिविषयत्वकर्मफलभाक्त्वयोरनुपपत्तिरिति न शास्त्रप्रवृत्तिवैयर्थ्यं। राजभटाद्युत्पादितेच्छादिमतोऽपि त्रिवर्णादोर्विष्टिगृहीतस्य च संध्योपासनादौ भारवहनादौ च विध्यादिदर्शनेन तद्वदेवास्वतंत्रकर्तृतामात्रेण तयोरुपपत्तेः। अतः श्रुत्यविरोधेन जीवकर्तृत्वसिद्धेर्युक्तः श्रुतिसमन्वय इति सिद्धं ॥
</2-3-42>
॥ इति कर्तृत्वाधिकरणं ॥

18.अधिकरणं ॥

अत्र जीवविषये श्रुतिविरोधः परिह्रियते।

<2-3-43>
(43) ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ॥

ननु न जीवः परमेश्वरांशः। तत्र प्रमाणाभावात्। न चांशा एव हीमे जीवा इति (गौपवन.) श्रुतेः प्रामाण्यं। नैवांश इति (भाल्लवेय.) श्रुतिबाधितत्वेन स्वार्थनिश्चायकत्वाभावेन तच्छ्रुतेरप्रामाण्यात्। जीवेशयोर्भेदस्य साधितत्वेन भिन्नस्य चांशत्वायोगात्। असंभवदर्थायाः प्राचीनश्रुतेः संभवदर्थाया नैवांश इति श्रुतेः प्रबलत्वेन बाधकत्वात्। एवं चांशत्वश्रुतेरप्रामाण्यान्न तत्समन्वयो युक्त इति ॥ यद्वा ॥ टीकोक्तरीत्या। अनिर्णायकमेव श्रुतिद्वयं। परस्परप्रतिबंधात्। न च व्रीहियवश्रुत्योरिव विकल्पो युक्तः। वस्तुविकल्पायोगात्। न च देशकालभेदेन व्यवस्थितविकल्पो युक्तः। विशेषप्रमाणाभावात्। अतः श्रुतिद्वयस्याप्रामाण्यमेवेति नोक्तयुक्तयो युक्ता इति। प्राप्ते सूत्रमाह ॥

॥ ॥ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एक इति ॥ अस्यार्थः ॥ जीवः परमात्मनोंऽश एव। पितापुत्रत्वादिसंबंधेन केवलं तदुपजीवकत्वरूपांशत्वेन च न तु न कदाचिदीश्वरवदुपजीव्यः। कुतः। नानाव्यपदेशात् मां रक्षत्वित्यादौ पितृत्वभ्रातृत्वादिनानाप्रकारेण जीवस्येशसंबंधित्वोक्तेः। किं च यतः। एके शाखिनः। अन्यः परोऽन्यो जीव (पाषायण श्रुतिः) इत्यादिना एनं जीवं परात्। अन्यथा भिन्नत्वेनः। अधीयते पठंति। यतः अन्येच शाखिनः ब्रह्म दाशा (ब्रह्मसूक्ते) इत्यादिना ब्रह्मणो दाशकितवादित्वं दाशकितवशब्दितजातिविशेषयुक्तजीवप्रभृतिभावं तदभेदमिति यावत्। दाशकितवादेव चाब्रह्मत्वमधीयते। अतोंऽशत्वरूपांशत्ववानित्यर्थः ॥

एवंचांश एव जीवो भगवतः। मां रक्षत्वित्यादि नानाप्रकारेण जीवस्येशसंबंधित्वव्यपदेशात्। तत्संबंधित्वस्यैव तदंशरूपत्वात्। अतः श्रुत्यविरोधेन जीवस्येश्वरांशत्वोपपत्तेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-43>

<2-3-44>
(44) ॥ मंत्रवर्णात् ॥ ॥

एवमुपपत्त्या जीवस्येश्वरांशत्वमुपपाद्य श्रुत्याऽपि तत्साधयत्सूत्रमाचरति ॥

॥ ॥ मंत्रवर्णादिति ॥ अस्यार्थः ॥ पादोऽस्येति श्रुतेश्च जीवः परमात्मांश इत्यर्थः ॥

एवंच पादोऽस्य विश्वाभूतानीति (ऋ. 10-10-3.) मंत्रवर्णात्सर्वे जीवा अस्य परमात्मनोंऽशा इत्युक्तत्वात्। ततश्च जीवस्येश्वरांशत्वोपपत्तेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-3-44>

<2-3-45>
(45) ॥ अपि स्मर्यते ॥ ॥

स्मृत्याऽपि जीवस्य परमात्मांशत्वं साधयत्सूत्रमुपन्यस्यति ॥

॥ ॥ अपि स्मर्यत इति ॥ अस्यार्थः ॥ जीवस्यांशत्वं कृष्णादिभिः ममैवांश इति (भ.गी. 15-7.) स्मृत्या कथ्यते चेत्यर्थः ॥

एवंच ममैवांश इति स्मृतावीश्वरो जीवस्य शरीरावाप्तौ मूलकारणादिंद्रियाणि कर्षति तदुत्क्रमेण तु शरीरात् स्थितौ तु गोलकादिभ्य इति जीवस्य परमात्मांशत्वेनोक्तत्वात्। अतो जीवस्येश्वरांशत्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-45>

<2-3-46>
(46) ॥ प्रकाशादिवन्नैवं परः ॥ ॥

ननु न युक्तं जीवस्येशांशत्वं। तथा सत्यंशत्वाविशेषाज्जीवानां मस्त्यादिसाम्यापातात्। अनंशत्वश्रुतिविरोधाच्चेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ प्रकाशादिवन्नैवं पर इति ॥ अस्यार्थः ॥ जीवः प्रकाशादिवत् खद्योताद्यभिमानितेजोंशवत्। परमात्मनो भिन्नांशः। परः मत्स्यादिरूपी विष्णुस्तु। नैवं जीववद्भिन्नांशो न। किंतु प्रकाशादिवत् कालाग्न्याद्यबिमानितेजोंशवत्। ईशाभिन्नांश एवेत्यर्थः ॥

एवंचानंशत्वश्रुतेर्मत्स्यादिवत्स्वरूपांशत्वाभावपरत्वात्। अत एव न मत्स्यादिभिः सुखादिसाम्यं। न चांशत्वोक्तिसाम्येन जीवानां भिन्नांशत्वं मत्स्यादीनां स्वरूपांशत्वमिति वैषम्यमित्ययुक्तं स्यात्। कालाग्निखद्योतादेस्तेजोंशत्वोक्तिसाम्येऽपि स्वरूपांशत्वभिन्नांशत्वरूपवैषम्यदर्शनात्। अतो जीवस्येशांशत्वसिद्धेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-3-46>

<2-3-47>
(47) ॥ स्मरंति च ॥ ॥

ननु दृष्टांतमात्रस्यानिर्णायकत्वेन तत्र कालाग्निखद्योतादीनामेकप्रकारांशत्वाभावेऽपि मत्स्यादीनां जीवानां च स्वरूपांशत्वमभेदश्च किं न स्यादित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ स्मरंति चेति ॥ अस्यार्थः ॥ स्मर्तारः जीवेशयोः भिन्नांशत्वेऽभिन्नांशत्वे एते स्वांशकला (भागवते. 1-3-28) इत्यादिस्मृत्या कथयंति चेत्यर्थः ॥

एवंच भागवत एते स्वांशकलाः पुंस इत्यादिना वाराहादीनामभिन्नांशत्वेनोक्तत्वात्। अतः परं यदव्यक्तमिति (भागवते. 1-3-32.) जीवानां भिन्नांशत्वाभिधानाच्च। अपि च स्वांशश्चाथो विभिन्नांश इति वचनेन केवलमसंसारित्वसंसारित्वाभ्यां रक्षत्वारक्षत्वाभ्यां मत्स्यादीनां जीवानां चांशिनोऽभेदभेदावसाभ्यं च किंतु मत्स्यादीनां स्वरूपांशलक्षणयुक्तत्वाज्जीवानां तु भिन्नांशलक्षणयोगित्वादंशिनाभेदाभेदावसाम्यं चेति स्वरूपास्वरूपांशविभागपूर्वकं तयोर्लक्षणस्योक्तत्वात्। अतो जीवस्येंशात्वसिद्धेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-47>

<2-3-48>
(48) ॥ अनुज्ञापरिहारौ देहसंबधाज्ज्योतिरादिवत् ॥ ॥

एवं जीवानां मत्स्यादीनां चांशिना क्रमेण भेदाभेदसद्भावान्नैकविधेत्युक्तं। युक्त्यंतरेण चैकविधतां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ अनुज्ञापरिहारौ देहसंबंधाज्ज्योतिरादिवदिति ॥ अस्यार्थः ॥ यतो ज्योतिरादिवत् चक्षुर्गोलकादिस्थितापभ्रष्टदेवतादेस्तत्तद्देहसंबंधात् सूर्यवरुणाद्यनुज्ञया तत्प्रवृत्त्यादेरिव जीवस्यापि तत्तद्देहसंबंधाद्धेतोः अनुज्ञापरिहारौ परमात्मानुज्ञाधीनप्रवृत्तिबंधपरिहारौ न तथा मत्स्यादेः। किंतु ज्योतिरादिवत् सूर्यप्रभाद्यभिमानिनः यथा तदनधीनप्रवृत्त्यादिमत्त्वं तथेशानधीनप्रवृत्तिरेव। अतोऽपि जीवः परमात्मो भिन्नांशः। मत्स्यादिस्तु अभिन्नांश इति व्यवस्थासिद्धेत्यर्थः ॥

एवंच परमाधीनप्रवृत्तिमोक्षाभ्यां जीवस्य भिन्नांशत्वावगतेः। य आत्मानमंतर इति (माध्यंदिनायन.) श्रुतेः। वासुदेव संकर्षण इति (चतुर्वेदशिखायां.) स्मृतेश्च। मत्स्यादिः स्वांश्यधीन प्रवृत्तिर्न भवति। स्वांशीकर्मानिर्मितदेहसंबंधात्। वियद्‌गतप्रकाशाद्यभिमानिवदिति प्रयोगसंभवात्। जीवानां देहसंबंधान्मत्स्यादिवच्चक्त्यभाव ईश्वरानुग्राह्यत्वं तत एव बंधनिवृत्तिश्च भवेत्। शुक्लं कृष्णमिति (ऐ.आ. 2-1-5.) श्रुतेः। अतः श्रुत्यविरोधेन जीवस्येशांशत्वोपपत्तेर्युक्तो हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-3-48>

<2-3-49>
(49) ॥ असंततेश्चाव्यतिकरः ॥ ॥

युक्त्यंतरेण मत्स्यादीनां जीवानां चैकविध्यं पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ असंततेश्चाव्यतिकर इति ॥ अस्यार्थः ॥ असंततेः जीवस्य सम्यक् शक्त्यभावात् मत्स्यादीनां तु तद्भावात्। अव्यतिकरः जीवेशयोर्भिन्नाभिन्नांशत्वमित्युक्तार्थस्य व्यत्यासाभाव इत्यर्थः।

एवंचांशत्वेन श्रुत्युक्तन्वेऽपि मत्स्यादीनां पूर्णशक्तित्वाज्जीवानां तदभावाच्च नोक्तव्यतिकरः। तस्य ह वा एतस्येति (चतुर्वेदशिखायां.) श्रुतौ परावरभेदेन चेतनानां द्वैविध्यमुक्त्वा तत्र नारायणस्य सकलरूपाणां पूर्णत्वादिगुणानभिधाय तदितरेषां जीवानामपूर्णत्वबद्धत्वानित्यमुक्तत्वादीनामुक्तत्वात्। अतः श्रुत्यविरोधेन जीवस्येश्वरांशत्वोपपत्तेर्युक्तः समन्वय इति सिद्धं ॥
</2-3-49>

<2-3-50>
(50) ॥ आभास एव च ॥ ॥

युक्त्यंतरेणोक्तमर्थं साधयत्सूत्रमुपन्यस्यति ॥

॥ ॥ आभास एव चेति ॥ अस्यार्थः ॥ चः समुच्चये। यतो जीवः परस्य आभास एव प्रतिबिंब एव। मत्स्यादिस्तु न तथा। अतोऽप्युक्तस्य न व्यत्यास इत्यर्थः ॥

एवंच रूपं रूपं प्रतिरूपो बभूवेति (ऋ. 6-47-18.) जीवानां प्रतिबिंबत्वाभिधानात्। मत्स्यादीनां च स्वरूपांशत्वेनोक्तत्वात्। जीवस्य मत्स्यादिवत्स्वरूपांशत्वाभावेनानंशत्वश्रुतेः स्वरूपांशत्वाभावविषयत्वात्। पुरुषस्य देहस्य छायावज्जीवजातस्य परमात्मप्रतिबिंबत्वेन तदधीनवृत्तित्वात्। अतः श्रुत्यविरोधेन युक्तः समन्वय इति सिद्धं ॥
</2-3-50>
॥ इति अंशाधिकरणं ॥

19.अधिकरणं ॥

अत्र जीवस्येश्वरप्रतिबिंबविषयश्रुतिविरोधः परिह्रियते।

19.अधिकरणं ॥

अत्र जीवस्येश्वरप्रतिबिंबविषयश्रुतिविरोधः परिह्रियते।

<2-3-51>
(51) ॥ अदृष्टोऽनियमात् ॥ ॥

ननु न जीवा भगवत्प्रतिबिंबाः। नैवांशो न संबंध इति (भाल्लवेय.) श्रुतेः। न च प्रतिबिंबत्वेऽपि रूपं रूपमिति श्रुतिरस्तीति वाच्यं। न संबंध इति श्रुतेः सयुक्तिकत्वात्। जीवास्तावत्सुरनरतिर्यगादिभेदेन विचित्राः। न च तदेकप्रतिबिंबत्वे संभवतीत्यप्रतिबिंबत्वमेव जीवानां। ततश्च सयुक्तिकप्रतिबिंबत्वश्रुतिविरोधेन प्रतिबिंबत्वश्रुतेरप्रामाण्यमेवेति नोक्तसमन्वयसिद्धिरिति प्राप्ते सूत्रमाह ॥

॥ ॥ अदृष्टोऽनियमादिति ॥ अस्यार्थः ॥ अदृष्टपदोपलक्षिताविद्याकर्मसंस्काराणां अनियमात् नियमो नामैकप्रकारता। अनियमोऽनेकप्रकारता। तथा च वैचित्र्यं वैचित्र्यात्। प्रतिबिंबभूतजीवानामपि देवदानवमानवादिवैचित्र्यं युज्यत इत्यर्थः ॥

एवंचोक्तदोषो भवेद्यदि जीवस्य प्रतिमुखवत्प्रतिबिंबत्वं स्यात्। नचैवं। किं नाम पारिभाषिकं तदधीनत्वे सति तत्सदृशत्वरूपं। न चास्मिन्पक्षे वैचित्र्याभावः। पित्राधीनत्वे सति सदृशानां पुत्राणां मिथो वैचित्र्यदर्शनात्। अस्तु वा प्रतिमुखवदेव प्रतिबिंबत्वं। तथाऽपि न वैचित्र्यानुपपत्तिः। अदृष्टादिवैचित्र्यरूपकारणसद्भावात्। अदृष्टादिवैचित्र्यमेव कथमिति चेत्। तस्यापि पूर्वकर्मवैचित्र्याधीनत्वात्। कर्मभेदपरंपरायाश्चानादित्वात्। अतो नारायणे श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-3-51>

<2-3-52>
(52) ॥ अभिसंध्यादिष्वपि चैवं ॥ ॥

ननु किमदृष्टकल्पनया। रागद्वेषमोहादिदोषवैचित्र्येणैव वैचित्र्यसंभवादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ ॥ अभिसंध्यादिष्वपिचैवमिति ॥ अस्यार्थः ॥ यतोऽभिसंध्यादिषु कामक्रोधादिदोषेष्वपि। एवं अदृष्टादिवैचित्र्यादेव वैचित्र्यं वाच्चं। अतः आवश्यकत्वाददृष्टवैचित्र्यमेव जीववैचित्र्यकारणं। न दोषादिवैचित्र्यमित्यर्थः ॥

एवंच दोषवैचित्र्यार्थमप्यंततोऽदृष्टकल्पनीयत्वाद्दोषवैचित्र्याभावेऽपि प्रतिक्षणवैचित्र्यदर्शनाच्च। न केवलमभिसंधिपदोक्तरागादिषु वैचित्र्यमदृष्टानियमात्किंत्वेकपुन्निष्ठ प्रतिक्षणवैचित्र्यस्यादृष्टनियमादेव संभवेन न कारणांतरादतः श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-3-52>

<2-3-53>
(53) ॥ प्रदेशादिति चेन्नांतर्भावात् ॥ ॥

ननु स्वर्गस्थाः सुरा भूमिस्था नरा इत्यादिरूपेण स्थानवैचित्र्यादेव सुरानरादिवैचित्र्योपपत्तेः किमदृष्टवैचित्र्येणेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ प्रदेशादितिचेन्नांतर्भावादिति ॥ अस्यार्थः ॥ ननु प्रदेशात् स्वर्गभूम्यादिस्थानवैचित्र्यादेव सुरनरादिजनवैचित्र्यमस्तु नादृष्टविचित्रादिति चेन्न। कुतः। अंतर्भावात् स्थानवैचित्र्ये किं कारणमिति कारणान्वेषणे तत्कारणस्यादृष्टवैचित्र्य एवांतर्भावात् तद्रूपत्वात्। अतः अ वश्यकत्वाददृष्टवैचित्र्यमेव सुरनरादिवैचित्र्यनियामकमित्यर्थः ॥

एवंच स्वर्गादिप्राप्तेरप्यदृष्टसाध्यत्वात्। एकप्रदेशस्थितानां वेचित्र्यदर्शनाच्च। तदेव पारिभाषिकप्रतिबिंबत्वस्य युक्तिविरोधप्रसक्त्यभावात्। नैवांशो न संबंध इति (भाल्लवेय.) श्रुतेश्च। प्रतिमुखत्वप्रतिबिंबत्वाभावविषयत्वेन तद्विरोधस्याप्यभावेन रूपं रूपमिति (ऋ. 6-47-18.) श्रुत्या पारिभाषिक प्रतिबिंबत्वसिद्धेर्युक्तो नारायणे श्रुतिसमन्वय इति सिद्धं ॥
</2-3-53>
॥ इति अदृष्टाधिकरणं ॥
॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥