सूत्रार्थरत्नावली/द्वितीयोऽध्यायः/प्रथमः पादः
सूत्रार्थरत्नावली प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
॥ श्रीः ॥
॥ हरिः ॥
॥ अथ द्वितीयाध्यायः ॥
नारायणे निखिलवेदसमन्वयेन गताध्याये निरूपितजगत्कारणत्वरूपार्थेऽविरोधं दर्शयत्यस्मिन्नध्याये ॥
॥ अथ प्रथमः पादः ॥
अस्मिन्पादे युक्त्यविरोधं दर्शयति ॥
1.अधिकरणं ॥
अत्रैकैकविरोधापेक्षया विरोधचतुष्टयात्मकस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीयत्वादिति भावेन स्मृत्यविरोधं निरूप्यते ॥
<2-1-1>
(1) ॥ स्मृत्यनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसंगात् ॥ ॥
ननु न विष्णोर्जगत्कारणत्वं युक्तं। प्रमाणाभावात्। न च यतोवे(तै.उ. 3-1-1.)त्यादिश्रुतिः प्रमाणमिति वाच्यं। अस्याः श्रुतेर्यदि विष्णोः कारणत्वे तात्पर्यं स्यात्तर्हि सर्वज्ञप्रणीतशैवाद्यागमविरोधेनाप्रामाण्यं स्यादिति तर्कविरोधेन विष्णुकारणत्वे तात्पर्यायोगात्। भावविशेषे प्रामाण्यमपि देशकालभेदेनाविरोधोऽपि न स्यात्। विष्णवादीनां रुद्रादिभ्योत्तमत्वस्य तदुक्तसंवाददर्शनात्। ततो विष्णोर्न जिज्ञास्यत्वमिति प्राप्ते सूत्रितं ॥
॥ ॥ स्मृत्यनवकाशदोषप्रसंग इति चेन्नान्यस्मृत्यनवकाशदोषसंगादिति ॥ अस्यार्थः ॥ यतः स्मृत्यनवकाशदोषप्रसंगः। स्मृतीनां पाशुपतादिरूपाणां अनवकाशेन विष्णुजगत्कर्तृत्वादौ निरवकाशत्वेन श्रुतीनां विष्णुकारणतापरत्वे तद्विरोधेन दोषप्रसंगः अप्रामाण्याख्यदोषप्राप्तिरति। अतः। न श्रुतीनां विष्णुकारणतापरत्वं युक्तं। किंतु शिवादिकर्तृतापरत्वमेव युक्तं। इति चेन्न। कुतः। अन्यस्मृत्यनवकाशदोषप्रसंगात्। पाशुपतादिभ्योऽन्यासां श्रुतिसंवादित्वेन रुद्राद्यपेक्षया सर्वज्ञतमविष्ण्वादिप्रणीतत्वेन च इतरस्मृतिभ्यः प्रबलानां पंचरात्र्यादिस्मृतीनां अनवकाशेन रुद्रादिजगत्कर्तृत्वादौ निरवकाशेन तद्विरुद्धशैवादिस्मृतीनां दोषप्रसंगात्। अप्रामाण्याख्यदोषेण प्रकर्षेण संबंधांगीकारेण तद्विरोधस्याकिंचित्करत्वादित्यर्थः ॥
एवंच यतो वेत्यादिश्रुतितिप्रामाण्यसद्भावात्। विष्णौ तात्पर्यमपहाय शिवादितात्पर्यंगीकारेऽपि नितरामाप्तैर्विष्ण्वादिभिः प्रणीतस्मृतिविरोधेन श्रुत्यप्रामाण्यापत्तिसाभ्यात्। न च स्मृतिद्वयाप्रामाण्येनानिर्णयः। श्रुतिविरुद्धायाः पाशुपतादिस्मृतेरप्रामाण्यात्। न चाविस्पष्टवादित्वे श्रुतेर्दौंर्बल्यमिति वाच्यं। वैष्णवस्मृतियुक्तत्वेन प्राबल्योपपत्तेः। तथा च विष्णोः श्रुत्युक्तजगत्कारणत्वस्य न तद्विरोध इति सिद्धं ॥
</2-1-1>
<2-1-2>
(2) ॥ इतरेषां चानुपलब्धे ॥ ॥
ननु यदुक्तं वैष्णवस्मृतीनां परमात्मप्रणीतत्वेन तत्सहाय्युक्तश्रुत्या प्रबलया विष्णोर्जगत्कारणत्वसिद्धिरिति न तद्युक्तं तथासति पाशुपतादिस्मृतीनामप्रामाण्यप्रसंगात्। आप्तोक्तानां तासामप्रामाण्यायोगादिति प्राप्ते सूत्रमाह ॥
॥ ॥ इतरेषां चानुपलब्धेरिति ॥ अस्यार्थः ॥ अनुपलब्धेरित्यावर्तते। च शब्दः किंचित्फलोपलब्ध्यंगीकारसूचकः। तथा चानुपलब्धेः अतींद्रियात् इतरेषां भिन्नानां प्रत्यक्षयोग्यानां पाशुपताद्युक्तफलानां अनिष्टानां च तदुक्तक्रियानुष्ठानपरित्यागयोः कृतयोरप्यनुपलब्धेः प्रत्यक्षतोऽदर्शनात्। तासामप्रामाण्यमेव युक्तमित्यर्थः ॥
एवंच शैवागमोक्तस्योपलब्धियोग्यस्य फलस्य तदुक्तानुष्ठाने कदाचिदुपलंभेऽपि नियमेनानुपलंभेनाप्तत्वानिश्चयात्। तथा च पाशुपतादिस्मृतीनामप्रामाण्यमेवेति सिद्धं ॥
</2-1-2>
<2-1-3>
(3) ॥ एतेन योगः प्रत्युक्तः ॥ ॥
ननु तथाऽपि न सर्वासामवैष्णवस्मृतीनामुक्तनिमित्तादप्रामाण्यं। योगस्मृत्युक्तस्वेदनागात्रभंजनादिफलानां नियमेनोपलंभात्तासामाप्तप्रणीतत्वनिश्चयोपपत्तेरिति प्राप्ते सूत्रं पठति ॥
॥ ॥ एतेन योगः प्रत्युक्त इति ॥ अस्यार्थः ॥ एतेन फलादर्शनलक्षणपूर्वोक्तहेतुनैव। योगः योगशास्त्रं। प्रत्यक्तः निरस्तमित्यर्थः ॥
एवंच प्रथमं स्वेदनं द्वितीयं गात्रभंजनमित्याद्युक्ताभ्यासावस्थोत्कर्षसंपत्तिकाल एव स्वेदनादीनामदृष्टत्वेनाप्तोक्तत्वानिश्चयात्। तथा च नियमेनफललंभहेतोरसिद्ध्याऽऽप्तोक्तत्वनिश्चयासंभवाद्योगस्मृतेरप्रामाण्यमंवेति सर्वासामवैष्णवस्मृतीनां प्रामाण्याभावाद्विष्णोर्जगत्कारणत्वे न तद्विरोध इति सिद्धं ॥
</2-1-3>
॥ इति स्मृत्यधिकरणं ॥
2अधिकरणं ॥
अत्र विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रामाण्ये युक्तिविरोधः परिह्रियते।
<2-1-4>
(4) ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ॥
ननु वेदा वैष्णवस्मृतयश्च न प्रमाणं। तदुक्तनुष्ठानेऽपि फलानुपलंभात्। यदि फलानुपलंभेऽपि प्रामाण्यं तर्हि पाशुपतादिस्मृतीनामपि फलानुपलंसाम्येऽपि वेदादेरेव प्रामाण्यं न पाशुपतादिस्मृतीनामिति विभागहेतोरभावात्। ततश्च फलानुपलंभेन वेदाद्येकदेशस्याप्रामाण्ये तदेकदेशांतरप्रामाण्येऽनाश्वासान्न विष्णोर्जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥
॥ ॥ न विलक्षणत्वादस्य तथात्वंच शब्दादिति ॥ अस्यार्थः ॥ अस्य श्रुति तदनुसारिस्मृत्यादेः। न शैवादिस्मृतिवदप्रामाण्यं। कुतः। विलक्षणत्वात्। स्वतः प्रामाण्याख्येतरवैलक्षण्यात्। किंच श्रेतर्नित्यत्वाख्यवैलक्षण्यवत्त्वात्। स्मृतेः श्रुत्यनुसारित्वाख्यवैलक्षण्यवत्त्वाच्च नाप्रामाण्यं। तथात्वं च उक्तवैलक्षण्यवत्त्वं च शब्दात् वाचा विरूपनित्यये(ऋ. 8-64.6.)त्यागमान्निश्चितमित्यर्थः ॥
एवंच प्रमाणमेव वेदादिकं। अपौरुषेयत्वात्तदनुसारित्वाच्च। न चापौरुषेत्यत्वं कुत इति वाच्यं। अपौरुषेयत्वस्य च प्रागेवोक्तसामान्यसिद्धिपरिशेषाभ्यां वाचा विरूपयेति श्रुत्या च सिद्धत्वात्। तथा च तेषां प्रमाणत्वेन विरोधाभावाद्विष्णोर्जगत्कारणत्वमिति सिद्धं ॥
</2-1-4>
<2-1-5>
(5) ॥ दृश्यते तु ॥ ॥
ननु श्रुत्यादेः स्वतः प्रामाण्यवादिनाऽपि दोषदर्शनेऽप्रामाणस्यावश्यं ग्राह्यत्वात्। वेदेऽपि स्वोक्तफलादर्शनाद्दोषादप्रामाण्यमेव वक्तव्यमिति प्राप्ते सूत्रं पठति ॥
॥ ॥ दृश्यतेत्विति ॥ अस्यार्थः ॥ तु शब्दो विशेषार्थे। यतः तत्फलयोग्याधिकारिविशेषाणां श्रुत्याद्युक्तं फलं दृस्यते उपलभ्यते। अतो नाप्रामाण्यमित्यर्थः ॥
एवंचाधिकारिणां फलोपलंभेन फलानुपलंभस्य कर्तृवैगुणयादिनोपपत्तेः। फलविसंवादस्यान्यथासिद्धत्वात्। अवाष्णवस्मृतीनां पाशुपतादीनामनुपलभ्यमानफलसाधनत्वस्योक्तत्वेन प्रामाण्यभावस्य निश्चितत्वात्। वेदप्रामाण्यस्य युक्तिविरोधाभावेन तेन जगत्कारणत्वं हरेर्युक्तमिति सिद्धं ॥
</2-1-5>
॥ इति न विलक्षणत्वाधिकरणं ॥
3.अधिकरणं ॥
अत्र विष्णोर्जगत्कर्तृत्वप्रतिपादकवेदप्रामाण्यरूपोक्तार्थे दृढयुक्त्यविरोध उच्यते।
<2-1-6>
(6) ॥ अभिमानिव्यपदेशस्तुविशेषानुगतिभ्यां ॥ ॥
ननु न वेदः प्रमाणं। मृदव्रवी (श.व्रा. 6-1-3.)दित्यादिनाऽमिहितमृदादिक्तृत्वादेर्मन्न वदति जडत्वादित्यादियुक्तिविरुद्धत्वात्। वेदैकदेशस्याप्रामाण्ये वेदप्रामाण्यसाधकस्यापौरुषेयत्वस्य तत्रैव व्यभिचारादामासत्वेनासाधकत्वात्। युक्त्यविरोधाय श्रुतेरन्यार्थकल्पनाऽयोगात्। अभिमानिदेवतैकदेशे सति विग्रहवत्त्वे उपलभप्रसंगात्। विग्रहाभावे वचनाद्ययोगात्। देवताऽयोगात्। तद्रहितदेशवद्देशांतरोपपत्तौ तद्वैयर्भ्यप्रसंगात्। देवतासद्भावे प्रमाणाभावात्। श्रुतेरविश्वननीयत्वादिति प्राप्ते सूत्रितं ॥
॥ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति ॥ अस्यार्थः ॥ तु शब्दोऽवधारणे। अभिमानिव्यपदेशः मृदब्रवीदित्यादौ अभिमानिनः चेतनस्यैव व्यपदेशः उक्तिः। न त्वचेतनस्य। कुतः। मृन्न वक्त्री जडत्वादिति युक्तिविरुद्धत्वात्। तथा च न वेदाप्रामाण्यं। नन्वभिमानिनः विदेहत्वायोगेन सदेहत्वे तस्यादर्शनमन्यवस्त्वधिष्ठानेन वक्तृत्वमनेकाभिमन्यमानाधिष्ठातृत्वंचेत्यादिकं विदेहत्वायोगेन सदेहत्वे तस्यादर्शनमन्यवस्यवस्त्वधिष्ठानेन वक्तृत्वमनेकाभिमन्यमानाधिष्ठातृत्वंचेत्यादिकं कथं युज्यत इत्यत उक्तं। विशेषेत्यादि। विशेषः सामर्थ्यं। अनुगतिः सर्वाभिमन्यमानव्याप्तिः। ताभ्यां सर्वं युज्यत इत्यर्थः ॥
एवंच मृदब्रचीदिति वेदस्याभिमानिदेवतापरत्वेन युक्त्यविरोधात्। श्रुतेरन्यार्थकत्पने प्रतीतार्थादपि मुख्यार्थलाभेन सावकाशत्वात्। श्रुतेर्युक्तिबाधाभावात्। अभिमन्यमानव्यापीर्नानां विग्रहवतीनां च देवतानां सद्भावात्। महतामुपलब्धिप्रसंगे इष्टापत्तिः। प्रमाणप्रसिद्धत्वात्। अज्ञानां त्वदृष्टियोग्यत्वात्। देवतासद्भावे महतां प्रत्यक्षस्यैव प्रमाणत्वात्। ततश्च वेदप्रामाण्ये युक्त्यविरोधत्तेन भगवतो जगत्कारणत्वसाधनं युक्तमिति सिद्धं ॥
</2-1-6>
<2-1-7>
(7) ॥ दृश्यते च ॥ ॥
नन्वप्रामाणिकदेवतातत्सामर्थ्यकल्पनापेक्षया वेदाप्रामाण्यकत्पनं वरं। लाघवात्। वस्त्वंतरमधिष्ठाय स्थितानां तासां व वनादीनामयुक्तत्वात्। सामर्थ्यविशेषे प्रमाणाभावात्। वेदप्रामाण्यस्य विप्रतिपन्नत्वादिति प्राप्ते सूत्रमाह ॥
॥ ॥ दृश्यते चेति ॥ अस्यार्थः ॥ अभिमानिदेवतायां सामर्थ्यं योगिभिः उपलभ्यते च अतोऽपि नादर्शनविरोध इत्यर्थः ॥
एवंच सामर्थ्यविशेषसद्भावेन वचनानामुपपत्तेः। विशेषे महद्दर्शनस्य प्रमाणात्वात्। पृथिव्याद्यभिमानिन्य (भवष्यत्पर्वणि) इति स्मृतेः। अतो युक्त्यविरोधाद्वेदेन भगवज्जगत्कर्तृत्वसाधनं युक्तमिति सिद्धं ॥
</2-1-7>
॥ इति अभिमान्यधिकरणं ॥
4.अधिकरणं ॥
अत्र ब्रह्मणो जगत्कर्तृत्वे श्रुत्युपसर्जनप्रागभावकर्तृकत्वसाधकयुक्तिविरोधो निरस्यते।
<2-1-8>
(8) ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ॥
ननु न विष्णोर्जगत्कारणत्वं युक्तं। प्रमाणाभावात्। न च यतो वेत्यादि(तै.उ. 3-1-1.)श्रुतिः प्रमाणमिति वाच्यं। ब्रह्म न जगत्कारणं। तत्पूर्वमसत्त्वात्। यद्ययतः पूर्वं नास्ति न तस्य कारणमिति युक्तिविरुद्धत्वेन श्रुतेः प्रतीतार्थे प्रामाण्यायोगात्। न चासिद्धो हेतुः। असदेवेदमग्र (छां. 6-2-1.) इति श्रुतिसिद्धत्वात्। न च ब्रह्मणोऽकारणत्वे निष्कारणं जगदापद्यत इति वाच्यं। असतः सदजायतेति (ऋ. 10-72.3.) श्रुतिबलेनाभावस्यैव कारणत्वेन ग्राह्यत्वात्। न च ब्रह्मणः कारणत्व इवाभावस्य कारणत्वांगीकारे युक्तिविरोधोऽस्ति। प्रत्युताभ वस्य जगत्कारणत्वे प्रलयकालीनं कारणमसद्भवितुमर्हति वस्तुत्वात्कार्यवदित्यनुमानं चास्ति। अतोऽभावस्यैव जगत्कारणत्वं न ब्रह्मण इत्ययुक्तं लक्षणसूत्रमिति प्राप्ते निराकुर्वत्सूत्रमाह ॥
॥ ॥ असदिति चेन्न प्रतिषेधमात्रत्वादिति ॥ अस्यार्थः ॥ असत् विश्वप्रागभाव एव। जगत्कर्तृ नेश्वर इति चेन्न। कुतः। प्रतिषेधमात्रत्वात् अभावधर्मात्मतामंतरेण स्वरूपत एव निषेधबुद्धिविषयत्वादित्यर्थः ॥
एवंच युक्तमेव विष्णोर्जगत्कारणत्वं न त्वसतः। तस्य कारणं नेति कारणताप्रतिषेधबुद्धिविषयत्वात्। अतो युक्त्वयादेराभासकत्वेनाविरोधकत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-8>
<2-1-9>
(9) ॥ अपीतौ तद्वत्प्रसंगादसमंजसं ॥ ॥
ननु यदुक्तं प्रतिषेधमात्रत्वादिति युक्तिविरधान्नासतः कारणत्वमिति न तद्युक्तं। युक्तिविरुद्धस्यापि श्रुतिबलात्कस्यचिदभावस्य कर्तृत्वाभ्युपगमे बाधकाभावात्। न चैवं घटप्रागभवदीनामपि कर्तृत्वप्रसंग इति वाच्यं। भावेषु कस्यचित्कर्तृत्वं कस्यचिदकर्तृत्वमिति वैलक्षण्यवदभावेष्वपि घटप्रागभावदेरकर्तृत्वं विश्वप्रागभावत्स्य चासदेवेत्यादि (छां. 6-2-1.) श्रुतिबलाकर्तृत्वमिति वैलक्षण्योपपत्तेरिति प्राप्ते समादधत्सूत्रमाह ॥
॥ ॥ अपीतौ तद्वत्प्रसंगादसमंजसमिति ॥ अस्यार्थः ॥ अपीतौ प्रलये। तद्वत्प्रसंगात् आसन्मात्रत्वप्रसंगात्। असत्कर्तृत्वं। असमंजसं अयुक्तमित्यर्थः ॥
एवंच प्रलये सर्वस्य भावमात्रस्यासत्वेऽसन्मात्रावशेषः स्यात्। कार्यनाशे कारणमात्रावसेषनियमात्। तथा च कालोऽपि न स्यादित्यतिप्रसंगस्य वक्तुं शक्यत्वात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-9>
<2-1-10>
(10) ॥ न तु दृष्टांतभावात् ॥ ॥
नन्वस्माभिरपि प्रलयेऽसन्मात्रावशेषस्याभिलषितत्वान्नानिष्टापादनमेतदित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ ॥ न तु दृष्टांतभावादिति ॥ अस्यार्थः ॥ तुशब्दोऽवधारणे। प्रलये सर्वासत्वं न युज्यते। कुतः। तदा सर्वपदार्थसत्त्व एव दृष्टांतस्य भावात्। सद्भावादित्यर्थः ॥
एवंच विप्रतिपन्नोत्पत्तिः सतो भवितुमर्हति उत्पत्तिमत्त्वात्। घटोत्पत्तिवत् विमतो विनाशः सशेषः। विनाशत्वात् घटनाशवत्। इत्यनुमानाभ्यां प्रलयकालगतस्य सत्त्वसिध्या तदनंगीकारस्य प्रामाणिकहानरूपत्वेनानिष्टापादनरूपत्वात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-10>
<2-1-11>
(11) ॥ स्वपक्षदोषाच्च ॥ ॥
न केवलं प्रामाणिकपरित्यागप्राप्त्या प्रलये सर्वासत्वमनिष्टमपि त्वप्रामाणिकत्वाच्चेत्यर्थप्रतिपादक सूत्रमुपन्यस्यति ॥
॥ ॥ स्वपक्षदोषाच्चेति ॥ अस्यार्थः ॥ स्वपक्षे प्रलये सर्वासत्त्वपक्षे। दोषात् दृष्टांताभावाख्यदोषाच्च न तत्पक्षो युक्त इत्यर्थः ॥
एवंच प्रलये सर्वासत्त्वमप्रामाणिकं। तथाहि। प्रलये स्थितानां कालादिनामसत्त्वं किं प्रत्यक्षवेद्यं। उतागमवेद्यं। आहोस्विदनुमानवेद्यं। नाद्यः। असन्निकृष्टत्वात्। न द्वितीयः। तदभावात्। नापि तृतीयः। दृष्टांताद्यभावात्। तथा च प्रलये सर्वासत्त्वपक्षस्याप्रामाणिकत्वेन तदभ्युपगमस्यानिष्टत्वाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-11>
<2-1-12>
(12) ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंगः ॥ ॥
नन्वयं पूर्वपक्षः सिद्धांतश्चानुपपन्नः। एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावेनोक्तादन्यथाऽप्यनुमातुं शक्यत्वादिति सदसतोः कारणत्वसाधनबाधनेत्याक्षिप्य समादधत्सूत्रमाह ॥
॥ ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंग इति ॥ अस्यार्थः तर्काप्रतिष्ठानात्। दृष्टांताभावादिरूपतर्कस्य अप्रतिष्ठानात् अव्यवस्थितत्वात्। अन्यथाऽपि सिद्धांत्युक्तिप्रकारदन्यरूपेणापि। प्रतितर्केणानुमेयं साधनीयं इति चेत्। नेति शेषः। कुतः। एवमपि एवं सति तर्कमात्रस्याप्रामाण्ये सति। अनिर्मोक्षप्रसंगः सर्वसिद्धातिभिः स्वस्वशास्त्रप्रयोजनत्वेनांगीकृतस्यापि मोक्षस्यापि लोपप्रसंगः। कुतः। तस्य विप्रतिपन्नं प्रति अनुमानेनैव साधनीयतया तस्याप्येवमप्रामाण्योक्तिसंभवादित्यर्थः ॥
एवंचात्र वक्तव्यं। किं प्रामाणिकं तर्कसिद्धं प्रतितर्केण दूषयितुं शक्यं। उताप्रामाणिकं। द्वितीयस्त्वभिमतः। आद्योऽपि किमेवं वादिनो मते मोक्षोऽस्ति न वेति। नेति पक्षेऽवादित्वेनोपेक्षणीयत्वात्। सिद्धांत्यभिमतप्रमेयाविघातक इति सत्कारणत्वादिकं यथास्थितमेव। आद्ये यदि तर्कोऽप्रामाणं स्यात्तर्हि मोक्ष एव न सिध्येत्। तत्साधनोपायाभावात्। न चागमेन तत्सिद्धिः। मोक्षमनभ्युपगच्छता तत्प्रामाण्यानंगीकारात्। सदकारणत्वासत्कारणत्वसाधकतर्कयोरप्रामाणिकत्वात्ताभ्यां निषेधायोगात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-12>
<2-1-13>
(13) ॥ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॥ ॥
ननु मास्त्वसच्छब्दिताभावतत्त्वं जगतः कारणं। तथाऽपि न विष्णोर्जगत्कारणत्वसंभवः। विप्रतिपन्नं जगन्निष्कारणकं, अचेतनकारणकं, जीवकारणकं, वा कार्यत्वात् कूलपतनदध्यादिवदिति निष्कारणत्वादिसाधकयुक्तिविरोधात्। न च निर्मूलयुक्तेरसाधकत्वमिति वाच्यं। अकस्मादिति श्रुतिमूलत्वादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ ॥ एतन शिष्टा अपरिग्रहा अपि व्याख्याता इति ॥ अस्यार्थः ॥ एतेन स्वपरपक्षयोः दृष्टांतभावाभावाख्यहेतुना। अपरिग्रहाः वेदपरिग्रहशून्याः तद्विरुद्धाश्च। शिष्टाः अवशिष्टाः जीवकालस्वभावकर्तृत्वपक्षा अपि। व्याख्याताः प्रत्याख्याता दूषितां इत्यर्थः ॥
एवंच दृष्टांतभावेनाभावेन च वेदविरुद्धानामकारणत्वाचेतनकर्तृकत्वमायिब्रह्मकर्तृकत्वकालस्वभावकारणत्व सिद्धांतानां निरस्तत्वात्। अकस्माद्धीदं, प्रधानादिदमुत्पन्नं, जीवाद्भवंति भूतानि, इत्यादिश्रुतीनां विष्णुपरत्वात्। अतो युक्त्यादेराभासत्वेनाविरोधाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-13>
॥ इति असदधिकरणं ॥
5.अधिकरणं ॥
अत्र बहुश्रुतिसिद्धत्वेन प्रबलया दृढयुक्त्या विरोधः परिह्रियते ॥
<2-1-14>
(14) ॥ भोत्क्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ ॥
ननु न विष्णोर्जगत्कारणत्वादि युक्तं। तस्य जीवाभिन्नत्वात्। न हि जीवाभिन्नस्य कर्तृत्वाद्युपपद्यते। तस्य जीवाभेदः कुत इति चेत्। परेऽव्यये सर्व एकीभवंतीति (मुं. 3-2-7.) श्रुतेः। अतो जीवाभिन्नत्वादीश्वरस्य जगत्कारणत्वाद्यनुपपन्नमिति न लक्षणसूत्रं युक्तमिति प्राप्ते सूत्रमुपन्यस्यति ॥
॥ ॥ भोक्त्रापत्तेरविभागश्चेत्याल्लोकवदिति ॥ अस्यार्थः ॥ भोक्त्रापत्तेः यस्माद्भोक्तुः जीवस्य परेऽव्यये एकीभवंतीति वाक्ये ब्रह्मभावापत्तेः श्रवणात्। तयोरविभागः भेदाभावः। तस्मादल्पजीवाभिन्नब्रह्णः जगत्कारणत्वं न युक्तमिति चेत्। नेतिशेषः। कुतः। यतः लोकवत् यथा लोके जले जलांतरस्यैकीभावोक्तिस्तथाऽत्रापि स्थानैक्याद्यालंबनेन जीवेशयोः एकीभवंतीत्यैक्योक्तिः स्यात् उपचरिता भवेत्। अतो नोक्त दोष इत्यर्थः ॥
एवंच जीवेश्वरयोरभेदाभावान्नेश्वरस्य विरुद्धं जगत्कारणत्वादिकं। न च परेऽव्यये सर्व इति श्रुतेः कथमैक्याभाव इति। निरंजनः परमं साम्यमुपैतीति (मुं. 3-1-3.) संनहितवाक्यविरोधेन श्रुतेस्तत्र तात्पर्याभावात्। का गतिस्तर्ह्यभेदश्रुतेरिति चेत्। स्थानैक्याद्यालंबनत्वेन जलैकीभावांक्तिवदुपचरितत्वोपपत्तेः। न च मुक्तेश्वरयोर्भेदसमर्थनस्य फलाध्यायसंगतत्वेन नैतत्सूत्रार्थ इति। अस्याधिकरणस्य फलाध्यायसंगतत्वेऽपि न ह्यन्यस्येत्युक्तविरोधपरिहारात्मके पादेंऽतर्भूतत्वेनात्रास्याधिकरणस्य विशेषितत्वात्। अतो विष्णोर्जगत्कारणत्वे युक्तिविरोधाभावेनोपपन्नं लक्षणसूत्रमिति सिद्धं ॥
</2-1-14>
॥ इति भोत्क्रधिकरणं ॥
6.अधिकरणं ॥
अत्र विष्णोर्जगत्कर्तृत्वे बहुयुक्तिविरोधः परिह्रियते।
<2-1-15>
(15) ॥ तदनन्यत्वमारंभणशब्दादिभ्यः ॥ ॥
ननु विप्रतिपन्नासृष्टिः स्वतंत्रबहुसाधनसापेक्षा। सृष्टित्वात्। घटादिसृष्टिवत्। तथा चेश्वरः स्वतंत्रसाधनसापेक्ष्यैव सृष्ट्यादिकर्तेति न तस्य जगज्जन्मादिकारणत्वेन सर्वगुणपूर्णत्वसिद्धिरिति प्राप्ते सूत्रमाह ॥
॥ ॥ तदनन्यत्वमारंभणशब्दादिभ्य इति ॥ अस्यार्थः ॥ तदनन्यत्वं तस्य स्वतंत्रकारणस्य ब्रह्माभिन्नत्वं वाच्यं। कुतः। आरंभणशब्दादिभ्यः। आरंभणे फलोपलक्षितकिंस्विदार्सादि(ऋ. 10-81.2.)त्यधिष्ठानाद्याक्षेपवाक्यात् स्वातंत्र्यादियुक्तिभिश्चेत्यर्थः ॥
एवंच नानुमानबलेनेश्वरसृष्टेः स्वतंत्रबहुसाधनसाध्यत्वं वक्तुं शक्यं। किं स्विदसीदिति श्रुत्येश्वरः स्वतंत्रसाधनविधुरः साधनांतरमपहाय स्रष्टुं शक्तत्वात्। व्यतिरेकेण कुलालवत्। तथेश्वरः स्वतंत्रसाधनशून्यः। स्वेच्छयोपात्तसाधनत्वात्। यः स्वतंत्रसाधनशून्यो नासौ स्वेच्छयोपात्तसाधनः। किंतु विपक्षे कार्यानुत्पत्तिभयोपात्तसाधनः। यथा कुलालस्ततेश्वरः स्वतंत्रसाधनरहितः साधनसत्ताप्रदत्वात्। व्यतिरेकेण कुलालवदित्यादियुक्तिमिश्च विरुद्धत्वात्। अतो भगवतः स्वातंत्र्येण सर्वकर्तृत्वे विरोधगंधाभावाद्युक्तं तस्य सर्वगुणपूर्णत्वमिति सिद्धं ॥
</2-1-15>
<2-1-16>
(16) ॥ भावे चोपलब्धेः ॥ ॥
युक्त्यंतरेण स्वतंत्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्यति ॥
॥ ॥ भावे चोपलब्धेरिति ॥ अस्यार्थः ॥ यतः ईश्वरान्यस्वतंत्रसाधनस्य। भावे सत्त्वे। उपलब्धेः दर्शनस्य। प्रसंग इति शेषः। अतोऽपि नास्त्यनयत्स्वतंत्रसाधनमित्यर्थः ॥
एवंच यदीश्वरातिरिक्तं स्वतंत्रसाधनं स्यात्तर्हि वेदादिप्रमाणैरुपलभ्येत। न चोपलभ्यते। तस्मान्नास्तीति बाधकतर्कसद्भावात्। ननु प्रमाणानुपलब्धमपि वस्तु किं न स्यादिति चेत्। पंचभिर्वेदैरनुक्तमपि वस्तु नास्ति। कुतः। प्रमाणमात्रासिद्धमस्तीत्यनुक्तं पंचभिरिति (स्कांदे.) वचनात्। अतो विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-16>
<2-1-17>
(17) ॥ सत्त्वाच्चावरस्य ॥ ॥
नन्वद्भ्यः संभूत (महाना. 1-11.) इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजामि युगे युग इति (भ.गी. 4-6.) स्मृतौ च भगवदितरप्रकृत्यबादिस्वतंत्रसाधनसत्त्वप्रतीतेस्तदनुपलब्धेरिष्टापादनमिति प्राप्ते सूत्रमवतारयति ॥
॥ ॥ सत्त्वाच्चावरस्येति ॥ अस्यार्थः ॥ चोऽवधारणे। अवरस्य अस्वतंत्रसाघनस्य। सत्त्वादेव अदूभ्यः संभूत इति वाक्यं तत्परं भवतीति न तद्विरोध इत्यर्थः ॥
एवंचावरस्यैव साधनस्य सत्त्वादेव श्रुतेस्तद्विषयत्वात्। ततश्च यस्योपलब्धिरापाद्यते न तस्योपलब्धिः। यच्चोपलभ्यते न तत्स्वतंत्रसाधनमितीष्टापादनाभावात्। न चास्यां श्रुतौ साधनामात्रं प्रतीयते न तु तस्य भगवदधीनत्वं तच्च लोकानुसारात्स्वतंत्रमेव किं न स्यादिति वाच्यं। काल आसीदिति (काषायण.) श्रुतेः। प्रागभावेनोत्पत्तौ सिद्धायां सत्यां तदुत्पादकस्यान्यस्याभावाद्धरेरेव जगत्कर्तृत्वस्य सिद्धेः। तस्माद्युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-1-17>
<2-1-18>
(18) ॥ असद्व्यपदेशान्नेति चेन्न धर्मांतरेण वाक्यशेषात् ॥ ॥
ननु नासदासीदिति (ऋ. 10-129-1.) श्रुत्या सर्वस्यासत्त्वाभिधानात्साधनांतरमंगीकृत्य तस्येश्वराधीनत्ववर्णनमयुक्तमित्याक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥
॥ ॥ असद्व्यपदेशान्नेति चेन्न धर्मांतरेण वाक्यशेषादिति ॥ अस्यार्थः ॥ असद्व्यपदेशात् नासदासीदित्यन्यस्यासत्त्ववचनात्। अन्यसत्त्वं न युक्तमिति चेन्न। कुतः। यतः तन्निषेधः धर्मांतरेण अस्वातंत्र्यादिधर्मविशेषेण युज्यते। कुत एतत्। वाक्यशेषात् तम आसीदितन्निषेधः धर्मांतरेण अस्वातंत्र्यादिधर्मविशेषेण युज्यते। कुत एतत्। वाक्यशेषात् तम आसीदि(ऋ. 10-129-3.)त्यवशिष्टवाक्यशेषादित्यर्थः ॥
एवंच नासदासीदिति श्रुतावव्यक्तत्वपरतंत्रत्वाधमत्वविकृतरूपविनाशादिधर्मापेक्षयाऽसत्त्वमुच्यते। अव्यक्तादौ तद्व्यपदेशस्य लोके दृष्टत्वान्न तु सर्वथाऽसत्त्वाभिप्रायेण। कुतः। तम आसीदिति वाक्यशेषे साधनांतरस्य सत्त्वाभिधानात्। चेतनाचेतनप्रपंचस्य ब्रह्मानन्यत्त्वे प्रमाणाभावात्। एतेन वाचारंभणमिति (छां. 6-1-4.) श्रुत्या तस्य ब्रह्मानन्यत्वमिति परेषां व्याकृतिर्निरस्ता। अजो ह्येक इति (महाना. 10-5.)श्रुतेः विश्वमिथ्यात्वमतस्यासुरत्वात्। असत्यमप्रतिष्ठमिति (गीता. 16-8.) स्मृते। न च न जीवो ब्रह्मणो भिद्यते चेतनत्वाद्ब्रह्मवत्। प्रपंचो वा बाध्यो दृश्यत्वाच्छुक्तिरजतवदित्यादियुक्तिसद्भावात्कथमन्यत्र प्रमाणाभाव इति वाच्यं। श्रुतिस्मृत्यनुकूलहीनायाः केवलाया युक्तेरप्यप्रामाण्यात्। ततश्च विरोधाभावेन युक्तं जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-1-18>
<2-1-19>
(19) ॥ युक्तेः शब्दांतराच्च ॥ ॥
ननु साधनांतरभभ्युपगम्य तस्येश्वराधीनत्वकथनाद्वरं साधनाभावकथनमेव। साधनशून्यस्य सृष्ट्यादिकर्तृत्वाभ्युपगमे महिमाधिक्यलाभादित्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥
॥ ॥ युक्तेः शब्दांतराच्चेति ॥ अस्यार्थः ॥ प्रलये युक्तेः लीलया दंडमवष्टभ्य गंतुः पंगुत्वाभाववत् भगवतोऽपि लीलया स्वाधीनसाधनावलंबनस्य युक्तत्वात्। शब्दांतरात् तस्माच्छक्तोऽपीत्यागमविशेषाच्च उक्तं युक्तमित्यर्थः ॥
एवंच स्वाधीनसाधनांतरेण प्रवृत्तेरपि परमैश्वर्यज्ञापकत्वस्य साधनानामिति स्मृतिसिद्धत्वेनाविरोधकत्वात्। अद्भयः संभूतो हिरण्यगर्भ इत्यष्टाविति (महाना। 1-11.) श्रुतौ साधनांतराभिधानाच्च। विष्णोर्महिमाधिक्यलाभाय प्रलयेऽवरसाधनसत्त्वस्यैवाभ्युपेयत्वात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-19>
<2-1-20>
(20) ॥ पटवच्च ॥ ॥
न केवलं श्रुतिसिद्धत्वात्किंतु साधनसत्त्वस्य युक्तिसिद्धत्वाच्च तत्राग्रह इत्याह सूत्रकृत् ॥
॥ ॥ पटवच्चेति ॥ अस्यार्थः ॥ पटसृष्टिवच्च विश्वसृष्टिरपि कर्तृभिन्नसाधनांतरसाध्येत्यर्थः ॥
एवंच न केवलं श्रुतेः किंतु विप्रतिपन्नासृष्टिः कर्तृव्यतिरिक्तसाधनसापेक्षासृष्टित्वाद्वटसृष्टिवदित्यादियुक्तिसिद्धत्वात्च्। अतो विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-20>
<2-1-21>
(21) ॥ यथा प्राणादिः ॥ ॥
नन्वेवं सति विप्रतिपन्ना सृष्टिः कर्तृव्यतिरिक्तस्वतंत्रसाधनसापेक्षा सृष्टित्वाद्वटसृष्टिवदित्यादिना साधनानां स्वातंत्र्यमपि स्यादित्याशंकां परिहरत्सूत्रं पठति ॥
॥ ॥ यथा प्राणादिति ॥ अस्यार्थः ॥ यथा प्राणदेहेंद्रियादिकं न स्वतंत्रं एवं प्रकृत्यादिसाधनांतरमपीत्यर्थः ॥
एवंच देहेंद्रियादाविव प्रकृत्यादावपि परमात्मप्रवेशस्य प्रकृतिं पुरुषं चेत्यागमसिद्धत्वात्। अनुप्रवेशस्य प्रेरणार्थत्वेन साधनानामस्वातंत्र्येण बाधितविषयत्वात्। विप्रतिपन्ने साधनजातं न स्वतंत्रं प्रेरणार्थमीश्वरेणानुप्रविष्टत्वात् यथा शरीरेंद्रियप्राणादिरित्येतत्प्रबलानुमानेन पूर्ववाद्युक्तानुमानस्य प्रतिपक्षितत्वात्। अतो भगवतः स्वातंत्र्येण सर्वकर्तृत्वे विरोगंधाभावाद्युक्तं तस्य सर्वगुणपूर्णत्वमिति सिद्धं ॥
</2-1-21>
॥ इति आरंभणाधिकरणं ॥
December_04 continuation
7.अधिकरणं ॥
अत्र श्रुतिप्राप्तजीवकर्तृत्वपक्षो विस्तरान्निराक्रियते।
<2-1-22>
(22) ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ ॥
ननु स्वतंत्र एव जीवो घटादिकार्याणां कर्ता। जीवो हि यत्कार्यं करोमीति सामग्रीं मेलयति तत्वरोतीत्यनुभवात्। कुलालो घटादिकर्ता तद्विषयकृतिमत्त्वात् यथाऽहमित्युनुमानाच्च। न चानुभवबलेन जीवस्य कर्तृत्वेऽपि तदंतर्याम्यधीनं किं न स्यादिति वाच्यं। जीवशरीरे जीवनियामकेशस्याभावात्। भावे चोपलभ्येत। न हि जीवशरीरे ईश्वरोऽस्ति जीवश्च तन्नियम्यस्तथाऽपि नासौ तं पश्यतीति शक्यते वक्तुं। नियम्यानां नियामकद्रशनावश्यंभावात्। एवमपीश्वरकल्पने कल्पनागौरवं। अप्रामाणिकस्य जीवशरीरस्थत्वस्य तन्नियामकत्वस्य च कल्पनात्। एवंच परिदृश्यमानानां घटादीनां जीवकर्तृत्वे सिद्धे महदादिकार्याणामप्यनीश्वर ब्रह्मकर्तृत्वं सिध्द्यति। न कुलालादयो ब्रह्मवशाः। ब्रह्मसर्वनियामकमित्यस्य तु व्याहतत्वात्। जीवाद्भवंति भूतानीति श्रुतेः। जीवसावारण्येनास्याः श्रुतेर्ब्रह्मपरत्वे न नो हानिः। सर्वजीवानां संभूय सर्वजगत्कारणत्वं वदद्भिरस्माभिरपि सा घटादीनां कुलालजन्यत्वमिव महदादीनां जीवतुल्य ब्रह्मजन्यत्वं वदतीत्यंगीकारात्। परमैश्वर्यादिकविशिष्टब्रह्मपरत्वे च तस्यैवाभावात्। अतः श्रुत्यादिबलाज्जीवस्यैव स्वतः कर्तृत्वादसंभवि लक्षणसूत्रमिति प्राप्ते सूत्रितं ॥
॥ ॥ इतरव्यपदेशाद्धिताकरणादिदोष प्रसक्तिरिति ॥ अस्यार्थः ॥ इति यदि तर्हिति च शेषः। इतरव्यपदेशात् जीवाद्भवंतीति श्रुतावुक्तत्वात्। स एव कर्ता नेश्वर इति। यदि तर्हि हिताकरणादिदोषप्रसक्तिः। जीवनिष्ठयोः हितानाचरणाहिताचरणयोर्दोषत्वप्रसंगः। जीवस्य स्वतंत्रत्वात्ते न स्यातामिति भावः। विद्येते च ते जीवे। तस्मान्न जीवः स्वतंत्र कर्तेत्यर्थः ॥
एवंच न जीवः स्वातंत्रयेण कर्ताऽपि तु परमेश्वरः। तर्कविरुद्धत्वात्। यदि स्वातंत्र्येण कर्तास्यात्तर्हि हिताकरणमहितकरणं च न स्यात्। विद्येते च ते। अतो नासौ स्वतंत्रकर्तेति हिताकरणादिदोषाणां जीवे प्रसक्तत्वेन स्वतंत्रकर्तरि परमश्वरेऽयोगात्। तथा च जीवस्य स्वतंत्रकर्तृत्वानुपपत्तेर्युक्तं हरेर्जगत्कारणत्वलक्षणमिति सिद्धं ॥
</2-1-22>
<2-1-23>
(23) ॥ अधिकं तु भेदनिर्देशात् ॥ ॥
ननु यदि किंचिद्दोषमात्रेण जीवकर्तृता निराक्रिंयते तर्हि ब्रह्मणोऽपि न कर्तृत्वं प्राप्नोति। तस्यापि श्रमादिदोषनियमात्। एवंच पक्षयोः साम्येऽनुभवादिसिद्धं जीवकर्तृत्वमेवाश्रयणीयमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥
॥ ॥ अधिकं तु भेदनिर्देशादिति ॥ अस्यार्थः ॥ तु शब्दः जीवसाम्यव्यावर्तकः। ब्रह्म तु जीवापेक्षया अधिकं। कुतः। श्रोता मंतेत्यादौ (ऐ. आ. 3-2-4.) श्रोतृत्वादिरूपविशेषस्योक्तत्वादित्यर्थः ॥
एवंचेश्वरे श्रमाद्यभावस्य प्रमाणसिद्धत्वेन तदभावापादनस्येष्टापादनत्वात्। जीवे च हिताकरणादीनां प्रामाणिकत्वेन तदभावापादनस्याप्यनिष्टत्वेन वैषभ्यात्। ईश्वरस्याधिकशक्तित्वाच्छ्रमचिंतादिदोषाप्राप्तेः। श्रोतामंतेति श्रुतेः। योऽशनायापिपासेति (बृ. 5-5-1.) श्रतेश्च। अतो युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-23>
<2-1-24>
(24) ॥ अश्मादिवच्च तदनुपपत्तिः ॥ ॥
नन्वथाऽपि जीवोऽन्यनिरपेक्षकर्ता चेतनत्वादीश्वरवदित्यनुमानाजीवोऽप्यन्यनिरपेक्ष एक कर्ता भवेदिति प्राप्ते निराकुर्वत्सूत्रं पठति ॥
॥ ॥ अश्मादिवच्च तदनुपपत्तिरिति ॥ अस्यार्थः ॥ च शब्देऽपि शब्दार्थः। अश्मादिवत् पाषाणादेरिव। अपि जीवस्य चेतनत्वेऽपि। तदनुपपत्तिः अस्वातंत्र्यात् स्वतंत्रकर्तृत्वानुपपत्तेरित्यर्थः ॥
एवंच स्वातंत्र्येण हेतुनाऽन्यनिरपेक्षत्वाभावस्यापि साधयितुं शक्यत्वात्। चेतनत्वहेतोरप्रयोजकत्वाच्च। तथा च जीवे चेतनत्वास्वातंत्र्ययोरुभयोः सत्त्वेऽपि पाषाणस्तंभादिवच्चेतनत्वेन जीवस्य स्वतः कर्तृतासाधनं नोपपद्यते। चेतनत्वहेतोरप्रयोजनकत्वादस्वातंत्र्येण प्रतिपक्षितत्वाच्च। यथा दास्मयीमिति (भारत.) वचनसद्भावात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-24>
<2-1-25>
(25) ॥ उपसंहारादिदर्शनान्नोति चेत्क्षीरवद्धि ॥ ॥
ननु न जीवस्य स्वतंत्रकर्तृत्वाभावो युक्तः। स हि यत्कार्यमारभते तत्समापयतीत्युपसंहारदर्शनादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ ॥ उपसंहारदर्शनान्नेति चेत्क्षिरवद्धीति ॥ अस्यार्थः ॥ उपसंहारदर्शनात् जीवेनारब्धकार्यस्य समापनदर्शनात्। स एव कर्तेति उक्तं ब्रह्मवर्तृत्वं नेति चेन्न। कुतः। हि यस्मात्। क्षीरवत् गोषु दृश्यमानक्षीरस्य यथा मुख्य प्राणकृतत्वं तथा जीवकृतोपसंहारोऽपि परमात्मकृत एकेत्यर्थः। हि शब्देनात्रार्थे अन्नमिति प्रमाणप्रसिद्धिश्च सूचिता ॥
एवंच गोषु क्षीरदर्शनेऽपि प्रामाणिकत्वेन मुख्यप्राणाधीनत्ववदेतस्यापि परमात्माधीनत्वोपपत्तेः। अन्नं रसादिरूपेणेति वचनात्स्वेनानुभूयमानोऽन्यैर्दृश्यमानश्च कार्योपसंहारो जीवकर्तृत्वे न मानं। तत्स्वातंत्र्याभावेन परमेश्वरस्यैव तन्निमित्तत्वात्। तथा च युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-25>
<2-1-26>
(26) ॥ देवादिवदपि लोके ॥ ॥
ननु न जीवस्येशाधीनकर्तृत्वं वाच्यं। ईश्वरस्य जीवनियामकत्वेन जीवशरीरेऽनुपलब्धेः। न च स हि सर्वस्येत्यादिश्रुत्येश्वरसिद्धिः। तस्या अनुपलब्धिलिंगबाधितत्वात्। अथाऽपि तत्कल्पने गौरवात्। न हि जीवस्तन्नियम्यं सत्तदाज्ञया प्रवर्तते। तं च न जानातीति संभवति। अतो जीवनियामकत्वेन नास्त्येव जीवशरीरउदरस्थ ईश्वर इति प्राप्ते सूत्रमाह ॥
॥ ॥ देवादिवदपि लोक इति ॥ अस्यार्थः ॥ एवं भूतेश्वरस्यापि देवादिवत् अदर्शनं युज्यते। कथमेतदित्यत उक्तं। लोक इति। लोके जगति पिशाचादीनामपि अदृश्यत्वादिशक्तिर्दृष्टा सर्वेश्वरस्य तु किं वाच्यमित्यर्थः ॥
एवंच देवादिवदंतर्धानशक्त्या प्रत्यक्षेणानुपलभ्यमानत्वेप्यागमेनोपलभ्यमानत्वात्। न चेश्वरस्य देवादिवदंतर्धानशक्तिमत्त्वं युक्तं। तस्या उपासनासाध्यत्वेनेश्वरे तदभावादिति चेत्। तर्हि पिशाचादीनामपि तन्नस्यात्। उपासनाभावात्। अथ प्रमाणसिद्धांऽतर्धानशक्तिः पिशाचादीनां हातुमशक्यत्वेन कारणांतरं कल्प्यते स्यात्। उपासनाभावात्। अथ प्रमाणसिद्धांऽतर्धानशक्तिः पिशाचादीनां हातुमशक्यत्वेन कारणांरतं कल्प्यते तर्हि यत्तदद्रेश्यमिति (मुं 1-1-6.) प्रमाणसिद्धा सा न हातुं शक्येति नित्या सा कल्प्यतां। न युक्तियोगादिति (बृहत्संहिता.) वचनेन श्रुतिस्मृतिरूपवाक्यानां युक्तिलक्षणोपायात्क्वचिदपि विषयेऽप्रमाणत्वेनासाधकत्वेन वा निराकरणायोगात्। तेषां विरोधे तासां युक्तीनामेकवाक्यानुसारिणीनामेवार्थसाधकत्वं नतु शुष्कयुक्तीनां। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-26>
<2-1-27>
(27) ॥ कृत्स्न प्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ ॥
युक्त्यंतरेण जीवस्य स्वतः कर्तृत्वं निराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेति ॥ अस्यार्थः ॥ वा शब्दः पक्षभेदेन दोषापादनसूचकः। जीवस्य स्वतः कर्तृत्वे सर्वकार्त्स्न्येन प्रवर्तने चांगीकृते कृत्स्नप्रसक्तिः तृणादानादि सर्वकार्येष्वपि सर्वसामर्थ्यप्रसक्तिः प्रसंगः। तत्परिहाराय एकदेशेन प्रवृत्यभ्युपगमे च निरवयवत्वशब्दकोपः नित्यो निरवयव इति (भाल्लवेय.) श्रुतिविरोधः स्यादित्यर्थः ॥
एवंच जीवस्य स्वतंत्रकर्तृत्वे स समास्त्येन सर्वस्वकार्यकर्तेति क्वचिदंशेन। आद्ये यदि जीवः सामस्त्येन सर्वस्वकार्यकर्ता स्यात्सामस्त्येन तृणादानादावपि कर्ता स्यादिति तर्कविरोधः। द्वितीये यदि जीर्वोऽशेन स्वकार्यकर्ता स्यात्तर्हि निरवयवप्रतिपादकश्रुत्यप्रामाण्यं स्यादिति तर्कविरोधः। तथा च कर्तत्वं सामस्त्येनांशेन प्रवृत्तिर्व्याप्यमिति जीवस्य स्वातंत्र्यांगीकारे व्यापकीभूतप्रवृत्ययोगात्कर्तृत्वमेव न स्यादितिस्वातंत्र्यं त्याज्यं। ननु नजीवस्य स्वतः कर्तृत्वेऽपि दोषावकाशः। तस्योपाधिकृतांशवत्त्वेन कृत्स्नप्रसक्त्ययोगात्। स्वाभाविकांशाभावेन श्रुतिविरोधाभावादिति चेत्। किं जीवः सर्वोप्युपहितस्तदंशो वेति प्रष्टव्यं ॥ नाद्यः। सर्वजीवस्योपहितत्वे सर्वस्य ग्रस्तत्वेनांशस्योपाधिकत्वायोगात्। द्वितीये नोपाधिकत्वं। उपाधिसंबंधात्प्रागप्यंशस्य वक्तव्यत्वात्। तस्याप्युपाध्यंतरकृतत्वेऽनवस्थानात्। ननु जीवस्य कर्तृत्वं युक्तिविरुद्धत्वादविचाररमणीयाऽविद्यानिमित्तमस्त्विति चेन्न। अविद्यानिमित्तत्वस्याप्रामाणिकत्वात्। यद्धि युक्त्या विरुद्धतेति प्रमाणिविरुद्धत्वाच्च। तस्माज्जीवस्य स्वंतत्रकर्तृत्वानुपपत्तेर्युक्तं हरेर्जगत्कारणत्वलक्षणमिति सिद्धं ॥
॥ इति इतरव्यपदेशाधिकरणं ॥
</2-1-27>
<2-1-28>
(अधिकरणं ॥
अत्र विष्णोः सर्वकर्तृत्वे प्रबलयुक्तिविरोधः परिह्रियते।
(28) ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ ॥
ननु नेश्वरस्य स्वातंत्र्येण जगत्कर्तत्वं युक्तं। यदीश्वरः कर्ता स्यात्तर्हि कार्त्स्नेनांशेन वा प्रवृत्तिमांत्स्यात्। न च तदीश्वरे संभवतीति तर्कबाधितत्वात्। न चायं दोषः। जीवकर्तृत्वांगीकार एव नेश्वरकर्तृत्वांगीकार इति वाच्यं। दोषनिरासोपयुक्तायाः प्रकारांतरेण प्रवृत्तेरीश्वरेऽभावात्। अन्यथाजीवेऽपि स दोषो न स्यात्। अतो युक्तिविरोधेन न विष्णोर्जगत्कारणत्वं युक्तमिति प्राप्ते पराकुर्वत्सूत्रमाह ॥
॥ ॥ श्रुतेस्तु शब्दमूलत्वादिति ॥ अस्यार्थः ॥ ईश्वरकर्तृत्वपक्षे तु कृत्स्नप्रसक्तिरित्यादिना जीवकर्तृत्वपक्षोक्तयुक्तिविरोधदोषो नास्ति। कुतः। श्रुतेस्तु योऽसौ विरुद्ध इति (पैंगि.) श्रुतेरेव। नन्वेतावता कथं युक्तिविरोध शांतिरित्यत उक्तं। शब्दमूलत्वादिति। ईश्वरतद्धर्माणां शब्दैकप्रमाणवत्त्वे युक्त्यविषयत्वात्। न तत्र युक्तिविरोधः प्रवर्तते। जीवे तु न तथा। तस्य प्रमाणांतरेणापि गम्यत्वादित्यर्थः ॥
एवंच नेश्वरस्य स्वातंत्र्येण कर्तृत्वे युक्तिविरोधः। विरोधयुक्तेर्धर्मिग्राहकागमोपजीव्यत्वेन तद्बोधन युक्तेरेवाप्रमाण्यात्। किंचेश्वरस्याचिंत्याशक्तियुक्तत्वात्तद्वलेनांशत्वेप्यंशकार्यकारितोपपन्ना। योऽसौ विरुद्ध इति श्रुतौ लोकविरुद्धधर्माणामीश्वरेऽविरुद्धतयाऽवस्थानत्वोक्तेः। युक्तिविरोधपरिहारोपयोगिनः शब्दैकसमाधिगम्यत्वस्येश्वरे सत्त्वादविशेषासिद्धेः। शुष्कानुमयाऽऽगमोक्तप्रमेयस्य निषेधायोगात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-28>
<2-1-29>
(29) ॥ आत्मनि चैवं विचित्राश्च हि ॥ ॥
जीवपक्ष एव युक्तिविरोधो नेश्वरपक्ष इत्येतमर्थं युक्त्यंतरेण प्रतिपादयत्सूत्रमुपन्यस्यति ॥
॥ ॥ आत्मनि एवं विचित्राश्च हीति ॥ अस्यार्थः ॥ आद्यश्च शब्दोऽवधारणे। द्वितीयः समुच्चये। हि शब्दः प्रसिद्धौ। तथाच हि शब्दात् आत्मनि ईश्वर एव। एवं सकलयुक्तिविरोधनिरासकाः विचित्राः अचिंत्याः विचित्रशक्तिरिति श्रुतिप्रसिद्धाः शक्तयः संति न जीवे। तस्माच्च जीवपक्ष एव युक्तिविरोधः नेश्वरपक्ष इत्यर्थः ॥
एवंच विचित्रशक्तीनमीश्वर एव सत्वादन्येषां तदभावात्। एको वशीति (श्वेताश्वतर.) श्रुतेः। शक्तेर्विचित्रत्वं तु भिन्नावयवशून्यानां जीवानामीस्वरस्य चैकदेशेन प्रवृत्त्यादिरूपाधटितविचित्रकार्यकारित्वमिति विवेकात्। अतो युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-29>
<2-1-30>
(30) ॥ स्वपक्षदोषाच्च ॥ ॥
ननु विष्णोः शब्दमूलत्वेन विचित्रशक्तित्वेन च युक्तिविरोधस्यादोषत्ववजीवेऽपि तथा भवेत्। चेतनत्वादिलिंगेन युक्तिविरोधस्याविरोधतासाधनसंभवादिति प्राप्ते समादधत्सूत्रमाह ॥
॥ ॥ स्वपक्षदोषाच्चेति ॥ अस्यार्थः ॥ चोऽवधारणे। तथाच ये दोषा इति श्रुतौ जीवपक्षे युक्तिविरोधस्य दोषस्यैवोक्तेः नासावदोषतां नेतव्यः। किंतु ईश्वरपक्ष एव अदोषतां नेतव्य इत्यर्थः ॥
एवंच जीवस्यापि स्वातंत्र्येण कर्तृत्वं वक्तुमशक्यं। तस्य दोषित्वेनं कल्पकाभावेन तद्दोषस्यादोषतया नेतुमशक्यत्वात्। अथ यः सः दोष इति (काषायण.) श्रुतेः। कृत्स्नप्रसक्त्यादियुक्तिविरोधस्य जीवपक्षे दोषस्यैवोक्तत्वात्। जीवेशयोः सदोषत्वनिर्दोषत्ववचनविरोधाख्यदोषसद्भावात्। ततश्च विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-30>
<2-1-31>
(31) ॥ सर्वोपेता त तद्दर्शनात् ॥ ॥
ननु विचित्रशक्तिबलान्नेश्वरे विरोध इति युक्तं। सा शक्तिर्यद्विषयिणी न भवति यदा च नश्यति तदा तत्र दोषावशंभावनियमान्न तया तत्परिहारो युक्त इत्याशंकां पराकुर्वत्सूत्रमाह ॥
॥ ॥ सर्वोपेता च तद्दर्शनादिति ॥ अस्यार्थः ॥ यतः परमात्माख्यदेवता न केवलं सामान्यतो विचित्रशक्तिमती किंतु सर्वोपेता सर्वविषयसार्वकालिकशक्तिमती च। कुतः। तद्दर्शनात् सर्वैर्युक्तेति (चतुर्वेदशिकायां) तथा श्रुतेः। अतो नेश्वरे युक्तिविरोधः शंकनीय इत्यर्थः ॥
एवंचेशस्य सदा सर्वविषये विचित्रक्तित्वात्। सर्वैर्युक्ता शक्तिभिरिति श्रुतौ परमात्मशक्तिः सर्वदा सर्वविषयिणी सर्वकाला चेति तस्य सर्वशक्तिमत्त्वेनोक्तत्वात्तथा शक्त्या युक्तिविरोधपरिहारौचित्यात्। अतो युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-31>
<2-1-32>
(32) ॥ विकरणत्वान्नेति चेत्तदुक्तं ॥ ॥
नन्वथापि विकरणत्वान्नेश्वरस्य जगत्कर्तृत्वं युक्तं। अपि च सर्वोपेतेति सूत्र एव विचित्राशेषशक्तिवलेन निखिलविरोधानां परिहृतत्वाच्छंकानवकाशात्प्रकृतसूत्रवैयर्थ्यमित्याक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥
॥ ॥ विकरणत्वान्नेति चेत्तदुक्तमिति ॥ अस्यार्थः ॥ नेत्यावर्तते। विरकणत्वात् अपाणिपादमिति (श्वे. 3-19.) श्रुत्या ईश्वरस्य हस्तादींद्रियशून्यत्वावगमात्। नेतिचेत् ईश्वरस्य कर्तृत्वं न युक्तमिति चेन्न। कुतः। यस्मात् तदुक्तं। तस्मिन्न तस्येत्याद्यागमेन तत्करणराहित्यस्य प्राकृतेंद्रियविषयत्वमुक्तं। तस्मादित्यर्थः ॥
एवंचापाणिपाद इति श्रुतौ पाण्यादिरहितस्यापि हरेर्ग्रहकादिकमुक्त्वा न तस्या कार्यमित्यादिना (श्वे. 6-8.) पाण्यादिरहितत्वस्य प्राकृतविषयत्वेन सर्वोत्तमत्वेन परमशक्तित्वेन चोपपादितत्वात्। परोक्तहेतोरप्रयोजकत्वादसिद्धेश्च। अपि च साधारण्येन सर्वविरोधानां परिहारे कृतेऽपि विशेषतोऽस्यैव चोद्यस्य परिहारानुकूलयुक्तिबोधनेच्छया पुनः शंकाया दर्शितत्वेन सूत्रवैयर्थ्याभावात्। अतो विष्णोर्जगत्कतृत्वे युक्तिविरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं ॥
॥ इति श्रुतेस्तु शब्दमूलत्वाधिकरणं ॥
</2-1-32>
<2-1-33>
9.अधिकरणं ॥
अत्रेश्वरस्य जगत्कर्तृत्वे निष्फलत्त्वादियुक्तिविरोधः परिह्रियते।
(33) ॥ न प्रयोजनवक्त्त्वात् ॥ ॥
ननु न विष्णोः सर्वसर्जकत्वादि युक्तं। अत्र किं विष्णुः प्रयोजनोद्देशेन सृष्ठ्यादिकं करोतीत्युच्यते तदनुद्देशेनेति वा। आद्येऽपूर्णत्वात्। द्वितीये प्रवृत्तेरेवायोगेन सर्वकर्तृत्वस्य सुतरामयोगात्। विधांतरस्य चाभावेऽनुपपन्नमेव सर्वकर्तृत्वमिति प्राप्ते सूत्रमाह ॥
॥ ॥ न प्रयोजनवत्वादिति ॥ अस्यार्थः ॥ ईश्वरस्य सृष्ट्यादौ प्रवृत्तिर्न स्वप्रयोजनोद्देशेन। कुतः। प्रयोजनवत्वात् पूर्णानंदत्वेन प्राप्तप्राप्तव्यत्वादित्यर्थः ॥
एवंच युक्तमेव विष्णोः सर्वकर्तृत्वं। तस्य पूर्णानंदत्वेन प्राप्तप्राप्तव्यतया फलोद्देशेन प्रवृत्त्यनंगीकारात्। अथैष एव परमेति (बृ. 6-3-33.) श्रुतेः। तथा चाप्तकामत्वेन दयासाध्यफलाभावेन परप्रयोजनार्थमपि तस्य सृष्ट्यादिप्रवृत्त्ययोगात्। अतो विरोधाभावेन युक्तं लक्षणसूत्रमिति सिद्धं।
</2-1-33>
<2-1-34>
(34) ॥ लोकवत्तु लीलाकैवल्यं ॥ ॥
ननुनेश्वरः फलानुद्देशेन प्रवृत्तिमान् चेतनत्वात् यज्ञदत्तवदित्युपपत्तिविरोधात्कथमश्विरस्य फलानुद्देशेन प्रवृत्तिरित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ ॥ लोकवत्तु लीलाकैवल्यमिति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। लोकवत् लोके मत्तादिप्रवृत्तिरिवेश्वरप्रवृत्तेः। लीलाकैवल्यं केवललीलारूपत्वमेव न स्वप्रयोजनोद्देश्यत्वमित्यर्थः ॥
नन्वेवं फलानुद्देशेन प्रवृत्तेरनुपपत्तिरिति चेन्न। लोकवल्लीलयैव प्रवृत्त्युपपत्तेः। न हि लीला प्रयोजनांतराय भवति। मत्तस्य नृत्तगानादिलीलायाः प्रयोजनाभावेऽपि दर्शनात्। पूर्वपक्ष्युक्तानुमानस्योन्मत्तादौ व्यभिचारात्। व्याख्यानादिकाले हस्तचालनादाविव प्रयोजनवत्त्वराहित्यात्। ईश्वरप्रवृत्तेर्लोकानुग्रहार्थत्वांगीकारात्। अतो विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
॥ इति न प्रयोजनाधिकरणं ॥
</2-1-34>
<2-1-35>
10.अधिकरणं ॥
अत्र पूर्वोक्त परप्रयोजनरूपफलविषययुक्तिविरोधः परिह्रियते ॥
(35) ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ॥
ननु न विष्णोः सर्वकर्तृत्वं युक्तं। वैषम्यादिदोषवत्त्वात्। अत्र पृष्टव्यं। ईश्वरः सुरनरतिर्यगादिनानायोनिषु प्राणिनो जनयित्वा तेषां विभागेन यत्सुखदुःखे ददति तत्किं तेषां कर्मानुसारेण। उत तन्नैरपेक्ष्येण। आद्येऽस्वातंत्र्यापातात्। नियमेन कर्मसापेक्षस्यास्वातंत्र्यनियमात्। द्वितीयेतु वैषम्यनैघृण्ये प्राप्नुतः। निर्निमित्त विभागेन सुखदुःखदातृत्वात्। किंच नेश्वरस्य कर्तृत्वे मानं। मानत्वेनाभिमतस्य वेदस्य ज्योतिष्टोमादिप्रतिपादकवेदवदमानत्वात्। ज्योतिष्टोमादिवेदामानत्वं तु सुखदुःखसाधनत्वेन तदुक्तानां धर्मादीनां नैरपेक्ष्येणैवेश्वरेण सुखादिप्रदत्वासिद्धं। अतो हरेः सर्वकर्तृत्वायोगान्न लक्षणसूत्रमिति प्राप्ते सूत्रितं ॥
॥ ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयतीति ॥ अस्यार्थः ॥ स्वातंत्र्यसिध्यर्थमीश्वरस्य जीवेभ्यः फलदाने कर्मापेक्षांगीकारे निर्निमित्तं वैषम्येण फलदातुस्तस्य वैषम्यनैर्धृण्ये विषमत्वानिर्दयत्वे ये प्रसक्ते ते नस्तः। कुतः। सापेक्षत्वात् ईश्वरस्य कर्मापेक्षावत्त्वाभ्युपगमात्। तत्कुतः। हि यस्मात् पुण्येन पुण्यमिति (प्र. 3-7.) श्रुतिः तथा दर्शयति प्रतिपादयति। तस्मादित्यर्थः ॥
एवंच युक्तमेव विष्णोर्जगत्स्रष्टृत्वादिकं। तत्तत्कर्मानुसारेण फलदातृत्वांगीकारेण वेषम्यनैर्घृण्याभावात्। अतो लक्षणसूत्रं युक्तमिति सिद्धं ॥
</2-1-35>
<2-1-36>
(36) ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ॥
नन्वपेक्षया कर्मणोऽभावान्न तदपेक्षया वैषम्यादिदोषपरिहारः संभवति। न चास्ति पूर्वकर्मेति वाच्यं। एष ह्येवेति (कौ. 3-8.) श्रुतौ तस्यापि भगवदधीनत्वश्रवणात्। स्वकारितापेक्षया फलदाने वैषम्यादेरनिस्तारादिति प्राप्ते सूत्रमाह ॥
॥ ॥ न कर्माविभागादिति चेन्नानादित्वादिति ॥ अस्यार्थः ॥ वैषम्यनैर्घृण्यादिदोषपरिहाराय ईशेनापेक्षणीयं यत्कर्म तन्नास्तीति विशिष्टनिषेधः। कुतः। अविभागात् तस्य कर्मणः अस्वतंत्र वस्तुभ्यः अविभक्तत्वात्। अस्वतंत्रत्वादिति यावत्। तथा च स्वाधीन कर्मापेक्षया वैषम्यादेरपरिहार इति चेन्न। कुतः। अनादित्वात् कर्मपरंपरायाः अनादित्वादित्यर्थः। तथा चेश्वरः पूर्वपूर्वमपेक्ष्योत्तरोत्तरकर्म जीवेन कारयतीत्यंगीकारेण कर्मणः अपेक्षणयित्वापत्तेः नोक्तदोष इति भावः ॥
एवंच भवेदयं दोषः। यदि पूर्वतनं कर्मेश्वरेण निरपेक्षेण कारितं स्यात्। न चैवं। किं तर्हि प्राचीनकर्मानुसारेण कारितं। यत्रैव पर्यवसानं तदारभ्य दोष इति कर्मपरंपराया अनादित्वात्। पुण्यपापादिकमिति (भविष्यत्पुराण.) वचनात्। अतो विरोधाभावेनोक्तं लक्षणसूत्रमिति सिद्धं ॥
</2-1-36>
<2-1-37>
(37) ॥ उपपद्यतेचाप्युपलभ्यते च ॥ ॥
नन्वथाऽपि नेश्वरस्य कर्मापेक्षया फलदातृत्वं युक्तं। अस्वातंत्र्यप्रसंगादित्याशंकां परिहरत्सूत्रमुपन्यस्यति।
॥ ॥ उपपद्यते चाप्युपलभ्यते चेति ॥ अस्यार्थः ॥ ईश्वरस्य कर्मापेक्षायामप्युपपद्यते स्वातंत्र्यं युज्यत एव। कर्मणः स्वाधीनत्वात्। ननु पुनः स्वाधीनकर्मसापेक्षत्वकृतवैषम्यापात इत्यत उक्तं। उपलभ्यते चेति। स कारयेदिति (चतुर्वेदशिखायां) श्रुत्या तादृशवैषम्यं अदोषत्वेन ज्ञायते चेत्यर्थः ॥
एवंचोपपद्यते खल्वीश्वरस्य कर्मसापेक्षत्वेऽपि स्वातंत्र्यं। स्वाधीनसापेक्षायाः स्वातंत्र्याविरोधित्वात्। न च तथा सति पुनर्वैषम्यादिकं स्यादित वाच्यं। इष्टत्वात्। वैषम्यमिति वचनात्। अतो हरेः सर्वकर्तृत्वे विरोधाभावाद्युक्तं लक्षणसूत्रमिति सिद्धं ॥
॥ इति वैषम्यनैर्घण्याधिकरणं ॥
</2-1-37>
<2-1-38>
11.अधिकरणं ॥
अत्र विष्णोः सर्वगुमपूर्तौ सर्वदोषराहित्ये च युक्त्यविरोध उच्यते।
(38) ॥ सर्वधर्मोपपत्तेश्च ॥ ॥
ननु न विष्णुः सर्वगुणपूर्णः। चेतनत्वात्। अन्यथा देवदत्तादीनामपि तथात्वं स्यात्। सर्वेषां युक्तिविरोधानां परिहृतत्वेनोत्तरसूत्रवेयर्भ्याच्चेति प्राप्ते परिहरत्सूत्रमाह ॥
॥ ॥ सर्वधर्मोपपत्तेश्चेति ॥ अस्यार्थः ॥ गुणदोषाभाववत्त्वरूपाणां सर्वेषां धर्माणां उपपत्तेः स्वातंत्र्यादिना ब्रह्मणि युक्तत्वाच्च न तस्य गुणपूर्णत्वे युक्तिविरोधः शंकनीय इत्यर्थः ॥
एवंच युक्तमेव विष्णोः सर्वगुणपूर्मत्वं। स्वातंत्र्यात्। गुणाः श्रुता इति (सौपर्ण.) श्रुतेश्च। पूर्वाधिकरणेषु तस्य प्रत्येकमेकैकगुणविषये दोषाभावे च विरोधं परिहृत्य समर्थनं कृतं। सर्वगुणपूर्णत्वविषये च प्राप्तयुक्तिविरोधपरिहारेण च तत्प्रकरणस्यात्र समापितत्वात्सूत्रवैयर्थ्याभावात्। चेनत्वहेतोरप्रयोजकत्वाच्छ्रुतिविरुद्धत्वाच्च। तत्च विष्णोः सर्वगुणपूर्णत्वे विरोधाभावेनोक्तं सर्वमुपपन्नमिति सिद्धं ॥
</2-1-38>
॥ इति सर्वधर्मोपपत्त्यधिकरणं ॥
॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥