साहित्यदर्पणम्/अष्टमः परिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमः परिच्छेदः साहित्यदर्पणम्
अष्टमः परिच्छेदः
विश्वनाथः
नवमः परिच्छेदः →

     गुणानाह---

रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा ।

           गुणाः---
      यथा खल्वङ्गित्वमाप्तस्यात्मन उत्कर्षहेतुत्वाच्छौर्यादयो गुणशब्दवाच्याः, तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्माः स्वरूपविशेषा माधुर्यादयोऽपि स्वसमर्पकपदसन्दर्भस्य काव्यव्यपदेशस्यौपयिकानुगुण्यभाज इत्यर्थः ।
यथा चैषां रसमात्रस्य धर्मत्वं तथा दर्शितमेव ।

माधुर्यमोजोऽथ प्रसाद इति ते त्रिधा ।। सूत्र ८.१ ।।

ते गुणाः । तत्र---

चित्तद्रवीभावमयो ङ्लादो माधुर्यमुच्यते ।

     यत्तु--केनचिदुक्तम्--'माधुर्यं द्रुतिकारणम्' इति तन्न, द्रवीभावस्यास्वादस्वरूपाह्लादाभिन्नत्वेन कार्यत्वाभावात् ।
द्रवीभावश्च स्वाभाविकानाविष्टत्वात्मककाठिन्यमन्युक्रोधादिकृतदीप्तत्वविस्मयहासाद्युपहितविक्षेपपरित्यागेन रत्याद्याका रानुविद्धानन्दोद्वोधेनसहृदयचित्तार्द्रप्रायत्वं ।
     तच्च---

संभोगे करुणो विप्रलम्भे शान्तेऽधिकं क्रमात् ।। सूत्र ८.२ ।।

     सम्भोगादिशब्दा उपलक्षणानि । तेन सम्भोगाभासादिष्वप्येतस्य स्थितिर्ज्ञेया ।

मूर्ध्नि वर्गान्त्यवर्णोन युक्ताष्टठडढान्विना ।

रणौ लधू च तद्व्यक्तौ वर्णाः कारणतां गताः ।। सूत्र ८.३ ।।

अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।

     यथा---

'अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।
जनयन्ति मुहुर्यूनामन्तः सन्तापसन्ततिम् ।।'

     यथा वा मम---

'लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलय-

न्समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् ।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलय-

न्रजोवृन्दं विन्दन्किरति मकरन्दं दिशि दिशि ।।'

ओजश्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते ।। सूत्र ८.४ ।।
वीरबीभत्सरौद्रेषु क्रमेणाधिक्यमस्य तु ।

     अस्यौजसः । अत्रापि वीरादिशब्दा उपलक्षणानि । तेन वीराभासादावप्यस्यावस्थितिः ।

वर्गस्याद्यतृतीयाभायां युक्तौ वर्णौ तदन्तिमौ ।। सूत्र ८.५ ।।

उपर्यधो द्वयोर्वा सरेफौ टठडढैः सह ।
शकारश्च षकारश्र तस्य व्यञ्जकतां गताः ।। सूत्र ८.६ ।।

तथा समासो बहुलो घटनौद्धत्यशालिनी ।

     यथा---'चञ्चद्भुज--' इत्यादि ।

चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः ।। सूत्र ८.७ ।।
स प्रसादः समस्तेषु रसेषु रचनासु च ।

     व्याप्नोति आविष्करोति ।

शब्दास्तद्व्यञ्जका अर्थबोधकाः श्रुतिमात्रतः ।। सूत्र ८.८ ।।

यथा---

'सूचीमुखेन सकृदेव कृतव्रणस्त्वं

मुक्ताकलाप लुठसि स्तनयोः प्रियायाः ।
बाणैः स्मरस्य शतशो विनिकृत्तमर्मा

स्वप्नेऽपि तां कथमहं न विलोकयामि ।।'

एषां शब्दगुणत्वं च गुणवृत्त्योच्यते बुधैः ।

     'शरीरस्य शौर्यादिगुणयोग इव इति शेषः ।'

श्लेषः समाधिरौदार्यः पसाद इति ये पुनः ।। सूत्र ८.९ ।।
गुणाश्चिरन्तनैरुक्ता औजस्यान्तर्भवन्ति ते ।

     ओजसि भक्त्या औजः पदवाच्ये शब्द (अर्थ) धर्मविशेषे । तत्र श्लेषो बहूनामपि पदानामेकपदवद्भासनात्मा । यथा---

'उन्मज्जज्जलकुञ्जरेन्द्ररभासास्फालानुबन्धोद्धताः

सर्वाः पर्वतकन्दरोदरभुवः कुर्वन्प्रतिध्वानिनीः ।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा

प्रायप्रेंखदसंख्यशङ्खधवला वेलेयमुद्रच्छति ।।'

     अथं बन्धवैकट्यात्मकत्वादोज एव । समाधिरारोहावरोहक्रमः । आरोह उत्कर्षः, अवरोहोऽपकर्षः, तयोः क्रमो वैरस्यतानावहो विन्यासः । यथा---'चञ्चद्भुज--' इत्यादि । अत्र पदात्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च तीव्रप्रयत्नोच्चार्यतया ओजस्विता । उदारता विकटत्वलक्षणा । विकटत्वं पदानां नृत्यत्प्रायत्वं । यथा---

'सुचरणविनिविष्टैर्नूपुरैर्नर्तकीनां
भ्क्तणिति रणितमासीत्तत्र चित्रं कलं च ।

     अत्र च तन्मतानुसारेण रसानुसन्धानमन्तरेणैव शब्दप्रौढोक्तिमात्रेणौजः । प्रसाद ओजोमिश्रितशौथिल्यात्मा । यथा---
     'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनाम्' इति ।

माधुर्यव्यञ्जकत्वं यदसमासस्य दर्शितं ।। सूत्र ८.१० ।।
पृथक्पदत्वं माधुर्यं तेनैवाङ्गीकृतं पुनः ।

     यथा---'श्वासान्मुञ्चति-' इत्यादि ।

अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः ।। सूत्र ८.११ ।।
अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणं ।

     स्पष्टमुदाहरणं ।

ग्राम्यदुः श्रवतात्यागात्कान्तिश्च सुकुमारता ।। सूत्र ८.१२ ।।

     अङ्गीकृतेति सम्बन्धः । तच्च हालिकादिपदविन्यासवैपरीत्येनालौकिकशोभाशालित्वं । सुकुमारता अपारुष्यं । अनयोरुदाहरणे स्पष्टे ।

क्वचिद्दोषस्तु समता मार्गाभेदस्वरूपिणी ।
अन्यथोक्तगुणेष्वस्या अन्तः पातो यथायथं ।। सूत्र ८.१३ ।।

     मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च क्वचिद्दोषः । तथाहि---

'अव्यूढाङ्गमरूढपाणिजठराभोगं च बिभ्रद्वपुः

पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता ।
उद्यद्दुर्धरगन्धसिन्धुरशतप्रोद्दामदानार्णव-

स्त्रोतः शोषणरोषणात्पुनरितः कल्पाग्निरल्पायते ।।'

     अत्रोद्धतेर्ऽथे वाच्ये सुकुमारबन्धत्यागो गुण एव । अनेवंविधस्थाने माधुर्यादावेवान्तः पातः । यथा---'लताकुञ्जं गुञ्जन्-' इत्यादि ।

ओजः प्रसादो माधुर्यं सौकुमार्यमुदारता ।
तदभावस्य दोषत्वात्स्वीकृता अर्थगा गुणाः ।। सूत्र ८.१४ ।।

     ओजः साभिप्रायत्वरूपं । प्रसादोर्ऽथवैमल्यं । माधुर्यमुक्तिवैचित्र्यं सौकुमार्यमपारुष्यं । उदारता अग्रम्यत्वं । एषां पञ्जानामप्यर्थगुणानां यथाक्रममपुष्टार्थाधिकपदानवीकृतामङ्गलरूपाश्लीलग्राम्याणांनिराकरणेनैवाङ्गीकारः । स्पष्टान्युदाहरणानि ।

अर्थव्यक्तिः स्वभावोक्त्यालङ्कारेण तथा पुनः ।
रसध्वनिगुणीभूतव्यङ्ग्यानां कान्तिनामकः ।। सूत्र ८.१५ ।।

     अङ्गीकृत इति सम्बन्धः । अर्थव्यक्तिर्वस्तुस्वभावस्फुटत्वं । कान्तिर्देप्तरसत्वं । स्पष्टे उदाहरणे ।

श्लेषो विचित्रतामात्रमदोषः समता परं ।

     श्लेषः क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा । तत्र क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनाविरहोऽनुल्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः एषां योगः सम्मेलनं स एव रूपं यस्या घटनायास्तद्रूपः श्लेषो वैचित्र्यमात्रं । अनन्यसाधारणरसोपकरित्वातिशयविरहादिति भावः । यथा---
     'दृष्ट्वैकानसांस्थिते प्रियतमे-' इत्यादि ।
     अत्र दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम्, लोकसंव्यवहाररुपमनुल्वणत्वम्, एकासनसंस्थिते, 'पश्चादुपेत्य' 'नयने पिधाय' 'ईषद्वक्त्रितकन्धरः' इति चोपपादकानि, एषां योगः । अनेन च वाच्योपपत्तिग्रहणव्यग्रतया रसत्वादौ व्यवहितप्राय इत्यस्यागुणता । समता च प्रक्रान्तप्रकृतिप्रत्ययाविपर्यासेनार्थस्य विसंवादिताविच्छेदः । स च प्रक्रमभङ्गरूपविरह एव । स्पष्टमुदाहरणं ।

न गुणत्वं समाधेश्च---

     समाधिश्चायोन्यन्यच्छायायोनिरूपद्विविधार्थदृष्टिरूपः । तत्रायोनिरर्थो यथा---

'सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकं ।'

     अन्यच्छायायोनिर्यथा---

'निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ।।'

     अत्र नीलोत्पलनयनयोरतिप्रसिद्धं सादृश्यं विच्छित्तिविशेषेण निबद्धं । अस्य चासाधारणशोभानाधायकत्वान्न गुणत्वम्, किन्तु काव्यशरीरमात्रनिर्वर्तकत्वं ।
     क्वचित्'चन्द्रम्' इत्येकस्मिन्पदार्थे वक्तव्ये 'अत्रेर्नयनसमुत्थं ज्योतिः' इति वाक्यवचनं । क्वचित्'निदाघशीतलहिमकालोष्ण्सुकुमारशरीरावयवा योषित्' इति वाक्यार्थे वक्तव्ये 'वरवणिनी' इति पदाभिधानं । क्वचिदेकस्य वाक्यार्थस्य किञ्चिद्विशेषनिवेशादनेकैर्वाक्यारभिधानमित्येवंरूपो व्यासः । क्वचिद्वहुवाक्यप्रतिपाद्यस्यैकवाक्येनाभिधानमित्येवंरूपः समासश्च, इत्येवमादीनामन्यैरुक्तानां न गुणत्वमुचितम्, अपि तुवैचित्र्यमात्रावहत्वं ।

---तेन नार्थगुणाः पृथक् ।। सूत्र ८.१६ ।।

     तेनोक्तप्रकारेण । अर्थगुण ओजः प्रभृतयः प्रोक्ताः ।

इति साहित्यदर्पणे गुणविवेचनो नामाष्टमः परिच्छेदः ।