साहित्यदर्पणम्/सप्तमः परिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← षष्ठः परिच्छेदः साहित्यदर्पणम्
सप्तमः परिच्छेदः
विश्वनाथः
अष्टमः परिच्छेदः →

     इह हि प्रथमतः काव्ये दोषगुणरीत्यलङ्काराणामवस्थितिक्रमो दशितः, संप्रति के त इत्यपेक्षायामुद्देशक्रमप्राप्तानां दोषणां स्वरूपमाह---

रसापकर्षका दोषाः,

     अस्यार्थः प्रगेव स्फुटीकृतः ।
     तद्विशेषानाह---
                                                                                                ते पुनः पञ्चधा मताः ।
     पदे तदंशे वाक्येर्ऽथे संभवन्ति रसेऽपि यत् ।। सूत्र ७.१ ।।

दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्तताः ।

ग्राम्याप्रतीतसन्दिग्धनेयार्थनिहतार्थताः ।। सूत्र ७.२ ।।
अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता ।
अविमृष्टविधेयांशभावश्च पदवाक्ययोः ।। सूत्र ७.३ ।।

दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे ।

निरर्थकासमर्थत्वे च्युतसंस्कारता तथा ।। सूत्र ७.४ ।।

     परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वं ।
     यथा---

'कार्त्तर्थ्यं यातु तन्वङ्गी कदानङ्गवशंवदा ।'

     अश्लीलत्वं व्रीडादुगुप्सामङ्गलव्यञ्जकत्वात्निविधं ।
     क्रमेणोदाहरणम्---

'तृप्तारिविजये राजन् साधनं सुमहत्तव ।'
'प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा ।'

     अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः ।
          'शूरा अमरतां यान्ति पशुभूता रणाध्वरे ।
     अत्र पशुत्वं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वं ।
     अप्रयुक्तत्वं तथा प्रसिद्धावपि कविभिरनादृतत्वं । यथा---

'भाति पद्मः सरोवरे।।'

     अत्र पद्मशब्दः पुंल्लिङ्गः ।
     ग्राम्यत्वं यथा---

'कटिस्ते हरते मनः।।'

     अत्र कटिशब्दो ग्राम्यः ।
     अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वं । यथा---

'योगेन दलिताशयः।।'

     अत्र योगशास्त्र एव वासनार्थ आशयशब्दः ।

'आशईः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ।

     अत्र वन्द्यामिति किं बन्दीभूतायामुत वन्दनीयामिति संदेहः
     नोत्यर्थत्वं रूढीप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनं ।
     यथा---

'कमले चरणाघातं मुखं सुमुखि तेऽकरेत् ।

     अत्र चरणाघातेन निर्जितत्वं लक्ष्यं ।
     निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्ऽथे प्रयोगः ।
     यथा---

'यमुनाशम्बरमम्बरं व्यतानीत् ।'

     शम्बरशब्दो दैत्ये प्रसिद्धः, इह तु जले निहतार्थः ।

'गीतेषु कर्णमादत्ते ।'

     अत्राङ्--पूर्वो दाञ्-धातुर्दानार्थेऽवाचकः ।
     यथा वा---

'दिनं मे त्वयि संप्राप्ते ध्वान्तच्छन्नापि यामिनी ।'

     अत्र दिनमिति प्रकाशमयार्थेऽवाचकं । क्लिष्टत्वमर्थप्रतीतेर्व्यवहितम्, यथा---

'क्षीरोदजावसतिजन्मभुवः प्रसन्नाः ।'

     अत्र क्षीरोदजा लक्ष्मीस्तस्या वसतिः पद्मं तस्य जन्मभुवो जलानि ।

'भूतयेऽस्तु भवानीशः ।'

     अत्र भवानीशशब्दो भवान्याः पत्यन्तरप्रतीतिकारित्वाद्विरुद्धमतिकृत् ।
विधेयस्य विमर्शाभावेन गुणीभूतत्वं अविमृष्टविधेयांशत्वं ।
     अविमृष्टविधेयांशत्वं यथा---

'स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ।'

     अत्र वृथात्वं विधेयम्, तच्च समासे गुणीभावादनुवाद्यत्वप्रतीतिकृत् ।
यथा वा---

'रक्षांस्यपि पुरः स्थातुमलं रामानुजस्य मे ।'

     अत्र रामस्येति वाच्यं । यथा वा---

'आसमुद्रक्षितीशानाम् ।'

     अत्रासमुद्रमिति वाच्यं । यथा वा---

'यत्र ते पतति सुभ्रु कटाक्षः षष्ठबाण इव पञ्चशरस्य ।'

     अत्र षष्ठ इवेत्युत्प्रेक्ष्यं । यथा वा---

'अमुक्ता भवता नाथ मुहूर्त्तमपि सा पुरा ।'

     अत्रामुक्तेत्यत्र 'नञः प्रसज्यप्रतिषेधत्व' मिति विधेयत्वमेवोचितं ।
     यदाहुः---

'अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्।।'

     यथा---

'नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः ।'

     उक्तोदाहरणो तु तत्पुरुषसमासे गुणीभावे नञः पर्युदासतया निषेधस्य विधेयतयानवगमः । यदाहुः---

'प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयो, यत्रोत्तरपदेन नञ्।।'

     तेन

'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगुध्नुराददे सोर्ऽथानसक्तः सुखमन्वभूत्।।'

     अत्रात्रस्तताद्यनूद्यात्मगोपनाद्येव विधेयमिति नञः पर्युदासतया गुणीभावो युक्तः ।
     ननु 'अश्राद्धभोजी ब्राह्मणः' 'असूर्यंपश्या राजदाराः' इत्यादिवत्'अमुक्ता' इत्यत्रापि प्रसज्यप्रतिषेधो भवतीति चेद्? न, अत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धः स्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यम, न च तथा ; विशेष्यतया प्रधानेन तद्धोज्यार्थेन कर्त्रंशेनैव नञः सम्बन्धात् । यदाहुः---

'श्राद्धभोजनशीलो हि यतः कर्ता प्रतीयते ।
न तद्भोजनमात्रं तु कर्तरीनेर्विधानतः।।' इति ।

     'अमुक्ता' इत्यत्र तु क्रिययैव सह संबन्ध इति दोष एव । एते च क्लिष्टत्वादयः समासगता एव पददोषाः ।
     वाक्ये दुः श्रवत्वं यथा---

'स्मरार्त्त्यन्धः कदा लप्स्ये कार्त्तार्थ्यं विरहे तव।।'
कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ।।

     अत्र जुगुप्साव्यञ्जिकाश्लीलता ।

'उद्यत्कमललौहित्यैर्वक्राभिर्भूषता तनुः।।'

     अत्र कलललौहित्यं पद्मरागः । वक्राभिर्वामाभिः। इति नेयार्थता ।

'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम्।।'

     अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न सज्यतीति संबन्धः क्लिष्टः ।

'न्यक्कारो ह्ययमेव मे यदरयः' इति ।

     अत्र चायमेव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितं । तच्च शब्दरचनावैपरीत्यैन गुणीभूतं । रचना च पदद्वयस्य विपरीतेति वाक्यदोषः ।

'आनन्दयति ते नेत्रे योऽसौ सुभ्रु समागतः ।'

     इत्यादिषु 'यत्तदोनित्यसंबन्धः' इति न्यायादुपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपाद्यमाना इदमेतदः शब्दा विधेया एव भवितुं युक्ताः । अत्र तु यच्छब्दनिकटस्थतया अनुवाद्यत्वप्रतीतिकृत् । तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रं । यथा---

'यः स ते नयनानन्दकरः सुभ्रु स आगतः ।'

     यच्छब्दव्यवधानेन स्थितास्तु निराकाङ्क्षत्वमवगमयन्ति । यथा---

'आनन्दयति ते नेत्रे योऽधुनासौ समागतः ।'

     एवमिदमादिशब्दोपादानेऽपि । यत्र च यत्तदोरेकस्यार्थत्वं संभवति, तत्रैकस्योपादानेऽपि निराकाङ्क्षत्वप्रतीतिरिति न क्षतिः । तथाहि यच्छब्दस्योत्तरवाक्यगत्वेनोपादाने सामर्थ्यात्पूर्ववाक्ये तच्छब्दस्यार्थत्वं । यथा---

'आत्मा जानाति यत्पापम् ।'

     एवम्---

'यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च---'

इत्यादावपि ।
     तच्छब्दस्य प्रक्रान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वं ।
     क्रमेण यथा---

'स हत्वा वालिनं वीरस्तत्पद्रे चिरकाङ्क्षिते ।

धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत्।।'
'स वः शशिकलामौलिस्तादात्म्यायोपकल्पताम् ।'

'तामिन्दुसुन्दरमुखीं हृदि चिन्तयामि ।'

     यत्र च यच्छब्दनिकटस्थितानामपीदमादिशब्दानां भिन्नलिङ्गविभक्तित्वं तत्रापि निराकाङ्क्षत्वमेव । क्रमेण यथा--

'विभाति मृगशावाक्षी येदं भुवनभूषणम् ।'
'इन्दुर्विभाति यस्तेन दग्धाः पथिकयोषितः ।'

     क्वचिदनुपात्तयोर्द्वयोरपि सामर्थ्यादवगमः । यथा---

'न मे शमयिता कोऽपि मारस्येत्युवि मा शुचः ।
नन्दस्य भवने कोऽपि बालोऽस्त्यद्भुतपौरुषः।।'

     अत्र योऽस्ति, स ते भारस्य शमयितेति बुध्यते ।

'यद्यद्विरहदुःखं मे तत्को वापहरिष्यति ।'

     इत्यत्रैको यच्छब्दः साकाङ्क्ष इति न वाच्यम्, तथाहि---यद्यदित्यनेन केनचिद्रूपेण स्थितं सर्वात्मकं वस्तु विवक्षितं । तथाभूतस्य तस्य तच्छब्देन परामर्शः । एवमन्येषामपि वाक्यगतत्वेनोदाहरणं बोध्यं ।
     पदांशे दुः श्रवत्वं यथा---

'तद्रच्छ सिद्धयै कुरु देवकार्यम् ।'
'धातुमत्तां गिरिर्धत्ते ।।'

     अत्र मत्ताशब्दः क्षीबार्थे निहतः ।

'वर्ण्यते किं महासेनो विजेयो यस्य तारकः ।'

     अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः ।

'पाणिः पल्लवपेल्लत्रः ।'

     पेलवशब्दस्याद्याक्षरे अश्लीले ।

'संग्रामे निहताः शूरा वचो बाणत्वमागताः ।'

     अत्र वचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थात्वं । तथा तत्रैव बाणस्थाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहं ।
जलध्यादौ तूत्तरपदम्, वाडवानलादौ पूर्वपदं । एवमन्येऽपि यथासंभवं पदांशदोषा ज्ञेयाः । निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैल लक्ष्ये संभवः । क्रमतो यथा---

'मुञ्च मानं हि मानिनि ।।'

अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः ।
कुञ्जं हन्ति कृशोदरी ।
अत्र हन्तीति गमनार्थे पठितमपि न तत्र समर्थं ।

'गण्डीवी कनकशिलानिभं भुजभ्यामाजध्ने विषमविलोचनस्य वक्षः ।'

     'आङो यमहनःऽ, 'स्वाङ्गकर्मकाच्च' इत्यनुशासनबलादाङ्पूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितं । इह तु तल्लाङ्घतमिति व्याकरणलक्षणहीनत्वात्च्युतसंस्कारत्वं ।
     नन्वत्र 'आजध्ने' इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयैव इत्यस्य वाक्यदोषता ? मैवम्, तथाहि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्य 'आजघ्ने' इति पदमात्रस्यैवान्वयव्यतिरेकानुविधायित्वम, पदान्तराणां परिवर्त्तनेऽपि तस्य तादवस्थ्यादिति पददोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्तावपि न पददोषः, तथा हन्प्रकृतेरपीति न पदांशदोषः ।
     एवं 'पद्मः' इत्यत्राप्रयुक्तस्य पदगतत्वं बोध्यं । एवं प्राकृतादिव्याकरणलक्षणहानावपि च्युतसंस्कारत्वमूह्यं ।
     इह तु शब्दानां सर्वथा प्रयोगाभावेऽसमर्थत्वं । विरलप्रयोगे निहतार्थत्वं । निहतार्थत्वमनेकार्थशब्दविषयं । अप्रतीतत्वं त्वेकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः । अप्रयुक्तत्वमेकार्थशब्दविषयं । असमर्थत्वमनेकार्थशब्दविषयं । असमर्थत्वे हन्त्यादयोऽपि गमनार्थे पठिताः । अवाकचत्वे दिनादयः प्रकाशमयाद्यर्थे, न तथेति परस्परभेदः । एवं पददोषसजातीया वाक्यदोषा उक्ताः, सम्प्रति तद्विजातीया उच्यन्ते ।

'वर्णानां प्रतिकूलत्वं, लुप्ताऽहतविसर्गते ।

अधिकन्यूनकथितपदताहतवृत्तता ।। सूत्र ७.५ ।।
पतत्प्रकर्षता, सन्धौ विश्लेषाश्लीलकष्टताः ।
अर्धान्तरैकपदता समाप्तपुनरात्तता ।। सूत्र ७.६ ।।

अभवन्मतसम्बन्धाक्रमामतपरार्थताः ।
वाच्यस्यानभिधानं च भग्नप्रकमता तथा ।। सूत्र ७.७ ।।

त्यागः प्रसिद्धेरस्थाने न्यासः पदसमास्योः ।

संकीर्णता गर्भितता दोषाः स्युर्वाक्यमात्रगाः ।। सूत्र ७.८ ।।

     वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वं । यथा मम---

'ओवट्टै उल्लट्टै साणो कहिंपि मोट्टाऐ णो परिहट्टै ।
हिअएण फिट्टै लज्जाइ खुट्टै दिहीए सा।।'

     अत्र टकाराः शृङ्गारसपरिपन्थिनः केवलं शक्तिप्रदर्शनाय निबद्धाः । एषां चैकद्वित्रिचतुः प्रयोगे न तादृशग्रसभङ्ग इति न दोषः ।

'गता निशा इमा बाले ।'

     अत्र
लुप्तविसर्गाः
। आहता ओत्वं प्राप्ता विसर्गा यत्र । यथा---
'धीरो वरो नरो याति ।'
'पल्लवाकृतिरक्तोष्ठी ।'

     अत्राकृतिपदमधिकं । एवम्---

'सदाशिवं नौमि पिनाकपाणिम् ।'

     इति विशेषणमधिकं ।

'कुर्यां हरस्यापि पिनाकपाणोःऽइति ।

     अत्र तु पिनाकपाणिपदं विशेषप्रतिपत्त्यर्थमुपात्तमिति युक्तमेव ।
     यथा वा---

'वाचमुवाच कौत्सः ।'

     अत्र वाचमित्यधिकं । उवाचेत्यनेनैव गतार्थत्वात् ।
     क्वचित्तु विशेषणदानार्थं तत्प्रयोगो युज्यते । यथा---

'उवाच मधुरा वाचम्' इति ।

     केचित्त्वाहुः---यत्र विशेषणस्यापि क्रियाविशेषणत्वं सम्भवति तत्रापि तत्प्रयोगो न घटते । यथा---

'उवाच मधुरं धीमान्' इति ।
'यदि मय्यर्पिता दृष्टिः किं ममेन्द्रतया तदा ।'

     अत्र प्रथमे त्वयेति पदं न्यूनं ।

'रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन् ।'

     लीलाशब्दः पुनरुक्तः । एवम्---

'जक्षुर्विसं धृतविकासिविसप्रसूनाः ।'

     अत्र विसशब्दस्य धृतपरिस्फुटतत्प्रसूना इति सर्वनाम्नैव परामर्शो युक्तः ।
     हतवृत्तम्---लक्षणानुसरणोऽप्यश्रव्यम्, रसाननुगुणम्, अप्राप्तगुरुभावान्तलघु च ।
क्रमेण यथा---

'हन्त सततमेतस्य हृदयं भिन्ते मनोभवः कुपितः ।'
'अयि मयि मानिनि मा कुरु मानम् ।'

     इदं वृत्तं हास्यरसस्यैवानुकूलं ।

'विकसित-सहकार-भार-हारि-परिमल एष समागतो वसन्तः ।'

     यत्पादान्ते लघोरपि गुरुभावः उक्तः, तत्सर्वत्र द्वितीयचतुर्थपादविषयं । प्रथमतृतीयपादविषयन्तु वसन्ततिलकादेरेव ।
अत्र'प्रमुदितसौरभ आगतो वसन्तः' इति पाठो युक्तः । यथा वा---

'अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा

सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतला-

त्स्त्रीणां निग्तबस्थलात्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च।।'

     अत्र वस्त्राणि चेति बन्धस्य श्लथत्वश्रुतिः । 'वस्त्राण्यपि' इति पाठे तु दार्ढ्यमिति न दोषः । 'इदमप्राप्तगुरुभावान्तलघु' इति काव्यप्रकाशकारः । वस्तुतस्तु 'लक्षणानुसरणोऽप्यश्रव्यम्' इत्यन्ये ।

'प्रोज्जलज्ज्वालनज्वाला-विकटोरुसटाच्छटः ।

श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेशरी ।।'

     अत्र क्रमेणानुप्रासप्रकर्षः
पतितः

'दलिते उत्पले एते अक्षिणी अमलाङ्गि ते ।'

     एवंविधसन्धिविश्लेषस्य असकृत प्रयोग एव दोषः । अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धैविश्लेषस्य तु सकृदपि । यथा---

'वासवाशामुखे भाति इन्दुश्चन्दनबिन्दुवत् ।'
'चलण्डामरचेष्टितः' इति ।

     अत्र सन्धौ जुगुप्साव्यञ्जकमश्लीलत्वं ।

'उर्व्यसावत्र तर्वालीमर्वन्ते चार्ववस्थितिः ।'

     'अत्र सन्धौ कष्टत्वं ।

'इन्दुर्विभाति कर्पूरगौरैर्धवलयन्करैः ।
जगन्मा कुरु तन्वङ्गि मानं पादानते प्रिये।।'

     अत्र जगदिति प्रथमार्द्धे पठितमुचितं ।

'नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनः ।
पतन्ति शशिनः पदा भासयन्तः क्षमातलम्।।'

     अत्र चतुर्थपादो वाक्यसमाप्तावपि पुनरुपात्तः
     अरभवन्मतसम्बन्धो यथा---

'या जयश्रीर्मनोजस्य यया जगदलङ्कृतं ।
यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा।।'

     अत्र यच्छब्दनिद्दिष्टनां वाक्यानां परस्परनिरपेक्षत्वात्तदेकान्तः पातिना एणाक्षीशब्देन अन्येषां सम्बन्धः कवेरभिमतो नोपपद्यत एव ।

'यां विनामी वृथा प्राणा एणाक्षी सा कृतोऽद्य मे ।'

     इति तच्छब्दनिर्दिष्टवाक्यान्तः पातित्वेऽपि यच्छब्दनिद्दिष्टवाक्यैः सम्बन्धो घटते । यथा वा---

'ईक्षसे यत्कटाक्षेण तदा धन्वी मनोभुवः ।'

     अत्र यदित्यस्य तदेत्यनेन सम्बन्धो न घटते । 'ईक्षसे चेत्' इति तु युक्तः पाठः । यथा वा---

'ज्योत्स्नाचयः पयः पूरस्तारकाः कैरवाणि च ।
राजति व्योमकासारराजहंसः सुधाकरः।।'

     अत्र व्योमकासारशब्दस्य समासे गुणीभावात्तदर्थस्य न सर्वैः संयोगः । विधेयाविमर्शे यदेवाविमृष्टं तदेव दुष्टं ।
इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येनाप्रतीतेः सर्वोऽपि पयः पूरादिशब्दार्थस्तदङ्गतया न प्रतीयत इति सर्ववाक्यार्थविरोधावभास इत्युभयोर्भेदः ।

'अनेन च्छिन्दता मातुः कण्ठं पशुना तव ।
बद्धस्पर्द्धः कृपाणोऽयं लज्जते मम भार्गव ।।'

     अत्र 'भार्गवनिन्दायां प्रयुक्तस्य मातृकण्ठच्छेदनकर्त्तृत्वस्य परशुना सम्बन्धो न युक्तः' इति प्राच्याः । 'परशुनन्दामुखेन भार्गवनिन्दाधिक्यमेव वैदग्ध्यं द्योतयति ' इत्याधुनिकाः ।
     अक्रमता यथा---

'समय एव करोति बालबलं प्रणिगदन्त इतीव शरीरिणां ।
शरदि हंसरवाः परुषीकृताः स्वरमयूरमयूरयणीयतां ।।'

     अत्र परामृश्यमानवाक्यानन्तरमेवेति शब्दोपयोगो युज्यते, न तु 'प्रणिगदन्त' इत्यनन्तरं । एवं ----
     'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
     कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी।।'
     अत्र त्वमित्यनन्तरमेव चकारो युक्तः ।
     अमतपरार्थता यथा---

'राममन्मथशरेण ताडिता-' इत्यादि ।

     अत्र शृङ्गारसस्य व्यञ्जको द्वितीयोर्ऽथः प्रकृतरसविरोधित्वादनिष्टः ।
     वाच्यस्यानिभिधानं यथा---

'व्यतिक्रमलवं कं मे वीक्ष्य वामाक्षि कुप्यसि ।'

     अत्र व्यतिक्रमलवमपीत्यपरिवश्यं वक्तत्र्यो नोक्तः । न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता, अपेस्तु न तथात्वमित्यनयोर्भेदः ।
एवमन्यत्रापि । यथा वा---

'चरणानतकान्तायास्तन्वि कोपस्तथापि ते।।'

     अत्र चरणानतकान्तासीति वाच्यं ।
भग्नप्रक्रमता यथा---

'एतमुक्तो मन्त्रिमुख्यैः रावणः प्रत्यभाषत ।'

     अत्र वचधातुना प्रक्रान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं । तेन 'रावणः प्रत्यवोचत' इति पाठो युक्तः । एवं च सति न कथितपदत्वदोषः, तस्योद्देश्यव्यतिरिक्तविषयकत्वात् । इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिनिर्देशत्वं । यथा---

'उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।'

     इत्यत्र हि यदि पदान्तरेण स एवार्थः प्रतिपाद्यते तदान्योर्ऽथ इव प्रतिभासमानः प्रतीतिं स्थगयति ।
     यथा वा---

'ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनं ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः।।'

     अत्र 'अस्मै' इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतदः शब्दाभ्यां वा परामर्शो युक्तो न तच्छब्देन । यथा वा---

'उदन्वच्छिन्ना भूः स च पतिरपां योजनशतम् ।'

     अत्र 'मिता भूः पत्यापां स च पतिरपाम्' इति युक्तः पाठः ।
एवम्---

'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः।।'

     अत्र 'सुखमीहितुम्' इत्युचितं । अत्राद्ययोः प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्यायविषयः, चतुर्थे प्रत्ययविषयः । एवमन्यत्रापि ।
     प्रसिद्धत्यागो यथा---

'घोरो वारिमुचां रवः ।'

     अत्र मेघानां गर्जितमेव प्रसिद्धं ।
     यदाहुः---

'मञ्जीरादिषु रणतिप्रायं पक्षिषु च कूजितप्रभृति ।
स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्।।' इत्यादि ।

     अस्थानस्थपदता यथा---
     'तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गां ।
     अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षाः।।'
     अत्र तदीयपदात्पूर्वं गङ्गामित्यस्य पाठो युक्तः । एवं ---

'हितान्न यः संशृणुते स किं प्रभुः।।

     अत्र संशृणुत इत्यतः पूर्वं नञः स्थितिरुचिता ।
     अत्र च पदमात्रस्यास्थाने निवेशेऽपि सर्वमेव वाक्यं विवक्षितार्थप्रत्यायने मन्थरमिति वाक्यदोषता । एवमन्यत्रापि । इह केऽप्याहु--'पदशब्देन वाचकमेव प्रायशो निगद्यते, न च नञो वाचकता, निर्विवादात्स्वातन्त्र्येणार्थबोधनविरहात्' इति । यथा---'द्वयं गतम्-' इत्यादौ त्वमित्यनन्तरं चकारानुपादानादक्रमता तथात्रापीति ।
अस्थनस्थसमासता यथा---

'अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि

स्थातुं वाञ्छति मान एष धिगति क्रोधादिवालोहितः ।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणा

 त्फुल्लत्कैरवकोषनिः सरदलिश्रेणीकृपाणां शशी।।'

      अत्र कोपिन उक्तौ समासो न कृतः, कवेरुक्तौ कृतः । वाक्यान्तरपदानां वाक्यान्तरेऽनुप्रवेशः सङ्कीर्णात्वं ।
     यथा---

'चन्द्रं मुञ्च कुरङ्गाक्षि पश्य मानं नभोऽङ्गने ।'

     अत्र नभोऽङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तं ।
     'क्लिष्टत्वमेकवाक्यविषयम्' इत्यस्माद्भिन्नं ।
     वाक्यान्तरे वाक्यान्तरानुप्रवेशो गर्भितता । यथा---

'रमणे चरणप्रान्ते प्रणतिप्रवणेऽधुना ।
वदामि सखि तत्त्वं ते कदाचिन्नोचिताः क्रुधः।।'

     अर्थदोषानाह---

अपुष्टदुष्कमग्राम्यव्यावहताश्लीलकष्टताः ।

अनवीकृतनिर्हेतुप्रकाशितविरुद्धताः ।। सूत्र ७.९ ।।
सन्दिग्धपुनरुक्तत्वे ख्यातिविद्याविरुद्धते ।
साकाङ्क्षता सहचरभिन्नतास्थानयुक्तता ।। सूत्र ७.१० ।।

अविशेषे विशेषश्चानियमे नियमस्तथा ।
तयोर्विपर्ययौ विध्यनुवादायुक्तते तथा ।। सूत्र ७.११ ।।

निर्मुक्तरुनरुक्तत्वमर्थदोषाः प्रकीर्तिताः ।

     तद्विपर्ययो विशेषेऽविशेषो नियमेऽनियमः । अत्रापुष्टत्वं मुख्यानुपकारित्वं । यथा---

'विलोक्य वितते व्योम्नि विधुं मुञ्च रुषं प्रिये '॥

     अत्र विततशब्दो मानत्यागं प्रति न किञ्चिदुपकुरुते । अधिकपदत्वे पदार्थान्वयप्रतीतेः समकालमेव बाधप्रतिभासः, इह तु पश्चादिति विशेषः ।
दुष्क्रमता यथा---

'देहि मे वाजिनं राजन् गजेन्द्रं वा मदालसम् ।'

     अत्र गजेन्द्रस्य प्रथमं याचनमुचितं ।

'स्वपिहि त्वं समीपे मे स्वपिम्येवाधुना प्रिय '

     अत्रार्थो ग्राम्यः
     कस्यचित्प्रगुत्कर्षमपकर्षं वाभिधाय पश्चात्तदन्यप्रतिपादनं व्याहतत्वं । यथा---

'हरन्ति हृदयं यूनां न नवेन्दुकलादयः ।
वीक्ष्यते यैरियं तन्वी लोकलोचनचन्द्रिका।।'

     अत्र येषामिन्दुकला नानन्दहेतुस्तेषामेवानन्दाय तन्व्याश्चन्द्रिकात्वारोपः ।

'हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
यथाशु जायते पातो न तथा पुनरुन्नतिः।।'

     अत्रार्थोऽश्लीलः ।
     'वर्षत्येतदहर्पतिर्न तु घनो धामस्थामच्छं पयः
          सत्यं सा सवितुः सुता सुरसरित्पूरो यथा प्लावितः ।
     व्यासस्योक्तिषु विश्वसित्यपि न कः श्रद्धा न कस्य श्रुतौ
          न प्रत्येति तथापि मुग्धहरिणी भास्वन्मरीचिष्वपः।।'
     अत्र यस्मात्सूर्याद्वृष्टेर्यमुनायाश्च प्रभवस्तस्मात्तयोर्जलमपि सूर्यप्रभं । ततश्च सूर्यमरीचीनां जलप्रत्ययहेतुत्वमुचितम्, तथापि मृगी भ्रान्ततत्वात्तत्र जलप्रत्ययं न करोति । अयमप्रस्तुतोऽप्यर्थो दुर्बोधः, दूरे चास्मत्प्रस्तुतार्थबोध इति कष्टार्थत्वं ।

'सदा चरति खे भानुः सदा वहति मारुतः ।
सदा धत्ते भुवं शेषः सदा धीरोऽविकत्थनः।।'

     अत्र सदेत्यनवीकृतत्वं । अत्रास्य पदस्य पर्यायान्तरणोपादानेऽपि यदि नान्यद्विच्छित्त्यान्तं तदास्य दोषस्य सद्भाव इति कथितपदत्वाद्भेदः ।
     नवीकृतत्वं यथा---
     'भानुः सकृद्युक्ततुरुङ्ग एवं रात्रिन्दिवं गन्धवहः प्रयाति ।
     विभर्त्ति शेषः सततं धरित्रीं षष्ठांशवृत्तेरपि धर्म एषः ।।'

'गृहीतं येनासीः परिभवभयान्नोचितमपि

प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
परित्यक्तं तेन त्वमपि सुतशोकान्न तु भया-

द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते।।'

     अत्र द्वितीयशस्त्रमोचने हेतुर्नोक्त इति निर्हेतुत्वं

'कुमारस्ते नराधीश श्रियं समधिगच्छतु ।'

     अत्र 'त्वं म्रियस्व' इति विरुद्धार्थप्रकाशनात्प्रकाशितविरुद्धत्वं ।

 
'अचला अबला वा स्युः सेव्या ब्रूत मनीषिणः ।'

     अत्र प्रकरणाभावच्छान्तशृङ्गारिणोः को वक्तेति निश्चयाभावात्सन्दिग्धत्वं ।

'सहसा विदधीत न क्रियामविवेकः परमापदां पदं ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः।।'

     अत्र द्वितीयार्धे व्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता
     प्रसिद्धिविरुद्धता यथा---
      'ततश्चार समरे शितशूलधरो हरिः ।'
     अत्र हरेः शूलं लोकेऽप्रसिद्धं । यथा वा---

'पदाघातादशोकस्ते सञ्जाताङ्कुरकण्टकः ।'

     अत्र पादाधातादशोकेषु पुष्पमेव जायत इति प्रसिद्धं न त्वङ्कुर इति कविसमयख्यतिविरुद्धता ।

'अधरे करजक्षतं मृगाक्ष्याः ।'

     अत्र शृङ्गार (काम) शास्त्रीविरुद्धत्वाद्विद्याविरुद्धता । एवमन्यशास्त्रविरुद्धत्वमपि ।

'ऐसस्य धनुषो भङ्गं क्षत्त्त्रस्य च समुन्नतिं ।
स्त्रीरत्नं च कथं नाम मृष्यते भार्गवोऽधुना।।'

     अत्र स्त्रीरत्नमुपेक्षितुमिति साकाङ्क्षता ।

'सज्जनो दुर्गतौ मग्नः कामिनी गलितस्तनी ।
खलः पूज्यः समज्यायां तापाय मम चेतसः।।'

     अत्र सज्जनः कामिनी च शोभनौ तत्सहचरः खलोऽशोभन इति सहचरभिन्नत्वं
     'आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
          भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
     उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते
          स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः।।'
     अत्र न रावण इत्येतावतैव समाप्यं ।
          'हीरकाणां निधेरस्य सिन्धोः किं वर्णयामहे ।'
     अत्र रत्नानां निधेरित्यविशेष एव वाच्यः ।

'आवर्त्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
भङ्गाश्च वलयस्तेन त्वं लावण्याम्बुवापिका।।'

     अत्रावर्त एकेति नियमो न वाच्यः ।

'यान्ति नीलनिचोलिन्यो रजनीष्वभिसारिकाः ।'

     अत्र तमिस्त्रास्विति रजनीविशेषो वाच्यः ।

'आपातसुरसे भोगे निमग्नाः किं न कुर्वते ।'

     अत्र आपात एवेति नियमो वाच्यः ।
     ननु वाच्यस्यानिभिधाने 'व्यतिक्रमलवम्' इत्यादावपेरभावः, इह चैवकारस्येति कोऽनयेर्भेदः । अत्राह---'नियमस्य वचनमेव पृथग्भूतं नियमपरिवृत्तेविषयः' इति, तन्न तथा सत्यपि द्वयोः शब्दार्थदोषतायां नियामकाभावात् । तत्का गतिरिति चेत् 'व्यतिक्रमलवम्' इत्यादौ शब्दोच्चारणानन्तरमेव दोषप्रतिभासः, इह त्वर्थप्रत्ययानन्तरमिति भेदः । एवं च शब्दपरिवृत्तिसहत्वासहत्वाभ्यां पूर्वैरादृतोऽपि शब्दार्थदोषविभाग एवं पर्यवस्यति--यो दोषः शब्दपरिवृत्त्यासहः स शब्ददोष एव । यश्च पदार्थन्वयप्रतीतिपूर्वबोध्यः सोऽपि शब्ददोषः ।
यश्चार्थप्रतीत्यनन्तरं बोध्यः सोर्ऽथाश्रय इति । एवं चानियमपरिवृत्तित्वादेरप्यधिकपदत्वाद्भेदो बोद्धव्यः । अमतपरार्थत्वे तु 'राममन्मथशरेण-' इत्यादौ नियमेन वाक्यव्यापित्वाभिप्रायाद्वाक्यदोषता । अश्लीलत्वादौ तु न नियमेन वाक्यव्यापित्वं ।

'आनन्दितस्वपक्षोऽसौ परपक्षान्हनिष्यति ।'

     अत्र परपक्षं हत्वा स्वपक्षमानन्दयिष्यतीति वेधेयं ।

'चण्डीशचूडाभारण चन्द्र लोकतमोपह ।
विरहिप्राणहरण कदर्थय न मां वृथा।।'

     अत्र विरहिण उक्तौ तृतीयपादस्यार्थो नानुवाद्यः ।
     'लग्नं रागावृताङ्ग्या सदृढमिह यथैवासियष्ट्यापरिकण्ठे
         मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
     तत्सक्तोऽयं न किञ्चिद्रणयति विदितं तेऽस्तु तेनास्मदत्ता
         भृत्येभ्यः श्रीनियोगाद्रदितुमिति गतेवाम्बुधिं यस्य कीर्तिः ।।
     अत्र विदितं तेऽस्त्वित्यनेन समापितमपि वचनं तेनेत्यादिना पुनरुपात्तं ।
      अथ रसदोषानाह---

रसस्योक्तिः स्वशब्देन स्थायिसंचारिणोरपि ।। सूत्र ७.१२ ।।

परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः ।
आक्षेपः कल्पितः कृच्छ्रादनुभावविभावयोः ।। सूत्र ७.१३ ।।

अकाण्डे प्रथनच्छेदौ तथा दीप्तिः पुनः पुनः ।
अङ्गिनोऽननुसंधानमनङ्गस्य च कीर्तनं ।। सूत्र ७.१४ ।।

अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः ।

अर्थानौचित्यमन्यच्च दोषा रसगता मताः ।

     रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा---

'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत ।'
'चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ।'

     स्थायिभावस्य स्वशब्दवाच्यं यथा---

'अजायत रतिस्तस्यास्त्वयि लोचनगोचरे ।'

     व्यभिचारिणः स्वशब्दवाच्यत्वं यथा---

'जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने ।'

     अत्र प्रथमे पादे 'आसीन्मुकुलिताक्षी सा' इति लज्जाया अनुभावमुखेन कथने युक्तः पाठः ।

'मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम् ।'

     अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः ।
'धवलयति शिशिररोचिषि भुवनतलं लोकलोचनान्दे ।
ईषत्क्षिप्तकटाक्षा स्मेरमुखई सा निरीक्ष्यतां तन्वी।।'

     अत्र रसस्योद्दीपनालम्बनविभावपर्यवसायिनौ स्थिताविति कष्टकल्पना ।
     'परिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।
     इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः।।'
     अत्र रतिपरिहारादीनां करुणादावपि सम्भवात्कामिनीरूपो विभावः कृच्छ्रादाक्षेप्यः ।
     अकाण्डे प्रथनं यथा---वेणीसंहारे द्वितीयेऽङ्के प्रवर्तमानानेकवीरसंक्षयेऽकाले दुर्योधनस्य भानुमत्या सह शृङ्गारप्रथनं । छेदो यथा--वीरचरिते राघवभार्गवयोर्धाराधिरूढेऽन्योन्यसंरम्भे कङ्कणमोचनाय गच्छामीति राघवस्योक्तिः ।
     पुनः पुनर्देप्तिर्यथा--कुमारसंभवे रतिविलापे ।
     अङ्गिनोऽननुसंधानां यथा--रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ।
     अनङ्गस्य कीर्तनं यथा--कर्पूरमञ्जर्या राजनायिकयोः स्वयं कृतं वसन्तस्य वर्णनमनादृत्य बन्दिवर्णितस्य प्रशंसनं ।
     अङ्गस्यातिविस्तृतिर्यथा---किराते सुराङ्गनाविलासादिः ।
     प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्चेति । तेषां धीरोदात्तादिता । तेषामप्युत्तमाधममध्यमत्वं । तेषु च यो यथाभूतस्तस्यायथावर्णने प्रकृतिविपर्ययो दोषः । यथा--धीरोदात्तस्य रामस्य धीरोद्धतवच्छद्मना वालिवधः । यथा वा---कुमारसंभवे उत्तमदेवतयोः पार्वतीपरमेश्चरयोः संभोगशृङ्गारवर्णनं । 'इदं पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्' इत्याहुः ।
     अन्यदनौचित्यं देशकालादीनामन्यथा यद्वर्णनं । तथा सति हि काव्यस्यासत्यताप्रतिभासेन विनेयानामुन्मुखीकारासंभवः ।

एभ्यः पृथगलङ्कारदोषाणां नैव संभवः ।। सूत्र ७.१५ ।।

     पभ्य उक्तदोषेभ्यः । तथाहि--उपमायामसादृश्यासंभवयोरुपमानस्य जाति प्रमाणगतन्यनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वं क्रमेण यथा---

'ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।'

'प्रज्वलज्जलधारावान्नपतन्ति शरास्तव ।'
'चण्डाल इव राजासौ संग्रामेऽधिकसाहसः ।'
'कर्परखण्ड इव राजति चन्द्रबिम्बम् ।'
'हरवन्नीलकण्ठोऽयं विराजति शिखावलः ।'

'स्तनावद्रिसमानौ ते ।'

'दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारं ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव।।'

      एवमादिषूत्प्रेक्षितार्थस्यासं त्रततयैव प्रतिभासनं स्वरूपमित्यनुचितमेव तत्समर्थनं । यमकस्य पादत्रयगतस्याप्रयुक्तत्वं दोषः ।
यथा---

'सहसाभिजनैः स्निग्धैः सह सा कुञ्जमन्दिरं ।
उदिते रजनीनाथे सहतायाति सुन्दरी।।'

     उत्प्रेक्षायां यथाशब्दस्योत्प्रेक्षाद्यंतकत्वेऽवाचकत्वं । यथा---

'एष मूर्तो यथा धर्मः क्षितिपो रक्षति क्षितिम् ।'

     एवमनुप्रासे वृत्तिविरुद्धस्य प्रतिकूलवर्णत्वं । यथा---

'ओवट्टै उल्लट्टै--इत्यादौ ।

     उपमायां च साधारणधर्मस्याधिकन्यूनत्वयोरधिकपदत्वं न्यूनपदत्वं च । क्रमेणोदाहरणम्---

'नयनज्योतिषा भाति शंभुमूतिसितद्युतिः ।
विद्युतेव शरन्मेघो नीलवारिदखण्डवृक्।।'

     अत्र भगवतो नीलकण्ठत्वस्याप्रतिपादनाच्चतुर्थपादोऽधिकः ।

'कमलालिङ्गितस्तारहारहारी मुरं द्विषन् ।
विद्युद्वभूषितो नीलजीमूत इव राजते।।'

     अत्रोपमानस्य सबलाकत्वं वाच्यं ।
     अस्यामेवोपमानोपमेययोलिङ्गवचनभेदस्य कालपुरुषविध्यादिभेदस्य च भग्नप्रक्रमत्वं । क्रमेणोदाहरणम्---

'सुधेव विमलश्चन्द्रः ।'

'ज्योत्स्ना इव सिता कीर्तिः ।'
'काप्यभिख्या यतोरासीद्व्रजतोः शुद्धवेषयोः ।

हिमनिर्मुक्तयोयागे चित्रचन्द्रमसोरिव।।'

     अत्र तथाभूतचित्राचन्द्रमसोः शोभा न खल्वासीत् । अपि तु सर्वदापि मवति ।

'लतेव राजसे तन्वि '

           अत्र लता राजते, त्वं तु राजसे ।

'चिरं जीवतु ते सूतुर्माकण्डेयमुनिर्यथा ।'

     अत्र मार्कण्डेयमुनिर्जावत्येव, न खल्वेतदस्य 'जीवतु' इत्यनेन विधेयं ।
     इह तु यत्र लिङ्गवचनभेदेऽपि न साधारणधपर्मस्यान्यथाभावस्तत्र न दोषः । क्रमेणोदाहरणम्---

'मुखं चन्द्र इवाभाति ।'

'तद्वेशोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।

दधते स्म परां शोभां तदीया विभ्रमा इव।।'

     पूर्वोदाहरणोषु उपमानोपमेययोरेकस्यैव साधारणधर्मेणान्वयसिद्धेः प्रक्रान्तस्यार्थस्य स्फुटोऽनिर्वाहः । एवमनुप्रासे वैफल्यस्यापुष्टार्थत्वं । यथा--

'अनणुरणन्मणिमेखलमविरलशिञ्जानमञ्जुमञ्जीरं ।
परिसरणमरुणचरणो रणरणकमकारणं कुरुते।।'

     एवं समासोक्तौ साधारणविशेषणवशात्परार्थस्य प्रतीतावपि पुनस्तस्य शब्देनोपादानस्याप्रस्तुतप्रशंसायां व्यञ्जनयैव प्रस्तुतार्थावगतेः शब्देन तदभिधानस्य च पुनरुक्तत्वं । क्रमेणोदाहरणम्---
     'अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरं ।
     निरकासयद्रविमपेतवसुं वियदालयादपरिदग्गणिका।।'
     अत्रापरदिगित्येतावतैव तस्या गणिकात्वं प्रतीयते ।
     'आहूतेषु विहङ्गमेषु मशको नायान्पुरो वार्यते
          मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरं ।
     खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
          धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्।।'
     अत्राचेतसः प्रभोरभिधानमनुचितं ।
एवमनुप्रासे प्रसिद्ध्यभावस्य ख्यातविरुद्धत्वं । यथा---

'चक्राधिष्ठततां चक्री गोत्रं गोत्रभिदुच्छ्रितं ।
वृषं वृषभकेतुश्च प्रायच्छन्नस्य भूभुजः।।'

     उक्तदोषाणां च क्वचिददोषत्वं क्वचिद्गुणत्वमित्याह---

वक्तरि क्रोधसंयुक्ते तथा वाच्ये समुद्धते ।
रौद्रादौ तु रसेऽत्यन्तं दुः श्रवत्वं गुणो भवेत् ।। सूत्र ७.१६ ।।

     एषु चास्वादस्वरूपविषात्मकतया मुख्यगुणप्रकर्षोपकारित्वाद्गुण इति व्यपदेशो भाक्तः । क्रमेण यथा---

'तद्विच्छेदकृशस्य कण्ठलुठितप्राणस्य मे निर्दयं

क्रूरः पञ्चशरः शररतिशितैर्भिन्दन्मनो निर्भरं ।
शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानल-

ज्वालाजालकरालितः पुनरसावास्तां समस्तात्मना।।'

     अत्र शृङ्गारे कुपितो वक्ता ।

'मूर्धव्याधूयमानध्वनदमरधुनीलोलकल्लोलजालो-

द्धूताम्भः क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षण् ।
ऊर्ध्वन्यस्ताङिघ्रदण्डभ्रमिभररभसोद्यन्नभस्वत्प्रवेग-

भ्रान्तब्रह्मण्डखण्डं प्रवितरतु शिवं शाम्भवं ताण्डवं वः।।'

     अत्रोद्धतताण्डवं वाच्यं । इमे पद्ये मम ।
     रौद्रादिरसत्व एतदिद्वतयोपेक्षयापि दुः श्रवत्वमत्यन्तं गुणः । यथा--

'उत्कृत्योत्कृत्य कृत्तिम--' इत्यादि ।

     अत्र बीभत्सो रसः ।

सुरतारम्भगोष्ठ्यादावश्लीलत्वं तथा पुनः ।

     तथा पुनरिति गुण एव । यथा---

'करिहस्तेन संबाधे प्रविश्यान्तविलोडिते ।
उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते।।'

     अत्र हि सुरतारम्भगोष्ठ्याम् । 'ताम्बूलदानविधिना विसृजेद्वयस्यां व्द्यर्थैःपदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रस्थितिः ।
आदिशब्दाच्छमकथाप्रभृतिषु बोद्धव्यं ।

स्यातामदोषौ श्लेषादौ निहतार्थाप्रयुक्तते ।। सूत्र ७.१७ ।।

     यथा---

'पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनं ।
हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत।।'

     अत्रैन्द्रपक्षे पवित्रशब्दो निहतार्थः । सिंहपक्षे मतङ्गशब्दो मातङ्गर्थेऽप्रयुक्तः ।

गुणः स्यादप्रवतीतत्वं ज्ञत्वं चेद्वक्तृवाच्ययोः ।

     यथा---

'त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवतिनीं ।
मद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः।।'

        स्वयं वापि परामर्शे---
     अप्रतीतत्वं गुण इत्यनुषज्यते । यथा---
     'युक्तः कलाभिस्तमसां विवृद्ध्यै क्षीणश्च ताभिः क्षतये य एषां ।
     शुद्धं निरालम्बपदावलम्बं तमात्मचन्द्रं परिशीलयामि।।'

कथितं च पदं पुनः ।। सूत्र ७.१८ ।।

विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि ।
दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने ।। सूत्र ७.१९ ।।

अर्थान्तरसंक्रमितवाच्ये हर्षेऽवधारणो ।

     गुण इत्येव । यथा---

 /center>'उदेति सविता ताम्रः---' इत्यादि ।

     अत्र विहितानुवादः ।

'हन्त हन्त गतः कान्तो वसन्ते सखि नागतः ।'

     अत्र विषादः ।

'चित्रं चित्रमनाकाशे कथं सुमुखै चन्द्रमाः ।'

     अत्र विस्मयः ।

'सुनयने नयने निधोहि' इति ।

     अत्र लाटानुप्रासः ।

'नयने तस्यैव नयने च ।'

     इत्यादावर्थान्तरसंक्रमितवाच्यो ध्वनिः । एवमन्यत्रापि ।

सन्दिग्धत्वं तथा व्याजस्तुतिपर्यवसायि चेत् ।। सूत्र ७.२० ।।

     गुण इत्येव । यथा---

'पृथुकार्तस्वरपात्रं भूषितनिः शोषपरिजनं देव ।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्।।'

          वैयाकरणमुख्ये तु प्रतिपाद्येऽथ वक्तरि ।
          कष्टत्वं दुः श्रवत्वं वा---

     गुण इत्येव । यथा---

'दीधीवेवीट्समः कश्चिद्गुणवृद्ध्योरभाजनं ।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते।।'

     अत्रार्थः कष्टः । वैयाकरणश्च वक्ता । एवमस्य प्रतिपाद्यत्वेऽपि ।

'अत्रास्मार्षमुपाध्यायं त्वामहं न कदाचन ।'

अत्र दुः श्रवत्वं । वैयाकरणो वाच्यः । एवमस्य वक्तृत्वेऽपि ।

ग्रम्यत्वमधमोक्तिपु ।। सूत्र ७.२१ ।।

     गुण इत्येव । यथा मम---

'एसो ससहरबिम्बो दीसै हेअङ्गवीणपिण्डो व्व ।
एदे अस्ससमोहा पडन्ति आसासु दुद्धधार व्व।।'

     इयं विदूषकोक्तिः ।

निर्हेतुता तु ख्यातेर्ऽथे दोषतां नैव गच्छति ।

     यथा---

'सप्रति संध्यासमयश्चक्रद्वन्द्वानि विघटयति ।'

कवीनां समये ख्याते गुणः ख्यातविरुद्धता ।। सूत्र ७.२२ ।।

     कविसमयख्यातानि च---

मलिन्यं व्योम्नि पापे, यशसि धवलता वर्ण्यते हासकीर्त्योः

रक्तौ च क्रोधरागौ; सरिदुदधिगतं पङ्कजेन्दीवरादि ।
तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसङ्घो
ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ।। सूत्र ७.२३ ।।

पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैर्-
यूनामङ्गेषु हाराः, स्फुटति च हृदयं विप्रयोगस्य तापैः ।
मौर्वीरोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतो-
र्भिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।। सूत्र ७.२४ ।।

अह्न्यम्भोजं, निशायां विकसति कुमुदं, चन्द्रिका शुक्लपक्षे
मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् ।
न स्याज्जाती वसन्ते; न च कुसुमफले गन्धसारद्रुमाणा-

मित्याद्युन्नेयमन्यत्कविसमयगतं सत्कवीनां प्रबन्धे ।। सूत्र ७.२५ ।।

     एषामुदाहरणान्याकरेषु स्पष्टानि ।

धनुर्ज्यादिष शब्देषु शब्दास्तु धनुरादयः ।
आरूढत्वादिबोधाय---

     यथा---

'पूरिते रोदसी ध्वानैर्धनुर्ज्यास्फालनोद्भवैः ।'

     अत्र ज्याशब्देनापि गतार्थत्वे धनुः शब्देन ज्याया धनुष्यायत्तीकरणं बोध्यते । आदिशब्दात्---
     'भाति कर्णावतंसस्ते ।' अत्र कर्णस्थितत्वबोधनाय कर्णशब्दः । एवं श्रवणकुण्डलशिरःशेखरप्रभृतिः ।
     एवं निरुपपदो मालाशब्दः पुष्पस्त्रजमेवाभिधत्त इति स्थितावपि 'पुष्पमालाविभाति ते ।' अत्र पुष्पशब्द उत्कृष्टपुष्पवृद्ध्यै । एवं 'मुक्ताहार' इत्यत्र मुक्ताशब्देनान्यरत्नामिश्रितत्वं ।

प्रयोक्तव्याः स्थिता अमी ।। सूत्र ७.२६ ।।

     धनुर्ज्यादयः सत्काव्यस्थिता एव निबद्धव्याः, न त्वस्थिता जघनकाञ्जीकरकङ्कणादयः ।

उक्तावानन्दमग्नदेः स्यान्न्यूनपदता गुणः ।

     यथा---

'गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्रमा

सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नतम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी

सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्।।'

     अत्र पीडयेति न्यूनं ।

क्वचिन्न दोषो न गुणः---

     न्यूनपदत्वमित्येव । यथा---

'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति

स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं

सा चात्यन्तमगोचरं नयनयोर्जातेति कोऽयं विधैः।।'

     अत्र प्रभावपिहितेतिं भवेदिति चेत्यनन्तरं 'नैतद्यतः' इति पदानि न्यूनानि । एषां पदानां न्यूनतायामप्येतद्वाक्यव्यङ्ग्यस्य वितर्काख्यव्यभिचारिभावस्योत्कर्षाकरणान्न गुणः । 'दीर्घं न से' त्यादिवाक्यजन्यया च प्रतिपत्त्या तिष्ठेदित्यादिवाक्यप्रतिपत्तेर्बोधः स्फुटमेवावभासत इति न दोषः ।

---गुणः क्वाष्यधिकं पदं ।। सूत्र ७.२७ ।।

     यथा---

'आचरिति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् ।
तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्।।'

     अत्र 'न न जान' इत्ययोगव्यवच्छेदे । द्वितीये 'जान' इत्यनेन नाहमेव जाने इत्यन्ययोगव्यवच्छेदाद्विच्छित्तिविशेषः ।

समाप्तपुनरा त्तत्वं न दोषो न गुणः क्वचित् ।

     यथा---'अन्यास्ता गुणरत्न-' इत्यादि ।
     अत्र प्रथमार्धेन वाक्यसमाप्तावपि द्वितीयार्घवाक्यं पुनरुपात्तं ।
     एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तरस्येति विज्ञेयं ।

गर्भितत्वं गुणः क्वापि---

     यथा---

'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते

सिद्धा सापि वदन्त एव हि वयं रोमाञ्जिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो

यस्मात्प्रादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं मतम्।।'

     अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात्चमत्कारातिशयं पुष्णाति ।

---पतत्प्रकर्षता तथा ।। सूत्र ७.२८ ।।

     तथेति क्वचित्गुणः । यथा---'चञ्चद्भुज-' इत्यादि ।
     अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।

क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।
अनुभावविभावाभ्यां रचना यत्र नोचिता ।। सूत्र ७.२९ ।।

     यत्रानुभावविभावमुखेन प्रतिपादने विशदप्रतीतिर्नास्ति, यत्र च विभावानुभावकृतपुष्टिराहित्यमेवानुगुणं तत्र व्यभिचारिणः स्वशब्देनोक्तौ न दोषः । यथा---

'औत्सुक्येन कृतस्वरा सहभुवा व्यावर्तमाना ह्रिया

तैस्तैर्बन्धुवधूजनस्य वचनैर्नोताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सह्गमे

संहोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः।।'

     अत्रोत्सुक्यस्य त्वरारूपानुभावमुखेन प्रतिपादने सङ्गमे न भ्क्तटिति प्रतीतिः, त्वराया भयादिनापि सम्भवात् । ह्रियोऽनुभावस्य च व्यावर्तमानस्य कोपादिना सम्भवात् । साध्वसहासयोस्तु विभावादिपरिपोषस्य प्रकृतरसप्रतिकूलप्रायत्वादित्येषां स्वशब्दाभिधानमेव न्याय्यं ।

सञ्चार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः ।

     यथा--'क्वाकार्यं शशलक्ष्मणः क्व च कुलम्-' इत्यादि ।
     अत्र प्रशमाङ्गानां वितर्कमतिशङ्काधृतीनामभिलाषाङ्गौत्सुक्यस्मृतिदैन्यचिन्ताभिस्तिरस्कारः पर्यन्ते चिन्ताप्रधानमास्वादप्रकर्षमाविर्भावयति ।

विराधिनोऽपि स्मरणो साम्येन वचनेऽपि वा ।। सूत्र ७.३० ।।

भवेद्विरोधो नान्योन्यमङ्गिन्यङ्गत्वमाप्तयोः ।
     क्रमेण यथा---'अयं स रसनोत्कर्षो-' इत्यादि ।
     अत्रालम्बनविच्छेदे रतेररसात्मतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतया कुणानुकूलता ।

'सरागया स्त्रुतघनघर्मतोयया

कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविलङ्घितोष्ठया

रुषा नृपाः प्रियतमयेव भेजिरे।।'

     अत्र सम्भोगशृङ्गारो वर्णनीयवीरव्यभिचारिणः क्रोधस्यानुभावसाम्येन विवक्षितः ।

'एकं ध्यानिमीलनान्मुकुलितप्रायं द्वितीयं पुनः

पार्वत्या वदनाम्बुजस्तनभरे सम्भोगभावालसं ।
अन्दद्दूरविकृष्टचापकमनक्रोधानलोद्दीपितं

शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः।।'

     अत्र शान्तशृङ्गाररौद्ररसपरिपुष्टा भगवद्विषया रतिः । यथा वा---
     'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
          गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
     आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभैः साश्रुनेत्रोत्पलाभिः
          कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः।।'
     अत्र कविगता भगवद्विषया रतिः प्रधानं । तस्याः परिपोषकतया भगवतस्त्रिपुरध्वंसं प्रत्युत्साहस्यापरिपुष्टतया रसपदवीमप्राप्ततया भावमात्रस्य करुणोऽङ्गं । तस्य च कामीवेतिसाम्यबलादायातः शृङ्गारः ।
     एवं चाविश्रान्तिधामतया करुणस्याप्यङ्गतैवेति द्वयोरपि करुणशृङ्गारयोर्भगवदुत्साहपरिपुष्टतद्विषयरतिभावास्वादप्रकष्रकतया यौगपद्यसम्भावादङ्गत्वेन न विरोधः ।
     ननु समूहालम्बनात्मकपूर्णघनानन्दरूपस्य रसस्य तादृशेनेतररसेन कथं विरोधः सम्भावनीयः ? एकवाक्ये निवेशप्रादुर्भावैर्यौगपद्यविरहेण परस्परोपमर्दकत्वानुपपत्तेः । नाप्यङ्गाङ्गिभावः, द्वयोरपि पूर्णतया स्वातन्त्र्येण विश्रान्तेः ।
सत्यमुक्तं । अत एवात्र प्रधानेतरेषु रसेषु स्वातन्त्र्यविश्रामराहित्यात्पूर्णरसभावमात्राच्च विलक्षणतया संचारिरसनाम्ना व्यपदेशः प्राच्यानां । अस्मत्पितामहानुजकविपण्डितमुख्यश्रीचण्डीदासपादानां तु खण्डरसनाम्ना । यदाहुः---

'अङ्गं बाध्योऽथ संसर्गो यद्यङ्गी स्याद्रसान्तरे ।
नास्वाद्यते समग्रं तत्ततः खण्डरसः स्मृतः।।' इति ।

     ननु 'आद्यः करुणवीभत्सरौद्रवीरभयानकैः' इत्युक्तनयेन विरोधिनोर्बोरशृङ्गारयोः कथमेकत्र---

'कपोले जानक्याः करिकलभदन्तद्युतिमुषि

स्मरस्मेरस्फारोड्डमरपुलकं वक्त्रकमलं ।
मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं

जटाजूट्ग्रन्थिं द्रढयति रघूणां परिवृढः।।'

     इत्यादौ समवेशः । अत्रोच्यते---इह खलु रसानां विरोधिताया अविरोधितायाश्च त्रिधा व्यवस्था ।
कयोश्चिदालम्बनैक्येन, कयोश्चिदाश्रयैक्येन, कयोश्चिन्नैरन्तर्येणोति । तत्र वीरशृङ्गारयोरालम्बनैक्येन विरोधः ।
तथा हास्यरौद्रबीभत्सैः सम्भोगस्य । वीरकरुणरौद्रादिभिर्विप्रलम्भस्य । (आलम्बनैक्यने) आश्रयैक्येन च वीरभयानकयोः ।
नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः । त्रिधायं विरोधो वीरस्याद्भुतरौद्राभ्यां । शृङ्गारस्याद्भुतेन भयानकस्य बीभत्सेनेति । तेनात्र वीरशृङ्गारयोभिन्नालम्बनत्वान्न विरोधः ।
     एवं च वीरस्य नायकनिष्ठत्वेन भयानकस्य प्रतिनायकनिष्ठत्वेन निबन्धे भिनानश्रयत्वेन न विरोधः । यश्च नागानन्दे प्रशमाश्रयस्यापि जीमूतवाहनस्य मलयवत्यनुरागो दर्शितः, तत्र 'अहो गीतमहो वादित्रम्' इत्यद्भुतस्यान्तरा निवेशनान्नैरन्तर्याभावान्न शान्तशृङ्गारयोर्विरोधः । एकमन्यदपि ज्ञेयं । 'पाण्डुक्षामं वदनम्-' इत्यादौ च पाण्डुतादीनामङ्गभावः करुणविप्रलम्भेऽपीति न विरोधः ।

अनुकारे च सर्वेषां दोषाणां नैव दोषता ।। सूत्र ७.३१ ।।

     सर्वेषां दुः श्रवत्वप्रभृतीनां । यथा---

'एष दुश्च्यवनं नौमीत्यादि जल्पति कश्चन ।'

     अत्र दुश्च्यवनशब्दोऽप्रयुक्तः ।

अन्येषामपि दोषाणामित्यौचित्यान्मनीषिभिः ।
अदोषता च गुणता ज्ञेया चानुभयात्मता ।। सूत्र ७.३२ ।।

     अनुभयात्मता अदोषगुणता ।

इति साहित्यदर्पणे दोषनिरूपणो नाम सप्तमः परिच्छेदः ।