सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.6 षष्ठी दशतिः

विकिस्रोतः तः

विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥ ४३७ ॥

एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ ४३८ ॥

ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥ ४३९ ॥
श्लोकम्

अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तं ॥ ४४० ॥
अनुश्लोकम्

शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिं ॥ ४४१ ॥

सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥ ४४२ ॥

आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः ॥ ४४३ ॥

उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ ४४४ ॥

अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥ ४४५ ॥

प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ ४४६ ॥