सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.4 चतुर्थी दशतिः

विकिस्रोतः तः


आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ ४१९ ॥

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।
शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥ ४२० ॥
उत्सेधः-निषेधः

महे नो अद्य बोधयोषो राये दिवित्मती ।
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ ४२१ ॥

भद्रं नो अपि वातय मनो दक्षमुत क्रतुं ।
अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥ ४२२ ॥
पौषम्

क्रत्वा महां अनुष्वधं भीम आ वावृते शवः ।
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसं ॥ ४२३ ॥

स घा तं वृषणं रथमधि तिष्ठाति गोविदं ।
यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी ॥ ४२४ ॥

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ ४२५ ॥

न तमंहो न दुरितं देवासो अष्ट मर्त्यं ।
सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥ ४२६ ॥