सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.10 दशमी दशतिः

विकिस्रोतः तः

प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
सुता विदथे अक्रमुः ॥ ४७७ ॥
सꣳहितम्
सौभरे द्वे

प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः ।
वनानि महिषा इव ॥ ४७८ ॥
सौभरे द्वे

पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ॥ ४७९ ॥

वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वर्दृशं ॥ ४८० ॥

इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः ।
सृजदश्वं रथीरिव ॥ ४८१ ॥

असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः ॥ ४८२ ॥

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ ४८३ ॥

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं ।
ज्योतिर्वैश्वानरं बृहत् ॥४८४ ॥

परि स्वानास इन्दवो मदाय बर्हणा गिरा ।
मधो अर्षन्ति धारया ॥ ४८५ ॥

परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
कारुं बिभ्रत्पुरुस्पृहं ॥ ४८६ ॥