साधनदीपिका/षष्ठकक्षा

विकिस्रोतः तः
← पञ्चमकक्षा साधनदीपिका
षष्ठकक्षा
[[लेखकः :|]]
सप्तमकक्षा →

षष्ठकक्षा

श्रीराधिकायै नमः

वन्देऽहं श्रीलराधायाः पदचिन्तामणिं सदा ।
श्रीकीर्तिदागर्भखनिप्रादुर्भूतं सुभास्वरम् ॥१॥
श्रीगोविन्दप्रियतमा वरेयं वृषभानुजा ।
तत्सुखं नित्यमिच्छन्ती वपुषा वचसा धिया ॥२॥
स यथा गोकुले साक्षाद्व्रजेन्द्रसुत ईर्यते ।
तस्य कान्ता तथा साक्षाद्वृषभानुसुता स्मृता ॥३॥
यदा यथेच्छा भवति निजप्रियतमस्य हि ।
तदा तथैव कुर्वती तेनैव सह दीव्यति ॥४॥
मौनमुद्रां धृते कृष्णे व्रजेऽस्मिन् प्रकटं गते ।
स्वया तन्मौद्रया युक्ता तत्पूर्वं प्रकटं गता ॥५॥
अत्रापि श्रूयते काचित्कथा पौरातनी शुभा ।
विप्रो बृहद्भानुनामा दाक्षिणात्यः सुवैष्णवः ॥६॥
ओड्रदेशनिवासी स राधानगरग्रामके ।
पुंस्त्रीभावेन तेनेयं कति वर्षाणि सेविता ।
यदियं करुणा यस्यास्तत्र किञ्चिन्न दुर्घटम् ॥७॥
श्रीगोविन्दस्थालावासी श्रीगोपालो दयाम्बुधिः ।
साक्ष्यं दातुं ब्राह्मणस्य स्वपदाभ्यां यतो गतः ॥८॥
अद्यापि राजते ओड्रदेशेऽसौ भक्तवत्सलः ।
कर्तुं न कर्तुं तत्कर्तुं समर्थो हरिरीश्वरः ।
यथा हरिस्तथा सेयं तत्प्रिया परमेश्वरी ॥९॥
ततः कियद्दिनान्तेऽस्मिन् ब्राह्मणेऽप्रकटं गते ।
तद्ग्रामवासिभिर्गूढं सेव्यते वृषभानुजा ॥१०॥
ततः श्रीरूपगोस्वामिद्वारास्मिन् वृन्दिकावने ।
गोविन्दे प्रकटं गते साक्षाद्गोपेन्द्रनन्दने ॥११॥
श्रीमत्प्रतापरुद्रस्य पुत्रः परमसुन्दरः ।
महाभागवतो धीरः संमतं साधुमण्डलैः ॥१२॥
श्रीमत्पण्डितगोस्वामिशिष्यस्तत्राधिकारवान् ।
तस्मिन्नाज्ञाभवद्रात्रौ श्रीगोविन्दप्रियामणेः ॥१३॥
मत्प्राणनाथो गोविन्दः साक्षाच्छ्रीनन्दनन्दनः ।
रूपद्वारा व्रजे तस्मिन्निदानीं प्रकटं गतः ॥१४॥
शीघ्रं यास्यामि तत्राहं नोचितात्र स्थितिर्मम ।
नाम्ना गदाधरः ख्यातो मद्रूपः पण्डितः सुधीः ॥१५॥
प्रस्थापयतु मां यत्र शिष्यद्वारा त्वरान्वितः ।
सोऽपि तद्वचनं श्रुत्वा राजा परमविस्मितः ॥१६॥
तदानेनैव रूपेण श्रीश्वरी प्रापिता व्रजे ।
राधागदाधरप्रियशिष्ययुग्मेन धीमता ॥१७॥
पथि संसेव्य संसेव्य सानीता परमेश्वरी ।
यदा मद्ईश्वरी राधा गोविन्दवामपार्श्वगा ।
भवेत्तदैवास्य शोभाविशेषो हि विवर्धते ॥१८॥

अत्र प्रमाणं श्रीगोविन्दलीलामृते (१३.३२)

राधासङ्गे यदा भाति तदा मदनमोहनः ।
अन्यथा विश्वमोहोऽपि स्वयं मदनमोहितः ॥

श्रीभागवते च तत्रातिशुशुभे ताभिः (१०.३३.६) इति ।

अस्याः सौन्दर्यमाधुर्यसौशील्यादिकमेव यत् ।
दर्शनादेव ज्ञातव्यं तस्मान्नात्र विलिख्यते ॥१९॥

यथा राधा तथा विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥ इति पाद्मोक्तात् ।

सत्त्वं तत्त्वं परत्वं च तत्त्वत्रयमहं किल ।
त्रितत्त्वरूपिणी सापि राधिका मम वल्लभा ॥
प्रकृतेः पर एवाहं सापि मच्छक्तिरूपिणी ।

इति बृहद्गौतमीये श्रीकृष्णवचनात् ।

कऋष्णवन्नित्यसौन्दर्यवैदग्ध्यादिगुणाश्रया ।
गोपीगणमहिषीगणलक्ष्मीगणप्रकाशिका ॥

सदैव मध्यालक्षणाक्रान्ता, तथा कमलाष्टदलभाग्भिः अर्वसखीवर्ग
मुख्याभिः परमेष्टाभिः श्रीललिताद्य्अष्टसखीभिः सह विराजमाना श्री
राधिकैव श्रीवृन्दावनेश्वरी महाराज्ञी, यथा बृहद्गौतमीये

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।
सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥ इति ।

यथा मात्स्यस्कान्दाभ्याम्

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।

श्रीवृन्दावनेश्वरी राधिका । तस्यामेव पर्मोत्कर्षपराकाष्ठाया दर्शितत्वात्
। श्रीप्रीतिसन्दर्भे चतत्प्रेमवैशिष्ट्यं तदेव मुख्यमिति । प्रेम
वैशिष्ट्यं यथा श्रीमद्उज्ज्वले (५.९८)

कर्तुं शर्म क्षणिकमपि मे साध्यमुज्झत्यशेषं
चित्तोत्सङ्गे न भजति मया दत्तखेदाप्यसूयाम् ।
श्रुत्वा चान्तर्विदलति मृषाप्यार्तिवार्तालवं मे
राधा मूर्धन्यखिलसुदृशां राजते सद्गुणेन ॥

श्रीभागवते च (१०.३०.२८)
अनयाराधितो नूनं भगवान् हरिरीश्वरः । इति ।

यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ।
सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् ॥ (१०.३०.३६)

तापनीभ्यश्च (२.१२)
तासां मध्ये गान्धर्वा श्रेष्ठा इति च ।

केवलं यो भजेद्भक्तो माधवं राधिकां विना ।
माधवो नैव तुष्टः स्यात्साधनं तद्वृथा भवेत् ॥ इति ।

एवं दानकेलिकौमुद्यां (७७)

नान्दीमुखी: सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ भअबदी बिण्णत्ता "हन्त
जोएसरि, बुन्दाबणरज्जे अहिसिञ्चज्जौ राही । (सखि चित्रे शृणु अनया वृन्दया गत्वा
भगवती विज्ञप्ता "हन्त योगेश्वरि, वृन्दावनराज्ये अभिषिच्यतां राधा ।")

मत्तण्डमहिसीए भणिदं भअबदि, अणदिक्कमणिज्जं तुम्हसासणं णिच्चिदं
क्खु अम्हेहिं सिरे गहीदं, किन्तु कहिं महिट्ठा एसा बच्छा राही, कहिं बा
सोलहकोहमेत्तबित्थिण्णमेदं बुन्दाबणरज्जं त्ति ण सुट्ठु पसीदै मे हिअअम्
। (ततः कनिष्ठया मार्तण्डमहिष्या छायया भणितं भगवति
अनतिक्रमणीयं युष्मत्शासनं निश्चितं खलु अस्माभिः शिरसि गृहीतं किन्तु क्व
महिष्ठा एषा राधा क्व वा षोडशक्रोशमात्रविस्तीर्णमिदं वृन्दावन
राज्यमिति । न सुष्ठु प्रसीदति मे हृदयम् । तेन सर्वब्रह्माण्डाधिपत्य
एवाभिषिच्यतामिति भावः ।)

(इति संस्कृतेन) सखि सवर्णे समाकर्णय

आम्नायाध्वरतीर्थमन्त्रतपसां स्वर्गाखिलस्वर्गिणां
सिद्धीनां महतां द्वयोरपि तयोश्चिच्छक्तिवैकुण्ठयोः ।
वीर्यं यत्प्रथते ततोऽपि गहनं श्रीमाथुरे मण्डले
दीव्यत्तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥

किं च श्रीराधिकामध्यायामेव (उज्ज्वले ५.४२)

प्रायः सर्वरसोत्कर्षो मध्यायामेव युज्यते ।
यदस्यां वर्तते व्यक्ता मौग्ध्यप्रागल्भ्ययोर्युतिः ॥ इति ।

तथा हि (नरहरिसरकारस्य राधिकाष्टके, ६)

भक्तिं न कृष्णचरणे न करोमि चार्तिं
राधापदाम्बुजरजःकणसाहसेन ।
तस्या दृग्अञ्चलनिपातविशेषवेत्ता
दैवादयं मयि करिष्यति दासबुद्धिम् ॥

पुनः श्रीकृष्णसन्दर्भे (२८९) चवृन्दावने श्रीराधिकायामेव स्वयं
लक्ष्मीत्वम् । अतएव सतीष्वन्यास्वपि मुख्याभिप्रायेणैव तस्या एव
वृन्दावनाधिपत्येन नामग्रहणम् ।

तथा श्रीलघुगणोद्देशे (१३५)

आभीरसुभ्रुवां श्रेष्ठा राधा वृन्दावनेश्वरी ।
अस्याः सख्यश्च ललिताविशाखाद्याः सुविश्रुताः ॥

तथा हि पाद्मे कार्त्तिकमाहात्म्ये (५.७७.३९) ब्रह्मनारदसंवादे

वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ इति ।

अन्यत्र साधारणदेशे देव्य्एवाधिकारिणी श्रीवृन्दावनाभिधवने श्री
राधिकैवेत्यर्थः ।

अथ श्र्यूर्ध्वाम्नाये

ईश्वर उवाच
अथातः संप्रवक्ष्यामि राधिकाया मनून् शुभान् ।
येषां विज्ञानमात्रेण वशीकुर्याद्व्रजाधिपम् ॥१॥
कामो रमा राधिका च णेता पावकवल्लभा ।
अष्टाक्षरो महामन्त्रः सर्वज्ञत्वप्रदायकः ॥२॥
अगस्त्यो मुनिरेतस्य छन्दस्तु जगती स्मृतम् ।
देवता सुन्दरी प्रोक्ता राधिका परमेश्वरी ॥३॥
मायाबीजं परा शक्तिः स्वाहा शक्तिरुदीरिता ।
कीलकं कामबीजाख्यं षड्दीर्थस्वरभेदतः ॥४॥
श्रीबीजेन षड्अङ्गानि कुर्यात्सर्वार्थसिद्धये ।
ध्यानमस्याः प्रवक्ष्यामि श्रीकृष्णप्रीतिकारकम् ॥५॥
अशोकवनमध्यस्थां सर्वावयवसुन्दरीम् ।
गोपीं षोडशवर्षीयां पीनोन्नतपयोधराम् ॥६॥
दक्षहस्तसमाक्रान्तकृष्णकण्ठावलम्बिनीम् ।
वामहस्तेन कमलं भ्रामयन्तीं सुलोचनाम् ॥७॥
नीलाम्बरपरीधानां तडित्काञ्चनविग्रहाम् ।
सङ्केतवटसुच्छायरत्नवेदीपरिस्थिताम् ॥८॥
रहस्यचेटिकायुग्मपृष्ठदेशानुसेविताम् ।
मिथश्चुम्बनमालापपरीरम्भपरायणाम् ॥९॥
सम्पूर्णचन्द्रसाहस्रवदनां रुचिरस्मिताम् ।
एवंविधां महेशानि भावयेद्वृषभानुजाम् ॥१०॥

शुक्लाचतुर्दशीतः कृष्णाष्टमीपर्यन्तं लक्षजपविधिर्दशदिवसप्रयोगः


लक्षमात्रं जपेन्मन्त्रं शुभे देशे सुसंयुतः ।
राधाकुण्डेऽथ सङ्केते श्रीमद्गोवर्धनाचले ॥११॥
किं वा मानसगङ्गायां यमुनायास्तटेऽथवा ।
वृन्दावने महाकुञ्जे माधवीमण्डपान्तरे ॥१२॥
वैशाखे कार्त्तिके वापि मासे चैवाग्रहायणे ।
सर्व एव शुभः कालः पुरश्चर्याजपादिषु ॥१३॥
चम्पकै रक्तपदमैर्वा दशांशं जुहूयात्ततः ।
यथोक्तविहिते कुण्डे त्रिमध्व्आक्तैर्महेश्वरि ॥१४॥
बिल्वीदलैः किंशुकैर्वा शर्करातिलसर्पिषा ।
तत्तत्कामेन होतव्यं तैस्तैर्द्रव्यैर्विधानतः ॥१५॥
राज्यकामेन होतव्यं पद्माक्षैः पायसेन च ।
विद्याकामेन होतव्यं ब्रह्मवृक्षप्रसूनकैः ॥१६॥
लक्ष्मीकामेन होतव्यं विशेषात्तिलसर्पिषा ।
स्तम्भनार्थी च जुहुयात्किंशुकैश्चम्पकैस्तथा ॥१७॥
वश्यार्थी जुहुयाद्देवि द्राक्षया सितया पुनः ।
उच्चाटे केतकीपत्रैः सर्वत्र तिलसर्पिषा ॥१८॥
भूतिकामेन होतव्यं मधुना सर्पिषा तथा ।
एवं सिद्धमनुर्मन्त्री साधयेत्सकलेप्सिताम् ॥१९॥
विशेषादमुना नूनं कृष्णवश्यत्वमाप्नुयात् ।
यो न जानाति राधाया मन्त्रं सर्वार्थसाधकम् ॥२०॥
तस्य कोटिप्रजप्तोऽपि गोपालो नात्र सिद्धिदः ।
तस्माद्यथोक्तविधिना साधयेद्वृषभानुजाम् ॥२१॥
[राधिकाष्टोत्तरशतनामस्तोत्रम्]

अथैव सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
यस्य संकीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥१॥
राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥
वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
गोवर्धनचरी गोप्या गोपीवेशमनोहरा ॥३॥
चन्द्रावलीसपत्नी च दर्पणास्या कलावती ।
कृपावती उप्रतीका तरुणी हृदयङ्गमी ॥४॥
कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥५॥
केकराक्षी हरेः कान्ता महालक्ष्मीः सुकेलिनी ।
सङ्केतवटसंस्थाना कमनीया च कामिनी ॥६॥
वृषभानुसुता राधा किशोरी ललितालता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥७॥
केशिनी केशवसखी नवनीतैकविक्रया ।
षोडशाब्दा कलापूर्णा जारिणी जारसङ्घिनी ॥८॥
हर्षिणी वर्षिणी वीरा धीराधीरा धराधृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥
वृषभानुपुरावासा मानलीलाविशारदा ।
दानलीलादानदात्री दण्डहस्ता भ्रुवोन्नता ॥१०॥
सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।
सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥११॥
तारिणी हारिणी हीर्ला शीलालीलाललामिका ।
गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥
स्वाधीनपतिका चोक्ता खण्डिता चाभिसारिका ।
रसिका रसिनी रस्या रसशास्त्रैकशेवधिः ॥१३॥
पालिका लालिका लज्जा लालसा ललनामणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥
मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।
मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥१५॥
अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।
इत्येतद्राधिका देव्या नाम्नामष्टोत्तरं शतम् ॥१६॥
कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।
एकैकनामोच्चारेण वशीभवति केशवः ॥१७॥
वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।
पादयोश्च क्रमेणार्णान्न्यसेन्मन्त्रोद्भवान् पृथक् ॥

क्लीं श्रीं राधिकायै स्वाहा । अस्य श्रीराधिकामन्त्रस्यागस्त्यर्षिर्जगती
छन्दः । श्रीराधिका परमेश्वरी देवता क्लीं बीजं स्वाहा शक्तिः क्लीं श्रीं
कीलकं श्रीकृष्णवश्यर्थजपे विनियोगः । अगस्त्यर्षये नमः (शिरसि) । जगती
छन्दसे नमः (मुखे) । राधिकादेवतायै नमः (हृदये) । क्लीं बीजाय नमः
(गुह्ये) । श्रीं स्वाहाशक्तये नमः (पादयोः) । क्लीं श्रीं कीलकाय नमः
(सर्वाङ्गेभ्यः) । क्लीमङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । क्लीं
मध्यमाभ्यां नमः । क्लीमनामिकाभ्यां नमः । क्लीं कनिष्ठाभ्यां
नमः । क्लीं श्रीराधिकायै स्वाहा करतलपृष्ठाभ्यां नमः । क्लीं हृदयाय
नमः । श्रीं शिरसे स्वाहा । राधिकायै स्वाहा शिखायै वषट् । क्लीं कवचाय हूं
। श्रीं राधिकायै स्वाहा अस्त्राय फट् ।

ध्यात्वा जपेत् । लक्षमात्रं पुरश्चरणम् । कलौ चतुर्लक्षं जप्त्वा च
कुशलीभवेत् ।

श्रीं राधिकायै विद्महे क्लीं वृषभानुजायै धीमहि तन्नो गोपी प्रचोदयात् ।
प्रिया गायत्र्या ब्रह्मा ऋषिर्गायत्री छन्दः श्रीराधिका देवता श्रीकृष्णप्रीतये
जपे विनियोगः । श्रीश्रीराधिकायै विद्महे अङ्गुष्ठाभ्यां नमः । क्लीं
वृषभानुजायै धीमहि तर्जनीभ्यां स्वाहा । तन्नो गोपी प्रचोदयात्
मध्यमाभ्यां वषट् । श्रीं राधिकायै विद्महे अनामिकाभ्यां हुम् । क्लीं
वृषभानुजायै धीमहि कनिष्ठाभ्यां वषट् । तन्नो गोपी प्रचोदयात्करतल
करपृष्ठाभ्यां फट् । एवं हृदयादिष्वपि ।

अथ ध्यानम् ।

सूर्यमण्डलमध्यस्थां ल्केहनीपुस्तिकान्विताम् ।
श्रीकृष्णसहितां ध्यायेत्त्रिसन्ध्यं राधिकेश्वरीम् ॥

अथाष्टादशाक्षरमहाराजमन्त्रप्रयोगः । ओमस्य श्र्यष्टादशाक्षरश्री
राधिकामन्त्रस्य संमोहनर्षिरनुष्टुप्छन्दः श्रीराधा देवता स्वाहा
शक्तिः क्लीं कीलकं श्रीकृष्णप्रीत्य्अर्थे जपे विनियोगः । संमोहनर्षये नमः
(शिरसि) । अनुष्टुप्छन्दसे नमः (मुखे) । श्रीराधा देवतायै नमः
(हृदये) । रां राधिके कवचाय हुम् । कृष्णवल्लभे शिखायै वषट् । गायत्री
सर्वाङ्गे । श्रीराधिकायै विद्महे कृष्णवल्लभायै धीमहि तन्नो गोपी
प्रचोदयात् ।

अथ अङ्गन्यासः । श्रीमङ्गुष्ठाभ्यां नमः । राधिकायै तर्जनीभ्यां नमः
। विद्महे मध्यमाभ्यां नमः । कृष्णवल्लभायै अनामिकाभ्यां नमः ।
धीमहि कनिष्ठाभ्यां नमः । तन्नो गोपी प्रचोदयात्करतलकर
पृष्ठिकाभ्यां नमः । श्रीं हृदयाय नमः । राधिकायै शिरसे स्वाहा । विद्महे
कवचाय हूम् । कृष्णवल्लभायै धीमहि नेत्रत्रयाय वौषट् । तन्नो गोपी
प्रचोदयातस्त्राय फट् ।

अथ ध्यानम्

तप्तहेमप्रभां नीलकुञ्चिताबद्धमौलिकाम् ।
शरच्चन्द्रमुखीं नृत्यच्चकोरीचारुलोचनाम् ॥
सर्वावयवसौन्दर्यां सर्वाभरणभूषिताम् ।
नीलाम्बरधरां कृष्णप्रियां किशोरीमाश्रये ॥

ह्रीं श्रीं क्लीं रां राधिकायै कृष्णवल्लभायै गोप्यै स्वाहा । जपनियमं
लक्षमात्रम् । पुरश्चरणं कलौ चतुर्गुणम् । साक्षात्काराय भवेदित्यर्थः
। मायाबीजमन्तरङ्गाबहिरङ्गाचिच्छक्तिस्वरूपम् । लक्ष्मीबीजं पर
ब्रह्मानन्दसर्वलक्ष्मीसर्वशक्तिस्वरूपम् । कामबीजं साक्षान्मन्मथ
मन्मथलीलाविलासश्रीकृष्णस्वरूपम् । रकारः शुक्लभास्कररूपः । आ
कारः समस्तैश्वर्यरूपः । बिन्दुः समस्तमाधुर्यरूपः । कला समस्त
संयोगरूपः । तत्र

कलाया नित्यसंयोगो बिन्दुर्माधुर्यमिष्यते ।
नारायणोन्निजैश्वर्यं रकारः शुक्लभास्करः ॥

किं च, प्राणायमविधिःएकेनापूरयेद्वामे चतुर्भिः । कुम्भयेदथ । ईडादि
क्रमतो मन्त्री ततो द्वाभ्यां विरेचयेत् ।

अथ श्रीराधिकायाः प्रियतमश्रीपञ्चाक्षरीमन्त्रविधानं पूर्ववत् ।
अथ श्रीगोपेश्वरीसाधनम्

अथास्याः साधनं वक्ष्ये गोपेश्वर्या विशेषतः ।
राकायां पूर्णचन्द्रे तु सायमारभ्य यत्नतः ॥१॥
नित्यकृत्यं निर्वर्त्य जपहोमादिकं तथा ।
ततो मध्यदिवं गते शीतभानौ सुमण्डले ॥२॥
अधः संरोपयेत्पात्रं विशालं राजतादिकम् ।
तन्मध्ये पूरयेत्तोयं यामुनं गाङ्गमेव वा ॥३॥
द्विर्आवृत्त्या मातृकया आरोहादवरोहतः ।
अथवा पुष्करादौ च विमले तीर्थवारिणि ॥४॥
प्रपश्येत्सुमना भूत्वा सम्पूर्णं चन्द्रमण्डलम् ।
बिम्बितं सुस्थिरीभूतं पीठबुद्ध्या विभावयेत् ॥५॥
दिग्बन्धं विधिना कृत्वा विघ्नानुत्सारयेत्सुधीः ।
पीठन्यासं ततः कुर्यात्सम्पूर्णे चन्द्रमण्डले ॥६॥[*Eण्ड्ण्Oट्E ॰११]
प्रकृतिं चैव कूर्मं च सुधासिन्धुमहोहरम् ।
मणिदीपं तथा दिव्यं चिन्तामणिगृहं तथा ॥७॥
पारिजातं तस्य मूले रत्नवेदी सुविस्तराम् ।
रत्नपीठं चतुर्दिक्षु गोपकन्याः स्व्अलङ्कृताः ॥८॥
कुरङ्गशावकांश्चापि रत्नदण्डान्मनोहरान् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चांसकोरुषु ॥९॥
अधर्मादीन्न्यसेद्वक्त्रे वामपार्श्वे च नाभितः ।
दक्षपार्श्वे तथा दिव्यगोपीरॣपान् विचिन्त्य च ॥१०॥
आनन्दमयकन्दं च नालं चैतन्यरूपकम् ।
सर्वात्मकं तथा पाद्मं पर्णान् प्रकृतिरूपिणः ॥११॥
केशरांश्च विचाराख्यान् कर्णिकां मातृकामयीम् ।
वह्न्य्अर्कचन्द्रबिम्बानि उपर्युपरि विन्यसेत् ॥१२॥
सत्त्वं रजस्तमश्चैव नैर्गुण्याञ्चापि विन्यसेत् ।
आत्मानमन्तरात्मानं परमात्मानमेव च ॥१३॥
लक्ष्मीरतिसरस्वत्यः प्रीतिः कीर्तिश्च शान्तिका ।
तुष्टिः पुष्टिस्तथा चैता विन्यसेत्पीठमध्यतः ॥१४॥
मध्ये च विन्यसेच्छ्रीमद्वृषभानुपुरालयम् ।
तत्र सङ्केतकुञ्जान्तर्दिव्याशोकलता वने ॥१५॥
भावयेन्नीलवसनां सर्वावयवशोभिताम् ।
सर्वाभरणशोभाढ्यां सहितां नन्दसूनुना ॥१६॥
सामान्यार्धं ततः कृत्वा शुद्धेन तीर्थवारिणा ।
पाद्यार्घ्याचमनीयं च मधुपर्कातिषेचने ॥१७॥
मूलमन्त्रेण संस्थाप्य विक्षेपार्घ्यं विधापयेत् ।
सीतोपलजलेनापि पक्वेन पयसाथवा ॥१८॥
तन्मध्ये निक्षिपेज्जातीलवङ्गघुसृणादिकम् ।
एलाबीजानि कर्पूरं मूलेनैवाभिमन्त्रयेत् ॥१९॥
आधारे भोजने क्षीरे वह्न्य्अर्कशशिमण्डलम् ।
पूजयित्वा चन्दनाद्यैस्तत आवाहयेत्प्रियाम् ॥२०॥
तुलसीपुष्पसंयुक्तपुष्पाञ्जलिमुपाददत् ।
वहन्नासापुटां तेजोरूपां श्रीवृषभानुजाम् ॥२१॥
आनीय पूजापीठान्तः पूजयेदुपचारकैः ।
पाद्यादिं तु ततस्तत्तन्मुद्रयाप्याययेत्तराम् ॥२२॥
विशेषार्घ्यस्थसुधया मूलमन्त्रेण सप्तधा ।
गन्धपुष्पं तथा धूपं दीपं नविएद्यभाजनम् ॥२३॥
कल्पयेत्परया भक्त्या तथा श्रीनन्दसूनवे ।
अष्टादशार्णमन्त्रेण उपचारान् पृथक्पृथक् ॥२४॥
कीर्तिं च वृष्भानुं च यशोदां नन्दमेव च ।
अन्याश्च मातृका गोपीस्तयोः पृष्ठे प्रपूजयेत् ॥२५॥
सङ्केतं पूजयेद्भक्त्या वृषभानुपुरं तथा ।
वरसानुं प्रपूज्याथ नन्दीशैलं प्रपूजयेत् ॥२६॥
नन्दग्रामं च सम्पूज्य अशोकवनवल्लरीम् ।
पीयूषवापिकां पूज्य पूजेत्मानसरोवरम् ॥२७॥
ततो भानुसर इष्ट्वा पूजयेत्पुष्पवाटिकाम् ।
राधायाः परितः पश्चात्पूजयेदष्ट ताः सखीः ॥२८॥
राधा कृष्णा च ललिता विशाखा चञ्चला तथा ।
चित्रा मित्रा च मुदिता इत्येताः पूजयेत्क्रमात् ॥२९॥

तद्बाह्ये पूजयेद्गोपीं विशालां सुभगां तथा ।
रङ्गविद्यां रङ्गदेवीं गान्धर्वीं गायिकां तथा ॥३०॥
सुन्दरीं सुभगां शोभां पौर्णमासीं च चन्द्रिकाम् ।
वीरां वृन्दां च विदितां वन्दितां नन्दितां तथा ॥३१॥

तद्बाह्ये पूजयेद्यत्नाद्गोपिकाः सर्वसौख्यदाः ।
चन्द्रा चन्द्रप्रभा काम्या माधुरी मधुरा प्रिया ॥३२॥
प्रेयसी प्रेषिता प्रेष्या मोदिनी श्यामलामला ।
श्यामा कामा रमा रामा रमणी रत्नमञ्जरी ॥३३॥
शृङ्गारमञ्जरी शीला रत्नशाला रसा रुषाः ।
रङ्गिणी मानिनी मन्या धीरा धन्या धरा धृतिः ॥३४॥
भामा सुवर्णवल्ली च इत्येताः क्रमशो यजेत् ।

तद्बाह्ये चम्पकलतामालतीमल्लिकारुणाः ॥३५॥
अशोकललिता लोला मीनाक्षी मदनामतिः ।
सुमतिः सुप्रतीका च सुखदा कलिका कला ॥३६॥
कादम्बिनी किशोरी च युग्मिका युगला युगा ।
वल्लभा वल्लिका वेला वेल्लिनी रत्नवल्लरी ॥३७॥
कमला कोमला कुल्या कल्याणी वलयावला ।
धर्मा सुधर्मा सानन्दा सुनन्दासुमुखामुखाः ॥३८॥
सुश्रीः सुरूपा कुमुदा कौमुदीसुस्मितामिताः ।
कोकिला कोकिलालापा भावनी सुप्रभा प्रभा ॥३९॥
मदनेशी मालिल्का च कनका कनकावती ।
नीला ललामा ललना माधवी मधुविभ्रमा ॥४०॥
वासन्तिका च सुनसा प्रेमा प्रेमवती परा ।
शृङ्गारिणी शृङ्गनी च सुकचा मण्डनावली ॥४१॥
चतुःषष्ठि रमाः पूज्या विशेषार्घ्यसुधायुतैः ।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यकैः पृथक् ॥४२॥

तद्बाह्ये पूजयेद्भूरि श्रीमद्वृन्दावनं महत् ।
गोवर्धनं रत्नशैलं हेमशैलं सुधाचलम् ॥४३॥
इन्द्रादीन् पूजयेत्पश्चादुत्तरोत्तरतः सुधीः ।
एवं पूजाविधिं कृत्वा कुर्यादारात्रिकं महत् ॥४४॥
आत्मार्पणं ततः कृत्वा संहारमुद्रया मुहुः ।
राधिकां नन्दसूनुं च निजे हृदि विसर्जयेत् ॥४५॥

निजेष्टमन्त्रजपपूजया अर्धरात्रिपर्यन्तं विधानम् ।

इति श्र्यूर्ध्वाम्नाये महातन्त्रे श्रीमद्गोपेश्वरीविधानं समाप्तम् ।

अथ सम्मोहनतन्त्रे पञ्चबाणेश्वरीविधानम् ।

वृषभानुसुता सैव पञ्चबाणेश्वरी स्वयम् ।
संक्षोभणं द्रावणं च तथैवाकर्षणं प्रिये ॥१॥
वशीकरणमेवापि उन्मादनमनुत्तमम् ।
एते पञ्च महाबाणा नन्दसूनोर्मनः स्पृशः ॥२॥
राधिकायाः कटाक्षेपे मन्मथस्य व्यवस्थितेः ।
अत्रीशवह्निपाशैश्च संक्षोभणमुदाहृतम् ॥३॥
तदेव वामनेत्राढ्यं द्रावणं नाम कीर्तनम् ।
आकर्षणं कामबीजं वशीकरणमुच्यते ॥४॥
पवर्गतृतीयं पृथ्वी वामकर्णे सुभूषिताः ।
भृगुः सर्गी महेशानि उन्मादनमुदाहृतम् ॥५॥
ओं नमो राधिकायै च गोपेश्वर्यै शुचिप्रिया ।
अष्टादशाक्षरो मन्त्रः सर्वसिद्धिप्रदायकः ॥६॥
दुर्वासा ऋषिरेतस्य छन्दोऽनुष्टुप्प्रकीर्तितम् ।
प्रणवो बीजमेतस्य स्वाहा शक्तिरुदाहृता ।
ध्यानपूजादिकं चास्य पूर्ववत्परिकीर्तितम् ॥७॥

अतिसितवसनां विशालनेत्रां
विविधविलासपरां प्रियेण साकम् ।
सुविपुलमणिपीठगां किशोरीं
हृदि वृषभानुसुतां स्मरेत नित्यम् ॥८॥

खण्डत्रयेण मन्त्रस्य द्विर्आवृत्त्या षड्अङ्गकम् ।
इमां विद्यां समासाद्य व्यासाद्या ऋषिपुङ्गवाः ॥९॥
ब्रह्माद्या देवताश्चापि इन्द्राद्याश्च दिग्ईश्वराः ।
नारायणस्तथैवाहं लक्ष्मीः शेषस्तथा स्मरः ॥१०॥
अन्ये च सकला देवाः सकलैश्वर्यमाप्नुवन् ।
तन्त्रेषु गोपिता पूर्वं मया तुभ्यं प्रकाशिता ॥११॥
न देया यस्य कस्यापि पुत्रेभ्योऽभिप्रगोपयेत् ।
देया विप्राय भक्ताय साधवे शुद्धचेतसे ॥१२॥
अलोलुपाय पुण्याय भक्तिश्रद्धापराय च ।
अन्यथा सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ॥१३॥
पाण्डित्यं सुकवित्वं च रणे वादे जयं तथा ।
वशीकारं विभूतिं च स्वर्गं चैवापवर्गकम् ।
अनायासेन देवेशि प्राप्नुवन्ति न संशयः ॥१५॥

तथा हि
संक्षोभद्रावणाकर्षवश्योन्मादनरूपिणः ।
आम्ब्रं जम्बु च बकुलं चम्पकाशोकपादपाः ॥१६॥

पुष्पवति वसन्ते चेति बीजं प्रतिक्राम्य रयुतं तथा मूलमन्त्रलक्षजपेन
सिद्धिः स्यात् ।

इति सम्मोहनतन्त्रे पञ्चबाणेश्वरीश्रीराधिकामन्त्रकथनम् ।
[ऊर्ध्वाम्नायतन्त्रे पञ्चाक्षरीसाधनम्]

अथाहं सम्प्रवक्ष्यामि राधां पञ्चाक्षरात्मिकाम् ।
यस्या विज्ञानमात्रेण श्रीकृष्णं वशयेन्नरः ॥१॥
रमाबीजं समुच्चार्य राधिके परमुच्चरेत्
रसान्ता राधिका विद्या भक्तानां चिन्तितार्थदा ॥२॥
सनकोऽस्य ऋषिः प्रोक्तो जगती च्छन्द ईरितम् ।
श्रीराधा देवता प्रोक्ता विनियोगोऽखिलाप्तये ॥३॥
द्विरावृत्त्या तु मन्त्रस्य षड्अङ्गन्यासमाचरेत् ।
ध्यायेत्पद्मकरां गौरीं क्षीरसागरतीरगाम् ॥४॥
कृष्णकण्ठार्पितकरां स्मयमानमुखाम्बुजाम् ।
मूर्ध्नि लोचनयोरास्ये हृदये च प्रविन्यसेत् ॥५॥
एकैकक्रमतो वर्णान् पञ्चाक्षरमनूद्भवान् ।
मूलाधारे रमां न्यसेत्स्वाधिष्ठाने च रामिति ॥६॥
मणिपूरे तृतीयं च न्यसेत्तूर्यमनाहते ।
विशुद्धे च रमां न्यस्येदाज्ञायां सर्वमन्त्रकम् ॥७॥
त्रिकोणं बिन्दुसंयुक्तम्मष्टकोणं ततो लिखेत् ।
ततो भूपुरमालिख्य पीठपूजां समाचरेत् ॥८॥
बिन्दौ प्रपूजयेत्साक्षाद्वृषभानुसुतां पराम् ।
त्रिकोणे पूजयेच्छ्यामां विशाखां ललितामपि ॥९॥
कर्पूरमञ्जरीं रूपमञ्जरीं रसमञ्जरीम् ।
लवङ्गमञ्जरीं प्रेममञ्जरीं रङ्गमञ्जरीम् ॥१०॥
आनन्दमञ्जरीं चैव तथैव रतिमञ्जरीम् ।
अष्टकोणे समापूज्य भूपुरे च दिग्ईश्वरान् ॥११॥
सिद्धाष्टकसमायुक्तांस्ततः पुष्पाञ्जलिं क्षिपेत् ।
एवं कृत्वार्चनं मन्त्री जपेदयुतमात्रकम् ॥१२॥
यथोक्तविहिते मन्त्रे पञ्चवर्णप्रपूरिते ।
दीपरजं तु संस्थाप्य सौरभेयघृतान्वितम् ॥१३॥
दशभिः सूत्रकैर्वर्ति संयोज्याखण्डरूपिणीम् ।
सौवर्णं राजतं वापि ताम्रं कांस्यमयं तथा ॥१४॥
अभावे मार्तिकं वापि दिव्यं दीपं प्रकल्पयेत् ।
साधारं स्थापयेद्यन्त्रं कूर्चिकां चापि तन्मयीम् ॥१५॥
कन्याकर्तितसूत्रेण व्रतिकां परिकल्पयेत् ।
यावत्पञ्चदिनं कुर्यादेवं विधिमनुत्तमम् ॥१६॥
सर्वान्मनोगतान् कामानवाप्नोति न संशयः ।
संग्रामे विषये चैव विवादेऽर्थसाधने ॥१७॥
अमूं प्रयोगमाचर्य सद्यः सिद्धिमवाप्नुयात् ।
अन्येष्वपि च कार्येषु कुर्यादेवं विधिं नरः ॥१८॥

लं रं मं क्षं वं यं सं हं ह्रीं श्रीमेकवर्णम् ।
लमिन्द्राय देवाधिपतये सायुधाय सवाहनाय सशक्तिकाय सपरिवाराय श्री
राधिकापार्षदाय नमः । इन्द्रपादुकां पूजयामि नमस्तर्पयामि नमः ।

इत्यूर्ध्वाम्नाये पञ्चाक्षरीसाधनं समाप्तम् ।

तत्र प्राणायामः

आदावृषादिन्यासः स्यात्करशुद्धिस्ततः परम् ।
अङ्गुलिव्यापकन्यासो हृद्आदिन्यास एव च ॥
तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ।
ध्यानपूजा जपश्चैव सर्वतन्त्रेष्वयं विधिः ॥

प्राणायामःदक्षिणनासापुटं निरुध्य वामनासापुटेन चतुर्वारं पूरके,
षोडशवारं कुम्भके, द्वयं नासापुटं निरुध्याष्टवारं दक्षनासया
वायुं रेचयेत् ।

अथ सङ्कल्पविधिः श्रीविष्णुर्विष्णुर्नमोऽद्य अमुकमासि अमुकतिथौ
अमुकगोत्रोऽमुकदासः श्रीराधिकादेवता अमुकमन्त्रसिद्धिकामोऽमुक
पुरश्चरणजपमहं करिष्ये । अस्य श्रीराधिकापञ्चाक्षरीमन्त्रस्य सनक
ऋषिः जगतीच्छन्दः श्रीराधा देवता अखिलाप्तये विनियोगः । श्रीं
अङ्गुष्टाभ्यां नमः । रां तर्जनीभ्यां नमः । धीं मध्यमाभ्यां नमः
। केमनामिकाभ्यां नमः । श्रीं कनिष्ठाभ्यां नमः । श्रीराधिके श्रीकर
तलकरपृष्ठाभ्यां नमः । श्रीं हृदयाय नमः । रां शिरसे स्वाहा । धिं
शिखायै वषट् । कें कवचाय हूम् । श्रीं नेत्रत्रयाय वौषट् । श्रीं राधिके श्रीं
अत्राय फट् । इति षड्अङ्गन्यासः ।

श्रीं मूर्ध्नि । रां दक्षनेत्रे । धिं वामनेत्रे । कें मुखे । श्रीं हृदये । इति
वर्णन्यासः ।

श्रीं चतुर्दलमूलाधारे । वं शं षं सम् । रां षड्दले स्वाधिष्ठाने कं भं
मं यं रं लम् । धिं दशदले मणिपूरे । डं ढं णं तं थं दं धं नं
पं फम् । कें द्वादशदले अनाहते । कं खं गं घं ङं चं छं जं झं
ञं टं ठम् । श्रीं षोडशदले विशुद्धे । अमामिमीमुमूमृं ॠं ं मेमैं
ओमौममः । श्रीराधिके श्रीराधिके श्रीद्विदले । लक्षम् । आज्ञायामिति षट्
चक्रात्मकतन्न्यासः ।

ध्यानम्

ध्यायेत्पद्मकरां गौरीं क्षीरसागरनीरगाम् ।
कृष्णकण्ठार्पितकरां स्मयमानमुखाम्बुजाम् ॥ इति ध्यानम् ।

इति पूर्वं कृत्वा गुरुमन्त्रदेवतानामैक्यं विभाव्य मन्त्रजपं कुर्यात् ।
कृतैतत्तन्मन्त्रजपस्य अमुकसङ्ख्यात्मकस्य दशांशहोमं तद्दशांशं
तर्पणं तद्दशांशं मार्जनम् । तद्दशांशमभिषेकम् । तद्दशांशं
ब्राह्मणभोजनदानमहं करिष्ये । गन्धाक्षतकुशोदकमादाय सर्व
न्यासजालं विधाय श्रीराधिकादेव्या वामहस्ते

गुह्यातिगुह्यगोप्त्री तं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि प्रसीद श्रीरमेश्वरी ॥

इति मन्त्रेण जपादिदानफलं समर्पयेत् ।

अथ दीपदानप्रयोगमाह

शिव उवाच
शृणु देवि प्रवक्ष्यामि दीपदानविधिं शुभम् ।
यस्मिन् कृते भवेत्सिद्धिः पञ्चाक्षरमनोर्ध्रुवम् ॥१॥
नययोन्यात्मकं चक्रं मध्ये बिन्दुविभूषितम् ।
तद्अग्रे विलिखेत्पद्ममष्टपत्रं मनोहरम् ॥२॥
धरणीवलयोपेतं विदिक्ष्वस्रविभूषितम् ।
ललितायै नमः प्रोच्य मण्डलेशीं प्रपूजयेत् ॥३॥ (४७)
आवाहनं स्थापनं च सन्निधापनमेव च ।
सन्निरोधनमेवापि चक्रदेव्याः प्रकल्पयेत् ॥८॥
तत्तन्मुद्राभिराचर्य पुष्पाञ्जलिं विनिक्षिपेत् ।
अथ दीपं समानीय सौवर्णं राजतं तथा ॥९॥
ताम्रं कांस्यमयं चापि मृन्मयं शुभलक्षणम् ।
पञ्चतोलमितं वश्ये आकर्षे दशतोलकम् ॥१०॥
मोहने पञ्चदशभिर्मारणे विंशतोलकम् ।
पञ्चविंशतितोलैस्तु सर्वकार्ये शुभावहम् ॥११॥
धर्मार्थकाममोक्षेषु संग्रामे जयवादयोः ।
कार्यगौरवमालक्ष्य त्रिंशत्तोलादिमानकम् ॥१२॥
अस्त्रमन्त्रेण संक्षाल्य धूपयेन्मूलमन्त्रतः ।
पूजयेद्गन्धपुष्पाद्यैर्मूलेनैवाभिमन्त्रयेत् ॥१३॥
सुरभीघृतधाराभिः पूरयेन्मूलमन्त्रतः ।
उग्रकार्ये महेशानि तैलेनापि प्रपूरयेत् ॥१४॥
सुगन्धिभिः प्रसूनाद्यैर्यथावदुपकल्पयेत् ।
षोडशाङ्गुलमानेन कुञ्चिकां तत्र धारयेत् ॥१५॥
यद्द्रव्येण कृतो दीपः सापि तद्द्रव्यनिर्मिता ।
दीपान्तरं विधायाथ षट्कोणमण्डलोपरि ॥१६॥
हृदयादिकमस्त्रान्तं पूजयेत्तत्र मण्डले ।
प्रदीपे पूजयेत्तस्मिन् स्वयं ज्योतिः सनातनम् ॥१७॥
सनातनाय स्वयं ज्योतिषे नम इत्यञ्जलिं क्षिपेत् ।
भूतले ज्वालयेद्दीपं पूजयेदुपचारकैः ।
गन्धादिभिः षोडशभिस्ततो दीपं प्रदीपयेत् ॥१८॥
वामदक्षक्रमाद्दीपवर्तिकां युगलात्मिकाम् ।
अखण्डामेव तां कुर्याद्यावत्पञ्चदिनावधि ॥१९॥
वनकार्पासतूलोत्थां विशदां दृढविग्रहाम् ।
कन्याकर्तितसूत्रेण आखण्डेन्ह बलीयसा ॥२०॥
वामां पञ्चदशैः सूत्रैर्दक्षिणां षोडशैरपि ।
सर्वकार्यं प्रसिद्ध्य्अर्थं कर्तव्यैव तु वर्तिका ॥२१॥
वश्येऽष्टादशभिः सूत्रैर्दक्षिणा वर्तिका भवेत् ।
वामा चैकोनविंशैस्तैराकर्षे विंशतारकैः ॥२२॥
दक्षिणैकाधिकैर्वामा मोहने चैकविंशकैः ।
दक्षिणैकाधिका वामा मारणे च द्वाविंशकैः ॥२३॥
दक्षिणैकाधिकैर्वामा इत्थं सर्वत्र कल्पयेत् ।
अत्याहिते गुरौ कार्ये वर्तिकां पञ्चविंशकैः ॥२४॥
त्रिंशैश्चत्वारिंशसङ्ख्यैः पञ्चाशद्भिः शतावधि ।
कृतमात्रे दीपराजे सर्वं कार्यं प्रजायते ॥२५॥
यद्यधृदि स्थितं वापि नालभ्यं भुवनत्रये ।
राधाकृष्णवशीकारं तत्क्षणात्कुरुते जनः ॥२६॥
अन्ते च महतीं पूजां कृत्वा दीपं विसर्जयेत् ।
पुत्रार्थी पुत्रमाप्नोति धनार्थी लभते धनम् ॥२७॥ इत्यादि ।

अथ युगलदीपदानप्रयोगमाह

श्रीसनत्कुमार उवाच
दीपदानविधिं ब्रह्मन् ब्रूहि विस्तरतो मम ।
यस्यानुष्ठानमात्रेण राधाकृष्णौ प्रसीदतः ॥१॥
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि दीपदानं विशेषतः ।
राधाकृष्णप्रसादैकसाधनं नात्र संशयः ॥२॥
कार्त्तिके मार्गशीर्षे वा पौषे वा माघमासके ।
वैशाखे वा प्रकर्तव्यं नित्यस्नानपुरः सरम् ॥३॥
विशुद्धं स्थानमाश्रित्य सिद्धक्षेत्रं मनोहरम् ।
नन्दग्रामं च सङ्केतं वरसानुं गिरिं तथा ॥४॥
गोवर्धनं च विमलं यमुनातीरमद्भुतम् ।
एषामन्यतमं स्थानं समाश्रित्य विधिर्भवेत् ॥५॥
पूर्वाह्ने कृतनित्यादिः सङ्कल्प्य विधिवन्नरः ।
मण्डलं विपुलं कुर्याद्दीपदानोचितं मुने ॥६॥
बिन्दुं चतुरस्रयुतं ततोऽष्टारं प्रकल्प्य च ।
षोडशास्त्रं विधायाथ सरद्वात्रिंशकं कुरु ॥७॥
चतुषष्ठिमितास्रं च मण्डलं विपुलं कुरु ।
भूबिम्बं च प्रविन्यस्य पञ्चवर्णैर्विधानतः ॥८॥
तन्मध्ये स्थापयेद्दीपं षोडशार्णेन वत्सक ।
सौवर्णं राजतं चैव युगात्मानं विधापयेत् ॥९॥
मार्तिकं चेद्विधातव्यं वरसानुपुरोत्थया ।
नन्दग्रामोत्थया चैव मुदा दीपं प्रकल्पयेत् ॥१०॥
द्विधातुसम्भवं दीपं धातुजन्यं प्रकल्पयेत् ।
तत्राज्यधारां सुरभीद्वयोत्थां परिपातयेत् ॥११॥
कृष्णायाश्चैव शुक्लाया धेनोराज्यं निधापयेत् ।
अभिमन्त्र्यैव मूलेन क्रमव्युत्क्रमसंस्थया ॥१२॥
कृत्वा मातृकया चाज्यं वर्तिकां तत्र विन्यसेत् ।
ग्रामोत्थं च तुलं वर्णौ कार्यारम्भे प्रकल्पयेत् ॥१३॥
स्थापयित्वा घृते सम्यक्कर्षणीं तत्र तन्मयीम् ।
एवं दीपं विनिर्वर्त्य यन्त्रराजं प्रपूजयेत् ॥१४॥
अष्टादशार्णमन्त्रेण नन्दसूनुं प्रपूजयेत् ।
षोडशार्णेन विधिवद्राधिकां परिपूजयेत् ॥१५॥
सर्वावरणपूजान्ते पुष्पाञ्जलिं प्रविन्यसेत् ।
अतह्वा मूर्तिरूपेण राधाकृष्णौ प्रपूजयेत् ॥१६॥
ततः प्रकाशयेद्दीपं दीपान्तरविधानतः ।
युगलं दीपमध्यस्थं पूजयेत्स्वस्वमन्त्रतः ॥१७॥
चतुरस्रेऽर्चयेन्नित्यं ललितां च विशाखिकाम् ।
राधां चैवानुराधां च विधिवद्गन्धपुष्पकैः ॥१८॥
गोपाली पालिका चैव ध्याननिष्ठा तथैव च ।
सोमाभा तारका चैव शैव्या पद्मा च भद्रिका ॥१९॥
अष्टास्रे पूजयेदष्टौ विधिवद्गन्धपुष्पकैः ।
योनिमुद्रां ततो वध्वा प्रणमेत्सादरं मुने ॥२०॥
षोडशास्रेऽर्चयेच्छ्यामां माधवीं कमलां तथा ।
कलां चन्द्रकलां चन्द्रां तथा चपलतां पुनः ॥२१॥
प्रमोदां पद्मिनीं पूर्णां परमां सुभगां शुभाम् ।
चपलां विपुलां वामां क्रमतो गन्धपुष्पकैः ॥२२॥
द्वात्रिंशास्रेऽर्चयेद्वेणीं वशिनीं सुप्रभां प्रभाम् ।
मालिनीं शालिनीं शालां विशालां कनकप्रभाम् ॥२३॥
मण्डिनीं मण्डलामुख्यां ज्येष्ठां श्रेष्ठां च भामिनीम् ।
त्वरितां प्रारिजातेशीं सुकलां सुरसां रसाम् ॥२४॥
वेशिनीं केशिनीं केशां सुकेशां मञ्जघोषिणीम् ।
शुभावतीं कान्तिमतीं कान्तां भानुमतीं मुदाम् ॥२५॥
वसुधां वसुधामां च क्रमतो गन्धपुष्पकैः ।
चतुःषष्ठिमितास्रे च पद्धीपुष्टां च पोषिणीम् ॥२६॥
कञ्जप्रभां कञ्जहस्तां वर्षिणीं हर्षिणीं हराम् ।
हारिणीं कारिणीं धारां धारिणीं चित्रलेपिनीम् ॥२७॥
ललामां लुलितां लोभदां च सुलोचनाम् ।
रोचिनीं सुरुचिं शोभां शुभ्रां शोभावतीं सभाम् ॥२८॥
रोहितां लोहितां लीलां शीलां चैव सशीलिकाम् ।
पत्रिणीं पल्लवाभासां विशुद्धां विशदां बलाम् ॥२९॥
सुदतीं सुमुखीं व्योमां सोमां सामां त्वरातुराम् ।
रत्नावलीं रत्ननिभां रत्नधामां दयावतीम् ॥३०॥
प्रभावतीं प्रेमगां च क्षेमां क्षेमावतीं क्षमाम् ।
मञ्जरीं खञ्जरीटां च लक्षणां च सुलक्षणाम् ॥३१॥
कामां कामवतीं वीणां हीनां वीणाकरां तलाम् ।
त्रियुगां शोणचरणां चारिणीं चारुदन्तिनीम् ॥३२॥
विचित्रभाषिणीं चैव क्रमतः परिपूजयेत् ।
गन्धैः पुष्पैस्तथा दूपैर्दीपैर्नैवेद्यकैस्तथा ॥३३॥
भूबिम्बे पूजयेद्गोपबालकान् क्रमतोऽष्ट च ।
सुबलं च सुबाहुं श्रीदामं श्रीमधुमङ्गलम् ।
माधवं चित्रलेखं च शारदं च विभावसुम् ॥३४॥
ततः प्रपूजयेच्चित्रां प्रथ्मावरणेश्वरीम् ।
द्वितीयावरणे वृन्दां वीरां च परिपूजयेत् ॥३५॥
तृतीयावरण्शीं च पौर्णमासीं प्रपूजयेत् ।
चतुर्थावरणे पालीं श्रीमद्गान्धर्विकासखीम् ॥३६॥
पञ्चमावरणेशीं च श्यामलां परिपूजयेत् ।
षष्ठावरणराज्ञीं च पद्मादेवीं प्रपूजयेत् ॥३७॥
सप्तमावरणेशीं च श्रीमज्ज्योत्स्नावतीं शुभाम् ।
दीपस्य दक्षभागे तु नन्दं चैव यशोदिकाम् ॥३८॥
वामे सम्पूजयेत्कीर्तिं वृषभानुं च गोपकम् ।
मण्डलं परिपूज्याथ पुष्पाञ्जलिं परिक्षिपेत् ॥३९॥
दीपं पञ्चदिनं वापि कुर्याद्दशदिनं तथा ।
पक्षं वा रक्षयेद्दीपं मासं वापि मुनीश्वर ॥४०॥
ततो विसर्जयेद्दीपं कृतनित्यक्रियो बुधः ।
सम्पूज्य दीपराजं तु पुष्पाञ्जलिमुपक्षिपेत् ॥४१॥
यमुनादौ शुभे नीरे दीपराजं प्रवाहयेत् ।
एवं कृत्वा विधिं सद्यः सर्वान् कामानवाप्नुयात् ॥४२॥
साक्षात्करोति युगलं दीपराजप्रभावतः ।
पूजनादेव दीपस्य नासाध्यं विद्यते क्वचित् ॥४३॥

इति सनत्कुमारसंहितायां युगलदीपदानविधिः ।
पञ्चमपटलः ।

पञ्चबाणैः पुटीकृत्य यो जपेद्राधिकामनुम् ।
तस्य सर्वार्थसिद्धिः स्यात्कृष्णं पश्यति तत्क्षणात् ॥

ह्रीं ह्रीं क्लीं ब्रूं सः कृष्णप्रिये ह्रां ह्रीं क्लीं स्वाहा । इति षोडशाक्षरो
मन्त्रः । चतुःषष्ठियन्त्रदीपदानप्रयोगमाह ।

अथ स्तवः ।
[श्री राधाकृपाकटाक्षस्तवराजः]

मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणी
प्रसन्नवक्त्रपण्कजे निकुञ्जभूविलासिनि
व्रजेन्द्रभानुनन्दिनि व्रजेन्द्रसूनुसङ्गते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥१॥

अशोकवृक्षवल्लरीवितानमण्डपस्थिते
प्रवालवालपल्लव प्रभा रुणाङ्घ्रिकोमले
वराभयस्फुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥२॥

अनङ्गरण्ग मङ्गलप्रसङ्गभङ्गुरभ्रुवां
सविभ्रमंससम्भ्रमं दृगन्तबाणपातनै
निरन्तरं वशीकृतप्रतीतिनन्दनन्दने
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥३॥

तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे
मुखप्रभापरास्तकोटिशारदेन्दुमण्डले
विचित्रचित्रसञ्चरच्चकोरशावलोचने
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥४॥

मदोन्मदातियौवने प्रमोदमानमण्डिते
प्रियानुरागरञ्जिते कलाविलासपण्डिते
अनन्यधन्यकुञ्जराज्यकाम केलिकोविदे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥५॥

अशेषहावभावधीरहीरहारभूषिते
प्रभूतशातकुम्भकुम्भकुम्भि कुम्भसुस्तनि
प्रशस्तमन्दहास्यचूर्णपूर्णसौख्यसागरे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥६॥

मृणालवालवल्लरी तरङ्गरङ्गदोर्लते
लताग्रलास्यलोलनीललोचनावलोकने
ललल्लुलन्मिलन्मनोज्ञ मुग्धमोहनाश्रिते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥७॥

सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे
त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिति
सलोलनीलकुन्तल प्रसूनगुच्छगुम्फिते
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥८॥

नितम्बबिम्बलम्बमानपुष्पमेखलागुणे
प्रशस्तरत्नकिङ्किणीकलापमध्य मञ्जुले
करीन्द्रशुण्डदण्डिकावरोहसौभगोरुके
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥९॥

अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्
समाजराजहंसवंशनिक्वणातिगौरवे
विलोलहेमवल्लरीविडम्बिचारुचङ्क्रमे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥१०॥

अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते
हिमाद्रिजापुलोमजाविरिञ्चजावरप्रदे
अपारसिद्ध्यृद्धिदिग्धसत्पदाङ्गुलीनखे
कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥११॥

मखेश्वरि! क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि
रमेश्वरि! क्षमेश्वरि प्रमोद काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्री राधिके नमोऽस्तु ते ॥१२॥

इती ममद्भुतंस्तवं निशम्य भानुनन्दिनी
करोतु सन्ततं जनं कृपाकटाक्षभाजनम्
भवेत्तदैवसञ्चितत्रिरूपकर्मनाशनं
भवेत्तदाव्रजेन्द्रसूनुमण्डलप्रवेशनम् ॥१३॥

राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्स स्वयं शिवः ॥१४॥
यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भुक्त्वान्ते मोक्षमाप्नुयात् ॥१५॥
ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्टदघ्नके ।
राधाकुण्डजले स्थिता यः पठेत्साधकः शतम् ॥१६॥
तस्य सर्वार्थसिद्धिः स्याद्वाक्सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत्साक्षाद्दृशा पश्यति राधिकाम् ॥१७॥
तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत्प्रियं श्यामसुन्दरम् ॥१८॥
नित्यलीलाप्रवेशं च ददाति श्रीव्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥

इति श्रीमद्ऊर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं सम्पूर्णम् ।

अथ संमोहनतन्त्रोक्तं त्रैलोक्यविक्रमकवचं लिख्यते

श्रीपार्वत्युवाच
यद्गोपितं त्वया पूर्वं तन्त्रादौ यामलादिषु ।
त्रैलोक्यविक्रमं नाम राधाकवचमद्भुतम् ॥१॥
तन्मह्यं ब्रूहि देवेश यद्यहं तव वल्लभा ।
सर्वसिद्धिप्रदं साक्षात्साधकाभीष्टदायकम् ॥२॥
श्रीमहादेव उवाच
शृणु प्रिये प्रवक्ष्यामि कवचं देवदुर्लभम् ।
यच्च कस्मैचिदाख्यातुं गोपितं भुवनत्रये ॥३॥
यस्य प्रसादतो देवि सर्वसिद्धीश्वरोऽस्म्यहम् ।
वागीशश्च हयग्रीवो देवर्षिश्चैव नारदः ॥४॥
यस्य प्रसादतो विष्णुस्त्रैलोक्यस्थितिकारकः ।
ब्रह्मा यस्य प्रसादेन त्रैलोक्यं रचयेत्क्षणात् ॥५॥
अहं संहारसामर्थ्यं प्राप्तवान्नात्र संशयः ।
त्रैलोक्यविक्रमं नाम कवचं मन्त्रविग्रहम् ॥६॥
तच्छृणु त्वं महेशानि भक्तिश्रद्धासमन्विता ।
त्रैलोक्यविक्रमस्यास्य कवचस्य ऋषिर्हरिः ॥७॥
छन्दोऽनुष्टुप्देवता च राधिका वृषभानुजा ।
श्रीकृष्णप्रीतिसिद्ध्य्अर्थं विनियोगः प्रकीर्तितः ॥८॥
राधिका पातु मे शीर्षं वृषभानुसुता शिखाम् ।
भालं पातु सदा गोपी नेत्रे गोविन्दवल्लभा ॥९॥
नासां रक्षतु घोषेशी व्रजेशी पातु कर्णयोः ।
गण्डौ पातु रतिक्रीडा ओष्ठौ रक्षतु गोपिका ॥१०॥
दन्तान् रक्षतु गान्धर्वी जिह्वां रक्षतु भामिनी ।
ग्रीवां कीर्तिसुता पातु मुखवृत्तं हरिप्रिया ॥११॥
बाहू मे पातु गोपेशी पादौ मे गोपसुन्दरी ।
दक्षपार्श्वं सदा पातु कुञ्जेशी राधिकेश्वरी ॥१२॥
वामपार्श्वं सदा पातु रासकेलिविनोदिनी ।
सङ्केतस्था पातु पृष्ठं नाभिं वनविहारिणी ॥१३॥
उदरं नवतारुण्या वक्षो मे व्रजसुन्दरी ।
अंसद्वयं सदा पातु परकीयरसप्रदा ॥१४॥
ककुदं पातु गोपाली सर्वाङ्गं गोकुलेश्वरी ।
चन्द्रानना पातु गुह्यं राधा सर्वाङ्गसुन्दरी ॥१५॥
मूलाधारं सदा पातु श्रीं क्लीं सौभाग्यवर्धिनी ।
ऐं क्लीं श्रीराधिके स्वाहा स्वाधिष्ठानं सदावतु ॥१६॥
क्लां क्लीं नमो राधिकायै मणिपूरं सदावतु ।
लक्ष्मी माया स्मरो राधा पातु चित्तमनाहतम् ॥१७॥
क्लां क्लीं कामकला राधा विशुद्धं सर्वदावतु ।
आज्ञां रक्षतु राधा मे हंसः क्लीं वह्निवल्लभा ॥१८॥
ओं नमो राधिकायै स्वाहा सहस्रारं सदावतु ।
अष्टादशाक्षरी राधा सर्वदेशे तु पातु माम् ॥१९॥
नवार्णा पातु मामूर्ध्वं दशार्णावतु संसदि ।
एकादशाक्षरी पातु द्यूते वादविवादयोः ॥२०॥
सर्वकाले सर्वदेशे द्वादशार्णा सदावतु ।
पञ्चाक्षरी राधिकेशी वासरे पातु सर्वदा ॥२१॥
अष्टाक्षरी च राधा मां रात्रौ रक्षतु सर्वदा ।
पूर्णा पञ्चदशी राधा पातु मां व्रजमण्डले ॥२२॥
इत्येवं राधिकायास्ते कवदं कीर्तितं मया ।
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ॥२३॥
न देयं यस्य कस्यापि महासिद्धिप्रदायकम् ।
अभक्तायापि पुत्राय दत्त्वा मृत्युं लभेन्नरः ॥२४॥
नातः परतरं दिव्यं कवचं भुवि विद्यते ।
पठित्वा कवचं पश्चाद्युगलं पूजयेन्नरः ॥२५॥
पुष्पाञ्जलिं ततो दत्त्वा राधासायुज्यमाप्नुयात् ।
अष्टोत्तरशतं चास्य पुरश्चर्या प्रकीर्तिता ॥२६॥
अष्टोत्तरशतं जप्त्वा साक्षाद्देवो भवेत्स्वयम् ।
कृष्णप्रेमाणमप्याशु दुर्लभं लभते ध्रुवम् ॥२७॥

इति श्रीसंमोहनतन्त्रे श्रीराधायास्त्रैलोक्यविक्रमं नाम कवचं
सम्पूर्णम् ।

श्रीराधागोविन्दौ जयतः

तथा हि
गोविन्दसहितां भूरिहावभावपरायणाम् ।
योगपीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥

अथ चरणध्यानम्(ङॢआ ११.५१)

शङ्खार्धेन्दुयवाब्जकुञ्जररथैः सीराङ्कुशेषुध्वजैश्
चापस्वस्तिकमत्स्यतोमरमुखैः सल्लक्षणैरङ्कितम् ।
लाक्षावर्मितमाहवोपकरणैरेभिर्विजित्याखिलं
श्रीराधाचरणद्वयं सुकटकं साम्राज्यलक्ष्म्या बभौ ॥

अथ करचिह्नम् (ङॢआ ११.६६)

भृङ्गाराम्भोजमालाव्यजनशशिकलाकुण्डलच्छत्रयूपैः
शङ्खश्रीवृक्षवेद्यासनकुसुमलताचामरस्वस्तिकाद्यैः ।
सौभाग्याङ्कैरमीभिर्युतकरयुगला राधिका राजतेऽसौ
मन्ये तत्तन्मिषात्स्वप्रियपरिचरणस्योपचारान् बिभर्ति ॥

अथ मदहास्यम्(ङॢआ ११.८८)

हरेर्गुणालीवरकल्पवल्ल्यो
राधाहृदाराममनु प्रफुल्लाः ।
लसन्ति या याः कुसुमानि तासां
स्मितच्छलात्किन्तु बहिः स्खलन्ति ॥

अथ शृङ्गारः(ऊण्४.९)

स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी
सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।
ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥

अथ आभरणम्(ऊण्४.१०)

दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि
निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।
हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास्
तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥

अन्यच्च (Vइं १.१०)

सोऽयं वसन्तसमयः यस्मिन्
पुर्णं तमिश्वरमुपोढनवानुरागम् ।
गुढग्रहा रुचिरया सह राधयासौ
रङ्गाय सङ्गमयिता निशि पौर्णमासि ॥

किं च(ऊण्१५.४)

पूर्वरागस्तथा मानः प्रेमवैचित्त्यमित्यपि ।
प्रवासश्चेति कथितो विप्रलम्भश्चतुर्विधः ॥
(१५.१९१)
जातान् संक्षिप्तसङ्कीर्णसम्पन्नर्द्धिमतो विदुः ॥

तत्र सङ्क्षिप्तः (१५.१९२)
युवानौ यत्र संक्षिप्तान् साध्वसव्रीडितादिभिः ।
उपचारान्निषेवेते स संक्षिप्त इतीरितः ॥

अथ सङ्कीर्णः (१५.१९५)
यत्र सङ्कीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः ।
उपचाराः स सङ्कीर्णः किञ्चित्तप्तेक्षुपेशलः ॥

अथ सम्पन्नः (१५.१९८)
प्रवासात्सङ्गते कान्ते भोगः सम्पन्न ईरितः ।
द्विधा स्यादागतिः प्रादुर्भावश्चेति स सङ्गमः ॥

अथ समृद्धिमान् (१५.२०६)
दुर्लभालोकयोर्यूनोः पारतन्त्र्याद्वियुक्तयोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥

यथा
वन्दे श्रीराधिकादीनां भावकाष्ठामहं पराम् ।
विना वियोगं संयोगं या तूर्यमुदगाद्यतः ॥

तत्र श्रीभागवते (१०.३१.१५)

अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षितां पक्ष्मकृत्दृशाम् ॥

इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि
श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकायां षष्ठकक्षा ।
॥६॥