साधनदीपिका/पञ्चमकक्षा

विकिस्रोतः तः
← चतुर्थकक्षा साधनदीपिका
पञ्चमकक्षा
[[लेखकः :|]]
षष्ठकक्षा →

पञ्चमकक्षा

अथ परमैश्वर्यमाधुर्यपीयूषामृतवारिधेः स्वयं भगवतः कतमं
तद्धाम यत्रासौ भगवान् विहरति । इत्यपेक्षायाम् आहाकरे

यस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये ।
व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥

तथा हि स्कान्दे

या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।
तास्तथा सन्ति वैकुण्ठे तत्तल्लीलार्थमादृताः ॥ इत्यादि ।

तद्व्यवस्थामाहाकारे (ळ्Bहाग्१.४.४९७८, ५०२)

धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा ।
माथुरं च द्विधा प्राहुर्गोकुलं पुरमेव च ॥
यत्तु गोलोकनाम स्यात्तच्च गोकुलवैभवम् ।
तद्आत्मवैभवत्वं च तस्य तन्महिमोन्नतेः ॥

अस्यार्थःगोकुलवैभवं गोइकुलैश्वर्यं प्रकाशरूपम् । तस्य गोकुलस्य तद्
आत्मवैभवत्वं स गोलोक आत्मनः स्वस्य वैभवं यस्य । तन्महिमोन्नतेस्
तस्माद्गोलोकान्महिमोन्नतेर्हेतोः । अन्यथा गोलोकस्य गोकुलाप्रकट
प्रकाशत्वे स्थानचतुष्टयतासिद्धिः । यद्यप्रकटत्वेन स्थानत्वात्तदा
मधुपुरीद्वारकयोरप्रकटप्रकाशाभ्यां स्थानषट्ता स्यात् । तर्हि गोलोकस्य
कुत्र स्थितिरित्याह । परव्योमोपरि सर्वोर्ध्वभाग एव । श्रीब्रह्म
संहितायाम्

गोलोकनाम्नि निजधाम्नि तले च तस्य
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविन्दमादिपुरुषं तमहं भजामि ॥ [Bरह्मष्५.४३] इति ।

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो । इत्यादि ।

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ इत्यादि ।

अतएव श्रीभागवते (१०.२.७) गच्छ देवि व्रजं भद्रे इति, श्रीचैतन्यचरितामृते
(आदि ४.२९) मोविषये गोपीगण्र उपपतिभावे इत्यादि प्रकटलीलानुसारेण श्री
गोलोकनाथवाक्यम् ।

अत्र गोलोके श्र्य्आदयोऽनुवादरूपाः । कान्तादयो विधेयरूपाः । परमपीति
गोलोके श्वेतद्वीपवैकुण्ठादयोऽप्यनुवादरूपाः । वृन्दावनगोकुलादयो
विधेयरूपाः । ततः कृष्णोऽयं नारायणस्य विलासी गोलोकपरव्योमोपरि वर्तत
इति दृष्ट्या जनानां झटिति प्रवृत्तिदुर्घटा स्यात् । अतएव तद्गत परिकराणाम्
अयं सर्वेश्वरोऽस्माकं प्रभुरिति सदा स्फूर्तिः ।

किं च, गोलोकगत कैशोरलीलाया ऐश्वर्यमयत्वात्तल्लीलावलितस्य गोलोक
नाथस्य बाल्यपौगण्डधर्माभावात्कैशोरगतत्वेन लीलाया एकविधत्वम्
। तस्मिंश्च सति, अयं परमपुरुषः शक्तिमान् वयमस्य शक्तयः इति स्फूर्तेः
पाणिग्रहणाभावाच्च दानाभिसारादयो लीला न सन्ति । तत्र निमेषार्धाख्यो वा
व्रजति न हि यत्रापि समयः इति ।

दिनरात्रेरभावाद्रात्रिविलासित्वाभावेन तल्लीलानामभावः । गौणसमञ्जस
रतिमतीभिस्तद्गतस्त्रीभिस्तदयोग्यत्वात् । तस्माद्द्वारकातोऽपि गोलोकस्य
न्यूनत्वम् । तथापि श्रीदासगोस्वामिनः श्रीस्तवावल्यां (व्रजविलासे ५)

वैकुण्ठादपि सोदरात्मजवृता द्वारवती सा प्रिया
यत्र श्रीशतनिन्दिपट्टमहिषीवृन्दैः प्रभुः खेलति ।
प्रेमक्षेत्रमसौ ततोऽपि मथुरा श्रेष्ठा हरेर्जन्मतो
यत्र श्रीव्रज एव राजतितरां तामेव नित्यं भजे ॥

एवं परस्परसम्बन्धत्वेन मथुरातोऽपि द्वारकाया न्यूनत्वम् । अथ श्रुति
स्मृतिसंमतं सर्वोत्कृष्टं तु माथुरम् । यथा पद्मपुराणे

अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी ।
एवं सप्तपुरीणां तु सर्वोत्कृष्टं तु माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठभुवनोत्तमः ॥ इति ।

अतएव श्रीबृहद्भागवतामृते गोलोकगतगोपकुमारस्य तद्गतपरिकराणां
सञ्जायमानादरगौरवदर्शनेन स्वमनो न तृप्येत् । तद्यथा (२.४.११०११३)

तमेव सर्वज्ञशिरोमणिं प्रभुं
वैकुण्ठनाथं किल नन्दनन्दनम् ।
लक्ष्म्यादिकान्तं कलयामि राधिका
मुखाश्च दासादिगणान् व्रजार्भकान् ॥

तथाप्यस्यां व्रजक्ष्मायां प्रभुं सपरिवारकम् ।
विहरन्तं तथा नेक्षे भिद्यते तेन मन्मथः ॥

कदापि तत्रोपवनेषु लीलया
तथा लसन्तं निचितेषु गोगणैः ।
पश्याम्यमूं कर्ह्यपि स्थितं
निजासने स्वप्रभुवच्च सर्वथा ॥

तथापि तस्मिन् परमेशबुद्धेर्
वैकुण्ठनाथे किल नन्दनन्दने ।
सञ्जायमानादरगौरवेण
तत्प्रेमहान्या स्वमनो न तृप्येत् ॥[*Eण्ड्ण्Oट्E ॰१०]

श्रीस्तवमालायां च (नन्दापहरणं १९)

लोको रम्यः कोऽपि वृन्दाटवीतो
नास्ति क्वापीत्यञ्जसा बन्धुवर्गम् ।
यो वैकुण्ठं सुष्ठु सन्दर्श्य भूयो
निन्ये गोष्ठं पातु स त्वां मुकुन्दः ॥

यथा श्रीदशमे (१०.२८.१०)

नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥
अथ टीकाविस्मितः परममाधुर्याविष्टत्वेनैश्वर्यानुसन्धानाभावात् । अतः
परमकारुणिकः श्रीकृष्णः स्वबन्धुवर्गं नन्दादिकं गोलोकं सन्दर्श्य
पुनर्गोकुलं नीतवान् । गोलोकं भूवृन्दावनादिकं श्रीदशमे नन्दादीनां
वैकुण्ठदर्शनानन्तरं व्रजागमनं व्यक्तमेवास्ति । अतएव स्वयंप्रकाश
भूवृन्दावनस्य सदा प्रकटाप्रकटत्वे विराजमानत्वे सस्माद्गोकुलाख्याद्
वृन्दावनाद्गोलोकय पृथक्त्वं न्यूनत्वं च स्पष्टं मधुरैश्वर्ययोर्
अभावात् । मधुरैश्वर्यं चये दैत्या दुःशका हन्तुमित्यादेः । क्वचिदैश्वर्य
साम्येन धाम्नोर्गोलोकगोष्ठयोरैक्यं दर्शितमिन्द्राद्यैर्माधुर्याणाम्
अकोविदैः । ऐक्यं तु गोलोकस्य गोकुलवैभवप्रकाशरूपत्वात् । प्रकाशस्तु न
भेदेषु गण्यते स हि नो पृथक्(ळ्Bहाग्१.१.२०), तत्र च करोति याः प्रकाशेषु
कोटिशोऽप्रकटेष्वपि (ळ्Bहाग्१.५.४५१) ।

यद्यपि स्वयंप्रकाशप्रकाश्यानां मध्ये भेदो गण्यते तथापि चैतन्य
चरितामृते (मध्य ८.८३) तटस्थ हेया विचारिले आछे तरतम । तत्र च महा
रासप्रसङ्गे तार मध्ये एक मूर्ति रहे राधापाश इति पूर्वे विचारितोऽस्ति । यद्वा
विशेषतो श्रीचरितामृते मध्यलीलायां विंशतिपरिच्छेदे श्रीसनातनगोस्वामि
शिक्षाप्रसङ्गे विवृतमस्ति । अथवा अचिन्त्यशक्तिप्रभावेण समाधेयः ।

किं च
यथा चतुर्भुजत्वेऽपि न त्यजेत्कृष्णरूपत्वम् ।
अतः प्रकाश एव स्यात्तस्यासौ द्विभुजस्य च ॥ (ळ्Bहाग्१.१.२३)

इत्य्आदिन्यायात्ब्रह्ममोहनादिकर्तृत्वाभावात्मथुराद्वारकागतश्रीकृष्ण
प्रकाशे श्रीगोकुलगतपूर्णतमरूपमाधुर्याभावेऽपि प्रकाशत्वम्, तथा
गोलोकेऽपि श्रीवृन्दावनगतमधुरैश्वर्यमाधुर्ययोरभावेऽपि प्रकाशत्वम्
। अप्रपञ्चप्रपञ्चगोचरत्वमप्राकृतप्राकृत इव श्रीगोकुल
भूरूपोऽनुवादतया चिन्तामण्य्आदिरूपो विधेयतया, स तु माथुरभूरूपः
परिच्छिन्नोऽप्यथाद्भुतः इत्यादेः ।

माथुरो श्रीगोकुलः
माथुरं च द्विधा प्राहुर्गोकुलं पुरमेव च (ळ्Bहाग्१.५.४९७) इत्यादेः ।
अतेवास्य पाद्मे च श्रूयते नित्यरूपता ।
नित्यं मे मथुरां विद्धि वनं वृन्दावनं तथा इति ।
अत्रैवाजाण्डमालापि पर्याप्तिमुपगच्छति ।
वृन्दावनप्रतीकेऽपि यानुभूतैव वेधसा ॥
इत्यतो रासलीलायां पुलिने तत्र यामुने ।
प्रमदाशतकोट्योऽपि ममूर्यत्तत्किमद्भुतम् ॥
स्वैः स्वैर्लीलापरिकरैर्जनैर्दृश्यानि नापरैः ।
तत्तल्लीलाद्य्अवसरे प्रादुर्भावोचितानि हि ॥
आश्चर्यमेकदैकत्र वर्तमानान्यपि ध्रुवम् ।
परस्परमसंपृक्तस्वरूपाण्येव सर्वथा ॥
कृष्णबाल्यादिलीलाभिर्भूषितानि समन्ततः ।
शैलगोष्ठवनादीनां सन्ति रूपाण्यनेकशः ॥
लीलाढ्योऽपि प्रदेशोऽस्य कदाचित्किल कैश्चन ।
शून्य एवेक्षते दृष्टियोग्यैरप्यपरैरपि ॥
अतः प्रभोः प्रियाणां च धाम्नश्च समयस्य च ।
अविचिन्त्यप्रभावत्वादत्र किं च न दुर्घटम् ॥
(ळ्Bहाग्१.५.५०६७, ५०९५१५)

चतुर्धा माधुरी तस्य व्रज एव विराजते ।
ऐश्वर्यक्रीडयोर्वेणोस्तथा श्रीविग्रहस्य च ॥ (ळ्Bहाग्१.५.५२६)

तस्मात्या यथा भुवि वर्तन्ते इत्यादिदिशा द्वारका मथुरागोकुलनामानि
स्वतन्वाण्येव भगवतो धामानि । गोकुलतद्वैभवप्रकाशत्वेन प्रसिद्धो
गोलोक इति नाम परव्योमोपरीति शास्त्रप्रसिद्धं, यथा हरिवंशे शक्र
वचनम्

स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।
तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ःV २.१९.२९३५] इति ।

इन्द्रस्तु ब्रह्ममोहनादौ गोकुलपरमैश्वर्यं ज्ञात्वापि परममाधुर्य
दर्शनेन ब्रह्मण इव पुनर्मोहितः सन् तस्यैवाश्चर्यप्रकाशं गोलोकं
वर्णयित्वा तस्यापि गोकुलेन सहाभेदवन्निर्देशेनाह स तु लोकस्त्वया कृष्ण इति
। अतः श्रीकृष्णवाक्यं श्रीभागवते (१०.२५.१८)

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।
गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ इति ।

तस्माद्युक्तमेवयस्य वासः पुराणादौ ख्यातः स्थानचतुष्टये इति । किं च
मच्छरणं मन्नाथं मत्परिग्रहमिति विशेषणादत्र ब्रह्मादीनामप्य्
अधिकारो नास्ति, का कथान्येषाम् ? दृश्यते चान्यत्र दशयोजनात्मके श्री
पुरुषोत्तमक्षेत्रे शङ्काकारे क्रोशपञ्चके तद्देशाधिपतेः
स्वतन्त्रेणाधिकारो नास्ति । किं बहुना, अतः स्वयंप्रकाशभूवृन्दावनस्य
परमप्राप्यत्वं परमरहस्यत्वं परमरमणीयत्वं च तथा श्री
भागवते (१०.२१.१०)

वृन्दावने सखि भुवो वितनोति कीर्तिं
यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।

पुनस्तत्रैव ब्रह्मस्तवे (१०.१४.३४)

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान्मुकुन्दस्
त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥

पुनस्तत्रैव श्रीमद्उद्धवोक्तौ (१०.४७.६१)

आसामहो चरणरेणुजुषामहं स्यां
वृन्दावने किमपि गुल्मलतौषधीनाम् । इति ।

आदिपुराणे

त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिका पार्थ यत्र राधाभिधा मम ॥

तथा हि

व्रज न गोपिका भिन्ना मत्तः पश्यन्ति केवलम् ।
गोपा गावश्च तत्रत्या ममैवानन्दविग्रहाः ॥
ये व्रजस्थानहो भिन्नान्मत्पश्यन्ति तु केचन ।
न तेषां मूढबुद्धीनां गतिर्नैव परत्र च ॥

ब्रह्मसंहितायाम् (५.५६)

द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिद्आनन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥

श्रीगोपालतापन्यां च (२.३६)तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी इति ।

बृहद्गौतमीये

इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षिवृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोपकन्याश्च निवसन्ति ममालये ।
योगिन्यस्ता मया नित्यं मम सेवापरायणाः ॥
पञ्चयोजनमेवास्ति वनं मे देहरूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृतवाहिनी ॥
अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ।
सर्वदेवमयश्चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस्तिरोभावो भवेन्मेऽत्र युगे युगे ।
तेजोमयमिदं रम्यमदृश्यं चर्मचक्षुषा ॥
वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।
हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥

स्कान्दे

ततो वृन्दावनं पुण्यं वृन्दादेवीसमाश्रितम् ।
हरिणाधिष्ठितं तच्च ब्रह्मरुद्रादिसेवितम् ॥
यथा लक्ष्मीः प्रियतमा यथा भक्तिपरा नराः ।
गोविन्दस्य प्रिअयतमं तथा वृन्दावनं भुवि ॥

तत्र श्रीवृन्दावने श्रीगोविन्दस्थलाख्यम् । यथा श्रीगोविन्दलीलामृते (२१.२८)

श्रीगोविन्दस्थलाख्यं तटमिदममलं कृष्णसंयोगपीठं
वृन्दारण्योत्तमाङ्गं क्रमनतमभितः कूर्मपीठस्थलाभम् ।
कुञ्जश्रेणीदलाढ्यं मणिमयगृहसत्कर्णिकं स्वर्णरम्भा
श्रेणीकिञ्जल्कमेषा दशशतदलराजीवतुल्यं ददर्श ॥

अतएव स्मरणमङ्गले कुञ्जातित्यत्र कुञ्जादिति कुञ्जप्राधान्यात्श्रीगोविन्द
स्थलगतः कुञ्जो ज्ञेय इति ।

स्कान्दे मथुराखण्डे (ंथुरामाहात्म्ये ३९९४०१)

तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम्
तत्सेवकसमाकीर्णं तत्रैव स्थीयते मया ।
भुवि गोविन्दवैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥
वृन्दावने महासद्म यैर्दृष्टं पुरुषोत्तमैः ।
गोविन्दस्य महीपाल ते कृतार्था महीतले ॥

तत्र योगपीठे श्रीगोविन्ददेवस्य ध्यानं, यथा क्रमदीपिकायाम् (३.१३६)

अथ प्रकटसौरभोद्गलितमाध्वीकोत्फुल्लसत्
प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः
स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनम् ॥१

विकाशिसुमनोरमास्वादनमञ्जुलैः सञ्चरच्
छिलिमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः ।
कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्
विराणितमितस्ततो भुजगशत्रुनृत्याकुलम् ॥२

कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्
विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः ।
प्रदीपितमनोभवव्रजविलासिनीवाससां
विलोलनपरैर्निषेवितमनारतं मारुतैः ॥३

प्रवालनवपल्लवं मरकतच्छदं वज्रमौ
क्तिकप्रकरकोरकं कमलरागनानाफलम् ।
स्थविष्ठमखिलर्तुभिः सततसेवितं कामदं
तद्अन्तरमपि कल्पकाङ्घ्रिपमुदञ्चितं चिन्तयेत् ॥४

सुहेमशिखरावलेरुदितभानुवद्भास्वराम्
अधोऽस्य कनकस्थलीममृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां
स्मरेत्पुनरतन्द्रितो विगतषट्तनङ्गां बुधः ॥५

तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग
पीठेऽष्टपत्रमरुणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्य मध्ये
सञ्चिन्तयेत्सुखनिविष्ठमथो मुकुन्दम् ॥६

सूत्रामरत्नदलिताञ्जनमेघपुञ्ज
प्रत्यग्रनीलजलजन्मसमानभासम् ।
सुस्निग्धनीलघनकुञ्चितकेशजालं
राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥७

आपूर्णशारदगताङ्कुशशाङ्कबिम्ब
कान्ताननं कमलपत्रविशालनेत्रम् ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त
गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥८

सिद्नूरसुन्दरतराधरमिन्दुकुन्द
मन्दारमन्दहसितद्युतिदीपिताङ्गम् ।
वन्यप्रवालकुसुमप्रचयावक्प्त
ग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठम् ॥९

मत्तभ्रमरजुष्टविलम्बमान
सन्तानकप्रसवदामपरिष्कृतांसम् ।
हारावलीभगणराजितपीवरोरो
व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥१०

श्रीवत्सलक्षणसुलक्षितमुन्नतांसम्
आजानुपीनपरिवृत्तसुजातबाहुम् ।
आबन्धुरोदरमुदारगम्भीरनाभिं
भृङ्गाङ्गनानिकरमञ्जुलरोमराजिम् ॥११

नानामणिप्रघटिताङ्गदकङ्कणोर्मि
ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
द्व्याङ्गरागपरिपञ्जरिताङ्गयष्टिम्
आपीतवस्त्रपरिवीतनितम्बबिम्बम् ॥१२

चारूरुजानुमनुवृत्तमनोज्ञजङ्घ
कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् ।
माणिक्यदर्पणलसन्नखराजिराजद्
रत्नाङ्गुलिच्छदन्सुन्दरपादपद्मम् ॥१३

मत्स्याङ्कुशारदरकेतुयवाब्जवज्र
संलक्षितारुणकराङ्घ्रितलाभिरामम् ।
लावण्यसारसमुदायविनिर्मिताङ्ग
सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥१४

आस्यारविन्दपरिपूरितवेणुरन्ध्र
लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्द्रवीजृतविकृष्टसमस्तजन्तु
सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥१५॥

अथ सुललितगोपसुन्दरीणां
पृथुनिविवीषनितम्बमन्थराणाम् ।
गुरुकुचभरभङ्गुरावलग्न
त्रिवलिविजृम्भितरोमराजिभाजाम् ॥२३॥

तद्अतिमधुरचारुवेणुवाद्या
मृतरसपल्लविताङ्गजाङ्घ्रिपानाम् ।
मुकुलविसररम्यरूढरोमोद्
गमसमलङ्कृतगात्रवल्लरीणाम् ॥२४॥

तद्अतिरुचिरमन्दहासचन्द्रा
तपपरिजृम्भितरागवारिणाशेः ।
तरलतरतरङ्गभङ्गविप्रुट्
प्रकरसमश्रमबिन्दुसन्ततानाम् ॥२५॥

तद्अतिललितमन्दचिल्लिचाप
च्युतनिशितेक्षणमारवाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्ग
प्रविसृतदुःसहवेपथुव्यथानाम् ॥२६॥

तद्अतिरुचिरकर्मरूपशोभा
मृतरसपानविधानलालसाभ्याम् ।
प्रणयसलिलपूरवाहिनीनाम्
अलसविलोलविलोचनाम्बुजाभ्याम् ॥२७॥

विश्रंसत्कवरीकलापविगलत्फुल्लप्रसूनश्रवन्
माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्य्उछ्वसन्
नीवीविश्लथमानचीनसिचयान्ताविर्नितम्बत्विषाम् ॥२८॥

स्खलितललितपादाम्भोजमन्दाभिघात
क्वणितमणितुलाकोट्याकुलाशामुखानाम् ।
चलद्अधरदलानां कुड्मलत्पक्ष्मलाक्षि
द्वयसरसिरुहणामुल्लसत्कुण्डलानाम् ॥२९॥

द्राघिष्ठश्वसनसमीरणाभिताप
प्रम्लानीभवद्अरुणोष्ठपल्लवानाम् ।
नानोपायनविलसत्कराम्बुजानाम्
आलीभिः सततनिषेवितं समन्तात् ॥३०॥

तासामायतलोलनीलनयनव्याकोशनीलाम्बुज
स्रग्भिः सम्परिपूजिताखिलतनुं नानाविलासास्पदम् ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ॥३१॥

गोपीगोपपशूनां बहिः
स्मरेदग्रतोऽस्य गीर्वाणघटाम् ।
वित्तार्थिनीं विरिञ्चित्रिनयन
शतमन्युपूर्विकां स्तोत्रपराम् ॥३२॥

तद्दक्षिणतो मुनिनिकरं
दृढधर्मवाञ्छमाम्नायपरम् ।
योगीन्द्रानथ पृष्ठे मुमुक्ष
माणान् समाधिना सनकाद्यान् ॥३३॥

सव्ये सकान्तानथ यक्षसिद्ध
गन्धर्वविद्याधरचारणांश्च ।
सकिन्नरानप्सरसश्च मुख्याः
कामार्थिनो नर्तनगीतवाद्यैः ॥३४॥

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं
सौदामनीततिपिशङ्गजटाकलापम् ।
तत्पादपङ्कजगतामचलाञ्च भक्तिं
वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥३५॥

नानाविधश्रुतिगणान्वितसप्तराग
ग्रामत्रयीगतमनोहरमूर्छनाभिः ।
संप्रीणयन्तमुदिताभिरमुं महत्या
सञ्चिन्तयेन्नभसि धातृसुतं मुनीन्द्रम् ॥३६॥

इह पद्मपुराणीयश्चाध्यायो (५.६९.४११८) लिख्यते क्रमात्

पार्वत्युवाच
अनन्तकोटिब्रह्माण्डतद्बाह्याभ्यन्तरस्थितेः ।
विष्णोः स्थानं परं तेषां प्रधानं वरमुत्तमम् ॥४॥
यत्परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥५॥
ईश्वर उवाच
गुह्याद्गुह्यतरं गुह्यं परमानन्दकारकम् ।
अत्यद्भुतं रहः स्थानमानन्दं परमं परम् ॥६॥
दुर्लभानां च परमं दुर्लभं मोहनं परम् ।
सर्वशक्तिमयं देवि सर्वस्थानेषु गोपितम् ॥७॥
सात्वतां स्थानमूर्द्धन्यं विष्णोरत्यन्तदुर्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरिसंस्थितम् ॥८॥
पूर्णब्रह्म सुखैश्वर्यं नित्यमानन्दमव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥९॥
गोलोकैश्वर्यं यत्किञ्चिद्गोकुले तत्प्रतिष्ठितम् ।
वैकुण्ठवैभवं यद्वै द्वारिकायां प्रतिष्ठितम् ॥१०॥
यद्ब्रह्म परमैश्वर्यं नित्यं वृन्दावनाश्रयम् ।
कृष्णधाम परं तेषां वनमध्ये विशेषतः ॥११॥
तस्मात्त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता ।
यस्मान्माथुरकं नाम विष्णोरेकान्तवल्लभम् ॥१२॥
स्वस्थानमधिकं नामधेयं माथुरमण्डलम् ।
निगूढं विविधं स्थानं पुर्य्अभ्यन्तरसंस्थितम् ॥१३॥
सहस्रपत्रकमलाकारं माथुरमण्डलम् ।
विष्णुचक्रपरिभ्रामाद्धाम वैष्णवमद्भुतम् ॥१४॥
कर्णिकापर्णविस्तारं रहस्यद्रुममीरितम् ।
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥१५॥
भद्रश्रीलोहभाण्डीरमहातालखदीरकाः ।
बकुलं कुमुदं काम्यं मधु वृन्दा वनं तथा ॥१६॥
द्वादशैतावती संख्या कालिन्द्याः सप्तपश्चिमे ।
पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम् ॥१७॥
महारण्यं गोकुलाख्यं मधु वृन्दावनं तथा ।
अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम् ॥१८॥
कदम्बखण्डनं नन्दवनं नन्दीश्वरं तथा ।
नन्दनन्दनखण्डं च पलाशाशोककेतकी ॥१९॥
सुगन्धमानसं कैलममृतं भोजनस्थलम् ।
सुखप्रसाधनं वत्सहरणं शेषशायिकम् ॥२०॥
श्यामपूर्वो दधिग्रामश्चक्रभानुपुरं तथा ।
संकेतं द्विपदं चैव बालक्रीडनधूसरम् ॥२१॥
कामद्रुमं सुललितमुत्सुकं चापि काननम् ।
नानाविधरसक्रीडा नानालीलारसस्थलम् ॥२२॥
नागविस्तारविष्टम्भं रहस्यद्रुममीरितम् ।
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ॥२३॥
कर्णिका तन्महद्धाम गोविन्दस्थानमुत्तमम् ।
तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥२४॥
कर्णिकायां क्रमाद्दिक्षु विदिक्षु दलमीरितम् ।
यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥२५॥
तस्मिन् दले महापीठं निगमागमदुर्गमम् ।
योगीन्द्रैरपि दुष्प्रापं सर्वात्मा यच्च गोकुलम् ॥२६॥
द्वितीयं दलमाग्नेय्यां तद्रहस्यदलं तथा ।
संकेतं द्विपदं चैव कुटी द्वौ तत्कुले स्थितौ ॥२७॥
पूर्वं दलं तृतीयं च प्रधानस्थानमुत्तमम् ।
गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं स्मृतम् ॥२८॥
चतुर्थं दलमैशान्यां सिद्धपीठेऽपि तत् पदम् ।
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥२९॥
वस्त्रालङ्कारहरणं तद्दलेसमुदाहृतम् ।
उत्तरेपञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥३०॥
द्वादशादित्यमत्रैवदलं चकर्णिकासमम् ।
वायव्यां तु दलं षष्ठं तत्र कालीह्रदः स्मृतः ॥३१॥
दलोत्तमोत्तमं चैव प्रधानं स्थानमुच्यते ।
सर्वोत्तमदलं चैव पश्चिमे सप्तमं स्मृतम् ॥३२॥
यज्ञपत्नीगणानां च तद्ईप्सितवरप्रदम् ।
अत्रासुरोऽपि निर्वाणं प्राप त्रिदशदुर्लभम् ॥३३॥
ब्रह्ममोहनमत्रैव दलं ब्रह्मह्रदावहम् ।
नैरृत्यां तु दलं प्रोक्तमष्टमं व्योमघातनम् ॥३४॥
शङ्खचूडवधस्तत्र नानाकेलिरसस्थलम् ।
श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम् ॥३५॥
श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम् ।
शिवलिङ्गमधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥३६॥
तद्बाह्ये षोडशदलं श्रिया पूर्णं तमीश्वरम् ।
सर्वासु दिक्षु यत्प्रोक्तं प्रादक्षिण्याद्यथा क्रमम् ॥३७॥
महत्पदं महद्धाम स्वधामाधावसंज्ञकम् ।
प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम् ॥३८॥
तत्र गोवर्धनगिरौ रम्ये नित्यरसाश्रये ।
कर्णिकायां महालीला तल्लीलारसगह्वरौ ॥३९॥
यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ।
कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ॥४०॥
दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम् ।
चतुर्थं दलमाख्यातं महाद्भुतरसस्थलम् ॥४१॥
नन्दीश्वरवनं रम्यं तत्र नन्दालयः स्मृतः ।
कर्णिकादलमाहात्म्यं पञ्चमं दलमुच्यते ॥४२॥
अधिष्ठाताऽत्र गोपालो धेनुपालनतत्परः ।
षष्ठं दलं यदाख्यातं तत्र नन्दवनं स्मृतम् ॥४३॥
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।
तत्राष्टमं तालवनं तत्र धेनुवधः स्मृतः ॥४४॥
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।
कामारण्यं च दशमं पधानं सर्वकारणम् ॥४५॥
ब्रह्मप्रसाधनं तत्र विष्णुच्छद्मप्रदर्शनम् ।
कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते ॥४६॥
दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम् ।
निर्माणं सेतुबन्धस्य नानावनमयस्थलम् ॥४७॥
भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम् ।
कृष्णः क्रीडारतस्तत्र श्रीदामादिभिरावृतः ॥४८॥
त्रयोदशं दलं श्रेष्ठं तत्र भद्रवरं स्मृतम् ।
चतुर्दशदलं प्रोक्तं सर्वसिद्धिप्रदस्थलम् ॥४९॥
श्रीवनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।
कृष्णक्रीडादलमयं श्रीकान्तिकीर्तिवर्धनम् ॥५०॥
दलं पञ्चदशं श्रेष्ठं तत्र लोहवनं स्मृतम् ।
कथितं षोडशदलं माहात्म्यं कर्णिकासमम् ॥५१॥
महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम् ।
बालक्रीडारतस्तत्र वत्सपालैः समावृतः ॥५२॥
पूतनादिवधस्तत्र यमलार्जुनभञ्जनम् ।
अधिष्ठाता तत्र बालगोपालः पञ्चमाब्दिकः ॥५३॥
नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः ।
दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम् ॥५४॥
कृष्णक्रीडा च किञ्जल्की विहारदलमुच्यते ।
सिद्धप्रधानकिञ्जल्कदलं च समुदाहृतम् ॥५५॥
पार्वत्युवाच
वृन्दारण्यस्य माहात्म्यं रहस्यं वा किमद्भुतम् ।
तदहं श्रोतुमिच्छामि कथयस्व महाप्रभो ॥५६॥
ईश्वर उवाच
कथितं ते प्रियतमे गुह्याद्गुह्योत्तमोत्तमम् ।
रहस्यानां रहस्यं यद्दुर्लभानां च दुर्लभम् ॥५७॥
त्रैलोक्यगोपितं देवि देवेश्वरसुपूजितम् ।
ब्रह्मादिवाञ्छितं स्थानं सुरसिद्धादिसेवितम् ॥५८॥
योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैकतत्पराः ।
अप्सरोभिश्च गन्धर्वैर्नृत्यगीतनिरन्तरम् ॥५९॥
श्रीमद्वृन्दावनं रम्यं पूर्णानन्दरसाश्रयम् ।
भूरिचिन्तामणिस्तोयममृतं रसपूरितम् ॥६०॥
वृक्षं गुरुद्रुमं तत्र सुरभीवृन्दसेवितम् ।
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्दशांशसमुद्भवम् ॥६१॥
तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ।
गतिनाट्यं कलालापस्मितवक्त्रं निरन्तरम् ॥६२॥
शुद्धसत्त्वैः प्रेमपूर्णैर्वैष्णवैस्तद्वनाश्रितम् ।
पूर्णब्रह्म सुखे मग्नं स्फुरत्तन्मूर्तितन्मयम् ॥६३॥
मत्तकोकिलभृङ्गाद्यैः कूजत्कलमनोहरम् ।
कपोलशुकसङ्गीतमुन्मत्तालिसहस्रकम् ॥६४॥
भुजङ्गशत्रुनृत्याढ्यं सकलामोदविभ्रमम् ।
नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् ॥६५॥
पूर्णेन्दुनित्याभ्युदयं सूर्यमंदांशुसेवितम् ।
अदुःखं दुःखविच्छेदं जरामरणवर्जितम् ॥६६॥
अक्रोधं गतमात्सर्यमभिन्नमनहङ्कृतम् ।
पूर्णानन्दामृतरसं पूर्णप्रेमसुखार्णवम् ॥६७॥
गुणातीतं महद्धाम पूर्णप्रेमस्वरूपकम् ।
वृक्षादिपुलकैर्यत्र प्रेमानन्दाश्रुवर्षितम् ॥६८॥
किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ।
गोविन्दाङ्घ्रिरजः स्पर्शान्नित्यं वृन्दावनं भुवि ॥६९॥
सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ।
यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये ॥७०॥
गुह्याद्गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि ।
अक्षरं परमानन्दं गोविन्दस्थानमव्ययम् ॥७१॥
गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ।
मुक्तिस्तत्र रजः स्पर्शात्तन्माहात्म्यं किमुच्यते ॥७२॥
तस्मात्सर्वात्मना देवि हृदिस्थं तद्वनं कुरु ।
वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् ॥७३॥
कालिन्दी चाकरोद्यस्य कर्णिकायां प्रदक्षिणाम् ।
लीलानिर्वाणगम्भीरं जलं सौरभमोहनम् ॥७४॥
आनन्दामृततन्मिश्रमकरन्दघनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर्नानावर्णसमुज्जवलम् ॥७५॥
चक्रवाकादिविहगैर्मञ्जुनानाकलस्वनैः ।
शोभमानं जलं रम्यन्तरं गातिमनोरमम् ॥७६॥
तस्योभयतटीरम्या शुद्धकाञ्चननिर्मिता ।
गङ्गाकोटिगुणा प्रोक्ता यत्र स्पर्शवराटकः ॥७७॥
कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः ।
कालिन्दीकर्णिका कृष्णमभिन्नमेकविग्रहम् ॥७८॥
पार्वत्युवाच
गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रह ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥७९॥
ईश्वर उवाच
मध्ये वृन्दावने रम्येमञ्जुमञ्जीरशोभिते ।
योजनाश्रितसद्वृक्षशाखापल्लवमण्डिते ॥८०॥
तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम् ।
तद्अष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥८१॥
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥८२॥
गोविन्दस्य परं स्थानं किमस्य महिमोच्यते ।
श्रीमद्गोविन्दमन्त्रस्थबल्लवीवृन्दसेवितम् ॥८३॥
दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥८४॥
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।
अनादिमादिं सर्वेषां नन्दगोपप्रियात्मजम् ॥८५॥
श्रुतिमृग्यमजं नित्यं गोपीजनमनोहरम् ।
परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥८६॥
बल्लवीनन्दनं ध्यायेन्निर्गुणस्यैककारणम् ।
सुश्रीमन्तं नवं स्वच्छं श्यामधाम मनोहरम् ॥८७॥
नवीननीरदश्रेणीसुस्निग्धं मञ्जुकुण्डलम् ।
फुल्लेन्दीवरसत्कान्तिसुखस्पर्शं सुखावहम् ॥८८॥
दलितां जनपुञ्जाभचिक्कणं श्याममोहनम् ।
सुस्निग्धनीलकुटिलाशेषसौरभकुन्तलम् ॥८९॥
तद्ऊर्ध्वं दक्षिणे काले श्यामचूडामनोहरम् ।
नानावर्णोज्ज्वलं राजच्छिखण्डिदलमण्डितम् ॥९०॥
मन्दारमञ्जुगोपुच्छाचूडं चारुविभूषणम् ।
क्वचिद्बृहद्दलश्रेणीमुकुटेनाभिमण्डितम् ॥९१॥
अनेकमणिमाणिक्यकिरीटभूषणं क्वचित् ।
लोलालकवृतं राजत्कोटिचन्द्रसमाननम् ॥९२॥
कस्तूरीतिलकं भ्राजन्मञ्जुगोरोचनान्वितम् ।
नीलेन्दीवरसुस्निग्धसुदीर्घदललोचनम् ॥९३॥
आनृत्यद्भ्रूलताश्लेषस्मितं साचिनिरीक्षणम् ।
सुचारून्नतसौन्दर्यनासाग्रातिमनोहरम् ॥९४॥
नासाग्रगजमुक्तांशुमुग्धीकृतजगत्त्रयम् ।
सिन्दूरारुणसुस्निग्धाधरौष्ठसुमनोहरम् ॥९५॥
नानावर्णोल्लसत्स्वर्णमकराकृतिकुण्डलम् ।
तद्रश्मिपुञ्जसद्गण्डमुकुराभलसद्द्युतिम् ॥९६॥
कर्णोत्पलसुमन्दारमकरोत्तंसभूषितम् ।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारस्फुरद्गलम् ॥९७॥
विलसद्दिव्यमाणिक्यं मञ्जुकाञ्चनमिश्रितम् ।
करे कङ्कणकेयूरं किङ्किणीकटिशोभितम् ॥९८॥
मञ्जुमञ्जीरसौन्दर्यश्रीमद्अङ्घ्रिविराजितम् ।
कर्पूरागुरुकस्तूरीविलसच्चन्दनादिकम् ॥९९॥
गोरोचनादिसंमिश्रदिव्याङ्गरागचित्रितम् ।
स्निग्धपीतपटीराजत्प्रपदां दोलितां जनम् ॥१००॥
गम्भीरनाभिकमलं रोमराजीनतस्रजम् ।
सुवृत्तजानुयुगलं पादपद्ममनोहरम् ॥१०१॥
ध्वजवज्राङ्कुशाम्भोजकराङ्घ्रितलशोभितम् ।
नखेन्दुकिरणश्रेणीपूर्णब्रह्मैककारणम् ॥१०२॥
केचिद्वदन्ति तस्यांशं ब्रह्म चिद्रूपमद्वयम् ।
तद्दशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥१०३॥
योगीन्द्रैः सनकाद्यैश्च तदेव हृदि चिन्त्यते ।
त्रिभङ्गं ललिताशेषनिर्माणसारनिर्मितम् ॥१०४॥
तिर्यग्ग्रीवजितानन्तकोटिकन्दर्पसुन्दरम् ।
वामांसार्पितसद्गण्डस्फुरत्काञ्चनकुण्डलम् ॥१०५॥
सहापाङ्गेक्षणस्मेरं कोटिमन्मथसुन्दरम् ।
कुञ्चिताधरविन्यस्तवंशीमञ्जुकलस्वनैः ॥१०६॥
जगत्त्रयं मोहयन्तं मग्नं प्रेमसुधार्णवे ।
श्रीपार्वत्युवाच
परमं कारणं कृष्णं गोविन्दाख्यं महत्पदम् ॥१०७॥
वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ।
तत्तद्रहस्यमाहात्म्यं किमाश्चर्यं च सुन्दरम् ॥१०८॥
तद्ब्रूहि देवदेवेश श्रोतुमिच्छाम्यहं प्रभो ।
ईश्वर उवाच
यद्अङ्घ्रिनखचन्द्रांशुमहिमान्तो न गम्यते ॥१०९॥
तन्माहात्म्यं कियद्देवि प्रोच्यते त्वं मुदा शृणु ।
अनन्तकोटिब्रह्माण्डे अनन्तत्रिगुणोच्छ्रये ॥११०॥
तत्कलाकोटिकोट्य्अंशा ब्रह्मविष्णुमहेश्वराः ।
सृष्टिस्थित्य्आदिना युक्तास्तिष्ठन्ति तस्य वैभवाः ॥१११॥
तद्रूपकोटिकोट्य्अंशाः कलाः कन्दर्पविग्रहाः ।
जगन्मोहं प्रकुर्वन्ति तद्अण्डान्तरसंस्थिताः ॥११२॥
तद्देहविलसत्कान्तिकोटिकोट्य्अंशको विभुः ।
तत्प्रकाशस्य कोट्य्अंशरश्मयो रविविग्रहाः ॥११३॥
तस्य स्वदेहकिरणैः परानन्दरसामृतैः ।
परमामोदचिद्रूपैर्निर्गुणस्यैककारणैः ॥११४॥
तद्अंशकोटिकोट्य्अंशा जीवन्ति किरणात्मकाः ।
तद्अङ्घ्रिपङ्कजद्वन्द्वनखचन्द्रमणिप्रभाः ॥११५॥
आहुः पूर्णब्रह्मणोऽपि कारणं वेददुर्गमम् ।
तद्अंशसौरभानन्तकोट्य्अंशो विश्वमोहनः ॥११६॥
तत्स्पर्शपुष्पगन्धादिनानासौरभसम्भवः ।
तत्प्रिया प्रकृतिस्त्वाद्या राधिका कृष्णवल्लभा ॥११७॥
तत्कलाकोटिकोट्य्अंशा दुर्गाद्यास्त्रिगुणात्मिकाः ।
तस्या अङ्घ्रिरजसः स्पर्शात्कोटिविष्णुः प्रजायते ॥११८॥
तत्पादपङ्कजस्पर्शाद्धन्यासि त्वं वरानने ॥

इति पद्मपुराणे श्रीवृन्दावनमाहात्म्यम् ।

यथा बृहद्गौतमीये

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।
सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ॥ इति ।

तथा मात्स्यस्कान्दाभ्याम्

वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥

[अथ पुरुषबोधिनी श्रुतिः]

श्रीश्रीराधागोविन्दौ जयतः ।
प्रथमः प्रपाठकः

ओमथ सुषुप्तौ रामः सुबोधमाधाय इव किं मे देवि क्वासौ कृष्णः, योऽयं
मम भ्रातेति । तस्य कान्तिच्छाये ब्रूहीति ।

सा वैष्णव्युवाचराम ! शृणु । भूर्भुवः स्वर्महः जनस्तपः सत्यमतलं
वितलं सुतलं रसातलं तलातलं महातलं पातालमेव पञ्चाशत्कोटियोजन
बहुलं स्वर्णाण्डं ब्रह्माण्डमिति । अनन्तकोटिब्रह्माण्डानामुपरि कारण
जलोपरि महाविष्णोर्नित्यस्थलं वैकुण्ठम् ।

स पृच्छतिकथं शून्यमण्डले निरालम्बनम् ।

साप्युक्तापद्मासनासीनः कृष्णध्यानपरायणः शेषदेवोऽस्ति । तस्यानन्त
रोमकूपेषु अनन्तकोटिब्रह्माण्डानि अनन्तकोटिकारणजलानि । तस्य
मस्तकोपरि सहस्राश्रमिता फणानि । फणोपरि रुद्रलोकं शिववैकुण्ठमिति
दशकोटियोजनविस्तीर्णं रुद्रलोकम् । तदुपरि विष्णुलोकं, सप्तकोटियोजन
विस्तीर्णं विष्णुलोकम् । त्रद्उपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णं, तद्
उपरि गोकुलाख्यं मथुरामण्डलं सुधामयसमुद्रेणावेष्टितमिति ।

तत्राष्टदलकेशरमध्ये मणिमयसप्तावरणकं किं रूपं स्थानं, किं
पद्मं किं यन्त्रः किं सेवकाः किमावरणाः इत्युक्ते साप्युक्तागोकुलाख्ये
मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्ममध्ये कल्पतरोर्मूले
अष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूरपिच्छशिरो वेणु
वेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति ।

द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मीदुर्गादिका शक्तिरिति पश्चिमे
सम्मुखे ललिता, वायव्ये श्यामला, उत्तरे श्रीमति, ऐशन्यां हरिप्रिया, पूर्वे
विशाखा, चाग्नौ श्रद्धा, याम्यां पद्मा नैरृत्यां भद्रा । षोडशदलाग्रे
चन्द्रावली, तद्वामे चित्ररेखा, तत्पार्श्वे श्रीशशिरेखा, तत्पार्श्वे कृष्णप्रिया,
तत्पार्श्वे कृष्णवल्लभा, तत्पार्श्वे चन्द्रावती, तत्पार्श्वे मनोहरा, तत्पार्श्वे
योगानन्दा, तत्पार्श्वे परानन्दा, तत्पार्श्वे प्रेमानन्दा चित्रकरा, तत्पार्श्वे
मदनसुन्दरी नन्दा, तत्पार्श्वे सत्यानन्दा, तत्पार्श्वे चन्द्रा, तत्पार्श्वे
किशोरीवल्लभा, करुणा, कुशला एवं विविधा गोप्यः कृष्णसेवां कुर्वन्तीति वेद
वचनं भवतीति वेदवचनं भवति ।

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं
प्राप्नोति नान्येनेति नान्येनेति ।

इत्यथर्वणीयपुरुषबोधिन्यां प्रथमः प्रपाठकः ॥
॥१॥



द्वितीयः प्रपाठकः

साप्युक्तातस्य बाह्ये शतदलपत्रेषु योगपीठेषु रामक्रीडानुरक्ता गोप्यस्
तिष्ठन्ति । *** । एतच्चतुर्द्वारं लक्षसूर्यसमुज्ज्वलम् । तत्र समाकीऋणः । तत्र
प्रथमावरणे पश्चिमे संमुखे स्वर्णमण्डपे गोपकन्या । द्वितीये
श्रीदामादिः । तृतीये किङ्किण्य्आदिः । चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर्मूले
उषासहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्तवर्णो विष्णुरिति द्वारपालम्
। एतद्बाह्ये राधाकुण्डम् । तत्र स्नात्वा राधाङ्गं भवति, ईश्वरस्य दर्शन
योग्यं भवति । तत्र स्नात्वा नारद ईश्वरस्य नित्यस्थलसमीपयोग्यो भवति
। राधाकृष्णयोरेकासने एकबुद्धिरेकं मन एकं ज्ञानमेक आत्मा एक
पद्मैकाकृतिरेकं ब्रह्मतयासनं हेममुरलीं वादयन् हेमस्वरूपाम्
अनुरागसंवलितां कल्पतरोर्मूले सुरभिविद्यामरक्षितविमलाश्रुरिव
परमा सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणातीतस्नेहभावरहिता । अतएव
द्वयोर्न भेदः कालमायागुणातीतं स्यात् ।

तदेव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्रीवृन्दावनमध्ये
ऋग्यजुःसामस्वरूपं रूपात्मको मकारः । यजुर्आत्मक उकारः । श्रीराम
रसात्मकोऽपि अकारः । श्रीकृष्णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः पर
ब्रह्मसच्चिदानन्दराधाकृष्णयोः परस्परसुखाभिलाषरसास्वादन इव तत्
सच्चिदानन्दामृतं कथ्यते । एतल्लक्षणं यत्प्रणवं ब्रह्मविष्णुं
शिवात्मकं स्वेच्छाख्यज्ञानशक्तिनिष्ठं कायिकवाचिकमानसिकभावं
सत्त्वरजस्तमःस्वरूपं सत्यत्रेताद्वापरानुगीतं तुरीयं गोकुलमथुरा
द्वारकाणां तुरीयमेव तद्दिव्यं वृन्दावनमिति पुरैवोक्तं सर्व
सम्प्रदायानुगतं त्रयम् ।

इत्यथर्वणीयपुरुषबोधिन्यां द्वितीयः प्रपाठकः ॥
॥२॥

तृतीयः प्रपाठकः

अथानन्तरम्

भद्रश्रीलोहभाण्डीरमहातालखदिरकाः ।
बहुलाकुमुदाकाम्यं मधुवृन्दावनानि च ॥

द्वादशवनानि । कालिन्द्याः पश्चिमे सप्तवनानि पूर्वे पञ्चवनानि । उत्तरे तु
गुह्यमस्तीति । महावनं गोकुलाख्यं मथुरा मधुवनमिति । खदिरवनं
भाण्डीरवनं नन्दीश्वरवनं नन्दनानन्दखण्डेव वनं पलाशाशोक
वनं केतद्रुमभद्रवनशेषशायिक्रीडावन उत्सववनान्येतेषु चतुरश्
चतुर्विंश वनानि नानालीलया नित्यस्थलानि कृष्णः क्रीडति ।

तस्य वसन्तर्तुसेवितं नन्दाद्य्उपवनयुक्तम् । तत्र दुःखं नास्ति, सुखं
नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधं नास्ति । तत्र पुर्णानन्दमयः श्री
कैशोरः कृष्णः शिखण्डदललम्बितत्रियुग्मगुञ्जावतंसमणिमयकिरीटी
शिरो गोरोचनातिलकः कर्णयोर्मकरकुण्डले वन्यस्रग्वी मालतीदामभूषित
शरीरः करे कङ्कणः केयूरं कट्यां किङ्किणीपीताम्बरधरो गम्भीर
नाभिकमलः सुवृत्तनासायुगलो ध्वजवज्रादिचिह्नितपादपद्मस्तद्
अंशांशेन कोटिमहाविष्णुरिति । एवंरूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः
सुधीरिति ।

तस्य आद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कारशोभिता प्रसन्ना अनेक
लावण्यसुन्दरी । एवं भूतस्य सिद्धिमहिम्ना सुखसिन्धुरशोनोत्पन्न इति
मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं
प्राप्नोतीति नान्येनेति नान्येनेति वेदवचनं भवतीति वेदवचनं भवतीति वेद
वचनं भवतीति ।

इत्यथर्वणीयपुरुषबोधिन्यां तृतीयः प्रपाठकः ॥
॥३॥

चतुर्थः प्रपाठकः

अथ पुरुषोत्तमस्यानिशं तुरीयं साक्षाद्ब्रह्म । यत्र परमसंन्यास
स्वरूपः कृष्णन्यग्रोधः कल्पपादपः । यत्र लक्ष्मीर्जाम्बवतीराधिका
विमलाचन्द्रावलीसरस्वतीललितादिभिरिति साक्षाद्ब्रह्मस्वरूपो जगन्नाथः ।
अहं सुभद्राशेषांशो ज्योतीरूपः सुदर्शनो भक्तश्च । एवं ब्रह्म पञ्चधा
विभूतिर्यत्र मथुरागोकुलद्वारकावैकुण्ठपुरीश्वेतद्वीपपुरीरामपुरी
। एताः देवतास्तिष्ठन्ति । यत्र सुरसापातालगङ्गाश्वेतगङ्गारोहिणीकुण्डम्
अमृतकुण्डमित्यादि नानापुरी । यत्रान्नं सिद्धान्नं ब्रह्मस्पर्शाद्दोष
रहितं शूद्रादिसंस्कारापेक्षारहितम् । यत्र श्रीजगन्नाथस्य योग्यमित्यर्थः
। अन्यवर्णोदीरितनानाभ्यासी सीदति मन्त्रः । अन्नपात्तेऽन्नस्य इति मन्त्रः ।
अन्नाद्याय व्यूहध्वं सोमो राजाय मगमन् स मे सुखं प्रमायं तेजसा च
बलेन च इत्यनेन मन्त्रः । विश्वकर्मणे स्वाहा इति मन्त्रेशायोज्यो रसोऽमृतं
ब्रह्मे भूर्भुवः स्वरोम् । पृथ्वी ते पात्रन्धोऽपिधानं ब्राह्मणस्य मुखे
अमितममृतं जुहोमि स्वाहा । इत्यनेन मन्त्रेण अन्नब्रह्मेति श्रुतिरिति वैकल्पं
मुक्तिरुच्यते ।

यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यं मुक्तिः सिद्धा भूर्
बुद्धिर्हि तत्त्वमित्यादि । यत्र भार्गवी यमुना समुद्रममृतमयं वासो
वृन्दावनानि नीलपर्वतो गोवर्धनम् । सिंहासनं योगपीठप्रासादमणि
मण्डपं विमलादिषोडशचण्डिका गोपी । यत्र समुद्रतीरे निरंशका
माघनोऽष्टेदम् । यत्र नृसिंहादयो देवता आवरणानि । यत्र न जरा न मृत्युर्
न कालो न भङ्गो न यमो न विवादो न हिंसा न भ्रान्तिर्न स्वप्न एवं लीला
कामभरा स्वविनोदार्थं भक्ताः सोत्कण्ठिताः । अस्यां क्रीडति कृष्णः ।

एको देवो नित्यलीलानुरक्तो
भक्तव्यापी भक्तहृदयान्तरात्मा ।
कर्माध्यक्षः सर्वभूतादिवासः
साक्षी चेताः केवलो निर्गुणश्च ॥

मानसपूजया जपेन ध्यानेन कीर्तनेन स्तुतिमानसेन सर्वेण नित्यस्थलं
प्राप्नोतीति नान्येनेति नान्येनेति वेदवचनं भवतीति वेदवचनं भवतीति वेद
वचनं भवतीति ।

इत्यथर्वणीयपुरुषबोधिन्यां चतुर्थः प्रपाठकः ॥
॥४॥

इति पञ्चमकक्षा ।