साधनदीपिका/द्वितीयकक्षा

विकिस्रोतः तः
← प्रथमकक्षा साधनदीपिका
द्वितीयकक्षा
[[लेखकः :|]]
तृतीयकक्षा →

(२)
द्वितीयकक्षा

अथ श्रीवृन्दावनोत्तमाङ्गयोगपीठाष्टदलकमलकर्णिकाराजसिंहासन
विराजमानः सर्वस्वरूपराजः सर्वप्रकाशमूलभूतः स्वयं भगवत्श्री
व्रजेन्द्रनन्दनो मध्यकैशोरावस्थितः श्रीगोविन्ददेव एव श्री
वृन्दावनाधिराजः । यथा बहूनां राजपुत्राणां राजपुत्रत्वे साम्ये तथाप्य्
एको राजसिंहासनार्हो राजा भवति श्रुतिस्मृतिपुराणादावस्यैव प्राधान्यात्,
यथा व्रजे महारासे धाम्नोऽभेदेऽपि परिकरभेदेन सर्वेषु यूथेषु
पूर्णतमप्रकाशेन स्थितः सन् श्रीराधिकायाः पार्श्वे स्वयमेव विराजते, तथा
। अतएव मौनमुद्रादिकं प्रकाश्य विग्रहवल्लीलाकाले सर्वेषां श्रीकृष्ण
प्रकाशानां तत्रैवान्यत्र स्थितः सन् श्रीकृष्णचैतन्यमहाप्रभोस्तत्
पार्षदानां च निरतिशयकृपा प्रकाशरूपश्रीरूपसेवामङ्गीकृत्य श्री
गोविन्ददेवः स्वयमेव विराजते । तथा ह्लादिनीशक्तिसारांशमहाभाव
स्वरूपया श्रुतिस्मृतिपुराणादिषु वृन्दावनाधीशात्वेन प्रसिद्धया श्रीराधया
सह विराजमानत्वेनास्यैव प्रसिद्धेः, यथा ब्रह्मसंहितायाम् (५.३७)

आनन्दचिन्मयरसप्रतिभाविताभिस्
ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥

यथा हरिवंशे

अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥

श्रीभागवते च (१०.२१.२३)

इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः ।
अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥
टीका चदेवमातृभिरिति । गाः पशून् गां स्वर्गं वा इन्द्रत्वेन विन्दतीति कृत्वा
च गोविन्द इत्यभ्यधात्नाम कृतवान् ।

पुनस्तत्रैव दशमस्कन्धे (१०.२७.२८)

इति गोगोकुलपतिं गोविन्दमभिषिच्य सः ।
अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥

पद्यावल्यां[* ॰१]

कालिन्दीतीरकल्पद्रुमतलविलसत्पद्मपादारविन्दो
मन्दान्दोलाङ्गुलीभिर्मुखरितमुरली मन्दगीताभिनन्दः ।
राधावक्त्रेन्दुमन्दस्मितमधुरसुधास्वादसन्दोहसान्द्रः
श्रीमद्वृन्दावनेन्द्रः प्रभवतु भवतां भूतये कृष्णचन्द्रः ॥

स्कान्दे मथुराखण्डे नारदोक्तौ

तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्सेवकसमाकीर्णं तत्रैव स्थीयते मया ॥
भुवि गोविन्दवैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्दलालसाः ॥
वृन्दावने महासद्म यैर्दृष्टं पुरुषोत्तमैः ।
गोविन्दस्य महीपाल ते कृतार्था महीतले ॥

तथा हि श्रीकृष्णसन्दर्भे श्रीभागवतषष्ठस्कन्धे (६.८.२०)मां केश्ववो
गदया प्रातरव्याद्गोविन्द आसङ्गवमात्तवेणुः इति ।

टीका चतौ हि श्रीमथुरावृन्दावनयोः सुप्रसिद्धमहायोगपीठयोस्तत्तन्
नाम्नैव सहितौ प्रसिद्धौ तौ च तत्र तत्र प्रापञ्चिकलोकदृष्ट्या श्रीमत्
प्रतिमाकारेण भातः । स्वजनदृष्ट्या साक्षाद्भूतौ च । तत्रोत्तररूपं
ब्रह्मसंहितागोविन्दस्तवादौ प्रसिद्धम् । अतएवात्रापि साक्षाद्रूपवृन्द
प्रकरण एवैतौ पठितौ इत्यादिसन्दर्भटीकेत्यर्थः ।

तथा हिसाक्षाद्भगवतः श्रीमद्गोविन्दस्य सुखाधिका । तथा हि श्रीचैतन्य
चरितामृते (१.८.५०५१)

वृन्दावने कल्पवृक्ष सुवर्णसदन
महायोगपीठ ताङ्हा रत्नसिंहासन
ताते बसि आछेन साक्षात्व्रजेन्द्रनन्दन
श्रीगोविन्द नाम साक्षात्मन्मथमदन

नौ सर्वत्र देशे यथा श्रीकृष्णप्रकाशादीनां नवीनप्राचीनाधातुशीलाद्य्
आकाराः क्वचिद्भक्तवत्सलतया चलच्छक्तिप्रकाशिका अर्चायमानाः क्वचित्
सामान्याकाराश्च श्रीनन्दनन्दनप्रकाशा दृश्यन्ते । तथासौ स्वयं भगवान्
श्रीगोविन्ददेवोऽपि (इति चेत्) ? न, किं त्वसौ तथात्वे दृश्यमानोऽप्यर्चायमान
विशेषः स्वयं प्रकाशः साक्षाद्व्रजेन्द्रनन्दन एव ।
अत्र युक्तिसुदृष्टान्तां प्राचीनपौराणिकां कथामाहप्रेमनगरापर
पर्याये प्रतिष्ठानपुरे कोऽपि राजासीत् । स च पञ्चपुत्रः । वार्धकदशायां
मनसि एवं विचारितवान्मत्पुत्रेषु यो राज्यादिपालनेन् समर्थो मयि प्रेमवांश्
च भवेत् । तस्मिन् राज्यादि समर्पयिष्यामि । इति मनसि कृत्वा बहिर्जडवद्
आचरितवान् । तं दृष्ट्वा सर्वे जना मनसि दुःखिता अभवन् । पुत्राणां मध्ये
तु ये दुष्टाचारास्ते मनसि हृष्टा राज्यादिकं नेतुं विषयसुखं च कर्तुं
प्रवृत्ता अभवन् । तेषु कोऽपि पण्डितो ज्ञानवान् पूर्वतोऽपि पित्रोः प्रीतिं कृत्वा
सेवायां प्रवृत्तः । राजा तु तस्य भक्तिं दृष्ट्वा तस्मिन् राज्यादिभारं
समर्पितवान् । अन्ये पुत्रास्तु तच्छ्रुत्वा तद्उपरि दण्डादिकं कृतवन्तः । तान्
दृष्ट्वामात्याः सर्वे तद्वृत्तान्तं राज्ञि निवेदितवन्तः ।

राजा तु तच्छ्रुत्वा कृत्रिमजडस्वभावादिकं त्यक्त्वा तान् पुत्रान्निरस्य तस्मिन्
पुत्रे स्वच्छन्दमभिषेकं कृतवान् । तथायं श्रीगोविन्ददेवः साक्षाद्
व्रजेन्द्रकुमारोऽप्याधुनिकभक्तानां प्रेमतारतम्यं कर्तुं मौन
मुद्रादिकमङ्गीकृत्य राधिकया सह विराजते । अत्रापि श्रुतिस्मृतिपुराणादि
प्रमाणानि बहूनि सन्ति । तत्र श्रीगोपालतापन्यां (१.९१०)

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥९॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ॥ इत्यादि ।

तमेकं गोविन्दं सच्चिद्आनन्दविग्रहमित्यादि ।

गोपालाय गोवर्धनाय गोपीजनवल्लभाय नमो नमः ।

तथा हि ऊर्ध्वाम्नाये

गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योगपीठे स एव सततं स्थितः ॥
असौ युगचतुष्केऽपि श्रीमद्वृन्दावनाधिपः ।
पूजितो नन्दगोपाद्यैः कृष्णेनापि सुपूजितः ॥
चीरहर्ता व्रजस्त्रीणां व्रतपूर्तिविधायकः ।
चिद्आनन्दशिलाकारो व्यापको व्रजमण्डले ॥

तत्र
चन्द्रावलीदुराधर्षं राधासौभाग्यमन्दिरम् ॥

तथा हि अथर्ववेदेगोकुलारण्ये मथुरामण्डले वृन्दावनमध्ये सहस्र
दलपद्मे षोडशदलमध्येऽष्टदलकेशरे गोविन्दोऽपि श्यामः पीताम्बरो
द्विभुजो मयूरपुच्छशिरो वेणुवेत्रहस्तो निर्गुणः सगुणो निराकारः साकारो
निरीहः सचेष्टो विराजते इति ।

द्वे पार्श्वे चन्द्रावली राधा च इत्यादि ।

तथा च संमोहनतन्त्रोक्तिः

गोविन्दसहितां भूरिहावभावपरायणाम् ।
योगपीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥

तथा हि स्कान्दे

गोविन्दस्वामिनामात्र वसत्यर्चात्मकोऽच्युतः ।
गन्दर्वैरप्सरोभिश्च क्रीडमानः स मोदते ॥
तथा हि ब्रह्मसंहितायां (५.१)

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥

अत्र श्लोके कृष्णोः विशेष्यः । अन्यत्रापि गोविन्दस्य विशेष्यत्वम् । यथा

व्रजे गोविन्दनामा यः पशूनामिन्द्रतां गतः ।
स एव कृष्णो भवति मनोनेत्रादिकर्षणात् ॥

ब्रह्मसंहितायां च (५.३९)

रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविन्दमादिपुरुषं तमहं भजामि ॥

टीका चयो गोविन्दो रामादिमूर्तिषु कलानियमेन तिष्ठन् सन्नानावतारम्
अकरोत्, स देवः स्वयं कृष्णः समभवन् तं भजामीति ।

श्रीगोपालतापन्यां (१.३५, ३९४२, ४५)
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमम् ॥
तथा हि
वेणुवादनशीलाय गोपालायाहिमर्दिने ।
कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥
वल्लवीवदनाम्भोजमालिने नृत्यशालिने ।
नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥
नमः पापप्रणाशाय गोवर्धनधराय च ।
पूतनाजीवितान्ताय तृणावार्तासुहारिणे ॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।
अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥
केशव क्लेशहरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ इत्यादि ।

तत्र ऊर्ध्वाम्नाये
श्रीमन्मदनगोपालोऽप्यत्रैव सुप्रतिष्ठितः । इति ।

श्रीदशमे (१०.१९.१६)
गोपीनां परमानन्द आसीद्गोविन्ददर्शने ॥ इति ।

तथा हि (१०.२१.१०)
वृन्दावने सखि भुवो वितनोति कीर्तिं
यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।
गोविन्दवेणुमनु मत्तमयूरनृत्यं
प्रेक्षाद्रिसान्व्अपरतान्यसमस्तसत्त्वम् ॥ इति ।

तथा हि श्रीगोविन्दलीलाम्र्ते (२१.२८) च

श्रीगोविन्दस्थलाख्यं तटमिदममलं कृष्णसंयोगपीठं
वृन्दारण्योत्तमाङ्गं क्रमनतमभितः कूर्मपीठस्थलाभम् ।
कुञ्जश्रेणीदलाढ्यं मणिमयगृहसत्कर्णिकं स्वर्णरम्भा
श्रेणीकिञ्जल्कमेषा दशशतदलराजीवतुल्यं ददर्श ॥

श्रीपद्मपुराणे (५.६९.७९८५)
पार्वत्युवाच
गोविन्दस्य किमाश्चर्यं सौन्दर्याकृतविग्रह ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥
ईश्वर उवाच
मध्ये वृन्दावने रम्येमञ्जुमञ्जीरशोभिते ।
योजनाश्रितसद्वृक्षशाखापल्लवमण्डिते ॥
तन्मध्ये मञ्जुभवने योगपीठं समुज्जवलम् ।
तद्अष्टकोणनिर्माणं नानादीप्तिमनोहरम् ॥
तस्योपरि च माणिक्यरत्नसिंहासनं शुभम् ।
तस्मिन्नष्टदलं पद्मं कर्णिकायां सुखाश्रयम् ॥
गोविन्दस्य परं स्थानं किमस्य महिमोच्यते ।
श्रीमद्गोविन्दमन्त्रस्थबल्लवीवृन्दसेवितम् ॥
दिव्यव्रजवयोरूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रजबालैकवल्लभम् ॥
यौवनोद्भिन्नकैशोरं वयसाद्भुतविग्रहम् ।

वराहसंहितायां च

वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥

अस्य टीका चाथ सर्वासामर्चानां दर्शनमाहात्म्यं वदनुपर्युपरि
स्फूर्त्या श्रीमद्अर्चाविशेषायमाणस्य साक्षाद्भगवतः श्रीगोविन्ददेवस्य
दर्शनमाहात्म्यमाह वृन्दावन इति ।

तथा हि वराहतन्त्रे पञ्चमपटले, यथा
श्रीवराह उवाच
कर्णिका तन्महद्धाम गोविन्दस्थानमव्ययम् ।
तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम् ॥
तथा हि
कर्णिकायां महालीला तल्लीलारसतद्गिरौ ।
यत्र कृष्णो नित्यवृन्दाकाननस्य पतिर्भवेत् ॥
कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः ।
दलं तृतीयकं रम्यं सर्वश्रेष्ठोत्तमोत्तमम् ॥
तथा हि
गोविन्दस्य प्रियस्थानं किमस्य महिमोच्यते ।
गोविन्दं तत्र संस्थं च वल्लवीवृन्दवल्लभम् ॥
दिव्यव्रजवयोरूपं वल्लवीप्रीतिवर्धनम् ।
व्रजेन्द्रं नियतैश्वर्यं व्रजबालैकवल्लभम् ॥
तथा हि
पृथिव्युवाच
परमं कारणं कृष्णं गोविन्दाख्यं परात्परम् ।
वृन्दावनेश्वरं नित्यं निर्गुणस्यैककारणम् ॥
वराह उवाच
राधया सह गोविन्दं स्वर्णसिंहासने स्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषं सुसुन्दरम् ॥
त्रिभङ्गमञ्जुसुस्निग्धं गोपीलोचनतारकम् ।
तत्रैव योगपीठे च स्वर्णसिंहासनावृते ॥
प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवल्लभाः ।
ललिताद्याः प्रकृतयो मूलप्रकृती राधिका ॥
संमुखे ललिता देवी श्यामलापि च वायवे ।
इतरे श्रीमधुमती धन्यैशान्यां हरिप्रिया ॥
विशाखा च तथा पूर्वे शैव्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे भद्रा नैरृते क्रमशः स्थिताः ॥
योगपीठस्य कोणाग्रे चारुचन्द्रावली प्रिया ।
प्रकृत्यष्टौ तदन्याश्च प्रधानाः कृष्णवल्लभाः ॥
प्रधाना प्रकृतिश्चाद्या राधिका सर्वथाधिका ।
चित्ररेखा च वृन्दा च चन्द्रा मदनसुन्दरी ॥
सुप्रिया च मधुमती शशीरेखा हरिप्रिया ।
संमुखादिक्रमे दिक्षु विदिक्षु च तथा स्थिताः ॥
षोडशी प्रकृतिश्रेष्ठा प्रधाना कृष्णवल्लभा ।
वृन्दावनेश्वरी राधा तवद्तु ललिता प्रिया ॥

गौतमीयतन्त्रे

रत्नभूधरसंलग्नरत्नासनपरिग्रहम् ।
कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥

इत्यनेन गोविन्दस्यैव विशेषणमिति विवेचनीयम् । तापनी च तमेकं गोविन्दं
सच्चिद्आनन्दविग्रहमिति ।

श्रीजयदेवचरणैश्च (ङ्ग्२.१९)

गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥

श्रीभक्तिरसामृतसिन्धौ (२.१.४३)

लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणुरूपयोः ।
इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥

तत्रैव (१.२.२३९)

स्मेरां भङ्गीत्रयपरिचितां साचिविस्तीर्णदृष्टिं
वंशीन्यस्ताधरकिशलयामुज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरितनुमितः केशितीर्थोपकण्ठे
मा प्रेक्षिष्ठास्तव यदि सखे बन्धुसन्गेऽस्ति रङ्गः ॥

श्रीदानकेलिकौमुद्यां

अर्जुनः: बिसाहे । इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुदारसाहम्मो
सम्मोहणमाहुराभरणब्बो सब्बोबरि विरेहन्तो पिअबअस्सस्स सअलगोउल
बैत्तणेण गोइन्दाहिसेअमहूसबो कस्स बा गब्बं ण क्खु खब्बेदि ?
।[* ॰२]

इत्येवम्भूतस्य मौनमुद्रादिकं प्रकाश्य विग्रहवत्स्थितस्य श्रीगोविन्द
देवस्य प्रकटलीलाकाले मौनमुद्रादिकमाच्छादितमभवत् । तथा च
प्रकटलीलाकाले भक्तानां भक्तिसदर्शनार्थं प्रकटितमेव । तत्र श्री
गोपालतापन्यादिप्रसिद्धंकदाचित्प्रकटीभूय (१.१०) द्विभुजं मौन
मुद्राढ्यमिति च ।

किं च श्रीकृष्णसन्दर्भे (१५३)

तदेवं तत्र श्रीकृष्णलीला द्विविधा अप्रकटरूपा प्रकटरूपा च ।
प्रापञ्चिकलोकाप्रकटत्वात्तत्प्रकटत्वाच्च । तत्राप्रकटा

यत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः ।
रामानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ङ्टू २.३६] इति ।

मथुरातत्त्वप्रतिपादकश्रीगोपालतापन्य्आदौ चिन्तामणिप्रकरसद्मसु
कल्पवृक्ष [भागवतम् ५.४०] इत्यादि वृन्दावनतत्त्वप्रतिपादकब्रह्मसंहितादौ च
प्रकटलीलातः किञ्चिद्विलक्षणत्वेन दृष्टा, प्रापञ्चिकलोकैस्तद्वस्तुभिश्
चामिश्रा, कालवद्आदिमध्यावसानपरिच्छेदरहितस्वप्रवाहा, यादवेन्द्रत्व
व्रजयुवराजत्वाद्य्उचिताहरहर्महासभोपवेशगोचारणविनोदादिलक्षणा
। प्रकटरूपा तु श्रीविग्रहवत्कालादिभिरपरिच्छेद्यैव सती भगवद्
इच्छात्मकस्वरूपशक्त्यैव लब्धारम्भसमापना प्रापञ्चिकाप्रापञ्चिकलोक
वस्तुसंवलिता तदीयजन्मादिलक्षणा ।

तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्तद्
एकतरस्थानादिनियतस्थितिका तत्तन्मन्त्रध्यानमयी । यथा बृहद्ध्यान
रत्नाभिषेकादिप्रस्तावः क्रमदीपिकायाम् । यथा वा

अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् ।
पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ॥ इत्यादि गौतमीयतन्त्रे ।

यथा वा

वेणुं क्वणन्तमरविन्ददलायताक्षम्
बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।
कन्दर्पकोटिकमनीयविशेषशोभं
गोविन्दमादिपुरुषं तमहं भजामि ॥
आलोलचन्द्रकलसद्वनमाल्यवंशी
रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं
गोविन्दमादिपुरुषं तमहं भजामि ॥ इति ब्रह्मसंहितायाम् [५.३९४०] ।

होमस्तु पूर्ववत्कार्यो गोविन्दप्रीतये ततः इत्य्आद्य्अनन्तरं

गोविन्दं मनसा ध्यायेत्गवां मध्ये स्थितं शुभम् ।
बर्हापीडकसंयुक्तं वेणुवादनतत्परम् ॥
गोपीजनैः परिवृतं वन्यपुष्पावतंसकम् ॥ इति बोधायनकर्मविपाक
प्रायश्चित्तस्मृतौ ।

तदु होवाच हैरण्यो गोपवेशमभ्राभं तरुणं कल्पद्रुमाश्रितम् । तदिह
श्लोका भवन्ति

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं मौनमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्तपङ्कजमध्यगम् ॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥

इति श्रीगोपालतापन्याम् [१.१११५] गोविन्दं गोकुलानन्दं सच्चिद्आनन्दविग्रहम्
[ङ्टू १.३७] इत्यादि च ।

अथ स्वारसिकी च यथोदाहृतमेव स्कान्दे

वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैः सह ॥ इत्यादि ।

तत्र चकारात्श्रीगोपेन्द्रादयो गृह्यन्ते । रामशब्देन रोहिण्यपि । तथा तेनैव
क्रीडतीत्यादिना व्रजागमनशयनादिलीलापि । क्रीडाशब्दस्य विहारार्थत्वाद्
विहारस्य नानास्थानानुसारणरूपत्वादेकस्थाननिष्ठाया
मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसरविविधस्वेच्छामयी स्वारसिकी ।
एवं ब्रह्मसंहितायाम्

चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभिरभिपालयन्तम्
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ [रह्मष्५.२८] इति ।

अत्र कथा गानं नात्यं गमनमपि वंशी [रह्मष्५.५२] इत्यत्रानुसन्धेयम्
। तत्र नानालीलाप्रवाहरूपतया स्वारसिकी गङ्गेव ।

अथाप्रकटायां मन्त्रोपासनामयीमाह

मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणुः । [भागवतम् ६.८.२] इति ।

आत्तवेणुरिति विशेषेण गोविन्दः श्रीवृन्दावनमथुराप्रसिद्धमहायोग
पीठयोस्तन्नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिकलोक
दृष्ट्यां श्रीमत्प्रतिमाकारेणाभातः स्वजनदृष्ट्यां साक्षाद्रूपवृन्द
प्रकरण एव एतौ पठितौ । ततश्च नारायणवर्माख्यमन्त्रोपास्य
देवतात्वेन (श्रीगोपालतापन्यादिप्रसिद्धस्वतन्त्रमन्त्रान्तरोपास्य
देवतात्वेन) च मन्त्रोपासनामय्यामिदमुदाहृतम् ॥

तथा हि ललितमाधवे (७.३३ )

राधिका (श्रीकृष्णमुखेन्दुमवलोक्य): हन्त ! हन्त ! णिब्भरूक्कण्डिदा ए
मम मुद्धत्तणं, जं गोइन्दस्स पडिमं जेब्ब गोइन्दं मण्णेमि ।

तथा राधिका (७.३५)

पुरो धिन्वन् घ्राणं परिमिलति सोऽयं परिमलो
घनश्यामा सेयं द्युतिविततिराकर्षति दृशौ ।
स्वरः सोऽयं धीरस्तरलयति कर्णौ मम बलाद्
अहो गोविन्दस्य प्रकृतिमुपलब्धा प्रतिकृतिः ॥

स्कान्दे

दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ।
रथे च वामनं दृष्ट्वा पुनर्जन्म न विद्यते ॥

द्वारकायां श्रीपुरुषोत्तमे च । एतत्पद्यद्वये गोविन्दशब्दस्तु सर्व
प्रकाशमूलभूतस्य श्रीवृन्दावननाथस्य गोविन्दस्य प्रकाशापेक्षया । स
च प्रकाशस्तु न भेदेषु गण्यते स हि न पृथकिति (ळ्Bहाग्१.१.२०) ।

दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरम् ।
सकृद्दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यायाः ।
वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति ।
तत्सर्वं निर्दहत्याशु गोविन्दानलकीर्तनात् ।
गोविन्देति यथा प्रोक्तं भक्त्या वा भक्तिवर्जितम् ।
दहते सर्वपापानि युगान्ताग्निरिवोत्थितः ॥
गोविन्दनामा यः कश्चिन्नरो भवति भूतले ।
तन्नास्ति कर्मजं लोके वाङ्मानसमेव वा ।
यन्न क्षपयते पापं कलौ गोविन्दकीर्तनम् ॥

किं तत्र वेदागमशास्त्रविस्तरैस्
तीर्थैरनेकैरपि किं प्रयोजनम् ।
यद्याननेनेछसि मोक्षकारणं
गोविन्द गोविन्द इति स्फुटं रट ॥

श्रीचैतन्यचरितामृते (१.८.५०५१)
वृन्दावने कल्पवृक्ष सुवर्णसदन ।
महायोगपीठ ताङ्हा रत्नसिंहासन ॥
ताते बसि आछेन साक्षात्व्रजेन्द्रनन्दन ।
श्रीगोविन्द नाम साक्षात्मन्मथमदन ॥
(१.५.२२१, २२५६)
याङ्र ध्यान निजलोके करे पद्मासन
अष्टादशाक्षरमन्त्रे करे उपासन
साक्षात्व्रजेन्द्रसुत इथे नाहि आन
येबा अज्ञे करे ताङ्रे प्रतिमाहेन ज्ञान
सेइ अपराधे तार नाहिक निस्तार
घोर नरकेते पडे कि बलिब आर

ब्रह्मवैवर्ते

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैराश्रितो न गोविन्दस्तैरात्मा वञ्चितश्चिरम् ॥
द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।
श्रीगोविन्दपादद्वन्द्वे विमुखा ये भवन्ति हि ॥

असौ रसिकशेखरो गोविन्ददेवः कदाचिदृतुभेदेन स्वसेवाकाले यथोचित
भोजनादिनिमित्ताय स्वाधिकारनियुक्तेन केनापि सहगोपकिशोररूपेण रात्रौ
स्वप्नस्फूर्त्या साक्षाद्रूपेण वा कथोपकथनं कुरुते । एतच्च लोक
परम्परया श्रूयते । किन्तु अतीवरहस्यत्वाताचार्यवचनाद्य्अनुरोधाच्च
प्रकाश्य न लिख्यते इत्यादि ।

अथ ऊर्ध्वाम्नायतन्त्रवाक्यान्याह
श्रीपार्वत्युवाच
कोऽसौ गोविन्ददेवोऽस्ति यस्त्वया सूचितः पुरा ।
कीदृशं तस्य माहात्म्यं किं स्वरूपं च शङ्कर ॥
श्रीमहादेव उवाच
गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योगपीठे स एव सततं स्थितः ॥
असौ युगचतुष्केऽपि श्रीमद्वृन्दावनाधिपः ।
पूजितो नन्दगोपाद्यैः कृष्णेनापि सुपूजितः ॥
चीरहर्ता व्रजस्त्रीणां व्रतपूर्तिविधायकः ।
चिद्आनन्दशिलाकारो व्यापको व्रजमण्डले ॥
किशोरतामुपक्रम्य वर्तमानो दिने दिने ।
ताम्बूलपूरितमुखो राधिकाप्राणदैवतः ॥
रत्नबद्धचतुःकूलं हंसपद्मादिसङ्कुलम् ।
ब्रह्मकुण्डनाम कुण्डं तस्य दक्षिणतो दिशि ॥
रत्नमण्डपमाभाति मद्नारतरुभिर्वृतम् ।
तन्मध्ये योगपीठाख्यं साम्राज्यपदमुत्तमम् ॥
वृन्दावनेश्वरीप्राज्यसाम्राज्यरसरञ्जितः ।
इहैव निर्जितः कृष्णो राधया प्रौढहासया ॥
तस्यां गो श्रीः सदा वृन्दा वीरा चाखिलसाधना ।
योगपीठस्य पूर्वत्र नाम्ना लीलावती स्थिता ।
दक्षिणस्यां स्थिता श्यामा कृष्णकेलिविनोदिनी ॥
पश्चिमे संस्थिता देवी भोगिनी नाम सर्वदा ।
उत्तरत्र स्थिता नित्यं सिद्धेशी नाम देवता ।
पञ्चवक्त्रः स्थितः पूर्वे दशवक्त्रश्च दक्षिणे ॥
पश्चिमे च चतुर्वक्त्रः सहस्रवक्त्र उत्तरे ।
सुवर्णवेत्रहस्ता च सर्वतः शासने स्थिता ॥
मदनोन्मोदिनी नाम राधिकायाः प्रिया सखी ।
पादयोः पातयत्येव गोविन्दं मानविह्वलम् ॥

रतिपतिमतिमानदेऽपि साक्षाद्
इह युगलाकृतिधामकामदम्भे ।
हरिमणिनवनीलमधुरीभिः
पदि पदि मन्मथसौधमुच्चिनोति ॥

मन्मथद्वितयं पश्चात्श्रीकृष्णायेति सत्पदम् ।
गोविन्दाय ततः पश्चात्स्वाहायं द्वादशाक्षरः ॥
गोविन्दस्य महामन्त्रः काले पूर्वानुरागभाक् ।
ततः परं प्रवक्ष्यामि गोविन्दं युगलात्मकम् ॥
लक्ष्मीमन्मथराधेति गोविन्दाभ्यां नमः पदम् ।
एतस्य ज्ञानमात्रेण राधाकृष्णौ प्रसीदतः ॥
अनयोस्तु ऋषिः कामो विराट्छन्द उदाहृतः ।
देवता नित्यगोविन्दो राधागोविन्द एव च ॥
योगपीठेश्वरी शक्तिः षड्अङ्गं कामबीजकैः ।

ध्यायेद्गोविन्ददेवं नवघनमधुरं द्वियलीलानटन्तम्
विस्फूर्जन्मल्लकच्छं करयुगमुरलीरत्नदण्डाश्रितं च ।
असंन्यस्ताच्छपीताम्बरविपुलदशाद्वन्द्वगुच्छाभिरामं
पूर्णश्रीमोहनेन्द्रं तद्इतरचरणाक्रान्तदक्षाङ्घ्रिनालम् ॥

एवं ध्यात्वा जपेन्मन्त्रं यावल्लक्षचतुष्टयम् ।
तिलाज्यहवनस्यान्ते योगपीठेश्वरौ यजेत् ॥
चम्पकाशोकतुलसीकह्लारैः कमलैस्तथा ।
राधागोविन्दयुगलं साक्षात्पश्यति चक्षुषा ॥
श्रीमन्मदनगोपालोऽप्यत्रैव सुप्रतिष्ठितः ।
कैशोररूपी गोपालो गोविन्दः प्रौढविग्रहः ।
उभयोस्तारतम्येन गोपीनाथोऽतिसुन्दरः ॥
धीरोद्धतस्तु गोपालो धीरोदात्तयोच्यते ।
गोविन्दो गोपिकानाथो यो धीरललिताकृतिः ॥
सिंहमध्यस्तु गोपालस्त्रिभङ्गललिताकृतिः ।
गोविन्दो गोपिकानाथः पीनवक्षःस्थलो विटः ॥
त्रिसन्ध्यमन्यदन्यद्धि माधुर्यं गोविदां पतौ ।
गोवर्धनदरीधातुपल्लवादिविचित्रिते ।
बाल्यतः समतिक्रान्तः कैशोरात्परतो गतः ॥
वगाहमानः कन्दर्पः श्रीगोविन्दो विराजते ।
नानारत्नमनोहारीन्येतस्मिन् योगपीठके ।
सहजो हि प्रभावोऽयं नाचिरात्परितुष्यति ॥
अन्येषु सिद्धपीठेषु या सिद्धिर्बहुहायनैः ।
वृन्दावने योगपीठे सैकेनाह्ना प्रजायते ॥
प्रातर्बालार्कसङ्काशं सङ्गवे मङ्गलच्छवि ।
मध्याह्ने तरुणार्काभं पराह्ने पद्मपत्रवत् ॥
सायं सिन्दूरपूराभं रात्रौ च शशिनिर्मलम् ।
तमस्विनीष्विन्द्रनीलमयूखमेचकप्रभम् ॥
वर्षासु च सदाभाति हरित्तृणमणिप्रभम् ।
शरत्सुचन्द्रबिम्बाभं हेमन्ते पद्मरागवत् ॥
शिशिरे हीरकप्रख्यं वसन्ते पल्लवारुणम् ।
ग्रीष्मे पीयूषपूराभं योगपीठं विराजते ॥
माधुरीभिः सदाच्छन्नमशोकललितादृतम् ।
अघश्चोर्ध्वं महारत्नमयूखैः परितो वृतम् ॥
चन्द्रावलीदुराधर्षं राधासौभाग्यमन्दिरम् ॥
श्रीरत्नमण्डपं नाम तथा शृङ्गारमण्डपम् ॥
सौभाग्यमण्डपं नाम महामाधुर्यमण्डपम् ।
साम्राज्यमण्डपं नाम तथा कन्दर्पमण्डपम् ॥
आनन्दमण्डपं नाम तथा सुरतमण्डपम् ।
इत्यष्टौ योगपीठस्य नामानि शृणु पार्वति ॥

नामाष्टकं यः पठति प्रभाते
श्रीयोगपीठस्य महत्तमस्य ।
गोविन्ददेवं वशयेत्स तेन
प्रेमानमाप्नोति परस्य पुंसः ॥

अथ मन्त्रमय्यां सद्आचारविधिर्लिख्यते । मन्त्रमयी द्विधा । तत्र श्री
भागवतादिवर्णितजन्मकर्मगोचारणादिलीला एकविधा । सा तु स्मरण
मङ्गलश्रीगोविन्दलीलामृताद्य्अनुसारेण कर्तव्या । द्वितीया तु अर्चायमान
विशेषमौनमुद्राढ्यश्रीविग्रहविशेषसेवा । सा च सर्वस्मृतिसंमता श्री
हरिभक्तिविलासे लिखितास्ति । तद्अनुसारेण प्रेमयुक्तया भक्त्या कर्तव्या ।
तस्मात्किञ्चित्प्रकाश्य लिख्यते ।

ब्राह्ममुहूर्तादुत्थाय पूजकादयः सर्वे पार्षदाः सेवानामापराधरहिता
भगवत्परिचर्यां विना प्रसादान्नमप्यस्वीकुर्वन्तः । किं पुनर्भगवद्
द्रव्यं स्वेच्छया बलात्कारेण वा । विधिवत्गुर्वादिप्रणामदन्तधावन
यथोचितस्नानादिविधिं कृत्वा स्वसेवायां सावधानाः श्रीमन्दिरे प्रविशन्ति ।
पूजकस्तु विधिवत्घण्टादिवाद्यं कृत्वा प्रभोः श्रीमद्ईश्वर्याश्च
प्रबोधनं कारयेत् । ग्रीष्मशीतवर्षाद्य्अनुसारेण देवादिदुर्लभसेवां
[आद्दितिओनल्तेxत्? यथा साधकः सिद्धरूपेण मानसीं लीलां दण्डात्मिकां
भावयेत्तथा तेनैव गुरुपरम्परया रागानुगामतेन मौनमुद्राढ्यः
। दण्डात्मिकालीलासेवा चैका नाम्ना भेदः पृथग्भवेत् । अतस्तयोरैक्य
सेवनं च ।]

ततः श्रीमुखप्रक्षालनादिकं, यथा श्रीगोविन्दलीलामृते (१.२४?) (प्रोबब्ल्य्
आ)

समुष्टिपाणिद्वयमुन्नमय्य
विमोटयन् सोऽथ रसालसाङ्गम् ।
जृम्भाविसर्पद्दशनांशुजालस्
तमालनीलः शयनादुदस्थात् ॥

तद्यथा
उत्थाय तल्पवरतः स वरासनस्थो
दत्तैर्जलैः कनकझर्झरिनालितोऽपि ।
सरकास्तः पतितपत्रविनिर्मितेन
वीटीवरेण परिममार्ज सुदिव्यदन्तान् ॥

एवं श्रीमद्ईश्वर्याश्च (श्रीकृष्णाह्निककौमुद्यां २.४९,५२)

उत्थाय तल्पतलतः कनकासनस्था
निद्रावसानविगलन्नियतव्यवस्था ।
सा पादपीठमधिदत्तपदारविन्दा
रेजे तदा पर्जनैर्विहिताभिनन्दा ॥

आमृज्य सूक्ष्मवसनेन सितेन कान्तान्
सा दन्तकाष्ठशकलेन विघृष्टदन्तान् ।
ताम्बूलरागपरभागवतीं मनोज्ञां
जिह्वां विशोधनिकया व्यलिखद्रसज्ञाम् ॥

ततः सुस्वादुमिष्टदधिसमर्पणम् । ततो मङ्गलारात्रिकम् । तत्र ध्यानम्

कर्पूरावलिनिन्दि चारुवसनं बिभ्रन्नितम्बे वहन्न्
उष्णीषं वरमूर्ध्नि कान्तमरुणं निद्राविमिश्रेक्षणम् ।
स्वीकुर्वन् सुखदं मनोरथकरं माङ्गल्यारात्रिकं
गोविन्दः कुशलं करोति भवतो रात्र्य्अन्तकाले सदा ॥

ततो हैमन्ते फल्गुलाधारणं

कौशेयवस्त्रपरिनिर्मितफल्गुलाख्यं
प्रालेयवारणकं बहुमूल्यलभ्यम् ।
सौवर्णचित्रपरिचित्रितसर्वदेशम्
आमस्तकात् पदयुगावधि शोभमानम् ॥
गोविन्दमादिपुरुषं व्रजराजपुत्रं
पश्यन्तमग्निममलं भगवन्तमीडे ।

वर्णेनारुणमतुलं
बहुरत्नचित्रविचित्रितफल्गुलकम् ।
बिभ्राणं गोविन्दं
विहसद्वदनं कदा पश्ये ॥

अथ ग्रीष्मे तनियाधारणम्

सूक्ष्मवस्त्रनिर्मितं त्रिभागरूपखण्डितम् ।
सर्वप्रान्तदेशस्वर्णसूत्रमौक्तिकाञ्चितम् ॥
कृष्णदेवमध्यदेशराजितं विराजितम् ।
ग्रीष्मतापशोषकं सुशीतवस्त्रमाश्रये ॥

मुकुलितकञ्चुकधारणम्

उष्णीषं दधदरुणं धटीं
विचित्रां तद्उपरि च बिभ्राणः ।
मुकुलितकञ्चुकबन्धः
श्रीगोविन्दो हृदि स्फुरतु ॥

ततः सर्वे मिलित्वा आरात्रिकदर्शनम् । एवं देवमुनीन्द्रादयोऽपि गीतावाद्य
कीर्तनादि कुर्वन्ति । यथा पद्यावल्यां (२२)

चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम् ।
आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं
सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् ॥

अथ दर्शनफलम्

सर्वाभीष्टप्रदं श्रीमन्मङ्गलारात्रिदर्शनम् ।
प्रेमभक्तिप्रदं सर्वदुःस्वप्नादिनिवर्तकम् ॥

एवं पाचकादयः सर्वे स्वस्वसेवायां परमभक्त्या च सावधाना वर्तिष्यन्ते
। सेवायां मुखोऽधिकारी तु स्वप्रतिनिधिं कर्मचारिणमुद्दिश्य तस्मिन् स्व
सर्वकर्म समर्प्य सेवायां सावधानः स्वयं करिष्यति अभावे पूजकादिद्वारा
च । एवं श्रीमद्ईश्वर्या दधिभोजनं मङ्गलनीराजनं च कर्तव्यम् ।

अथ शृङ्गारारात्रिविधिर्लिख्यते । ततः सुगन्धतैलादिभिर्मर्दनोन्
मार्जनादिकं हिमग्रीष्मवर्षादिकालोचितमुष्णशीतलजलादिभिः स्नानं च,
सूक्ष्मवस्त्रेण श्रीमद्अङ्गसंमार्जनं, यथा श्रीगोविन्दलीलामृते (४.८१२)

तमागतं स्नापनवेदिकान्तरं
भृत्यः समुत्तार्य विभूषणं तनोः ।
सुकुञ्चितं चीननवीनमंशुकं
सारङ्गनामा लघु पर्यधापयन् ॥८॥

अभ्यज्य नारायणतैललेपैः
प्रत्यङ्गनानामृदुबन्धपूर्वम् ।
सुबन्धनामा क्षुरितसूनुरस्य
प्रेम्णाङ्गसंमर्दनमाततान ॥९॥

उद्वर्तनेनास्य मुदा सुगन्धः
शीतेन पीतेन सदा सुशीतम् ।
स्निग्धेन मुग्धो नवनीतपिण्डाद्
उद्वर्तयामास शनैस्तद्अङ्गम् ॥१०॥

धात्रीफलार्द्रकल्केन केशान् शीतसुगन्धिना ।
स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥११॥

मन्दपक्वपरिवासितकुम्भ
श्रेणिसंभृतजलैरथ दासाः ।
शतकुम्भघटिकात्तविमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥१२॥

इति श्रीगोविन्ददेवस्य साक्षाद्व्रजेन्द्रनन्दनत्वेन पूजकादिभिर्भावयुक्तेन
मनसा स्नानादिकं कर्तव्यम् । ततः पीतारुणादिनानाविधस्वर्णचित्रवस्त्रादि
। एवं स्वर्णरूप्यमौक्तिकरत्नजटितनानालङ्कारगुञ्जामालादिविदग्ध
पूजकेन परिधापनीयम् । कदाचित्सेवावसरे लोकोत्तरचमत्कारस्वाद
पक्वान्नादिकं प्रेमयुक्तेन मनसा तत्सेवासुखपराधीनोऽर्पयेत् ।

तत्र कञ्चुकादिधारणं, यथा (ऋष्२.१.३५१)

स्मेरास्यः परिहितपाटलाम्बरश्रीश्
छन्नाङ्गः पुरटरुचोरुकञ्चकेन ।
उष्णीषं दधदरुणं धटीं च चित्राः
कंसारिर्वहति महोत्सवे मुदं नः ॥

क्वचिच्च नटवरवेशं, यथा (ऋष्२.१.३५३)

अखण्डितविखण्डितैः सितपिशङ्गनीलारुणैः
पटैः कृतयथोचितप्रकटसन्निवेशोज्ज्वलः ।
अयं करभराट्प्रभः प्रचुररङ्गशृङ्गारितः
करोति करभोरु मे घनरुचिर्मुदं माधवः ॥

ऊर्ध्वाम्नाये

ध्यायेद्गोविन्ददेवं नवघनमधुरं दिव्यलीलानटन्तं
विस्फूर्जन्मल्लकच्छं करयुगमुरलीरत्नदण्डाश्रितं च ।
असंन्यस्ताच्छपीताम्बरविपुलदशाद्वन्द्वगुच्छाभिरामं
पूर्णश्रीमोहनेन्द्रं तद्इतरचरणाक्रान्तदक्षाङ्घ्रिनालम् ॥

एवं ध्यात्वा जपेन्मन्त्रं यावल्लक्षचतुष्टयम् ।
तिलाज्यहवनस्यान्ते योगपीठेश्वरौ यजेत् ॥
चम्पकाशोकतुलसीकह्लारैः कमलैस्तथा ।
राधागोविन्दयुगलं साक्षात्पश्यति चक्षुषा ॥
श्रीमन्मदनगोपालोऽप्यत्रैव सुप्रतिष्ठितः ।

एवं श्रीतापन्यां

कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥

तत्र आकल्पः (ऋष्२.१.३५४)

केशबन्धनमालेपो मालाचित्रविशेषकः ।
ताम्बूलकेलिपद्मादिराकल्पः परिकीर्तितः ॥

यथा (२.१.३५८)

ताम्बूलस्फुरद्आननेन्दुरमलं धंमिल्लमुल्लासयन्
भक्तिच्छेदलसत्सुघृष्टघुसृणालेपश्रिया पेशलः ।
तुङ्गोरःस्थलपिङ्गलस्रगलिकभ्राजिष्णुपत्राङ्गुलिः
श्यामाङ्गद्युतिरद्य मे सखि दृशोर्दुग्धे मुदं माधवः ॥

अथ मण्डनम् (२.१.३५९३६०)

किरीटं कुण्डले हारश्चतुष्की वलयोर्मयः ।
केयूरनूपुराद्यं च रत्नमण्डनमुच्यते ॥
यथा
काञ्ची चित्रा मुकुटमतुलं कुण्डले हारिहीरे
हारस्तारो वलयममलं चन्द्राचारुश्चतुष्की ।
रम्या चोर्मिर्मधुरिमपूरे नूपुरे चेत्यघारेर्
अङ्गैरेवाभरणपटली भूषिता दोग्धि भूषाम् ॥

यथा स्तवावल्यां मुकुन्दाष्टके (३)

कनकनिवहशोभानन्दि पीतं नितम्बे
तद्उपरि नवरक्तं वस्त्रमित्थं दधानः ।
कनकनिचितमुष्णीषं दद्धच्चोत्तमाङ्गे
व्रजनवयुवराजः कोऽपि कुर्यात्सुखं ते ॥[* ॰३]

एतद्उपलक्षणं समयक्रमे ऋतुक्रमे नानावेशभूषादिमुकुलितबन्ध
कञ्चुकादिकं ज्ञेयम्, यथा

उष्णीषं दधदरुणं धटीं
विचित्रां तद्उपरि च बिभ्राणः ।
मुकुलितकञ्चुकबन्धः
श्रीगोविन्दो हृदि स्फुरतु ॥

यथा
पुष्पैश्चूडां मुकुटमतुलं कुण्डले चारुहीरे
वक्षस्यारोहयन्तीर्विविधसुकुसुमैर्वन्यमालां वहन्तम् ।
जानुन्यारोहयन्तीं भ्रमरकर्षिणीं बिभ्रतं कान्तयान्यां
नाम्ना तां वैजयन्तीं निजप्रियतमया पश्य गोविन्ददेवम् ॥

गोविन्द कर्णयुगकुण्डलयुग्ममध्ये
कण्ठस्थले करयुगाङ्गुलिपर्वमध्ये ।
पादाब्जयोरुपरि चाङ्गुलिषु प्रभातितान्
हीरकान् सुकृतिनो हृदि चिन्तयन्ति ॥

मुक्तादिहेमजटित उष्णीषसव्ये मुख्योपरिष्टाच्च ।
हरिहृदयस्थे सुन्दरि हीरकराजे मनो लग्नम् ॥

श्रीगोविन्दलीलामृते (४.१४)

भक्तिच्छेदाढ्यचर्चां मलयजघुसृणैर्धातुचित्राणि बिभ्रद्
भूयिष्ठं नव्यवासः शिखिदलमुकुटं मुद्रिकाः कुण्डले द्वे ।
गुञ्जाहारं सुरत्नस्रजमपि तरलं कौस्तुभं वैजयन्तीं
केयूरे कङ्कणे श्रीयुतपदककटकौ नूपुरौ शृङ्खलां च ॥

श्रीकृष्णाह्निककौमुद्यां (३.१८)

चूडाचुम्बितचारुचन्द्रकलसद्गुञ्जालतः कर्णयोः
पुन्नागस्तवकी लवङ्गलतिका श्रीकुण्डला पूर्णयोः ।
श्रीवक्षः प्रतिमुक्तमौक्तिकलता श्रीरञ्जिगुञ्जा सरः
क्रीडाकाननयानकौतुकमना रेजे स पीताम्बरः ॥

अथ परुणमास्यादियुगलदर्शनं

विद्युद्घनाङ्गौ घनविद्युद्अम्बरौ
निसर्गमन्दस्मितसुन्दराननौ ।
मिथः कटाक्षाशुगकीलितान्तरौ
राधामुकुन्दौ प्रणमामि तौ मुदा ॥

एवं श्रीमद्ईश्वर्या द्वादशाभरणषोडशशृङ्गारादिकं कर्तव्यम् । तद्यथा
(ऊण्४.९१०)

स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी
सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।
ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयम् ॥

द्वादशाभरणं यथा

दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि
निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।
हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्तास्
तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥

यथा

सङ्गोप्याङ्गाभरणपटलीं रक्तचित्रान्तरीयं
श्रोणौ चेलं तद्उपरि वरं दण्डिकाख्यं च नीलम् ।
सर्वाङ्गानावरयितुमये देवि किं ते प्रयोज्यं
दृष्ट्वा चान्तर्मुदितमनसोत्फुल्लतामेति नाथः ॥

(विलापकुसुमाञ्जल्यां २८)

या ते कञ्चुलिरत्र सुन्दरि मया वक्षोजयोरर्पिता
श्यामाच्छादनकाम्यया किल न सासत्येति विज्ञायताम् ।
किन्तु स्वामिनि कृष्ण एव सहसा तत्तामवाप्य स्वयं
प्राणेभ्योऽप्यधिकं स्वकं निधियुगं संगोपयत्येव हि ॥

(भक्तिरसामृतसिन्धौ ३.५.८)

मदचकितचकोरीचारुताचोरदृष्टिर्
वदनदमितराकारोहिणीकान्तकीर्तिः ।
अविकलकलधौतोद्धूतिधौरेयकश्रीर्
मधुरिममधुपात्री राजते पश्य राधा ॥

एवं समयानुरूपवस्त्रादिपरिधापनं कर्तव्यं, तथा स्वर्णरौप्य
मौक्तिकरत्नजटितनानालङ्कारादिकं च ।

अथ तिलकादिदर्शनार्थमादर्शदर्शनं, यथा (श्रीगोविन्दलीलामृते २.१०४
१०५) श्रीमद्ईश्वर्याः

तदैव समयाभिज्ञा पुरस्तान्मणिबन्धनम् ।
आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥

सा कृष्णनेत्रकुतुकोचितरूपवेषं
वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्तितरलास वराङ्गनानां
कान्तावलोकनफलो हि विशेषवेषः ॥

अथ श्रीमद्ईश्वरस्य श्रीभागवते (१०.३५.१०)

दर्शनीयतिलको वनमाला
दिव्यगन्धतुलसीमधुमत्तैः ।
अलिकुलैरलघु गीतमभीष्टम्
आद्रियन् यर्हि सन्धितवेणुः ॥

अथ रागानुगीयविधिवत्पूजातुलसीसमर्पणं यथा (१०.३०.१)

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ।

तद्यथा
मातस्तुलसि गोविन्दहृदयानन्दकारिणी इत्यादि ।

ततो धूपदीपादिनिवेदनम्

स धूपदीपकं श्रीमद्गोविन्दमुखपङ्कजम् ।
शृङ्गारे ये तु पश्यति ते यान्ति परमं पदम् ।
तेनापि सह दिव्यन्ति तल्लोके शाश्वतीः समाः ॥

ततः पक्वान्ननिवेदनम् । ततः कर्पूरादिसंस्कृतताम्बूलासमर्पणम् । ततो
नानाविधान्नव्यञ्जनपिष्टपूपपायससरसरसालादिनिवेदनम् ।

अत्रैव श्रीगोविन्दः प्रियपूजारिगोस्वामिनं प्रति दधिकडमान्नं स्वयं
याचितवान् । यथा

दधिकडमान्नं मिष्टं गोविन्दप्रियपूजकं स्वस्य ।
याचित्वा येन नीतं तं वन्दे स्वयं भगवन्तम् ॥
तत आरात्रिकं, सर्वे मिलित्वा तद्दर्शनम् । अथारात्रिकदर्शनफलं

शृङ्गारात्रिकं नाम गोविन्दस्य सुखावहम् ।
प्रेमभक्तिप्रदातारं दर्शनात्पापनाशकम् ॥

अथ राजभोगविधिर्लिख्यते । वस्त्रभूषादिकं समर्प्य तथैव मन्दिर
सेवकस्तु तत आगत्य मन्दिरधौतादिकं कृत्वा ततो धूपदीपं च निवेदयेत्
। तत्तु सङ्गोपनम् । ततः पाचकाः परमरसिकाः परमसावधाना
नियतेन्द्रिया नानाप्रकारशाकाद्य्अन्नव्यञ्जनरोटिकापूपपायसपिष्टकादि
शिखरिणीरसालादिकं लेह्यचोष्यपेयचर्व्यषड्रसनिर्मितं सुवर्णपात्रादिषु
परिवेषयन्ति । स्वस्वर्तुभवं फलादिकं च । एवमेकादश्यादिव्रतदिनानि,
सद्आचारानुसारेण श्रीप्रभोः श्रीमद्ईश्वर्या नित्यनियमितपाकरचनादि
कर्तव्यम् । पूजको नियतेन्द्रियः सावधानः सन् भोजनसामग्रीं विधिवद्
रागानुगीयमतेन दशघटिकान्तः समप्र्य समयान्निवर्ति निवसेत् । पूजकस्य
तु नैवेद्यसमर्पणे विज्ञप्तिर्, यथा श्रीरूपगोस्वामिपादैः श्रीपद्यावल्यां
(११८)

क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते
दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते ।
तुष्टिर्या भवतस्ततः शतगुणां राधानिदेशान्मया
नस्तेऽस्मिन् पुरतस्त्वमर्पय हरे रम्योपहारे रतिम् ॥

आह्निककौमुद्यां (३.९१०)

शाकादिक्रमतोऽभितोषवशतः सर्वाणि सद्व्यञ्जनान्य्
आदं मातृमुदे भवेदपि यथा पक्त्रीमनोरञ्जना ।
तान् सर्वान् सहभोजिनः सरसया वाचा सहन् हासयन्
भुञ्जध्वं न परित्यजन् किमपीत्येकान्तमाह्लादयन् ॥

अन्नं व्यञ्जनवत्कियत्कियददंश्चक्रेऽन्नवद्व्यञ्जनं
पर्याप्तं न तथापि लालसतया वाभूदनुव्यञ्जनम् ।
प्रत्येकं च तदिष्टपिष्टककुलं तां गोरसानां भिदाम्
एकैकां च कृताभिनन्दनमदन् संपिप्रिये सर्वदा ॥

पूजकस्तु शीतलजलादि समर्प्य मन्दिरान्निर्गत्य नियमजपादि कुर्यात् । जप
नियमान्ते च विधिवद्घण्टादिवाद्यं कृत्वा श्रीमन्दिरे प्रविश्य ततो जल
सेवकेन दत्तपाटलादिपरिवासितयमुनाजलेनाचमनं दत्त्वा सुक्ष्मवस्त्रेण
मुखमार्जनादिकं कुर्यात् । ततो महाप्रसादानयनं ततो मन्दिरसेवकेन
मन्दिरमार्जनम् । ततस्ताम्बूलादिसमर्पणं, यथा

एलालवङ्गपरिपूरितपूगचूर्णैः
कर्पूरपूरपरिवासितचूर्णवृन्दैः ।
पर्णः सुकर्तरि विखण्डितपार्श्वभागैस्
तां वीटिकां स बुभुजे वरनागवल्ल्याः ॥

ततो ग्रीष्मार्तौ नानाविधसुवासितजलनानाविधजलयन्त्रादिना सेचनम् ।
एवं मन्त्रमयनानावीजनादिकं च । एवं सुगन्धद्रव्यादि पुरतो धारणम्
। एवं सुगन्धपुष्पादिभिर्मालाकुञ्जकुटीररचनम् । एवं वर्षादिषु यथा
योग्यं ज्ञेयम् । तत आरात्रिकस्य सर्वे मिलित्वा दर्शनम् । ततो दर्शनफलं,
यथा

स्वयं भगवतः श्रीमद्गोविन्दस्य कृपाम्बुधेः ।
महाराजोपचाराख्यमारात्रिकमनुत्तमम् ॥
य इदं श्रद्धया देवि पश्येन्मन्त्री सुभक्तिमान् ।
स सर्वकामान् लभते भक्तिं तत्पादयोः पराम् ॥

एवं श्रीमद्ईश्वर्या भोजनाचमनताम्बूलादिसमर्पणं च । तथा हि

ताभ्यः परिविवेशान्नं तुलस्या रूपमञ्जरी ।
स्नेहेन मोहिनी यद्वद्देवताभ्योऽमृतं क्रमात् ॥

ततो रत्नखट्टोपरि शय्यादिरचनं तत्र भावयुक्तेन मनसा शयनं कारयेत्


ततः सेवायां मुख्योऽधिकारी पूजकपाचकादिसर्वांस्तथाकिञ्चनान् वैष्णवान्
आनीय तैर्मिलित्वा महाप्रसादस्य महद्भक्त्या च

अनादि पुरतो न्यस्तं चक्षुषा गृह्यते मया ।
रसं दासस्य जिह्वायामश्नामि कमलोद्भव ॥

भुक्तं यन्निखिलाघसङ्घशमनं सर्वेन्द्रियाह्लादिकम् ।
संसाराद्विनिवर्तकं हरिपदद्वन्द्वे पुनः प्रापकम् ।[*Eण्ड्ण्Oट्E ॰४]

श्रीगोविन्दस्तत्प्रसादश्चरणामृतमेव च ।
वस्त्रचन्दनमाल्यादि तुलसी चैकरूपकम् ॥

स च पुनर्मध्यमाधिकारिगुणमाश्रित्य तेषु वैष्णववर्गेषु यथोचित
मर्यादामार्गरक्षणाय कृपापेक्षा इत्यादिदिशा तत्र भगवद्भक्ताय च
वस्त्रादिवार्षिकं दत्त्वा स्नेहयुक्तेन श्रीश्रीसेवायां सावधानं कृतवान् ।
ततः सर्वे पूजकादयः स्वस्वदेहादिव्यापारं कृत्वा श्रीभगवत्कथा
श्रवणं कुर्युः । ततः सर्वे स्नानादिकं कृत्वा स्वस्वसेवायां सावधाना
भवन्ति ।

ततोऽपराह्ने विधिवद्द्वारोद्घाटनं कृत्वा श्रीभगवत्प्रबोधनं ततः श्री
मुखप्रक्षालनादिकं तस्मात्पक्वान्नभोजनं तस्मादेलालवङ्गकर्पूरादि
संस्कृतताम्बूलादिसमर्पणम् । ततो धूपदीपादिसमर्पणं च तद्दर्शन
फलं च

उत्थापने धूपदीपं ये पश्यन्ति नरा भुवि ।
ते यान्ति परमं विष्णोः पदं शाश्वतमव्ययम् ॥

कनकनिवहशोभा इत्यादि । एवं श्रीमद्ईश्वर्याश्च ।

अथ सन्ध्यारत्रिकविधिर्लिख्यते । सन्ध्यायां पक्वान्ननिवेदनं, ततः शीतल
जलसुसंस्कृतताम्बूलादिकं च । ततो नीराजनं महामङ्गलं च । ततः
पश्यतां देवमुनीन्द्रमनुष्यादीनां गीतवाद्यैः सह जयजयशब्दः ।
तथा हि आनन्दवृन्दावनचम्प्वां (१३.१४१)

गोधूली धूम्रकम्रालकलसद्अलिकस्तिर्यग्उष्णीषबन्धः
प्रेङ्खोलत्कैङ्करातस्तवकनवकलो बर्हिबर्हं दधानः ।
आबलात्कुण्डलश्रीर्दिनमणिकिरणक्रान्तकर्णोत्पलान्तो
निर्यन् किञ्जल्करेखाच्छुरितमृदुतरस्विन्नगण्डान्तलक्ष्मीः ॥

श्रीभागवते (१०.३५.१५)

सवनशस्तद्उपधार्य सुरेशाः
शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः
कश्मलं ययुरनिश्चिततत्त्वाः ॥

ततो दर्शनमाहात्म्यम्

सन्ध्यायां कृष्णदेवस्य सारात्रिकमुखं नराः ।
ये पश्यन्ति तु ते यान्ति तद्धाम परमव्ययम् ॥

एवं श्रीमद्ईश्वर्याश्च ।

ततः शयनारात्रिकविधिर्लिख्यते । ततः पूजकः शृङ्गारमणिमण्डनादिकम्
उत्तार्य यथारहः युग्मवस्त्रादिपरिधापनम् । एवं माल्यलेपनादेश्च ।
ततः कियत्क्षणं दर्शनार्थं विरामं च ।

कर्पूरावलिनिन्दि चारुवसनं बिभ्रन्नितम्बे वहन्न्
उष्णीषं वरमूर्ध्नि कान्तमरुणं निद्राविमिश्रेक्षणम् ।
स्वीकुर्वन् सुखदं मनोरथकरं माङ्गल्यारात्रिकं
गोविन्दः कुशलं करोति भवतो रात्र्य्अन्तकाले सदा ॥

ततो भोजनसंस्करणं सुमिष्टसुस्वादुदुर्दर्शनीयलोकप्रशंस्यस्वात्म
रोचकभगवद्रोचकनानाप्रकारान्नव्यञ्जनपक्वान्नदुग्धान्न
पिष्टकादिसमर्पणम् तत्र गोपनीयधूपदीपम् । ततो भोजननिमित्तं
समयापेक्षणम् ।

यत्सेवया वशः श्रीमद्गोविन्दो नन्दनन्दनः ।
पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥ इति पूर्वं दर्शितवान् ।

तस्मादाचमनं मुखमार्जनार्थं वस्त्रसमर्पणम् । ततो महा
प्रसादानयनं, ततो मन्दिरसेवकेन भोजनस्थलमार्जनम् । तस्मादेला
लवङ्गजातिफलकर्पूरादिसंस्कृतताम्बूलादिसमर्पणम् ।

ततो हैमन्ते फल्गुलाधारणं

कौशेयवस्त्रपरिनिर्मितफल्गुलाख्यं
प्रालेयवारणकं बहुमूल्यलभ्यम् ।
सौवर्णचित्रपरिचित्रितसर्वदेशम्
आमस्तकात् पदयुगावधि शोभमानम् ॥
गोविन्दमादिपुरुषं व्रजराजपुत्रं
पश्यन्तमग्निममलं भगवन्तमीडे ।

वर्णेनारुणमतुलं
बहुरत्नचित्रविचित्रितफल्गुलकम् ।
बिभ्राणं गोविन्दं
विहसद्वदनं कदा पश्ये ॥

अथ ग्रीष्मे तनियाधारणम्

सूक्ष्मवस्त्रनिर्मितं त्रिभागरूपखण्डितम् ।
सर्वप्रान्तदेशस्वर्णसूत्रमौक्तिकाञ्चितम् ॥
कृष्णदेवमध्यदेशराजितं विराजितम् ।
ग्रीष्मतापशोषकं सुशीतवस्त्रमाश्रये ॥

मुकुलितकञ्चुकधारणम्

उष्णीषं दधदरुणं धटीं
विचित्रां तद्उपरि च बिभ्राणः ।
मुकुलितकञ्चुकबन्धः
श्रीगोविन्दो हृदि स्फुरतु ॥

एवं कर्पूरपरिवासितशीतलजलं यमुनाया नानाविधसुगन्धद्रव्यं
वीजनादिकं च ।

ततो दशघटिकान्तरारात्रिकं तद्दर्शनफलं

ये पश्यन्ति जनाः श्रेष्ठं शयनारात्रिकं हरेः ।
ते तु गोविन्ददेवस्य कृपापूर्णा न संशयः ॥

तत्र रत्नखट्टोपरि शय्यादिनिर्माणम् । तत्र खट्टाधो रात्रिसेवनार्थं
सुवासितशीतलजलपक्वान्नताम्बूलादिस्थापनम् । ततो मन्दिरान्निष्कृष्य
भावयुक्तेन मनसा शयनसमयापेक्षणम् । एवं श्रीमद्ईश्वर्याश्च ।
ग्रन्थविस्तारभिया विस्तार्य न लिख्यते । एवं पञ्चविधारात्रिकदर्शन
फलम्

मङ्गलारात्रिमारभ्य चान्ते च शयनावधि ।
एवमारात्रिकं पञ्च ये पश्यन्ति जना भुवि ॥
ते सर्वे वाञ्छितं प्राप्य पुत्रं पौत्रं धनं तथा ।
अन्ते गोविन्ददेवस्य कृपया यान्ति तत्पदम् ॥

श्रीविजयगोविन्दो, यथा

श्रीराधिकामाधविकातमालं
सखीततीवल्लिवसन्तवायुम् ।
राधासुपद्मालिसरोजबन्धुं
गोविन्दमीडे विजयादिवर्णम् ॥
गर्भजन्मवतां तेषां कंसादीनां जयाज्जयः ।
मनोजन्मकामजयाद्विजयः परिकीर्तितः ॥
त्वं गवामिन्द्र इत्यादेर्गोविन्द इति कथ्यते ।
तस्माद्विजयगोविन्दं बुधा एवं वदन्ति हि ॥
अथवा यस्य भजनात्कामाद्य्अरिजयात्तु तम् ।
कृत्वा विजयगोविन्दं प्रवदन्ति मनीषिणः ॥
वन्दे विजयगोविन्दं गोविन्दाद्वैतविग्रहम् ।
मनो लगति गोविन्दे यस्य सन्दर्शनाद्ध्रुवम् ॥

अथ श्रीमहाप्रभोः श्रीवृन्दावनागमनकथा प्राचीना

श्रीमत्काशीश्वरं वन्दे यत्प्रीतिवशतः स्वयम् ।
चैतन्यदेवः कृपया पश्चिमं देशमागतः ॥

अथ श्रीमहाप्रभुपार्षदश्रीमुखश्रुतकथैकदा श्रीमहाप्रभुः
श्रीकाशीश्वरं कथितवान् भवान् श्रीवृन्दावनं गत्वा श्रीलरूपसनातनयोर्
अन्तिकं निवसतु इति । स तु तच्छ्रुत्वा हर्षविस्मितोऽभूत् । सर्वज्ञशिरोमणिस्तद्
धृदयं ज्ञात्वा पुनः कथितवान् श्रीजगन्नाथपार्श्ववर्तिनं श्रीकृष्ण
विग्रहमानीय कथितवान् स्वयं भगवतानेन ममाभेदं जानीहि । अत एनं
सेवस्व । तच्छ्रुत्वा स तूष्णीं बभूव । ततो विग्रहस्य गौरवपुषा श्रीकृष्णेन
महाप्रभुना च एकत्र भोजनं कृतम् । ततः श्रीकाशीश्वरो दण्डवत्प्रणम्य
गौरगोविन्दविग्रहं श्रीवृन्दाव्नअं प्रापितवान् । सोऽयं श्रीगोविन्दपार्श्वर्ति
श्रीमहाप्रभुः । अतो यथा श्रीगोविन्दस्य सेवाविधिः श्रीमहाप्रभोरपि
तथा ग्रन्थविस्तारभिया विस्तार्य न लिख्यते ।

पदकान्त्या जितमदनो
मुखकान्त्या मण्डितकमलमणिगर्वः ।
श्रीरूपाश्रितचरणः
कृपयतु मयि गौरगोविन्दः ॥

एवं श्रीमहाप्रभोर्जन्मयात्रादि कर्तव्यम् । तथा श्रीमहाप्रभोः
पार्षदानां सेवा । मुख्याधिकारिणामप्रकटतिथिपालनं च कर्तव्यम् ।

अथ श्रीवृन्दादेवीमाहात्म्यम्

वृन्दा वन्दितचरणा नेत्रादिभिर्वृन्दादिकवने ।
यद्वाचा वृक्षलताः कालेऽकाले पुष्पिताः स्युः ॥

चूडायां चारुरत्नाम्बरमणिमुकुटं बिभ्रतीं मूर्ध्नि देवीं
कर्णद्वन्द्वं च दीप्ते पुरटविरचिते कुण्डले हारिहीरे ।
निष्कं काञ्चीं सुहारान् भुजकटकतुलाकोटिकादींश्च वन्दे
वृन्दां वृन्दावनान्तः सुरुचिरवसनां श्रीलगोविन्दपार्श्वे ॥

श्रीवृन्दायाश्चरणकमलं सर्वलोकैकवन्द्यं
भक्त्या संसेव्यमानं कलिकलुषहरं सर्ववाञ्छाअप्रदं च ।
वक्तव्यं चात्र किं वा यदनुभजनतो दुर्लभे देवलोकैः
श्रीमद्वृन्दावनाख्ये निवसति मनुजः सर्वदुःखैर्विमुक्तः ॥

अस्याः स्वप्राज्ञा लिख्यते एकदा रात्रौ सुप्तं श्रीमत्प्रभुं श्रीहरिदास
गोस्वामिनं प्रति वृन्दयादिदेशे अये श्रीमद्राधागोविन्दसेवाधिकारिन् ! मत्
प्रभोः श्रीमहाप्रसादान्नं दातुमर्हसि । एवं सेवावस्त्रभूषादिकं
श्रीमद्ईश्वर्याश्च ।

अथ वार्षिकायात्राविधिर्लिख्यते ।

भक्तानां व्यदधन्महोत्सवमयं नेत्रार्बुदानां परम्
स्वीकुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृतैः ॥[* ॰५]

दधिमधुखण्डधृतादीन् शिरसि दधतो देवस्य ।
किमिन्द्रनीलशैलोपरि शतधारा जाह्नवी सरति ॥[* ॰६]

पञ्चम्यां प्रथमे वसन्तसमये गोविन्ददेवो हरिः ।
यं दृष्ट्वा भवपद्मजपप्रभृतयः सद्यः कृतार्थं गताः
॥[* ॰७]

छलतो ब्रह्मादिदेवाश्चरणामृतपानतो लोभात् ।
धृतमनुजरूपवेशः पार्षदभक्तान् संयाचते ॥[* ॰८]

पीतं कञ्चुकमतुलं चोष्णीषं चित्रधटीं धृतं देवम् ।
दीव्यन्तं निजप्रियया श्रीगोविन्दं सखे पश्य ॥

यद्यपि माघश्रीपञ्चमीतः फाल्गुनीपौर्णमासीपर्यन्तं वसन्तोत्सवः
प्रवर्तते । तथा हि, फाल्गुनशुक्लदशमीतः चैत्रकृष्णप्रतिपत्पर्यन्तं
मुख्यो विधिः । तेषु पञ्चदिनेषु प्रभुः प्रियया सहितः सदा विराजते ।

ब्रह्मादिदेवताः सर्वे परमानन्दनिर्वृताः ।
इन्द्रादिभिर्मिलित्वात्र वसन्ति व्रजमण्डले ॥

सर्वव्रजमण्डलमुख्यत्वे श्रीगोविन्दस्थलं ज्ञेयम् । वसन्तवस्त्रादिकं
च परिदधाति ।

दिव्यै रत्नैर्जटितमुकुटं कुण्डले चारुहारं
निष्कं काञ्चीं सुपदकटकावङ्गदे कङ्कणे च ।
पीतं वासश्चतुष्कं मणिगणघटिता मुद्रिकाश्चाङ्गुलिषु
बिभ्राणं वामपार्श्वे निजप्रियतमया सेवितं देवमीडे ॥

तथा
चूडारत्नं सुदिव्यं मणिमयमुकुटं कुण्डले तारहारान्
निष्कं काञ्चीशलाका युगवलयघटा नूपुरान्मुद्रिकाश्च ।
श्रोणौ रक्तं दुकूलं तद्उपरमतुलं चारुनीलं दधानां
दिव्यन्तीं वामपार्श्वे व्रजकुमुदविधो राधिकामाश्रयेऽहम् ॥

अथ वसन्तोत्सवः

नानाप्रकारपटवासचयान् क्षिपन्तः
पौष्पादिकन्दुकगणान्मृदुकूपिकाश्च ।
प्रेम्णा सुगन्धसलिलैर्जलयन्त्रमुक्तैः
श्रीपूजकप्रभृतयः सिषिचुः स्वदेवम् ॥

नानावर्णैर्गन्धचूर्णैः प्रपूर्णैर्
आदौ भूर्द्यौ व्यानशे दिक्विदिक्च ।
गन्धाम्बूनां वृष्टिसंछिन्नमूलैर्
लेभे पश्चाच्चित्रचन्द्रातपत्वम् ॥

अथ श्रीरामनवमी

उच्चस्थे ग्रहपञ्चके सुरगुरो सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।
निर्गग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारामे
आविर्भूतमभूदपूर्वविभवं यत्किञ्चिदेकं महः ॥
वन्दामहे महेशानं हरकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥

अथ दोलोत्सवः

श्रीमद्वृन्दारण्यकल्पागमूले
नानापुष्पैर्दिव्यहिन्दोलमध्ये ।
श्रीमद्राधाश्रीलगोविन्ददेवौ
भक्तालीभिः सेवितौ संस्मरामि ॥

पुष्पैश्चूडां मुकुटमतुलं कुण्डले चारुहीरे
वक्षस्यारोहयन्तीर्विविधसुकुसुमैर्वन्यमालां वहन्तम् ।
जानुन्यारोहयन्तीं भ्रमरकर्षिणीं बिभ्रतं कान्तयान्यां
नाम्ना तां वैजयन्तीं निजप्रियतमया पश्य गोविन्ददेवम् ॥

पुष्पैः कुञ्जावलिविरचना पुष्पचन्द्रातपश्च
दोला नानाकुसुमरचिता पुष्पवृन्दैश्च वेणुः ।
पुष्पारण्यं लसति परितः कृत्रिमं देवसृष्टं
चेत्थं दोले प्रियपरिजनैः सेव्यते देवदेवः ॥

अग्रतः पृष्ठतः पार्श्वे गोविन्दं प्रियया युतम् ।
हिन्दोले दोलयामासुस्तत्सेवकजना मुदा ॥
दोलायामतिलोलायां सा कान्ता भयवेपिता ।
कान्तमालिङ्ग्य हृष्टा तैः प्रेमभक्तैस्तदोज्ज्वलैः ।
जय वृन्दावनाधीश जय वृन्दावनेश्वरि ।
जय नन्दानन्दकन्द सर्वानन्दविधायक ॥
इति ब्रह्मादयो देवा गायन्तो दिवि हर्षतः ।
पुष्पवर्षं विकुर्वन्ति स्वस्वसेवनतत्परा ॥

गन्धर्वविद्याधरचरणादयो
मुनीन्द्रदेवेन्द्रगणाः समाहिताः ।
तां दोलिकां दोलयितुं समुत्सुकाः
स्वायोग्यतामेत्य ततोऽवतस्थिरे ॥

ये मानवा भाग्यभाजो दिवि देवास्तथैव च ।
तैर्दृष्टः प्रियया युक्तो गोविन्दो दोलनोत्सवे ॥

अथ चन्दनोत्सवः (आर्याच्छन्दः)

मम कुरुते मुदमतुलं वैशाखी शुक्लतृतीया शुभदा ।
यस्यां श्रीगोविन्दश्चन्दनपङ्कैः सेवितो भक्तैः ॥
दिव्यैश्चन्दनपङ्कैः कुङ्कुमघनसारमिश्रितैर्देवम् ।
सर्वाङ्गेषु विलिप्तं वन्दे श्रीगौरगोविन्दम् ॥

मस्तकोपरि चोष्णीषे सर्वाङ्गे कञ्चुकोपरि
घनसाराञ्चिघुसृणचन्दनद्रवचर्वितः ।
अभितो भक्तवृन्देन गीतावादित्रमङ्गलैः
सेवितो गौरकृष्णोऽयं करोतु तव मङ्गलम् ॥

यथा
वैशाखं तु समारभ्य चाश्विनावधि यत्नतः ।
सुवीजनं तु कर्तव्यं भक्तैर्यन्त्रादिना हरेः ॥
गन्धचन्दनसंमिश्रैर्जलैरत्यन्तशीतलैः ।
निषेचनं प्रभोरग्रे जलयन्त्रविनिःसृतैः ॥

अथ श्रीनृसिंहचतुर्दशी

आयाति श्रीनृसिंहस्य शुभा ज्यैष्ठी चतुर्दशी ।
धिनोत्चान्तरं सा मे महोत्सवविधानतः ॥
सर्वावतारबीजस्य स्वयं भगवतो हरेः ।
श्रीमद्गोविन्ददेवस्य नृसिंहादेरभेदतः ॥
तत्तज्जन्मदिनेष्वेव सर्वेषु विधिपूर्वतः ।
उत्सवः क्रियते भक्तैर्गीतिवादित्रनिस्वनैः ॥
चतुर्दशीं समारभ्य दिव्यान्नमतियत्नतः ।
नाम्ना पर्युषितं यत्तु दध्यादिकसमायुतम् ॥

अथाषाढे रथारूढविधिः

आषाढीया तिथिः शुक्लद्वितीया शुभदायिनी ।
उन्मादयति देवस्य रथारूडपरिष्क्रिया ॥

अत्र भोजनसामग्री द्विगुणीकृत्य कर्तव्या । भूषावेशादिकं सर्वं महाराज
कुमारत्वेन कर्तव्यम् ।

आयाता सखि राधे तव सुखदा श्रावणतृतीयेयम् ।
कारय बहुमणिमण्डनमतुलं दोलां समारभ्य ॥

अतो व्रजमण्डलप्रसिद्धायां श्रावणशुक्लतृतीयायां श्रीवृषभानु
नन्दिन्याः श्रीमद्ईश्वर्या दोलारूढमहोत्सवो यत्नतः कर्तव्यः । एवं पवित्रा
द्वादशी सौभाग्यपौर्णमासी च ।

अथ भाद्रे श्रीजन्माष्टमी

यस्मिन् दिने प्रसूयेत देवकी त्वां जनार्दन ।
तद्दिनं ब्रूहि वैकुण्ठ कुर्मस्ते तत्र चोत्सवम् ॥[*Eण्ड्ण्Oट्E ॰९]

स्फुरति कथं मम सततं वामनेत्रं विचारय सखि त्वम् ।
ज्ञातं चायतीदं जन्मदिनं कृष्णचन्द्रस्य ॥
भद्रे तु भद्रदा चेयं श्रीहरेर्जन्मनस्तिथिः ।
लोकतो विधितस्तत्र चोत्सवः क्रियते बुधैः ॥

नर्दन्तो दधिधृतकर्दमेषु भक्ताः
कूर्दन्तः पुनरपि तत्क्षिपन्त आरात् ।
अन्योन्ऽन्यं शिरसि मुखे च पृष्ठदेशे
आनन्दामृतजलधौ लिपन्ति मग्नाः ॥

जन्मवासरमाज्ञाय व्रजराजसुतस्य हि ।
व्रजमण्डलतः सर्वे आगता व्रजवासिनः ॥

नानादिग्देशतश्चैव गोविन्दप्रियकिङ्कराः ।
दिव्यमाल्याम्बरधराः पुत्रदारसमन्विताः ॥
वन्दिनो गायकाश्चैव नर्तका वादकाश्च ये ।
दिव्यवेशधरास्ते तु ननृतुः पपठुर्जगुः ॥
गायन्तो मृदुमधुरं वन्दिगणाः पठन्ति भृशमुच्चैः ।
वृत्तिं विनापि ते ते याचन्ते पारितोषिकं तेभ्यः ॥
एवं जन्मक्षणे प्राप्ते पञ्चामृतजलैर्मुदा ।
जयशब्दं प्रकुर्वन्तः स्नापयन्ति निजं प्रभुम् ॥

भक्तानां व्यदधन्महोत्सवमयं नेत्रार्बुदानां परं
स्वीकुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृतैः ।
अष्टम्यां सुतिथौ निशार्धसमये गोविन्ददेवो हरिर्
यं दृष्ट्वा भवपद्मजप्रभृतयः सद्यः कृतार्थं गताः ॥

छलतो ब्रह्मादिदेवाश्चरणामृतपानतो लोभात् ।
धृतमनुजरूपवेशाः पार्षदभक्तान् संयाचन्ते ॥
इति ब्रह्मादयो देवा गायन्तो दिवि हर्षतः ।
पुष्पवृष्टिं विकुर्वन्ति स्वस्वसेवनतत्पराः ॥
दिवि देवगणाः सर्वे आगतास्तद्दिने शुभे ।
तद्ये पश्यन्ति तद्रात्रौ ते कृतार्थास्तु भूतले ॥
चक्षुष्मन्तस्तु ते प्रोक्ताः प्रभोः पार्श्वं व्रजन्ति च ॥

आनन्दवृन्दावनचम्प्वां द्वितीयस्तवके (१७१९)

एवं परिपूर्णमङ्गलगुणतया दूषणद्वापरान्ते द्वापरान्ते निरन्तराल
भाद्रपदे भाद्रपदे मासि मासिते पक्षेऽपक्षेपरहिते हिते रसमये गुणगण
रोहिणीं रोहिणीं सरति सुधाकरे सुधाकरे योगे योगेश्वरेश्वरो मध्ये
क्षणदायाः क्षणदायाः पूर्णानन्दतया जीववज्जननीजठर
संबन्धाभावाद्बन्धाभावाच्च केवलं विलसत्करुणयारुणया तथाविध
लीलालीलासिकया कयाचन पुरन्दरदिग्अङ्गनोत्सङ्ग इव रजनीकरः स्व
प्रकाशतया प्रादुर्भावमेव भावयनग्रे पूर्वपूर्वजनि जनिततपः
सौभाग्यफलेनोपलब्धिपितृमातृभावयोः श्रीवसुदेवदेवक्योर्वासुदेव
स्वरूपेणाविर्भावं भावयित्वा स्तनन्धयत्वाभिमानमेव क्षणं तयोः
प्रकटय्य पश्चान्नित्यसिद्धपितृमातृभावयोः श्रीनन्दयशोदयोरपि श्री
गोविन्दप्रियरमणीगणेषु मुख्या राधेयं त्रिजगति राजते स्वयं श्रीः प्रियालि
प्रेमोन्ना जनिमाप जनन्याः ।

अथ श्रीवामनाभिषेकादि ।

अथ शरत्पौर्णमास्यां, यथा

घनप्रणयमेदुरौ शरद्अमन्दचन्द्राननौ
किरीटमुकुटे धृतौ विधृतनीलपीताम्बरौ ।
श्रत्सुखदकानने सरसयोगपीठासने
पुरः कलय नागरो मधुरराधिकामाधवौ ॥

शरच्चन्द्रमसौ रात्रौ श्रीमन्तं नन्दनन्दनम् ।
श्रमयुक्तं रासलास्यात्प्रियया च सखीगणैः ॥
दिव्यमाल्याम्बरधरं नटवेशोचितं हरिम् ।
ध्यायेद्वृन्दावने रम्ये यमुनापुलिने वने ॥
प्रपानकादिशीतान्नं नानापक्वान्नसंयुतम् ।
साधको भोजयित्वा तं सन्तुष्टः ससखीगणम् ।
शेषान्नं चादरेणाथ गृह्णीयाद्वैष्णवैः सह ॥

अथामावस्या दीपदानं, यथा

अमावास्या कार्त्तिकीयं विशेषात्शुभदायिनी ।
यत्र दीपप्रदानेन तुष्टो भवति केशवः ॥
चल चल नय नय भो भो गोविन्दे चोपढौकनम् ।
दिव्यं पश्यामो मुखपद्मं दास्यामो दीपमालिकास्तत्र ॥
इति कृत्वा प्रगायन्ति प्रलपन्ति पुनः पुनः ।
पुरवासिजनाः सर्वे विशेषाद्व्रजवासिनः ॥
अग्रतः पृष्ठतः पार्श्वे मुण्डकोपरि वेश्मनि ।
दीपमालाः प्रदास्यन्ति गोविन्दप्रीतिदायिकाः ॥
यमुनायास्तटे केचित्तीर्थे केचिज्जले तथा ।
वृन्दावने प्रकुर्वन्ति दीपमालामहोत्सवम् ॥
दिवि देवगणाः सर्वे प्रभोराज्ञापरायणाः ।
दास्यन्ति वाञ्छितान् तेषां दीपमालां प्रकुर्वताम् ॥
वन्देऽहं श्रीलगोविन्दं भक्तानुग्रहविग्रहम् ।
दर्शनाद्दीपमालायाः प्रसन्नानन्दलोचनम् ॥

[अथ अन्नकूटम् ]

अन्नकूटं समायान्तं कार्त्तिके परमोत्सवम् ।
ज्ञात्वा समुत्सुकाः सर्वे गोविन्दप्रियपार्षदाः ॥
कर्तुं भोजनसामग्रीं परमानन्ददायिनीम् ।
श्रीमद्गोविन्ददेवस्य गोवर्धनधरस्य च ॥
नानान्नव्यञ्जनं पूपपिष्टकैर्बहुधा कृतम् ।
तत्तद्द्रव्यादिभेदेन चतुरैः पाचकादिभिः ॥
तैरन्नकूटं संस्थाप्य यथा गोवर्धनो गिरिः ।
तस्य पार्श्वे धृतं सर्वं व्यञ्जनादिकमुत्तमम् ॥
पक्वान्नानि तथान्यानि बहुयत्नकृतानि च ।
गोरसानां बहुविधं रसालादिकभेदतः ॥
श्रीमद्भगवतोऽग्रे तत्कूटं यत्नकृतं कृतम् ।
यदन्नकूटं संवीक्ष्य सन्तुष्टो भवति प्रभुः ॥
भुङ्क्ते बहुप्रीतमना देवानां जनयन् सुखम् ।
प्रभोरग्रे तु तत्कूटं ये पश्यन्ति नरा भुवि ॥
भाग्यभाजस्तु ते लोके त्रिषु लोकेषु दुर्लभाः ।
दध्य्आदिनान्नपूपैस्तदन्नकूटं शुभं महत् ॥
परिक्रमणकं कृत्वा ततो बन्धुजनैः सह ।
महद्आरात्रिकं नाम ये पश्यन्ति जना भुवि ॥
तेषां भाग्यं न वक्तव्यं सहस्रवदनैरपि ।
धनधान्यादिसंयुक्ताः पुत्रदारसमन्विताः ॥
महद्भोगं भुरि कृत्वा चान्ते वैकुण्ठमाप्नुयुः ।
प्रसादमन्नकूटस्य ये जनाः परमादरात् ।
वैष्णवान् भोजयन्तो वै भुञ्जेयुर्भक्तितत्पराः ॥
तेषां व्रतफलं देवि कोटिकोटिगुणं भवेत् ।
स्वलङ्कृतानां तु गवां पूजा कार्या ततः शुभा ॥

अथ गोपाष्टमीदर्शनं, यथा (१०.२१.५)

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥

तद्दर्शनफलम्

गोपाष्ट्म्यां तु देवस्य ये पश्यन्ति हरेर्मुखम् ।
दूरान्नश्यन्ति पापानि तस्मिन् भक्तिश्च जायते ॥

ध्यायेद्गोविन्ददेवं नवघनमधुरं दिव्यलीलां नटन्तमित्यादि
पूर्ववत् ।

प्रबोधन्यां युगलदर्शनं, यथा

प्रबोधन्यास्तु गोविन्दं ये पश्यन्ति प्रियायुतम् ।
नराणां क्षीणपापानां तद्भक्तिरचला भवेत् ॥

यथा (ড়्रेमेन्दु १२)
प्रबोधिनी निशानृत्यमाहात्म्यभरदर्शिनी ।
चन्द्रकान्तिचरी सर्वगान्धर्वबकुलपावनी ॥

द्वादश्यां कार्त्तिकादिव्रतमहोत्सवः कर्तव्यः । मार्गशीर्षे पौषे
खेचडान्नं, यथा

पौषे तुषारघोरेऽस्मिन् रसिकैः कृष्णपार्षदैः ।
सुविचार्य कृतं तत्र खेचडान्नं प्रभुप्रियम् ॥
दिव्यवासमतीधान्यतण्डुलं मुद्गकं तथा ।
समभागं तु किञ्चिद्वा विषमं परिकल्पितम् ॥
हिमर्तौ विहितं युक्तं लोकशास्त्रविधानतः ।
हिङ्गुं त्रिजातं मरिचं लवणं चाद्रकं तथा ॥
लोकप्रसिद्धं यच्चान्यद्विशेषाच्छुद्धगोघृतम् ।
चतुरैः कर्मकारैश्च तथा चतुरपाचकैः ॥
यथायोग्यं तु तैर्द्रव्यैः पच्यते बहुयत्नतः ।
सुदर्शनीय सुखदं रोचकं पुष्टिकारकम् ॥
सुमिष्टं दधिकं चैव तथान्यद्व्यञ्जनादिकम् ।
प्रीतितो लोकपर्यायमति प्रणयकं हरेः ।
लवङ्गैलेन्दुमरिचैः संयुतैः शर्कराचयैः ।
नानादेशभवैर्नानाफलशस्यचयैस्तथा ॥
कृतं लड्डुवरं यत्नाद्बहुप्रेमभरेण च ।
यद्दृष्ट्वा भोजनात्कृष्णो जायते ह्यतिहर्षितः ॥
प्रभोर्हर्षात्तु भक्तानामतिहर्षैः प्रजायते ।
कुर्वन्ननुदिनं तत्तु गोविन्दप्रीतिदायकम् ॥
तुल्यान्तरीयवस्त्रादि तथा चैवाग्निसेवनम् ॥

वन्देऽहं श्रीलगोविन्दं त्रिकाले नित्यविग्रहम् ।
भजनाद्यस्य नित्यत्वं नित्यत्वे तस्य का कथा ॥
द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।
श्रीगोविन्दपदद्वन्द्वे विमुखा ये भवन्ति हि ॥
गोविन्दपार्षदान् वन्दे तद्वत्कालत्रये स्थितान् ।
येषां स्मरणमात्रेण सर्वाभीष्टफलं लभेत् ॥
येषां गोविन्ददेवस्य नैत्यिकी वार्षिकी तथा ।
सेवा संक्षेपतो मुख्या मयात्र परिकीर्तिता ॥

किं च (ऋष्२.१.४९)

रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलं तुङ्गता
विस्तारस्त्रिषु खर्वता त्रिषु पुनर्गम्भीरता च त्रिषु ।
दैर्घ्यं पञ्चसु किं च पञ्चसु सखे संप्रेक्ष्यते सूक्ष्मता
द्वात्रिंशद्वरलक्षणः कथमसौ गोपेषु सम्भाव्यते ॥

राग इति व्रजेश्वरं प्रति क्वचित्तत्समवयसो गोपस्य वाक्यमिदम् । सप्तसु
नेत्रान्तपादकरतलताल्पधरोष्ठजिह्वानखेषु । षट्सु वक्षः स्कन्ध
नखनासिकाकटिमुखेषु । पञ्चसु नासाभुजनेत्रहनूजानुषु । पुनः
पञ्चसु त्वक्केशाङ्गुलिदन्ताङ्गुलिपर्वसु । तथैव महापुरुषलक्षणं
सामुद्रकप्रसिद्धेः । द्वात्रिंशद्वराणि तल्लक्षणेभ्योऽन्येभ्योऽपि श्रेष्ठानि
लक्षणानि यस्य सः । गोपेषु कथमिति भगवद्अवतारादिषु
एतादृशीअत्वाश्रवणादिति भावः ।
करयोः कमलं तथा रथाङ्गं
स्फुटरेखामयमात्मजस्य पश्य ।
पदपल्लवयोश्च वल्लवेन्द्र
ध्वजवज्राङ्कुशमीनपङ्कजानि ॥ (ऋष्२.१.५१)

करयोरिति कस्याश्चिद्वृद्धगोप्या वचनम् । उपलक्षणान्येवैतानि चिह्नानि
पद्मपुराणादिदृष्ट्यान्यान्यप्यसाधारणानि ज्ञेयानि । तानि यथा पद्म
पुराणे

शृणु नारद वक्ष्यामि पदयोश्चिह्नलक्षणम् ।
भगवन् कृष्णरूपस्य ह्यानन्दैकसुखस्य च ॥
अवतारा ह्यसङ्ख्याताः कथिता मे तवाग्रतः ।
परं सम्यक्प्रवक्ष्यामि कृष्णस्तु भगवान् स्वयम् ॥
देवानां कार्यसिद्ध्य्अर्थमृषीणां च तथैव च ।
आविर्भूतस्तु भगवान् स्वानां पिर्यचिकीर्षया ॥
यैरेव ज्ञायते देवो भगवान् भक्तवत्सलः ।
तान्यहं वेद नान्योऽपि सत्यमेतन्मयोदितम् ॥
षोडशैव तु चिह्नानि मया दृष्टानि तत्पदे ।
दक्षिणेनाष्टचिह्नानि इतरे सप्त एव च ॥
ध्वजाः पद्मं तथा वज्रमङ्कुशो यव एव च ।
स्वस्तिकं चोर्ध्वरेखा च अष्टकोणस्तथैव च ॥
सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।
इन्द्रचापं त्रिकोणं च कलसं चार्धचन्द्रकम् ॥
अम्बरं मत्स्यचिह्नं च गोष्पदं सप्तमं स्मृतम् ।
अङ्कान्येतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥
कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ।
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥
दृश्यन्ते वैष्णवश्रेष्ठ अवतारे कथञ्चन ॥
षोडशं तु तथा चिह्नं शृणु देवर्षिसप्तम् ।
जम्बूफलसमाकारं दृश्यते यत्र कुत्रचित् ॥

शास्त्रान्तरे तु शङ्खचक्रच्छत्राणि ज्ञेयानि ।

अथ करध्यानम्

शङ्खार्धेन्दुयवाङ्कुशैररिगदाछत्रध्वजैः स्वस्तिकैर्
यूपाब्जसिंहलैर्धनुः पविघटेः श्रीवृक्षमीनेषुभिः ।
नन्दावर्तचयैस्तथाङ्गुलिगतैरेतैर्निजैर्लक्षणैः
भ्रातः श्रीपुरुषोत्तमत्वगमकैर्जानीहि रेखाङ्कितैः ॥

अथ मन्दहास्यं (कृष्णकर्णामृते ९९)

अखण्डनिर्वाणरसप्रवाहैर्
विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्वान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥

पद्मादिदिव्यरमणीकमनीयगन्धं
गोपाङ्गनानयनभृङ्गनिपीयमानम् ।
कृष्णस्य वेणुनिनदार्पितमाधुरीकम्
आस्याम्बुजस्मितमरन्दमहं स्मरामि ॥

(ब्रह्मसंहितायां ५.३१)

आलोलचन्द्रकलसद्वनमाल्यवंशी
रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं
गोविन्दमादिपुरुषं तमहं भजामि ॥

श्रीहरिभक्तिविलासे (१८.३१३७)

एवं पुराणतन्त्रादि दृष्ट्वात्रेदं विलिख्यते ।
ललाटाच्चिवुकान्तं स्यात्श्रीमुखं द्वादशाङ्गुलम् ॥
तत्राननं भाग एकस्तत्रैव चतुरङ्गुलम् ।
ललाटं नासिका तद्वद्गुल्फमर्धाङ्गुलं भवेत् ॥
अर्धाङ्गुलोऽधरस्तूर्ध्वोऽपरश्चैकाङ्गुलो मतः ।
द्व्य्अङ्गुलं चिबुकं चाथ ग्रीवा स्यात्चतुरङ्गुला ॥
वक्षोभोगो भवेदन्यस्तस्मान्नाभ्य्अवधिः परः ।
ततोऽपरश्च मेढ्रान्तस्तस्मादुरुविभागकौ ॥
तथा द्विभागिके जङ्घे जानुनी चतुरङ्गुले ।
पादौ च तत्समावित्थं दैर्घ्यभागा नवोदिताः ॥
कुत्राप्युच्चात्ललाटस्योपरिष्टात्र्य्अङ्गुलं शिरः ।
तद्वद्ग्रीवा जानुपादास्तथापि स्युर्नवैव ते ॥
इति स्यात्सर्वतो दैर्घ्ये साष्टोत्तरशताङ्गुलाः ॥

तद्यथा इदमेव रहस्यम्यद्यपि तिर्यङ्नरादिषु भगवतो जन्म, तथापि
स्वेच्छया गौडदेशे तद्देशीयान् ब्राह्मणान् सर्वश्रेष्ठान् विज्ञाय तेषां कुले
श्रीकृष्णचैतन्यनित्यानन्दाद्वैतादयो जन्म स्वीकुर्वन्तः । अतो
महाप्रभुणाङ्गीकृतेषु गौडोत्कलदाक्षिणात्यपाश्चात्येषु गौडदेशनिवासिन
एव बहवः पार्षदाः । ते खलु महत्कुलप्रसूतास्तेषां भोजनादिव्यवहारः
सत्कुलप्रसूतान् गौडीयान् ब्राह्मणान् विना न सम्भवति । तथा हिनिजत्वे
गौडीयानिति ज्ञात्वा सर्वज्ञशिरोमणिर्महाप्रभुः श्रीरूपसनातनौ
निजान्तरङ्गौ विज्ञाप्य तयोः सर्वशक्तिं संचार्य पश्चिमदेशे स्वीयवितरण
भक्तभूपत्वेन स्थापितवान् । तद्द्वारा निजप्रकटनहेतुभूतं वाञ्छा
त्रयसमुल्लसितपरमान्तरङ्गरूपस्यातुलभजनरत्नस्य लुप्ततीर्थादेश्च
प्रकटनात्, स्वयं प्रकाशश्रीगोविन्दादिस्वरूपराजसेवा प्रकाशाच्च ।

ताभ्यां च पुनः श्रीवृन्दावनं गत्वा श्रीश्रीसेवादिकं परिवारे तत्समर्पितम्
। न तु निजपार्श्ववर्तिषु श्रीगोपालभट्टश्रीरघुनाथदासादिषु स्वतो
भगवन्मन्त्रगृहीतस्वभ्रातुष्पुत्रश्रीजीवगोस्वामिषु च । अहो परम
भागवतानां मर्यादारक्षणस्वभावः स्वयं चैते सेवासमये मन्दिरे न
प्रविशन्ति च । किमुतान्यत् । एतत्तु श्रीचैतन्यचरितामृतादौ प्रसिद्धं वर्तते


इति श्रीगोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामिचरणानुजीविराधाकृष्ण
दासोदीरिता साधनदीपिका द्वितीया कक्षा
॥२॥