साधनदीपिका/तृतीयकक्षा

विकिस्रोतः तः
← द्वितीयकक्षा साधनदीपिका
तृतीयकक्षा
[[लेखकः :|]]
चतुर्थकक्षा →

(३)
तृतीयकक्षा

अथ धीरललितस्य श्रीमद्गोविन्ददेवस्य (ऋष्२.१.६३)

वयसो विविधत्वेऽपि सर्वभक्तिरसाश्रयः ।
धर्मी किशोर एवात्र नित्यनानाविलासवान् ॥

तद्यथा (ऋष्२.१.३०८३१२)

वयः कौमारपौगण्डकैशोरमिति तत्त्रिधा ॥
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच्च कैशोरं यौवनं स्यात्ततः परम् ॥
औचित्यात्तत्र कौमारं वक्तव्यं वत्सले रसे ।
पौगण्डं प्रेयसि तत्तत्खेलादियोगतः ॥
श्रैष्ठ्यमुज्ज्वल एवास्य कैशोरस्य तथाप्यदः ।
प्रायः सर्वरसौचित्यादत्रोदाह्रियते क्रमात् ॥
आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥

तत्र मध्यं यथा (ऋष्२.१.३२०३२४)

ऊरुद्वयस्य बाह्वोश्च कापि श्रीरुरसस्तथा ।
मूर्तेर्माधुरिमाद्यं च कैशोरे सति मध्यमे ॥
यथा
स्पृहयति करिशुण्डादण्डनायोरुयुग्मं
गरुडमणिकवाटीसख्यमिच्छत्युरश्च ।
भुजयुगमपि धित्सत्यर्गलावर्गनिन्दाम्
अभिनवतरुणिम्नः प्रक्रमे केशवस्य ॥

मुखं स्मितविलासाढ्यं विभ्रमोत्तरले दृशौ ।
त्रिजगन्मोहनं गीतमित्यादिरिह माधुरी ॥
यथा
अनङ्गनयचातुरीपरिचयोत्तरङ्गे दृशौ
मुखाम्बुजमुदञ्चितस्मितविलासरम्याधरम् ।
अचञ्चलकुलाङ्गनाव्रतविडम्बिसङ्गीतकं
हरेस्तरुणिमाङ्कुरे स्फुरति माधुरी काप्यभूत् ॥

वैदग्धीसारविस्तारः कुञ्जकेलिमहोत्सवः ।
आरम्भो रासलीलादेरिह चेष्टादिसौष्ठवम् ॥

टीका श्रीमज्जीवगोस्वामिचरणानां मध्ये शेषवयसप्रायः सर्वत्र
समानत्वम् । इह मध्ये चेष्टादिसौष्ठवं, यथा (ऋष्२.१.३२५)
व्यक्तालक्तपदैः क्वचित्परिलुठत्पिञ्छावतंसैः क्वचित्
तल्पैर्विच्युतकाञ्चिभिः क्वचिदसौ व्याकीर्णकुञ्जोत्करा ।
प्रोद्यन्मण्डलबन्धताण्डवघटालक्ष्मोल्लसत्सैकता
गोविन्दस्य विलासवृन्दमधिकं वृन्दाटवी शंसति ॥

धीरललितलक्षणम् (ऋष्२.१.२३०२)

विदग्धो नवतारुण्यः परिहासविशारदः ।
निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥
यथा
वाचा सूचितशर्वरीरतिकलाप्रागल्भ्यया राधिकां
व्रीडाकुञ्चितलोचनां विरचयन्नग्रे सखीनामसौ ।
तद्वक्षोरुहचित्रकेलिमकरीपाण्डित्यपारं गतः
कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः ॥

गोविन्दे प्रकटं धीरललितत्वं प्रदर्श्यते ।
उदाहरन्ति नाट्यज्ञाः प्रायोऽत्र मकरध्वजम् ॥

अतएव धीरललितलक्षणस्थायिकश्रीगोविन्ददेवे मध्यकैशोरं व्यकं
दृश्यते ।

अन्तःपुरस्तु देवस्य मध्ये पूर्या मनोहरम् ।
मणिप्राकारसंयुक्तं वरतोरणशोभितम् ॥
विमानैर्गृहमुख्यैश्च प्रासादैर्बहुभिर्वृतम् ।
दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥
मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् ।
माणिक्यस्तम्भसहस्रजुष्टं रत्नमयं शुभम् ॥
नित्यमुक्तैः समाकीर्णं सामगानोपशोभितम् ।
मध्ये सिंहासनं रम्यं सर्ववेदमयं शुभम् ॥
धर्मादिदैवतैर्नित्यैर्वृतं वेदमयात्मकैः ।
धर्मज्ञानमहैश्वर्यवैराग्यैः पादविग्रहैः ॥
वसन्ति मध्यमे तत्र वह्निसूर्यसुधांशवः ।
कूर्मश्च नागराजश्च वैनतेयस्त्रयीश्वरः ॥
छन्दांसि सर्वमन्त्राश्च पीठरूपत्वमास्थिताः ।
सर्वाक्षरमयं दिव्यं योगपीठमिति स्मृतम् ॥
तन्मध्येऽष्टदलं पद्ममुदयार्कसमप्रभम् ।
तन्मध्ये कर्णिकायां तु सावित्र्यां शुभदर्शने ॥
ईश्वर्या सह देवेशस्तत्रासीनः परः पुमान् ।
इन्दीवरदलश्यामं सूर्यकोटिसमप्रभः ॥
इति तृतीयकक्षा
॥३॥