साधनदीपिका/प्रथमकक्षा

विकिस्रोतः तः
साधनदीपिका
प्रथमकक्षा
[[लेखकः :|]]
द्वितीयकक्षा →


किं चास्मिन् कदाचिद्वसन्तवासरावसरे रात्रौ रासमण्डले भ्रमति सति
संचारिण्याः श्रीवृषभानुसुताया आश्चर्यं रूपं दृष्ट्वा तमालस्य मूले
मूर्च्छितवानिति महती प्रसिद्धिः ।

तस्यैव कान्तापरिचारकोऽसौ
तयोश्च दासः किल कोऽपि नाम्ना ।
स्वकीयलोकस्य तदीयदास्ये
मतिप्रवेशाय करोति यत्नम् ॥६॥

श्रीमद्राधाप्राणबन्धोर्नैत्यिकं चरितं हि यत् ।
श्रीमत्कृष्णकवीन्द्रेण कृपया प्रकटीकृतम् ॥७॥
श्रीमद्रूपाज्ञया तेषां परमाप्तवरेण तु ।
कृतं तस्मिन्मया भाष्ये तेषां वाक्यप्रमाणतः ॥८॥
अथ तस्मात्पृथक्त्वेन साक्षाद्भगवतो हरेः ।
मन्त्रमय्यां समासेन सेवा किञ्चिद्विलिख्यते ॥९॥
तत्तत्प्रसङ्गसङ्गत्या सिद्धान्तोऽपि च लिख्यते ।
तस्य मध्ये न लिखितो ग्रन्थविस्तारभीतितः ।
कक्षादशमसंपूर्णो ग्रन्थोऽयं सम्भविष्यति ।१०॥
तत्र प्रथमकक्षायां श्रीमत्सेवाप्रकाशनम् ।
द्वितीये श्रीलगोविन्दसाक्षाद्भगवतः कथा ॥११॥
तृतीये मध्यकैशोरे रसोत्कर्षनिरूपणम् ।
चतुर्थेऽष्टादशार्णस्य मन्त्रस्यार्थो विलिख्यते ॥१२॥
पञ्चमेऽस्य व्रजभुवो माहात्म्यं परिकीर्तितम् ।
षष्ठे श्रीभानुनन्दिन्याः प्रकाशस्य कथा शुभा ॥१३॥
श्रीमन्महाप्रभोस्तस्य भक्तवृन्दस्य चैव हि ।
तत्त्वात्मिकाकथा प्रोक्ता तत्तद्ग्रन्थप्रमाणतः ॥१४॥
सप्तमे त्वष्टमे प्रोक्ता पुनः श्रीरूपसत्कथा ।
रागात्मिका तथा रागानुगाभक्तिनिरूपणम् ॥१५॥
कक्षाया नवमे लेख्यं दशमे लिख्यते पुनः ।
श्रीमद्भगवतस्तत्तद्भक्त्यादेस्तत्त्ववर्णनम् ॥१६॥

अथ श्रीमद्रूपसनातनाभ्यां श्रीलपण्डितगोस्वामिशिष्यश्रीपरमानन्द
गोस्वामिना च श्रीमद्वृन्दावनयोगपीठादिषु सर्वं स्वरूपराजस्वयं
भगवतः श्रीमद्गोविन्ददेवस्य श्रीमन्मदनगोपालगोपीनाथयोश्च सेवा
श्रीमद्ईश्वरेच्छया स्वस्वस्थाने स्वस्वसेवाः प्रकाशिताः । प्रकाशस्तु न
भेदेषु गण्यते स हि न पृथक्[ळघुभाग्. १.१८] इति ।

स्वयं भगवतः श्रीमद्गोविन्दस्य सुखाधिकः ।
वृन्दावने योगपीठे सेवा तु प्रकटीकृता ।
श्रीचैतन्यकृपारूपरूपेण करुणाकृता ॥१७॥
सेवा गोपालदेवस्य पर्मानन्ददा शुभा ।
श्रीसनातनरूपेण तत्रैव प्रकटीकृता ॥१८॥
परमानन्ददे श्रीमन्नीपपादपभूतले ।
कालिन्दीजलसंसर्गिशीतलानलकल्पिते ॥१९॥
राधागदाधरच्छात्रः परमानन्दनामकः ।
यस्तेनाशु प्रकटितो गोपीनाथो दयाम्बुधिः ।
वंशीवटतटे श्रीमद्यमुनोपतटे शुभे ॥२०॥

ततः सर्वस्वरूपं जानता श्रीलरूपेण श्रीसनातनेन च मूलस्वरूपशक्तिश्री
राधागदाधरपरिवारे श्रीमन्महाप्रभोराज्ञानुसारेण स्वस्वस्थाने स्व
स्वसेवा समर्पिता । तत्रापि श्रीपण्डितगोस्वामिशिष्यः प्रेमिकृष्णदास
गोस्वामिने समर्पिता श्रीरूपेण । तथा हि,
श्रीमद्गदाधरस्यास्य स्वरूपं पूर्वलक्षणम् ।
जानता श्रीलरूपेण सेवा तस्मै समर्पिता ॥२१॥

श्रीलसनातनगोस्वामिना स्वस्यातीवान्तरङ्गाय श्रीकृष्णदासब्रह्मचारिणे
श्रीमदनगोपालदेवस्य सेव समर्पिता । एवं श्रीमद्रूपाद्वैतरूपेण
श्रीमद्रघुनाथेन श्री=युतकुण्डयुगलपरिचर्या तत्परिसरभूमिश्च श्री
गोविन्दाय समर्पिता । एवं श्रीगोपीनाथस्य सेवा श्रीपरमानन्दगोस्वामिना
श्रीमधुपण्डितगोस्वामिने समर्पिता । किं च त्रयाणां श्रीविग्रहाणां प्रेयसी
किल श्रीहरिदासगोस्वामिश्रीकृष्णदासब्रह्मचारिगोस्वामिश्रीमधु
पण्डितगोस्वामिभिश्च प्रकाशिता ॥
इति प्रथमकक्षा