सदस्यसम्भाषणम्:अनुनाद सिंह

विकिस्रोतः तः
Jump to navigation Jump to search

अनुनादसिंह महोदय, किं अयं संभवमस्ति यत् शब्दकल्पद्रुमः सीडी रूपेण मां उपलब्धं भवेत्। अहं दिल्ली नगरे वसामि। मम आवश्यकता स्वमित्राय डा. रवीन्द्रकुमार पाठक, गया नगर निवासी हेतु अस्ति। - विपिन कुमारः २५-१२-२०१६ सम्भाषणम्

नमस्ते अनुनादसिंहमहोदय, विकिस्रोतसि व्यवस्थाविषये अधिकम् अवधानं दातव्यमस्ति । अस्माभिः ये ग्रन्थाः स्थाप्यन्ते तेषां पठनाय अधिकानि सौलभ्यानि कल्पनीयानि सन्ति । मुख्यपृष्ठादीनि संरक्षणीयानि सन्ति । एतानि कार्याणि समीचीनतया निर्वोढुं सक्रियप्रबन्धनस्य आवश्यकता वर्तते । एतद्धिया द्वाभ्यां प्रशासनाधिकारनिमित्तम् आवेदनं कृतं वर्तते । अधो निर्दिष्टे पृष्ठे भवतः अभिप्रायं हस्ताङ्कनपूर्वकं प्रकटयतु इति निवेदनम् ।

--शुभा (सम्भाषणम्) ०६:०४, १६ जनवरी २०१६ (UTC)

अनुनादसिंह महोदय, किं अयं संभवमस्ति यत् शब्दकल्पद्रुमस्य पृष्ठानां फोण्टसाईज बृहद् वर्त्तते। बृहत्करण हेतु अयं कूटाक्षर संकेतः भवति(संपादनविधायां एव द्रष्टव्यम्) - शब्दकल्पद्रुम । - विपिन कुमारः(Puranastudy) 1 फरवरी 2016

विपिनकुमारमहोदय, फाण्ट् आकारं बृहत्करणं अवश्यमेव शक्यं। किन्तु यदि कार्यमिदं पाठकेन क्रियते इदं उपयुक्तः। उदाहरणार्थं, फायरफाक्स ब्राउजरे 'कण्ट्रोल् +' कृत्वा फाण्ट आकारः वर्धितुं शक्नोति। 'कण्ट्रोल् -' कृत्वा फाण्ट आकारः लघुतरं करणीयः।--अनुनाद सिंह (सम्भाषणम्) १०:०२, २ फरवरी २०१६ (UTC)

द्विदिवसीयविकिस्रोतःकार्यशाला[सम्पाद्यताम्]

          
Wikisource-logo-sa.svg

द्विदिवसीयविकिस्रोतःकार्यशाला २०१६
नमस्ते अनुनाद सिंह !

संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।

  • प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।

-शुभा (सम्भाषणम्) ०७:४६, १९ मार्च २०१६ (UTC)