श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०९

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०८ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १० →



देवानां अमृतपानं दैत्यवंचनं, राहुशिरश्छेदश्च -


श्रीशुक उवाच -
(अनुष्टुप्)
तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः ।
 क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १ ॥
 अहो रूपमहो धाम अहो अस्या नवं वयः ।
 इति ते तां अभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २ ॥
 का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।
 कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ ३ ॥
 न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः ।
 नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४ ॥
 नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् ।
 सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥
 सा त्वं नः स्पर्धमानानां एकवस्तुनि मानिनि ।
 ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥
 वयं कश्यपदायादा भ्रातरः कृतपौरुषाः ।
 विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥
 इति उपामंत्रितो दैत्यैः मायायोषिद् वपुर्हरिः ।
 प्रहस्य रुचिरापाङ्‌गैः निरीक्षन् इदमब्रवीत् ॥ ८ ॥
 श्रीभगवानुवाच -
कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः ।
 विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥
 सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।
 सख्यान्याहुरनित्यानि नूत्‍नं नूत्‍नं विचिन्वताम् ॥ १० ॥
 श्रीशुक उवाच -
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः ।
 जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥
 ततो गृहीत्वामृतभाजनं हरिः
 बभाष ईषत् स्मितशोभया गिरा ।
 यद्यभ्युपेतं क्व च साध्वसाधु वा
 कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥
 इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः ।
 अप्रमाणविदस्तस्याः तत् तथेत्यन्वमंसत ॥ १३ ॥
 अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।
 दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४ ॥
 यथोपजोषं वासांसि परिधायाहतानि ते ।
 कुशेषु प्राविशन्सर्वे प्राग् अग्रेष्वभिभूषिताः ॥ १५ ॥
 प्राङ्‌मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।
 धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६ ॥
 तस्यां नरेन्द्र करभोरुरुशद्दुकूल
     श्रोणीतटालसगतिर्मदविह्वलाक्षी ।
 सा कूजती कनकनूपुरशिञ्जितेन
     कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥
 तां श्रीसखीं कनककुण्डलचारुकर्ण
     नासाकपोलवदनां परदेवताख्याम् ।
 संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन
     देवासुरा विगलित स्तनपट्टिकान्ताम् ॥ १८ ॥
(अनुष्टुप्)
असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।
 मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९ ॥
 कल्पयित्वा पृथक् पंक्तीः उभयेषां जगत्पतिः ।
 तांश्चोपवेशयामास स्वेषु स्वेषु च पंक्तिषु ॥ २० ॥
 दैत्यान् गृहीतकलसो वञ्चयन् उपसञ्चरैः ।
 दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥
 ते पालयन्तः समयं असुराः स्वकृतं नृप ।
 तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२ ॥
 तस्यां कृतातिप्रणयाः प्रणयापायकातराः ।
 बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३ ॥
 देवलिङ्‌गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।
 प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः ॥ २४ ॥
 चक्रेण क्षुरधारेण जहार पिबतः शिरः ।
 हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥
 शिरस्त्वमरतां नीतं अजो ग्रहमचीकॢपत् ।
 यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधीः ॥ २६ ॥
 पीतप्रायेऽमृते देवैः भगवान् लोकभावनः ।
 पश्यतां असुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७ ॥
 एवं सुरासुरगणाः समदेशकाल
     हेत्वर्थकर्ममतयोऽपि फले विकल्पाः ।
 तत्रामृतं सुरगणाः फलमञ्जसापुः
     यत्पादपंकजरजःश्रयणान्न दैत्याः ॥ २८ ॥
 यद् युज्यतेऽसुवसुकर्ममनोवचोभिः
     देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् ।
 तैरेव सद्‍भवति यत् क्रियतेऽपृथक्त्वात्
     सर्वस्य तद्‍भवति मूलनिषेचनं यत् ॥ २९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ ९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥