श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ११ →


देवासुरसंग्रामः, तत्र दैत्यमायानिर्माणं, हरेः प्राकट्यं मायानिरासश्च -


श्रीशुक उवाच -
(अनुष्टुप्)
इति दानवदैतेया नाविन्दन् अमृतं नृप ।
 युक्ताः कर्मणि यत्ताश्च वासुदेवपरांमुखाः ॥ १ ॥
 साधयित्वामृतं राजन् पाययित्वा स्वकान्सुरान् ।
 पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ २ ॥
 सपत्‍नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः ।
 अमृष्यमाणा उत्पेतुः देवान् प्रत्युद्यतायुधाः ॥ ३ ॥
 ततः सुरगणाः सर्वे सुधया पीतयैधिताः ।
 प्रतिसंयुयुधुः शस्त्रैः नारायणपदाश्रयाः ॥ ४ ॥
 तत्र दैवासुरो नाम रणः परमदारुणः ।
 रोधस्युदन्वतो राजन् तुमुलो रोमहर्षणः ॥ ५ ॥
 तत्रान्योन्यं सपत्‍नास्ते संरब्धमनसो रणे ।
 समासाद्यासिभिर्बाणैः निजघ्नुर्विविधायुधैः ॥ ६ ॥
 शंखतूर्यमृदंगानां भेरीडमरिणां महान् ।
 हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत् ॥ ७ ॥
 रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।
 हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥ ८ ॥
 उष्ट्रैः केचिदिभैः केचिद् अपरे युयुधुः खरैः ।
 केचिद्‍गौरमृगैः ऋक्षैः द्वीपिभिर्हरिभिर्भटाः ॥ ९ ॥
 गृध्रैः कंकैर्बकैरन्ये श्येनभासैस्तिमिंगिलैः ।
 शरभैर्महिषैः खड्गैः गोवृषैर्गवयारुणैः ॥ ॥
 शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः ।
 बस्तैरेके कृष्णसारैः हंसैरन्ये च सूकरैः ॥ ११ ॥
 अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः ।
 सेनयोरुभयो राजन् विविशुस्तेऽग्रतोऽग्रतः ॥ १२ ॥
 चित्रध्वजपटै राजन् आतपत्रैः सितामलैः ।
 महाधनैर्वज्रदण्डैः व्यजनैर्बार्हचामरैः ॥ १३ ॥
 वातोद्धूतोत्तरोष्णीषैः अर्चिर्भिर्वर्मभूषणैः ।
 स्फुरद्‌भिः विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ १४ ॥
 देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन ।
 रेजतुर्वीरमालाभिः यादसामिव सागरौ ॥ १५ ॥
 वैरोचनो बलिः संख्यै सोऽसुराणां चमूपतिः ।
 यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ १६ ॥
 सर्वसांग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
 अप्रतर्क्यं अनिर्देश्यं दृश्यमानमदर्शनम् ॥ १७ ॥
 आस्थितस्तद् विमानाग्र्यं सर्वानीकाधिपैर्वृतः ।
 बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ १८ ॥
 तस्यासन् सर्वतो यानैः यूथानां पतयोऽसुराः ।
 नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ १९ ॥
 द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः ।
 शकुनिर्भूतसंतापो वज्रदंष्ट्रो विरोचनः ॥ २० ॥
 हयग्रीवः शंकुशिराः कपिलो मेघदुन्दुभिः ।
 तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ २१ ॥
 अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः ।
 अन्ये पौलोमकालेया निवातकवचादयः ॥ २२ ॥
 अलब्धभागाः सोमस्य केवलं क्लेशभागिनः ।
 सर्व एते रणमुखे बहुशो निर्जितामराः ॥ २३ ॥
 सिंहनादान् विमुञ्चन्तः शंखान् दध्मुर्महारवान् ।
 दृष्ट्वा सपत्‍नानुत्सिक्तान् बलभित् कुपितो भृशम् ॥ २४ ॥
 ऐरावतं दिक्करिणं आरूढः शुशुभे स्वराट् ।
 यथा स्रवत्प्रस्रवणं उदयाद्रिमहर्पतिः ॥ २५ ॥
 तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः ।
 लोकपालाः सहगणैः वाय्वग्निवरुणादयः ॥ २६ ॥
 तेऽन्योन्यं अभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः ।
 आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ २७ ॥
 युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।
 वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना ॥ २८ ॥
 यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।
 शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ २९ ॥
 अपराजितेन नमुचिः अश्विनौ वृषपर्वणा ।
 सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥ ३० ॥
 राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः ।
 निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ ३१ ॥
 वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।
 इल्वलः सह वातापिः ब्रह्मपुत्रैररिन्दम ॥ ३२ ॥
 कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
 बृहस्पतिश्च उशनसा नरकेण शनैश्चरः ॥ ३३ ॥
 मरुतो निवातकवचैः कालेयैर्वसवोऽमराः ।
 विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ ३४ ॥
 त एवमाजावसुराः सुरेन्द्रा
     द्वन्द्वेन संहत्य च युध्यमानाः ।
 अन्योन्यमासाद्य निजघ्नुरोजसा
     जिगीषवस्तीक्ष्ण शरासितोमरैः ॥ ३५ ॥
 भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः
     शक्त्युल्मुकैः प्रासपरश्वधैरपि ।
 निस्त्रिंशभल्लैः परिघैः समुद्‍गरैः
     सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ ३६ ॥
 गजास्तुर~घ्गाः सरथाः पदातयः
     सारोहवाहा विविधा विखण्डिताः ।
 निकृत्तबाहूरु शिरोधराङ्‌घ्रयझ्
     छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ ३७ ॥
 तेषां पदाघातरथांगचूर्णिता-
     दायोधनादुल्बण उत्थितस्तदा ।
 रेणुर्दिशः खं द्युमणिं च छादयन्
     न्यवर्ततासृक्‌स्रुतिभिः परिप्लुतात् ॥ ३८ ॥
 शिरोभिरुद्धूतकिरीटकुण्डलैः
     संरम्भदृग्भिः परिदष्टदच्छदैः ।
 महाभुजैः साभरणैः सहायुधैः
     सा प्रास्तृता भूः करभोरुभिर्बभौ ॥ ३९ ॥
(अनुष्टुप्)
कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः ।
 उद्यतायुधदोर्दण्डैः आधावन्तो भटान् मृधे ॥ ४० ॥
 बलिर्महेन्द्रं दशभिः त्रिभिरैरावतं शरैः ।
 चतुर्भिश्चतुरो वाहान् एकेनारोहमार्च्छयत् ॥ ४१ ॥
 स तान् आपततः शक्रः तावद्‌भिः शीघ्रविक्रमः ।
 चिच्छेद निशितैर्भल्लैः असम्प्राप्तान् हसन्निव ॥ ४२ ॥
 तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे ।
 तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ ४३ ॥
 ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः ।
 यद् यद् शस्त्रं समादद्यात् सर्वं तदच्छिनद् विभुः ॥ ४४ ॥
 ससर्जाथासुरीं मायां अन्तर्धानगतोऽसुरः ।
 ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो ॥ ४५ ॥
 ततो निपेतुस्तरवो दह्यमाना दवाग्निना ।
 शिलाः सटंकशिखराः चूर्णयन्त्यो द्विषद्‍बलम् ॥ ४६ ॥
 महोरगाः समुत्पेतुः दन्दशूकाः सवृश्चिकाः ।
 सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान् ॥ ४७ ॥
 यातुधान्यश्च शतशः शूलहस्ता विवाससः ।
 छिन्धि भिन्धीति वादिन्यः तथा रक्षोगणाः प्रभो ॥ ४८ ॥
 ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः ।
 अंगारान् मुमुचुर्वातैः आहताः स्तनयित्‍नवः ॥ ४९ ॥
 सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः ।
 सांवर्तक इवात्युग्रो विबुध ध्वजिनीमधाक् ॥ ५० ॥
 ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।
 प्रचण्डवातैरुद्धूत तरंगावर्तभीषणः ॥ ५१ ॥
 एवं दैत्यैर्महामायैः अलक्ष्यगतिभीषणैः ।
 सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ ५२ ॥
 न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप ।
 ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः ॥ ५३ ॥
 ततः सुपर्णांसकृतांघ्रिपल्लवः
     पिशंगवासा नवकञ्जलोचनः ।
 अदृश्यताष्टायुधबाहुरुल्लसत्
     श्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ ५४ ॥
 तस्मिन्प्रविष्टेऽसुरकूटकर्मजा
     माया विनेशुर्महिना महीयसः ।
 स्वप्नो यथा हि प्रतिबोध आगते
     हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥ ५५ ॥
 दृष्ट्वा मृधे गरुडवाहमिभारिवाह
     आविध्य शूलमहिनोदथ कालनेमिः ।
 तल्लीलया गरुडमूर्ध्नि पतद्‍गृहीत्वा
     तेनाहनन्नृप सवाहमरिं त्र्यधीशः ॥ ५६ ॥
 माली सुमाल्यतिबलौ युधि पेततुर्यत्
     चक्रेण कृत्तशिरसावथ माल्यवांस्तम् ।
 आहत्य तिग्मगदयाहनदण्डजेन्द्रं
     तावत् शिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः ॥ ५७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे देवासुरसंग्रामे दशमोऽध्यायः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥