श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०९ →


उदधेरन्यान्यरत्‍नानां उत्पत्तिः, लक्ष्म्या आविर्भावः,
तया भगवतो वरणंच, दैत्यैश्च हृते सुधाकलशे भगवतो मोहिनीरूपधारणम् -


श्रीशुक उवाच -
(अनुष्टुप्)
पीते गरे वृषाङ्‌केण प्रीतास्तेऽमरदानवाः ।
 ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥ १ ॥
 तामग्निहोत्रीं ऋषयो जगृहुर्ब्रह्मवादिनः ।
 यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ २ ॥
 तत उच्चैःश्रवा नाम हयोऽभूत् चन्द्रपाण्डुरः ।
 तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ ३ ॥
 तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
 दन्तैश्चतुर्भिः श्वेताद्रेः हरन् भगवतो महिम् ॥ ४ ॥
 कौस्तुभाख्यमभूद् रत्‍नं पद्मरागो महोदधेः ।
 तस्मिन्मणौ स्पृहां चक्रे वक्षोऽलङ्‌करणे हरिः ॥ ५ ॥
 ततोऽभवत् पारिजातः सुरलोकविभूषणम् ।
 पूरयत्यर्थिनो योऽर्थैः शश्वद्‍भुवि यथा भवान् ॥ ६ ॥
 ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।
 रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ॥ ७ ॥
 ततश्चाविरभूत्साक्षात् श्री रमा भगवत्परा ।
 रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा ॥ ८ ॥
 तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः ।
 रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः ॥ ९ ॥
 तस्या आसनमानिन्ये महेन्द्रो महदद्‍भुतम् ।
 मूर्तिमत्यः सरित् श्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ १० ॥
 आभिषेचनिका भूमिः आहरत् सकलौषधीः ।
 गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ ११ ॥
 ऋषयः कल्पयां चक्रुः अभिषेकं यथाविधि ।
 जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥ १२ ॥
 मेघा मृदंगपणव मुरजानकगोमुखान् ।
 व्यनादयत् शंखवेणु वीणास्तुमुलनिःस्वनान् ॥ १३ ॥
 ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् ।
 दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः ॥ १४ ॥
 समुद्रः पीतकौशेय वाससी समुपाहरत् ।
 वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ १५ ॥
 भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।
 हारं सरस्वती पद्मं अजो नागाश्च कुण्डले ॥ १६ ॥
 ततः कृतस्वस्त्ययनोत्पलस्रजं
     नदद् द्विरेफां परिगृह्य पाणिना ।
 चचाल वक्त्रं सुकपोलकुण्डलं
     सव्रीडहासं दधती सुशोभनम् ॥ १७ ॥
 स्तनद्वयं चातिकृशोदरी समं
     निरन्तरं चन्दनकुंमोक्षितम् ।
 ततस्ततो नूपुरवल्गु शिञ्जितैः
     विसर्पती हेमलतेव सा बभौ ॥ १८ ॥
 विलोकयन्ती निरवद्यमात्मनः
     पदं ध्रुवं चाव्यभिचारिसद्‍गुणम् ।
 गन्धर्वसिद्धासुरयक्षचारण
     त्रैविष्टपेयादिषु नान्वविन्दत ॥ १९ ॥
 नूनं तपो यस्य न मन्युनिर्जयो
     ज्ञानं क्वचित् तच्च न संगवर्जितम् ।
 कश्चिन्महान् तस्य न कामनिर्जयः
     स ईश्वरः किं परतो व्यपाश्रयः ॥ २० ॥
 धर्मः क्वचित् तत्र न भूतसौहृदं
     त्यागः क्वचित् तत्र न मुक्तिकारणम् ।
 वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं
     न हि द्वितीयो गुणसंगवर्जितः ॥ २१ ॥
 क्वचित् चिरायुर्न हि शीलमंगलं
     क्वचित् तदप्यस्ति न वेद्यमायुषः ।
 यत्रोभयं कुत्र च सोऽप्यमंगलः
     सुमंगलः कश्च न कांक्षते हि माम् ॥ २२ ॥
 एवं विमृश्याव्यभिचारिसद्‍गुणैः
     वरं निजैकाश्रयतया गुणाश्रयम् ।
 वव्रे वरं सर्वगुणैरपेक्षितं
     रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ २३ ॥
 तस्यांसदेश उशतीं नवकञ्जमालां
     माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् ।
 तस्थौ निधाय निकटे तदुरः स्वधाम
     सव्रीडहासविकसन् नयनेन याता ॥ २४ ॥
 तस्याः श्रियस्त्रिजगतो जनको जनन्या
     वक्षो निवासमकरोत् परमं विभूतेः ।
 श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन
     यत्र स्थितैधयत साधिपतीन् त्रिलोकान् ॥ २५ ॥
(अनुष्टुप्)
शंखतूर्यमृदंगानां वादित्राणां पृथुः स्वनः ।
 देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ २६ ॥
 ब्रह्मरुद्राङ्‌गिरोमुख्याः सर्वे विश्वसृजो विभुम् ।
 ईडिरेऽवितथैर्मन्त्रैः तल्लिङ्‌गैः पुष्पवर्षिणः ॥ २७ ॥
 श्रियावलोकिता देवाः सप्रजापतयः प्रजाः ।
 शीलादिगुणसंपन्ना लेभिरे निर्वृतिं पराम् ॥ २८ ॥
 निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः ।
 यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥ २९ ॥
 अथासीत् वारुणी देवी कन्या कमललोचना ।
 असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ ३० ॥
 अथ उदधेर्मथ्यमानात् काश्यपैः अमृतार्थिभिः ।
 उदतिष्ठन् महाराज पुरुषः परमाद्‍भुतः ॥ ३१ ॥
 दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।
 श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ ३२ ॥
 पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः ।
 स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ॥ ३३ ॥
 अमृतापूर्णकलशं बिभ्रद् वलयभूषितः ।
 स वै भगवतः साक्षात् विष्णोरंशांशसम्भवः ॥ ३४ ॥
 धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् ।
 तं आलोक्यासुराः सर्वे कलसं चामृताभृतम् ॥ ३५ ॥
 लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् ।
 नीयमानेऽसुरैस्तस्मिन् कलसेऽमृतभाजने ॥ ३६ ॥
 विषण्णमनसो देवा हरिं शरणमाययुः ।
 इति तद् दैन्यमालोक्य भगवान् भृत्यकामकृत् ।
 मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ॥ ३७ ॥
 मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् ।
 अहं पूर्वं अहं पूर्वं न त्वं न त्वं इति प्रभो ॥ ३८ ॥
 देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः ।
 सत्रयाग इवैतस्मिन् एष धर्मः सनातनः ॥ ३९ ॥
 इति स्वान् प्रत्यषेधन्वै दैतेया जातमत्सराः ।
 दुर्बलाः प्रबलान् राजन् गृहीतकलशान् मुहुः ॥ ४० ॥
 एतस्मिन् अंतरे विष्णुः सर्वोपायविदीश्वरः ।
 योषिद् रूपमनिर्देश्यं दधारपरमाद्‍भुतम् ॥ ४१ ॥
 प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् ।
 समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ ४२ ॥
 नवयौवननिर्वृत्त स्तनभारकृशोदरम् ।
 मुखामोदानुरक्तालि झंकारोद्विग्नलोचनम् ॥ ४३ ॥
 बिभ्रत् स्वकेशभारेण मालां उत्फुल्लमल्लिकाम् ।
 सुग्रीवकण्ठाभरणं सुभुजाङ्‌गदभूषितम् ॥ ४४ ॥
 विरजाम्बरसंवीत नितम्बद्वीपशोभया ।
 काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ॥ ४५ ॥
 सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः ।
 दैत्ययूथपचेतःसु कामं उद्दीपयन् मुहुः ॥ ४६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे भगवन्मायोपलम्भनं नाम अष्टमोऽध्यायः ॥ ८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥