श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०८ →



समुद्रमंथनारम्भः, समुद्रोद्‍भूतहालाहलविषभयेन
भीतेर्देवैः स्तुतस्य भगवतः शिवस्य विषपानं च -




श्रीशुक उवाच -
(अनुष्टुप्)
ते नागराजमामंत्र्य फलभागेन वासुकिम् ।
 परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ १ ॥
 आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह ।
 हरिः पुरस्तात् जगृहे पूर्वं देवास्ततोऽभवन् ॥ २ ॥
 तन्नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् ।
 न गृह्णीमो वयं पुच्छं अहेरङ्‌गं अमंगलम् ॥ ३ ॥
 स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।
 इति तूष्णीं स्थिताब् दैत्यान् विलोक्य पुरुषोत्तमः ।
 स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ ४ ॥
 कृतस्थानविभागास्त एवं कश्यपनन्दनाः ।
 ममन्थुः परमायत्ता अमृतार्थं पयोनिधिम् ॥ ५ ॥
 मथ्यमानेऽर्णवे सोऽद्रिः अनाधारो ह्यपोऽविशत् ।
 ध्रियमाणोऽपि बलिभिः गौरवात् पाण्डुनन्दन ॥ ६ ॥
 ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः ।
 आसन्स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ ७ ॥
 विलोक्य विघ्नेशविधिं तदेश्वरो
     दुरन्तवीर्योऽवितथाभिसन्धिः ।
 कृत्वा वपुः कच्छपमद्‍भुतं महत्
     प्रविश्य तोयं गिरिमुज्जहार ॥ ८ ॥
 तमुत्थितं वीक्ष्य कुलाचलं पुनः
     समुद्यता निर्मथितुं सुरासुराः ।
 दधार पृष्ठेन स लक्षयोजन
     प्रस्तारिणा द्वीप इवापरो महान् ॥ ९ ॥
 सुरासुरेन्द्रैर्भुजवीर्यवेपितं
     परिभ्रमन्तं गिरिमङ्‌ग पृष्ठतः ।
 बिभ्रत् तदावर्तनमादिकच्छपो
     मेनेङ्‌गकण्डूयनमप्रमेयः ॥ १० ॥
 तथासुरानाविशदासुरेण
     रूपेण तेषां बलवीर्यमीरयन् ।
 उद्दीपयन्देवगणांश्च विष्णुः
     दैवेन नागेन्द्रमबोधरूपः ॥ ११ ॥
 उपर्यगेन्द्रं गिरिराड् इवान्य
     आक्रम्य हस्तेन सहस्रबाहुः ।
 तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैः
     अभिष्टुवद्‌भिः सुमनोऽभिवृष्टः ॥ १२ ॥
 उपर्यधश्चात्मनि गोत्रनेत्रयोः
     परेण ते प्राविशता समेधिताः ।
 ममन्थुरब्धिं तरसा मदोत्कटा
     महाद्रिणा क्षोभितनक्रचक्रम् ॥ १३ ॥
 अहीन्द्रसाहस्रकठोरदृङ्‌मुख
     श्वासाग्निधूमाहतवर्चसोऽसुराः ।
 पौलोमकालेयबलील्वलादयो
     दवाग्निदग्धाः सरला इवाभवन् ॥ १४ ॥
 देवांश्च तच्छ्वासशिखाहतप्रभान्
     धूम्राम्बरस्रग् वरकञ्चुकाननान् ।
 समभ्यवर्षन् भगवद्वशा घना
     ववुः समुद्रोर्म्युपगूढवायवः ॥ १५ ॥
 मथ्यमानात्तथा सिन्धोः देवासुरवरूथपैः ।
(अनुष्टुप्)
यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ १६ ॥
 मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन्
     मूर्ध्नि भ्राजद् विलुलितकचः स्रग्धरो रक्तनेत्रः ।
 जैत्रैर्दोर्भिर्जगदभयदैः दन्दशूकं गृहीत्वा
     मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ १७ ॥
 निर्मथ्यमानाद् उदधेरभूद्विषं
     महोल्बणं हालहलाह्वमग्रतः ।
 सम्भ्रान्तमीनोन् मकराहिकच्छपात्
     तिमिद्विपग्राहतिमिंगलाकुलात् ॥ १८ ॥
 तदुग्रवेगं दिशि दिश्युपर्यधो
     विसर्पदुत्सर्पदसह्यमप्रति ।
 भीताः प्रजा दुद्रुवुरङ्‌ग सेश्वरा
     अरक्ष्यमाणाः शरणं सदाशिवम् ॥ १९ ॥
 विलोक्य तं देववरं त्रिलोक्या
     भवाय देव्याभिमतं मुनीनाम् ।
 आसीनमद्रावपवर्गहेतोः
     तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ २० ॥
 श्रीप्रजापतय ऊचुः -
(अनुष्टुप्)
देवदेव महादेव भूतात्मन् भूतभावन ।
 त्राहि नः शरणापन्नान् त्रैलोक्यदहनाद्विषात् ॥ २१ ॥
 त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः ।
 तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ २२ ॥
 गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो ।
 धत्से यदा स्वदृग्भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ २३ ॥
 त्वं ब्रह्म परमं गुह्यं सदसद्‍भावभावनम् ।
 नानाशक्तिभिराभातः त्वमात्मा जगदीश्वरः ॥ २४ ॥
 त्वं शब्दयोनिर्जगदादिरात्मा
     प्राणेन्द्रियद्रव्यगुणः स्वभावः ।
 कालः क्रतुः सत्यमृतं च धर्मः
     त्वय्यक्षरं यत्त्रिवृदामनन्ति ॥ २५ ॥
 अग्निर्मुखं तेऽखिलदेवतात्मा
     क्षितिं विदुर्लोकभवाङ्‌घ्रिपंकजम् ।
 कालं गतिं तेऽखिलदेवतात्मनो
     दिशश्च कर्णौ रसनं जलेशम् ॥ २६ ॥
 नाभिर्नभस्ते श्वसनं नभस्वान्
     सूर्यश्च चक्षूंषि जलं स्म रेतः ।
 परावरात्माश्रयणं तवात्मा
     सोमो मनो द्यौर्भगवन् शिरस्ते ॥ २७ ॥
 कुक्षिः समुद्रा गिरयोऽस्थिसंघा
     रोमाणि सर्वौषधिवीरुधस्ते ।
 छन्दांसि साक्षात् तव सप्त धातवः
     त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ २८ ॥
 मुखानि पञ्चोपनिषदस्तवेश
     यैस्त्रिंशदष्टोत्तरमंत्रवर्गः ।
 यत्तत् शिवाख्यं परमात्मतत्त्वं
     देव स्वयंज्योतिरवस्थितिस्ते ॥ २९ ॥
 छाया त्वधर्मोर्मिषु यैर्विसर्गो
     नेत्रत्रयं सत्त्वरजस्तमांसि ।
 सांख्यात्मनः शास्त्रकृतस्तवेक्षा
     छन्दोमयो देव ऋषिः पुराणः ॥ ३० ॥
 न ते गिरित्राखिललोकपाल
     विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् ।
 ज्योतिः परं यत्र रजस्तमश्च
     सत्त्वं न यद्‍ब्रह्म निरस्तभेदम् ॥ ३१ ॥
 कामाध्वरत्रिपुरकालगराद्यनेक
     भूतद्रुहः क्षपयतः स्तुतये न तत् ते ।
 यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र
     वह्निस्फुलिंगशिखया भसितं न वेद ॥ ३२ ॥
 ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्‌घ्रि
     द्वन्द्वं चरन्तमुमया तपसाभितप्तम् ।
 कत्थन्त उग्रपरुषं निरतं श्मशाने
     ते नूनमूतिमविदंस्तव हातलज्जाः ॥ ३३ ॥
 तत्तस्य ते सदसतोः परतः परस्य
     नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः ।
 ब्रह्मादयः किमुत संस्तवने वयं तु
     तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ ३४ ॥
(अनुष्टुप्)
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
 मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥ ३५ ॥
 श्रीशुक उवाच -
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।
 सर्वभूतसुहृद् देव इदमाह सतीं प्रियाम् ॥ ३६ ॥
 श्रीशिव उवाच -
अहो बत भवान्येतत् प्रजानां पश्य वैशसम् ।
 क्षीरोदमथनोद्‍भूतात् कालकूटाद् उपस्थितम् ॥ ३७ ॥
 आसां प्राणपरीप्सूनां विधेयं अभयं हि मे ।
 एतावान् हि प्रभोरर्थो यद् दीनपरिपालनम् ॥ ३८ ॥
 प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभंगुरैः ।
 बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ ३९ ॥
 पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
 प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ।
 तस्मात् इदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ ४० ॥
 श्रीशुक उवाच -
एवमामंत्र्य भगवान् भवानीं विश्वभावनः ।
 तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ४१ ॥
 ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
 अभक्षयन् महादेवः कृपया भूतभावनः ॥ ४२ ॥
 तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः ।
 यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥ ४३ ॥
 तप्यन्ते लोकतापेन साधवः प्रायशो जनाः ।
 परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ ४४ ॥
 निशम्य कर्म तच्छम्भोः देवदेवस्य मीढुषः ।
 प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ ४५ ॥
 प्रस्कन्नं पिबतः पाणेः यत् किञ्चित् जगृहुः स्म तत् ।
 वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ॥ ४६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे अमृतमथने सप्तमोऽध्यायः ॥ ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥