श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०२ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०४ →



गजेंद्रकर्तृकं भगवत्स्तवनं, ग्राहाद् गजेंद्रमोक्षणं च -



श्रीबादरायणिरुवाच -
(अनुष्टुप्) एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
 जजाप परमं जाप्यं प्राग्जन्मनि अनुशिक्षितम् ॥ १ ॥
 श्रीगजेन्द्र उवाच -
ॐ नमो भगवते तस्मै यत एतद् चिदात्मकम् ।
 पुरुषाय आदिबीजाय परेशायाभिधीमहि ॥ २ ॥
 यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
 योऽस्मात् परस्माच्च परः तंस्तं प्रपद्ये स्वयम्भुवम् ॥ ३ ॥
 यः स्वात्मनीदं निजमाययार्पितं
     क्वचिद्विभातं क्व च तत्तिरोहितम् ।
 अविद्धदृक् साक्ष्युभयं तदीक्षते
     स आत्ममूलोऽवतु मां परात्परः ॥ ४ ॥
 कालेन पञ्चत्वमितेषु कृत्स्नशो
     लोकेषु पालेषु च सर्वहेतुषु ।
 तमस्तदासीद् गहनं गभीरं
     यस्तस्य पारेऽभिविराजते विभुः ॥ ५ ॥
 न यस्य देवा ऋषयः पदं विदुः
     जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् ।
 यथा नटस्याकृतिभिर्विचेष्टतो
     दुरत्ययानुक्रमणः स मावतु ॥ ६ ॥
 दिदृक्षवो यस्य पदं सुमंगलं
     विमुक्तसंगा मुनयः सुसाधवः ।
 चरन्त्यलोकव्रतमव्रणं वने
     भूतात्मभूताः सुहृदः स मे गतिः ॥ ७ ॥
 न विद्यते यस्य च जन्म कर्म वा
     न नामरूपे गुणदोष एव वा ।
 तथापि लोकाप्ययसम्भवाय यः
     स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥
(अनुष्टुप्)
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
 अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ ९ ॥
 नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
 नमो गिरां विदूराय मनसश्चेतसामपि ॥ १० ॥
 सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
 नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥
 नमः शान्ताय घोराय मूढाय गुणधर्मिणे ।
 निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥
 क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
 पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३ ॥
 सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
 असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४ ॥
 नमो नमस्तेऽखिलकारणाय
     निष्कारणायाद्‍भुतकारणाय ।
 सर्वागमाम्नायमहार्णवाय
     नमोऽपवर्गाय परायणाय ॥ १५ ॥
 गुणारणिच्छन्नचिदुष्मपाय
     तत्क्षोभविस्फूर्जितमानसाय ।
 नैष्कर्म्यभावेन विवर्जितागम
     स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥
 मादृक् प्रपन्नपशुपाश विमोक्षणाय
     मुक्ताय भूरिकरुणाय नमोऽलयाय ।
 स्वांशेन सर्वतनुभृन् मनसि प्रतीत
     प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १७ ॥
 आत्मात्मजाप्तगृहवित्तजनेषु सक्तैः
     दुष्प्रापणाय गुणसंगविवर्जिताय ।
 मुक्तात्मभिः स्वहृदये परिभाविताय
     ज्ञानात्मने भगवते नम ईश्वराय ॥ १८ ॥
 यं धर्मकामार्थविमुक्तिकामा
     भजन्त इष्टां गतिमाप्नुवन्ति ।
 किं चाशिषो रात्यपि देहमव्ययं
     करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९ ॥
 एकान्तिनो यस्य न कञ्चनार्थं
     वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
 अत्यद्‍भुतं तच्चरितं सुमंगलं
     गायन्त आनन्दसमुद्रमग्नाः ॥ २० ॥
 तमक्षरं ब्रह्म परं परेशं
     अव्यक्तमाध्यात्मिकयोग गम्यम् ।
 अतीन्द्रियं सूक्ष्ममिवातिदूरं
     अनन्तमाद्यं परिपूर्णमीडे ॥ २१ ॥
(अनुष्टुप्)
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।
 नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२ ॥
 यथार्चिषोऽग्नेः सवितुर्गभस्तयो
     निर्यान्ति संयान्त्यसकृत्स्वरोचिषः ।
 तथा यतोऽयं गुणसम्प्रवाहो
     बुद्धिर्मनः खानि शरीरसर्गाः ॥ २३ ॥
 स वै न देवासुरमर्त्यतिर्यङ्
     न स्त्री न षण्ढो न पुमान्न जन्तुः ।
 नायं गुणः कर्म न सन्न चासन्
     निषेधशेषो जयतादशेषः ॥ २४ ॥
 जिजीविषे नाहमिहामुया किम्
     अन्तर्बहिश्चावृतयेभयोन्या ।
 इच्छामि कालेन न यस्य विप्लवः
     तस्यात्मलोकावरणस्य मोक्षम् ॥ २५ ॥
(अनुष्टुप्)
सोऽहं विश्वसृजं विश्वं अविश्वं विश्ववेदसम् ।
 विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६ ॥
 योगरन्धितकर्माणो हृदि योगविभाविते ।
 योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् ॥ २७ ॥
 नमो नमस्तुभ्यमसह्यवेग
     शक्तित्रयायाखिलधीगुणाय ।
 प्रपन्नपालाय दुरन्तशक्तये
     कदिन्द्रियाणां अनवाप्यवर्त्मने ॥ २८ ॥
(अनुष्टुप्)
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् ।
 तं दुरत्ययमाहात्म्यं भगवन्तं इतोऽस्म्यहम् ॥ २९ ॥
 श्रीशुक उवाच -
एवं गजेन्द्रमुपवर्णितनिर्विशेषं
     ब्रह्मादयो विविधलिंगभिदाभिमानाः ।
 नैते यदोपससृपुर्निखिलात्मकत्वात्
     तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥
 तं तद्वदार्तमुपलभ्य जगन्निवासः
     स्तोत्रं निशम्य दिविजैः सह संस्तुवद्‌भिः ।
 छन्दोमयेन गरुडेन समुह्यमानः
     चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१ ॥
 सोऽन्तःसरस्युरुबलेन गृहीत आर्तो
     दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् ।
 उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रात्
     नारायणाखिलगुरो भगवन्नमस्ते ॥ ३२ ॥
 तं वीक्ष्य पीडितमजः सहसावतीर्य
     सग्राहमाशु सरसः कृपयोज्जहार ।
 ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं
     संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥ ३३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे गजेन्द्रमोक्षणे तृतीयोऽध्यायः ॥ ३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥