श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०३ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ०५ →



गजाग्राहयोः पूर्वजन्मचरितः तयोरुद्धारश्च -



श्रीशुक उवाच -
(अनुष्टुप्)
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः ।
 मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ १ ॥
 नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
 ऋषयश्चारणाः सिद्धः तुष्टुवुः पुरुषोत्तमम् ॥ २ ॥
 योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् ।
 मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥ ३ ॥
 प्रणम्य शिरसाधीशं उत्तमश्लोकमव्ययम् ।
 अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥
 सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
 लोकस्य पश्यतो लोकं स्वं अगान्मुक्तकिल्बिषः ॥ ५ ॥
 गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् ।
 प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ ६ ॥
 स वै पूर्वं अभूद् राजा पाण्ड्यो द्रविडसत्तमः ।
 इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ ७ ॥
 स एकदाराधनकाल आत्मवान्
     गृहीतमौनव्रत ईश्वरं हरिम् ।
 जटाधरस्तापस आप्लुतोऽच्युतं
     समर्चयामास कुलाचलाश्रमः ॥ ८ ॥
 यदृच्छया तत्र महायशा मुनिः
     समागमत् शिष्यगणैः परिश्रितः ।
 तं वीक्ष्य तूष्णीमकृतार्हणादिकं
     रहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥
 तस्मा इमं शापमदादसाधुः
     अयं दुरात्माकृतबुद्धिरद्य ।
 विप्रावमन्ता विशतां तमोऽन्धं
     यथा गजः स्तब्धमतिः स एव ॥ १० ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।
 इन्द्रद्युम्नोऽपि राजर्षिः दिष्टं तदुपधारयन् ॥ ११ ॥
 आपन्नः कौञ्जरीं योनिं आत्मस्मृतिविनाशिनीम् ।
 हर्यर्चनानुभावेन यद्‍गजत्वेऽप्यनुस्मृतिः ॥ १२ ॥
 एवं विमोक्ष्य गजयूथपमब्जनाभः
     तेनापि पार्षदगतिं गमितेन युक्तः ।
 गन्धर्वसिद्धविबुधैः उपगीयमान
     कर्माद्‍भुतं स्वभवनं गरुडासनोऽगात् ॥ १३ ॥
 एतन्महाराज तवेरितो मया
     कृष्णानुभावो गजराजमोक्षणम् ।
 स्वर्ग्यं यशस्यं कलिकल्मषापहं
     दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥ १४ ॥
(अनुष्टुप्)
यथानुकीर्तयन्त्येतत् श्रेयस्कामा द्विजातयः ।
 शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ १५ ॥
 इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।
 श्रृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ १६ ॥
 श्रीभगवानुवाच -
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् ।
 वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥
 श्रृंगाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
 क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥
 श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
 सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥
 शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् ।
 ब्रह्माणं नारदं ऋषिं भवं प्रह्रादमेव च ॥ २० ॥
 मत्स्यकूर्मवराहाद्यैः अवतारैः कृतानि मे ।
 कर्माणि अनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥
 प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् ।
 दाक्षायणीर्धर्मपत्‍नीः सोमकश्यपयोरपि ॥ २२ ॥
 गंगां सरस्वतीं नन्दां कालिन्दीं सितवारणम् ।
 ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥
 उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।
 स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात् ॥ २४ ॥
 ये मां स्तुवन्त्यनेनाङ्‌ग प्रतिबुध्य निशात्यये ।
 तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ २५ ॥
 श्रीशुक उवाच -
इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम् ।
 हर्षयन् विबुधानीकं आरुरोह खगाधिपम् ॥ २६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः ॥ ४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥