सामग्री पर जाएँ

श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०८ →



मातुर्गर्भे स्थितस्य प्रह्रादस्य देवर्षिनारदमुखात् उपदेशश्रवणम् -


नारद उवाच -
(अनुष्टुप्)
एवं दैत्यसुतैः पृष्टो महाभागवतोऽसुरः ।
 उवाच स्मयमानस्तान् स्मरन् मदनुभाषितम् ॥ १ ॥
 प्रह्राद उवाच -
पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।
 युद्धोद्यमं परं चक्रुः विर्विबुधा दानवान्प्रति ॥ २ ॥
 पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः ।
 पापेन पापोऽभक्षीति वदन्तो वासवादयः ॥ ३ ॥
 तेषामतिबलोद्योगं निशम्यासुरयूथपाः ।
 वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥ ४ ॥
 कलत्रपुत्रवित्ताप्तान् गृहान् पशुपरिच्छदान् ।
 नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥ ५ ॥
 व्यलुम्पन् राजशिबिरं अमरा जयकाङ्‌क्षिणः ।
 इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ ६ ॥
 नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ।
 यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ॥ ७ ॥
 प्राह नैनां सुरपते नेतुमर्हस्यनागसम् ।
 मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ ८ ॥
 इन्द्र उवाच -
आस्तेऽस्या जठरे वीर्यं अविषह्यं सुरद्विषः ।
 आस्यतां यावत्प्रसवं मोक्ष्येऽर्थपदवीं गतः ॥ ९ ॥
 नारद उवाच -
अयं निष्किल्बिषः साक्षात् महाभागवतो महान् ।
 त्वया न प्राप्स्यते संस्थां अनन्तानुचरो बली ॥ १० ॥
 इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन्वचः ।
 अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ ११ ॥
 ततो नो मातरं ऋषिः समानीय निजाश्रमम् ।
 आश्वास्येहोष्यतां वत्से यावत् ते भर्तुरागमः ॥ १२ ॥
 तथेत्यवात्सीद् देवर्षेः अन्ति साप्यकुतोभया ।
 यावद् दैत्यपतिर्घोरात् तपसो न न्यवर्तत ॥ १३ ॥
 ऋषिं पर्यचरत् तत्र भक्त्या परमया सती ।
 अन्तर्वत्‍नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ १४ ॥
 ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः ।
 धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ १५ ॥
 तत्तु कालस्य दीर्घत्वात् स्त्रीत्वात् मातुस्तिरोदधे ।
 ऋषिणानुगृहीतं मां नाधुनाप्यजहात् स्मृतिः ॥ १६ ॥
 भवतामपि भूयान्मे यदि श्रद्दधते वचः ।
 वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥ १७ ॥
 जन्माद्याः षडिमे भावा दृष्टा देहस्य नात्मनः ।
 फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ १८ ॥
 आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः ।
 अविक्रियः स्वदृग् हेतुः व्यापकोऽसङ्‌गि अनावृतः ॥ १९ ॥
 एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः ।
 अहं ममेत्यसद्‍भावं देहादौ मोहजं त्यजेत् ॥ २० ॥
 स्वर्णं यथा ग्रावसु हेमकारः
     क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ।
 क्षेत्रेषु देहेषु तथात्मयोगैः
     अध्यात्मविद् ब्रह्मगतिं लभेत ॥ २१ ॥
(अनुष्टुप्)
अष्टौ प्रकृतयः प्रोक्ताः त्रय एव हि तद्‍गुणाः ।
 विकाराः षोडशाचार्यैः पुमानेकः समन्वयात् ॥ २२ ॥
 देहस्तु सर्वसङ्‌घातो जगत् तस्थुरिति द्विधा ।
 अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत्‌ त्यजन् ॥ २३ ॥
 अन्वयव्यतिरेकेण विवेकेनोशताऽऽत्मना ।
 सर्गस्थान समाम्नायैः विमृशद्‌भिरसत्वरैः ॥ २४ ॥
 बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।
 ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥ २५ ॥
 एभिस्त्रिवर्णैः पर्यस्तैः बुद्धिभेदैः क्रियोद्‍भवैः ।
 स्वरूपमात्मनो बुध्येद् गन्धैर्वायुमिवान्वयात् ॥ २६ ॥
 एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।
 अज्ञानमूलोऽपार्थोऽपि पुंसः स्वप्न इवेष्यते ॥ २७ ॥
 तस्माद्‍भवद्‌भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् ।
 बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥ २८ ॥
 तत्रोपायसहस्राणां अयं भगवतोदितः ।
 यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ २९ ॥
 गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ।
 सङ्‌गेन साधुभक्तानां ईश्वराराधनेन च ॥ ३० ॥
 श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।
 तत्पादाम्बुरुहध्यानात् तल्लि~ङ्‌गेक्षार्हणादिभिः ॥ ३१ ॥
 हरिः सर्वेषु भूतेषु भगवानास्त ईश्वरः ।
 इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥ ३२ ॥
 एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे ।
 वासुदेवे भगवति यया संलभ्यते रतिः ॥ ३३ ॥

 निशम्य कर्माणि गुणानतुल्यान्
     वीर्याणि लीलातनुभिः कृतानि ।
 यदातिहर्षोत्पुलकाश्रुगद्‍गदं
     प्रोत्कण्ठ उद्‍गायति रौति नृत्यति ॥ ३४ ॥
 यदा ग्रहग्रस्त इव क्वचिद्धसति
     आक्रन्दते ध्यायति वन्दते जनम् ।
 मुहुः श्वसन्वक्ति हरे जगत्पते
     नारायणेत्यात्ममतिर्गतत्रपः ॥ ३५ ॥
 तदा पुमान्मुक्तसमस्तबन्धनः
     तद्‍भावभावानुकृताशयाकृतिः ।
 निर्दग्धबीजानुशयो महीयसा
     भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ ३६ ॥
 अधोक्षजालम्भमिहाशुभात्मनः
     शरीरिणः संसृतिचक्रशातनम् ।
 तद्‍ब्रह्मनिर्वाणसुखं विदुर्बुधाः
     ततो भजध्वं हृदये हृदीश्वरम् ॥ ३७ ॥
 कोऽतिप्रयासोऽसुरबालका हरेः
     उपासने स्वे हृदि छिद्रवत्सतः ।
 स्वस्यात्मनः सख्युरशेषदेहिनां
     सामान्यतः किं विषयोपपादनैः ॥ ३८ ॥
 रायः कलत्रं पशवः सुतादयो
     गृहा मही कुञ्जरकोशभूतयः ।
 सर्वेऽर्थकामाः क्षणभङ्‌गुरायुषः
     कुर्वन्ति मर्त्यस्य कियत्प्रियं चलाः ॥ ३९ ॥
 एवं हि लोकाः क्रतुभिः कृता अमी
     क्षयिष्णवः सातिशया न निर्मलाः ।
 तस्माद् अदृष्टश्रुतदूषणं परं
     भक्त्योक्तयेशं भजतात्मलब्धये ॥ ४० ॥
(अनुष्टुप्)
यदर्थ इह कर्माणि विद्वन्मान्यसकृन्नरः ।
 करोत्यतो विपर्यासं अमोघं विन्दते फलम् ॥ ४१ ॥
 सुखाय दुःखमोक्षाय सङ्‌कल्प इह कर्मिणः ।
 सदाऽऽप्नोतीहया दुःखं अनीहायाः सुखावृतः ॥ ४२ ॥
 कामान्कामयते काम्यैः यदर्थमिह पूरुषः ।
 स वै देहस्तु पारक्यो भङ्‌गुरो यात्युपैति च ॥ ४३ ॥
 किमु व्यवहितापत्य दारागारधनादयः ।
 राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः ॥ ४४ ॥
 किं एतैः आत्मनस्तुच्छैः सह देहेन नश्वरैः ।
 अनर्थैः अर्थसङ्‌काशैः नित्यानन्दरसोदधेः ॥ ४५ ॥
 निरूप्यतां इह स्वार्थः कियान् देहभृतोऽसुराः ।
 निषेकादिषु अवस्थासु क्लिश्यमानस्य कर्मभिः ॥ ४६ ॥
 कर्माण्यारभते देही देहेनात्मानुवर्तिना ।
 कर्मभिस्तनुते देहं उभयं त्वविवेकतः ॥ ४७ ॥
 तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः ।
 भजतानीहयाऽऽत्मानं अनीहं हरिमीश्वरम् ॥ ४८ ॥
 सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।
 भूतैर्महद्‌भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥ ४९ ॥
 देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा ।
 भजन्मुकुन्दचरणं स्वस्तिमान् स्याद् यथा वयम् ॥ ५० ॥
 नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः ।
 प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ ५१ ॥
 न दानं न तपो नेज्या न शौचं न व्रतानि च ।
 प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनम् ॥ ५२ ॥
 ततो हरौ भगवति भक्तिं कुरुत दानवाः ।
 आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ ५३ ॥
 दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।
 खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ ५४ ॥
 एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।
 एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम् ॥ ५५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते दैत्यपुत्रानुशासनं नाम सप्तमोऽध्यायः ॥ ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥