श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०८

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०९ →


प्रह्रादवधोद्यमः, स्तम्भात् नृसिंहवतारः,
हिरण्यकशिपोर्वधः, ब्रह्मादिदेवकर्तृकं भगवत् स्तवनं च -




नारद उवाच -
(अनुष्टुप्)
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् ।
 जगृहुर्निरवद्यत्वात् नैव गुर्वनुशिक्षितम् ॥ १ ॥
 अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।
 आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद् यथा ॥ २ ॥
 श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् ।
 कोपावेशचलद्‍गात्रः पुत्रं हन्तुं मनो दधे ॥ ३ ॥
 क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् ।
 आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥ ४ ॥
 प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ।
 सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥ ५ ॥
 हिरण्यकशिपुरुवाच -
हे दुर्विनीत मन्दात्मन् कुलभेदकराधम ।
 स्तब्धं मच्छासनोद्धूत्तं नेष्ये त्वाद्य यमक्षयम् ॥ ६ ॥
 क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।
 तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः ॥ ७ ॥
 प्रह्राद उवाच -

न केवलं मे भवतश्च राजन्
     स वै बलं बलिनां चापरेषाम् ।
 परेऽवरेऽमी स्थिरजङ्‌गमा ये
     ब्रह्मादयो येन वशं प्रणीताः ॥ ८ ॥
 स ईश्वरः काल उरुक्रमोऽसौ
     ओजः सहः सत्त्वबलेन्द्रियात्मा ।
 स एव विश्वं परमः स्वशक्तिभिः
     सृजत्यवत्यत्ति गुणत्रयेशः ॥ ९ ॥
 जह्यासुरं भावमिमं त्वमात्मनः
     समं मनो धत्स्व न सन्ति विद्विषः ।
 ऋतेऽजितादात्मन उत्पथस्थितात्
     तद्धि ह्यनन्तस्य महत्समर्हणम् ॥ १० ॥
 दस्यून्पुरा षण्णण्न विजित्य लुम्पतो
     मन्यन्त एके स्वजिता दिशो दश ।
 जितात्मनो ज्ञस्य समस्य देहिनां
     साधोः स्वमोहप्रभवाः कुतः परे ॥ ११ ॥
 हिरण्यकशिपुरुवाच -
(अनुष्टुप्)
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे ।
 मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः ॥ १२ ॥
 यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ।
 क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ १३ ॥
 सोऽहं विकत्थमानस्य शिरः कायात् हरामि ते ।
 गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ १४ ॥

 एवं दुरुक्तैर्मुहुरर्दयन् रुषा
     सुतं महाभागवतं महासुरः ।
 खड्गं प्रगृह्योत्पतितो वरासनात्
     स्तम्भं तताडातिबलः स्वमुष्टिना ॥ १५ ॥
 तदैव तस्मिन् निनदोऽतिभीषणो
     बभूव येनाण्डकटाहमस्फुटत् ।
 यं वै स्वधिष्ण्योपगतं त्वजादयः
     श्रुत्वा स्वधामात्ययमङ्‌ग मेनिरे ॥ १६ ॥
 स विक्रमन् पुत्रवधेप्सुरोजसा
     निशम्य निर्ह्रादमपूर्वमद्‍भुतम् ।
 अन्तःसभायां न ददर्श तत्पदं
     वितत्रसुर्येन सुरारियूथपाः ॥ १७ ॥
 सत्यं विधातुं निजभृत्यभाषितं
     व्याप्तिं च भूतेष्वखिलेषु चात्मनः ।
 अदृश्यतात्यद्‍भुत रूपमुद्वह
     स्तम्भे सभायां न मृगं न मानुषम् ॥ १८ ॥
 स सत्त्वमेनं परितोऽपि पश्यन्
     स्तम्भस्य मध्यादनु निर्जिहानम् ।
 नायं मृगो नापि नरो विचित्रं
     अहो किमेतत् नृमृगेन्द्ररूपम् ॥ १९ ॥
 मीमांसमानस्य समुत्थितोऽग्रतो
     नृसिंहरूपस्तदलं भयानकम् ।
 प्रतप्तचामीकरचण्डलोचनं
     स्फुरत्सटाकेशरजृम्भिताननम् ॥ २० ॥
 करालदंष्ट्रं करवालचञ्चल
     क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ।
 स्तब्धोर्ध्वकर्णं गिरिकन्दराद्‍भुत
     व्यात्तास्यनासं हनुभेदभीषणम् ॥ २१ ॥
 दिविस्पृशत्कायमदीर्घपीवर
     ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ।
 चन्द्रांशुगौरैश्छुरितं तनूरुहैः
     विष्वग्भुजानीकशतं नखायुधम् ॥ २२ ॥
 दुरासदं सर्वनिजेतरायुध
     प्रवेकविद्रावितदैत्यदानवम् ।
 प्रायेण मेऽयं हरिणोरुमायिना
     वधः स्मृतोऽनेन समुद्यतेन किम् ॥ २३ ॥
 एवं ब्रुवन् त्वभ्यपतद्‍गदायुधो
     नदन् नृसिंहं प्रति दैत्यकुञ्जरः ।
 अलक्षितोऽग्नौ पतितः पतङ्‌गमो
     यथा नृसिंहौजसि सोऽसुरस्तदा ॥ २४ ॥
 न तद्विचित्रं खलु सत्त्वधामनि
     स्वतेजसा यो नु पुरापिबत् तमः ।
 ततोऽभिपद्याभ्यहनन्महासुरो
     रुषा नृसिंहं गदयोरुवेगया ॥ २५ ॥
 तं विक्रमन्तं सगदं गदाधरो
     महोरगं तार्क्ष्यसुतो यथाग्रहीत् ।
 स तस्य हस्तोत्कलितस्तदासुरो
     विक्रीडतो यद्वदहिर्गरुत्मतः ॥ २६ ॥
 असाध्वमन्यन्त हृतौकसोऽमरा
     घनच्छदा भारत सर्वधिष्ण्यपाः ।
 तं मन्यमानो निजवीर्यशङ्‌कितं
     यद्धस्तमुक्तो नृहरिं महासुरः ।
 पुनस्तमासज्जत खड्गचर्मणी
     प्रगृह्य वेगेन गतश्रमो मृधे ॥ २७ ॥
 तं श्येनवेगं शतचन्द्रवर्त्मभिः
     चरन्तमच्छिद्रमुपर्यधो हरिः ।
 कृत्वाट्टहासं खरमुत्स्वनोल्बणं
     निमीलिताक्षं जगृहे महाजवः ॥ २८ ॥
 विष्वक् स्फुरन्तं ग्रहणातुरं हरिः
     व्यालो यथाऽऽखुं कुलिशाक्षतत्वचम् ।
 द्वार्यूर आपात्य ददार लीलया
     नखैर्यथाहिं गरुडो महाविषम् ॥ २९ ॥
 संरम्भदुष्प्रेक्ष्यकराललोचनो
     व्यात्ताननान्तं विलिहन्स्वजिह्वया ।
 असृग्लवाक्तारुणकेसराननो
     यथान्त्रमाली द्विपहत्यया हरिः ॥ ३० ॥
 नखाङ्‌कुरोत्पाटितहृत्सरोरुहं
     विसृज्य तस्यानुचरानुदायुधान् ।
 अहन् समस्तान् नखशस्त्रपाणिभिः
     दोर्दण्डयूथोऽनुपथान् सहस्रशः ॥ ३१ ॥
 सटावधूता जलदाः परापतन्
     ग्रहाश्च तद्‌दृष्टिविमुष्टरोचिषः ।
 अम्भोधयः श्वासहता विचुक्षुभुः
     निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ ३२ ॥
 द्यौस्तत्सटोत्क्षिप्तविमानसङ्‌कुला
     प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
 शैलाः समुत्पेतुरमुष्य रंहसा
     तत्तेजसा खं ककुभो न रेजिरे ॥ ३३ ॥
 ततः सभायामुपविष्टमुत्तमे
     नृपासने सम्भृततेजसं विभुम् ।
 अलक्षितद्वैरथमत्यमर्षणं
     प्रचण्डवक्त्रं न बभाज कश्चन ॥ ३४ ॥
 निशाम्य लोकत्रयमस्तकज्वरं
     तमादिदैत्यं हरिणा हतं मृधे ।
 प्रहर्षवेगोत्कलितानना मुहुः
     प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ॥ ३५ ॥
 तदा विमानावलिभिर्नभस्तलं
     दिदृक्षतां सङ्‌कुलमास नाकिनाम् ।
 सुरानका दुन्दुभयोऽथ जघ्निरे
     गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥ ३६ ॥
(अनुष्टुप्)
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ।
 ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥ ३७ ॥
 मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः ।
 यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ॥ ३८ ॥
 ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः ।
 मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
 ईडिरे नरशार्दुलं नातिदूरचराः पृथक् ॥ ३९ ॥
 ब्रह्मोवाच -
नतोऽस्म्यनन्ताय दुरन्तशक्तये
     विचित्रवीर्याय पवित्रकर्मणे ।
 विश्वस्य सर्गस्थितिसंयमान् गुणैः
     स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४० ॥
 रुद्र उवाच -
(अनुष्टुप्)
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः ।
 तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ ४१ ॥
 इन्द्र उवाच -
प्रत्यानीताः परम भवता त्रायता नः स्वभागा
     दैत्याक्रान्तं हृदयकमलं तद्‍गृहं प्रत्यबोधि ।
 कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
     मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ४२ ॥
 ऋषय ऊचुः -
त्वं नस्तपः परममात्थ यदात्मतेजो
     येनेदमादिपुरुषात्मगतं ससर्ज ।
 तद्विप्रलुप्तममुनाद्य शरण्यपाल
     रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४३ ॥
 पितर ऊचुः -
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैः
     दत्तानि तीर्थसमयेऽप्यपिबत् तिलाम्बु ।
 तस्योदरान्नखविदीर्णवपाद् य आर्च्छत् ।
     तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ४४ ॥
 सिद्धा ऊचुः -
यो नो गतिं योगसिद्धामसाधुः
     अहारषीद् योगतपोबलेन ।
 नाना दर्पं तं नखैर्निददार
     तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ४५ ॥
 विद्याधरा ऊचुः -
विद्यां पृथग्धारणयानुराद्धां
     न्यषेधदज्ञो बलवीर्यदृप्तः ।
 स येन सङ्‌ख्ये पशुवद्धतस्तं
     मायानृसिंहं प्रणताः स्म नित्यम् ॥ ४६ ॥
 नागा ऊचुः -
(अनुष्टुप्)
येन पापेन रत्‍नानि स्त्रीरत्‍नानि हृतानि नः ।
 तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ४७ ॥
 मनव ऊचुः -
मनवो वयं तव निदेशकारिणो
     दितिजेन देव परिभूतसेतवः ।
 भवता खलः स उपसंहृतः प्रभो
     करवाम ते किं अनुशाधि किङ्‌करान् ॥ ४८ ॥
 प्रजापतय ऊचुः -
प्रजेशा वयं ते परेशाभिसृष्टा
     न येन प्रजा वै सृजामो निषिद्धाः ।
 स एष त्वया भिन्नवक्षा नु शेते
     जगन्मङ्‌गलं सत्त्वमूर्तेऽवतारः ॥ ४९ ॥
 गन्धर्वा ऊचुः -
वयं विभो ते नटनाट्यगायका
     येनात्मसाद् वीर्यबलौजसा कृताः ।
 स एष नीतो भवता दशामिमां
     किमुत्पथस्थः कुशलाय कल्पते ॥ ५० ॥
 चारणा ऊचुः -
(अनुष्टुप्)
हरे तवाङ्‌घ्रिपङ्‌कजं भवापवर्गमाश्रिताः ।
 यदेष साधुहृच्छयः त्वयासुरः समापितः ॥ ५१ ॥
 यक्षा ऊचुः
 वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैः
 ते इह दितिसुतेन प्रापिता वाहकत्वम् ।
 स तु जनपरितापं तत्कृतं जानता ते
 नरहर उपनीतः पञ्चतां पञ्चविंश ॥ ५२ ॥
 किम्पुरुषा ऊचुः -
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।
 अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ ५३ ॥
 वैतालिका ऊचुः -
सभासु सत्रेषु तवामलं यशो
     गीत्वा सपर्यां महतीं लभामहे ।
 यस्तां व्यनैषीद् भृशमेष दुर्जनो
     द्विष्ट्या हतस्ते भगवन्यथामयः ॥ ५४ ॥
 किन्नरा ऊचुः -
वयमीश किन्नरगणास्तवानुगा
     दितिजेन विष्टिममुनानुकारिताः ।
 भवता हरे स वृजिनोऽवसादितो
     नरसिंह नाथ विभवाय नो भव ॥ ५५ ॥
 विष्णुपार्षदा ऊचुः -
अद्यैतद् हरिनररूपमद्‍भुतं ते
     दृष्टं नः शरणद सर्वलोकशर्म ।
 सोऽयं ते विधिकर ईश विप्रशप्तः
     तस्येदं निधनमनुग्रहाय विद्मः ॥ ५६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते दैत्यराजवधे नृसिंहस्तवो अष्टमोऽध्यायः ॥ ८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥