श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १० श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ११
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १२ →


वृत्रस्य भक्तिज्ञानवैराग्ययुक्त वीरोचितोद्‌गाराः -



श्रीशुक उवाच -
ते एवं शंसतो धर्मं वचः पत्युरचेतसः ।
 नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १ ॥
 विशीर्यमाणां पृतनां आसुरीं असुरर्षभः ।
 कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥
 दृष्ट्वातप्यत सङ्‌क्रुद्ध इन्द्रशत्रुरमर्षितः ।
 तान्निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥
 किं व उच्चरितैर्मातुः धावद्‌भिः पृष्ठतो हतैः ।
 न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥
 यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।
 अग्रे तिष्ठत मात्रं मे न चेद्‍ग्राम्यसुखे स्पृहा ॥ ५ ॥
 एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
 व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥
 तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।
 निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥
 ममर्द पद्‍भ्यां सुरसैन्यमातुरं
     निमीलिताक्षं रणरङ्‌गदुर्मदः ।
 गां कम्पयन् उद्यतशूल ओजसा
     नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥
 विलोक्य तं वज्रधरोऽत्यमर्षितः
     स्वशत्रवेऽभिद्रवते महागदाम् ।
 चिक्षेप तामापततीं सुदुःसहां
     जग्राह वामेन करेण लीलया ॥ ९ ॥
 स इन्द्रशत्रुः कुपितो भृशं तया
     महेन्द्रवाहं गदयोरुविक्रमः ।
 जघान कुम्भस्थल उन्नदन् मृधे
     तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥
 ऐरावतो वृत्रगदाभिमृष्टो
     विघूर्णितोऽद्रिः कुलिशाहतो यथा ।
 अपासरद्‌ भिन्नमुखः सहेन्द्रो
     मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११ ॥
 न सन्नवाहाय विषण्णचेतसे
     प्रायुङ्‌क्त भूयः स गदां महात्मा ।
 इन्द्रोऽमृतस्यन्दिकराभिमर्श
     वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥
 स तं नृपेन्द्राहवकाम्यया रिपुं
     वज्रायुधं भ्रातृहणं विलोक्य ।
 स्मरंश्च तत्कर्म नृशंसमंहः
     शोकेन मोहेन हसन् जगाद ॥ १३ ॥
 श्रीवृत्र उवाच
 दिष्ट्या भवान् मे समवस्थितो रिपुः
     यो ब्रह्महा गुरुहा भ्रातृहा च ।
 दिष्ट्यानृणोऽद्याहमसत्तम त्वया
     मच्छूलनिर्भिन्न दृषद्‌धृदाचिरात् ॥ १४ ॥
 यो नोऽग्रजस्यात्मविदो द्विजातेः
     गुरोरपापस्य च दीक्षितस्य ।
 विश्रभ्य खड्गेन शिरांस्यवृश्चय्
     पशोरिवाकरुणः स्वर्गकामः ॥ १५ ॥
 ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां
     स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।
 कृच्छ्रेण मच्छूलविभिन्नदेहं
     अस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६ ॥
 अन्येऽनु ये त्वेह नृशंसमज्ञा
     ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् ।
 तैर्भूतनाथान् सगणान् निशात
     त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥
 अथो हरे मे कुलिशेन वीर
     हर्ता प्रमथ्यैव शिरो यदीह ।
 तत्रानृणो भूतबलिं विधाय
     मनस्विनां पादरजः प्रपत्स्ये ॥ १८ ॥
 सुरेश कस्मान्न हिनोषि वज्रं
     पुरः स्थिते वैरिणि मय्यमोघम् ।
 मा संशयिष्ठा न गदेव वज्रः
     स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९ ॥
 नन्वेष वज्रस्तव शक्र तेजसा
     हरेर्दधीचेस्तपसा च तेजितः ।
 तेनैव शत्रुं जहि विष्णुयन्त्रितो
     यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥
 अहं समाधाय मनो यथाऽऽह
     नः सङ्‌कर्षणस्तच्चरणारविन्दे ।
 त्वद्वज्ररंहोलुलितग्राम्यपाशो
     गतिं मुनेर्याम्यपविद्धलोकः ॥ २१ ॥
 पुंसां किलैकान्तधियां स्वकानां
     याः सम्पदो दिवि भूमौ रसायाम् ।
 न राति यद् द्वेष उद्वेग आधिः
     मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥
 त्रैवर्गिकायासविघातमस्मत्
     पतिर्विधत्ते पुरुषस्य शक्र ।
 ततोऽनुमेयो भगवत्प्रसादो
     यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३ ॥
 अहं हरे तव पादैकमूल
     दासानुदासो भवितास्मि भूयः ।
 मनः स्मरेतासुपतेर्गुणांस्ते
     गृणीत वाक्कर्म करोतु कायः ॥ २४ ॥
 न नाकपृष्ठं न च पारमेष्ठ्यं
     न सार्वभौमं न रसाधिपत्यम् ।
 न योगसिद्धीरपुनर्भवं वा
     समञ्जस त्वा विरहय्य काङ्‌क्षे ॥ २५ ॥
 अजातपक्षा इव मातरं खगाः
     स्तन्यं यथा वत्सतराः क्षुधार्ताः ।
 प्रियं प्रियेव व्युषितं विषण्णा
     मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥
 ममोत्तमश्लोकजनेषु सख्यं
     संसारचक्रे भ्रमतः स्वकर्मभिः ।
 त्वन्माययात्मात्मजदारगेहे
     ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम एकादशोऽध्या‍यः ॥ ११ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥