श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ११ →




देवानां दधीचेः सकाशात् तदस्थियाचनं
वज्रनिर्माणं देवदानवयुद्धं च -


श्रीशुक उवाच -
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः ।
 पश्यतां अनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ १ ॥
 तथाभियाचितो देवैः ऋषिः आथर्वणो महान् ।
 मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥
 अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।
 संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३ ॥
 जिजीविषूणां जीवानां आत्मा प्रेष्ठ इहेप्सितः ।
 क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥
 श्रीदेवा ऊचुः -
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।
 भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥
 नूनं स्वार्थपरो लोको न वेद परसङ्‌कटम् ।
 यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥
 श्रीऋषिरुवाच -
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः ।
 एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥
 योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।
 ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥
 एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।
 यो भूतशोकहर्षाभ्यां आत्मा शोचति हृष्यति ॥ ९ ॥
 अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्‌गुरैः ।
 यन्नोपकुर्यादस्वार्थैः मर्त्यः स्वज्ञातिविग्रहैः ॥ १० ॥
 श्रीशुक उवाच -
एवं कृतव्यवसितो दध्यङ्‌ङाथर्वणस्तनुम् ।
 परे भगवति ब्रह्मणि आत्मानं सन्नयन्जहौ ॥ ११ ॥
 यताक्षासुमनोबुद्धिः तत्त्वदृग् ध्वस्तबन्धनः ।
 आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥
 अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।
 मुनेः शक्तिभिरुत्सिक्तो भगवत् तेजसान्वितः ॥ १३ ॥
 वृतो देवगणैः सर्वैः गजेन्द्रोपर्यशोभत ।
 स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥
 वृत्रमभ्यद्रवच्छत्रुं असुरानीकयूथपैः ।
 पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥
 ततः सुराणामसुरै रणः परमदारुणः ।
 त्रेतामुखे नर्मदायां अभवत् प्रथमे युगे ॥ १६ ॥
 रुद्रैर्वसुभिरादित्यैः अश्विभ्यां पितृवह्निभिः ।
 मरुद्‌भिः ऋभुभिः साध्यैः विश्वेदेवैः मरुत्पतिम् ॥ १७ ॥
 दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।
 नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८ ॥
 नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः ।
 हयग्रीवः शङ्‌कुशिरा विप्रचित्तिः अयोमुखः ॥ १९ ॥
 पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः ।
 दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥
 सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः ।
 प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
 अभ्यर्दयन् असम्भ्रान्ताः सिंहनादेन दुर्मदाः ।
 गदाभिः परिघैर्बाणैः प्रासमुद्‍गरतोमरैः ॥ २२ ॥
 शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः ।
 सर्वतोऽवाकिरन्शस्त्रैः अस्त्रैश्च विबुधर्षभान् ॥ २३ ॥
 न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः ।
 पुङ्‌खानुपुङ्‌खपतितैः ज्योतींषीव नभोघनैः ॥ २४ ॥
 न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् ।
 छिन्नाः सिद्धपथे देवैः लघुहस्तैः सहस्रधा ॥ २५ ॥
 अथ क्षीणास्त्रशस्त्रौघा गिरिश्रृङ्‌गद्रुमोपलैः ।
 अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥
 तानक्षतान् स्वस्तिमतो निशाम्य
     शस्त्रास्त्रपूगैरथ वृत्रनाथाः ।
 द्रुमैर्दृषद्‍भिर्विविधाद्रिश्रृङ्‌गैः
     अविक्षतान् तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥
 सर्वे प्रयासा अभवन्विमोघाः
     कृताः कृता देवगणेषु दैत्यैः ।
 कृष्णानुकूलेषु यथा महत्सु
     क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ २८ ॥
 ते स्वप्रयासं वितथं निरीक्ष्य
     हरावभक्ता हतयुद्धदर्पाः ।
 पलायनायाजिमुखे विसृज्य
     पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥
 वृत्रोऽसुरान् तान् अनुगान् मनस्वी
     प्रधावतः प्रेक्ष्य बभाष एतत् ।
 पलायितं प्रेक्ष्य बलं च भग्नं
     भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥
 कालोपपन्नां रुचिरां मनस्विनां
     मुवाच वाचं पुरुषप्रवीरः ।
 हे विप्रचित्ते नमुचे पुलोमन्
     मयानर्वन्छम्बर मे श्रृणुध्वम् ॥ ३१ ॥
 जातस्य मृत्युर्ध्रुव एव सर्वतः
     प्रतिक्रिया यस्य न चेह कॢप्ता ।
 लोको यशश्चाथ ततो यदि ह्यमुं
     को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
 द्वौ सम्मताविह मृत्यू दुरापौ
     यद्‍ब्रह्मसन्धारणया जितासुः ।
 कलेवरं योगरतो विजह्याद्
     यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्या‍यः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥