श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०८ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १० →



विश्वरूपवधः, वृत्रस्योत्पत्तिर्देवकृत भगवत्स्तवनं भगवद् वरप्रदानं च -


श्रीशुक उवाच -
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।
 सोमपीथं सुरापीथं अन्नादमिति शुश्रुम ॥ १ ॥
 स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।
 अददद् यस्य पितरो देवाः सप्रश्रयं नृप ॥ २ ॥
 स एव हि ददौ भागं परोक्षं असुरान् प्रति ।
 यजमानोऽवहद्‍भागं मातृस्नेहवशानुगः ॥ ३ ॥
 तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।
 आलक्ष्य तरसा भीतः तच्छीर्षाण्यच्छिनद् रुषा ॥ ४ ॥
 सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः ।
 कलविङ्‌कः सुरापीथं अन्नादं यत्स तित्तिरिः ॥ ५ ॥
 ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः ।
 संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ ६ ॥
 भूम्यम्बुद्रुमयोषिद्‍भ्यः चतुर्धा व्यभजद् हरिः ।
 भूमिस्तुरीयं जग्राह खातपूरवरेण वै ।
 ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ॥ ७ ॥
 तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ।
 तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ॥ ८ ॥
 शश्वत्कामवरेणांहः तुरीयं जगृहुः स्त्रियः ।
 रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ॥ ९ ॥
 द्रव्यभूयोवरेणापः तुरीयं जगृहुर्मलम् ।
 तासु बुद्‍बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥
 हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ।
 इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ॥ ११ ॥
 अथान्वाहार्यपचनाद् उत्थितो घोरदर्शनः ।
 कृतान्त इव लोकानां युगान्तसमये यथा ॥ १२ ॥
 विष्वग्विवर्धमानं तं इषुमात्रं दिने दिने ।
 दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ॥ १३ ॥
 तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥
 देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।
 नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥
 दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।
 लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
 महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः ।
 वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥
 येनावृता इमे लोकाः तपसा त्वाष्ट्रमूर्तिना ।
 स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ १८ ॥
 तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः ।
 स्वैः स्वैः दिव्यास्त्रशस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः ॥ १९ ॥
 ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।
 प्रत्यञ्चमादिपुरुषं उपतस्थुः समाहिताः ॥ २० ॥
 श्रीदेवा ऊचुः -
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका
     ब्रह्मादयो ये वयमुद्विजन्तः ।
 हराम यस्मै बलिमन्तकोऽसौ
     बिभेति यस्मादरणं ततो नः ॥ २१ ॥
 अविस्मितं तं परिपूर्णकामं
     स्वेनैव लाभेन समं प्रशान्तम् ।
 विनोपसर्पत्यपरं हि बालिशः
     श्वलाङ्‌गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥
 यस्योरुश्रृङ्‌गे जगतीं स्वनावं
     मनुर्यथाऽऽबध्य ततार दुर्गम् ।
 स एव नस्त्वाष्ट्रभयाद् दुरन्तात्
     त्राताऽऽश्रितान् वारिचरोऽपि नूनम् ॥ २३ ॥
 पुरा स्वयम्भूरपि संयमाम्भ
     स्युदीर्णवातोर्मिरवैः कराले ।
 एकोऽरविन्दात् पतितस्ततार
     तस्माद्‍भयाद् येन स नोऽस्तु पारः ॥ २४ ॥
 य एक ईशो निजमायया नः
     ससर्ज येनानुसृजाम विश्वम् ।
 वयं न यस्यापि पुरः समीहतः
     पश्याम लिङ्‌गं पृथगीशमानिनः ॥ २५ ॥
 यो नः सपत्‍नैः भृशमर्द्यमानान्
     देवर्षितिर्यङ्‌नृषु नित्य एव ।
 कृतावतारस्तनुभिः स्वमायया
     कृत्वाऽऽत्मसात् पाति युगे युगे च ॥ २६ ॥
 तमेव देवं वयमात्मदैवतं
     परं प्रधानं पुरुषं विश्वमन्यम् ।
 व्रजाम सर्वे शरणं शरण्यं
     स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥
 श्रीशुक उवाच -
इति तेषां महाराज सुराणां उपतिष्ठताम् ।
 प्रतीच्यां दिश्यभूदाविः शङ्‌खचक्रगदाधरः ॥ २८ ॥
 आत्मतुल्यैः षोडशभिः विना श्रीवत्सकौस्तुभौ ।
 पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ २९ ॥
 दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः ।
 दण्डवत्पतिता राजन् शनैरुत्थाय तुष्टुवुः ॥ ३० ॥
 श्रीदेवा ऊचुः -
नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।
 नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये ॥ ३१ ॥
 यत्ते गतीनां तिसृणां ईशितुः परमं पदम् ।
 नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥
 ॐ नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष
 महापुरुष महानुभाव परममङ्‌गल परमकल्याण
 परमकारुणिक केवल जगदाधार लोकैकनाथ
 सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेण
 आयोगसमाधिना परिभावित परिस्फुट
 पारमहंस्यधर्मेण उद्‍घाटिततमः कपाटद्वारे चित्तेऽपावृत
 आत्मलोके स्वयं उपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥
 दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर
 इदं अनवेक्षितास्मत् समवाय आत्मनैव अविक्रियमाणेन
 सगुणमगुणः सृजसि पासि हरसि ॥ ३४ ॥
 अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः
 पारतन्त्र्येण स्वकृतकुशलाकुशलं फलं
 उपाददात्याहोस्विदात्माराम उपशमशीलः
 समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ ३५ ॥
 न हि विरोध उभयं भगवति अपरिमितगुणगणे
 ईश्वरेऽनवगाह्यमाहात्म्ये अर्वाचीन विकल्प वितर्क विचार
 प्रमाणाभास कुतर्कशास्त्र कलिलान्तःकरण आश्रय
 दुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये
 केवल एवात्ममायां अन्तर्धाय को न्वर्थो
 दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥
 समविषममतीनां मतमनुसरसि
 यथा रज्जुखण्डः सर्पादिधियाम् ॥ ३७ ॥
 स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः
 सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्
 सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ ३८ ॥
 अथ ह वाव तव महिमामृतरस समुद्रविप्रुषा
 सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन
 विस्मारित दृष्टश्रुत विषयसुखलेशाभासाः परमभागवता
 एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि
 नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते
 मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः
 साधवः त्वच्चरणाम्बुजानुसेवां विसृजन्ति न
 यत्र पुनरयं संसारपर्यावर्तः ॥ ३९ ॥
 त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन
 त्रिलोकमनोहरानुभाव तवैव विभूतयो
 दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति
 स्वात्ममायया सुरनरमृगमिश्रित जलचराकृतिभिः
 यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि
 भगवन्जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥
 अस्माकं तावकानां तव नतानां तत ततामह
 तव चरण नलिनयुगलध्यानानुबद्ध हृदयनिगडानां
 स्वलिङ्‌गविवरणेन आत्मसात्कृतानां
 अनुकम्पानुरञ्जित विशदरुचिर शिशिरस्मितावलोकेन
 विगलितमधुरमुखरसामृतकलया
 चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥
 अथ भगवन् तवास्माभिः अखिलजगदुत्पत्ति
 स्थिति लय निमित्तायमान दिव्यमायाविनोदस्य
 सकलजीवनिकायानां अन्तर्हृदयेषु बहिरपि च
 ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च
 यथादेशकालदेहावस्थानविशेषं तदुपादान
 उपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण
 आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः
 कियानिह वार्थविशेषो विज्ञापनीयः
 स्याद् विस्फुलिङ्‌गादिभिरिव हिरण्यरेतसः ॥ ४२ ॥
 अत एव स्वयं तदुपकल्पयास्माकं
 भगवतः परमगुरोस्तव चरणशतपलाशच्छायां
 विविधवृजिनसंसार परिश्रमोपशमनीं
 उपसृतानां वयं यत्कामेनोपसादिताः ॥ ४३ ॥
 अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।
 ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥
 हंसाय दह्रनिलयाय निरीक्षकाय
     कृष्णाय मृष्टयशसे निरुपक्रमाय ।
 सत्सङ्‌ग्रहाय भवपान्थनिजाश्रमाप्तौ
     अन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥
 श्रीशुक उवाच -
अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः ।
 स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥ ४६ ॥
 श्रीभगवानुवाच -
प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।
 आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥
 किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।
 मय्येकान्तमतिर्नान्यन् मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥
 न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् ।
 तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविधः ॥ ४९ ॥
 स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।
 न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ ५० ॥
 मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।
 विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ ५१ ॥
 स वा अधिगतो दध्यङ्‌ अश्विभ्यां ब्रह्म निष्कलम् ।
 यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥
 दध्यङ्‌ङ्‌आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।
 विश्वरूपाय यत्प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ ५३ ॥
 युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्‌गानि दास्यति ।
 ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः ।
 येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ ५४ ॥
 तस्मिन्विनिहते यूयं तेजोऽस्त्रायुधसम्पदः ।
 भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नवमोऽध्या‍यः ॥ ९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥