श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०७ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०८
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०९ →



विश्वरूपद्वारा इन्द्राय नारायणवर्मोपदेशः -


श्रीराजोवाच -
यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् ।
 क्रीडन् इव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥
 भगवन् तन्ममाख्याहि वर्म नारायणात्मकम् ।
 यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥
 श्रीशुक उवाच -
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
 नारायणाख्यं वर्माह तदिहैकमनाः श्रृणु ॥ ३ ॥
 श्रीविश्वरूप उवाच -
धौताङ्‌घ्रिपाणिराचम्य सपवित्र उदङ्‌मुखः ।
 कृतस्वाङ्‌गकरन्यासो मंत्राभ्यां वाग्यतः शुचिः ॥ ४ ॥
 नारायणपरं वर्म सन्नह्येद् भय आगते ।
 पादयोर्जानुनोरूर्वोः उदरे हृद्यथोरसि ॥ ५ ॥
 मुखे शिरस्यानुपूर्व्याद् ॐकारादीनि विन्यसेत् ।
 ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥
 करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
 प्रणवादियकारान्तं अङ्‌गुल्यङ्‌गुष्ठपर्वसु ॥ ७ ॥
 न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि ।
 षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिसेत् ॥ ८ ॥
 वेकारं नेत्रयोर्युञ्ज्यान् नकारं सर्वसन्धिषु ।
 मकारं अस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद्‍बुधः ॥ ९ ॥
 सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
 ॐ विष्णवे नम इति ॥ १० ॥
 आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम् ।
 विद्यातेजस्तपोमूर्तिं इमं मंत्रं उदाहरेत् ॥ ११ ॥
 ॐ हरिर्विदध्यान्मम सर्वरक्षां
     न्यस्ताङ्‌घ्रिपद्मः पतगेन्द्रपृष्ठे ।
 दरारिचर्मासिगदेषुचाप
     पाशान् दधानोऽष्टगुणोऽष्टबाहुः ॥ १२ ॥
 जलेषु मां रक्षतु मत्स्यमूर्तिः
     यादोगणेभ्यो वरुणस्य पाशात् ।
 स्थलेषु मायावटुवामनोऽव्यात्
     त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३ ॥
 दुर्गेष्वटव्याजिमुखादिषु प्रभुः
     पायान् नृसिंहोऽसुरयूथपारिः ।
 विमुञ्चतो यस्य महाट्टहासं
     दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४ ॥
 रक्षत्वसौ माध्वनि यज्ञकल्पः
     स्वदंष्ट्रयोन्नीतधरो वराहः ।
 रामोऽद्रिकूटेष्वथ विप्रवासे
     सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १५ ॥
 मामुग्रधर्मादखिलात् प्रमादान्
     नारायणः पातु नरश्च हासात् ।
 दत्तस्त्वयोगादथ योगनाथः
     पायाद् गुणेशः कपिलः कर्मबन्धात् ॥ १६ ॥
 सनत्कुमारोऽवतु कामदेवाद्
     हयशीर्षा मां पथि देवहेलनात् ।
 देवर्षिवर्यः पुरुषार्चनान्तरात्
     कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥
 धन्वन्तरिर्भगवान् पात्वपथ्याद्
     द्वन्द्वाद् भयादृषभो निर्जितात्मा ।
 यज्ञश्च लोकादवताज्जनान्ताद्
     बलो गणात् क्रोधवशादहीन्द्रः ॥ १८ ॥
 द्वैपायनो भगवानप्रबोधाद्
     बुद्धस्तु पाखण्डगणात् प्रमादात् ।
 कल्किः कलेः कालमलात् प्रपातु
     धर्मावनायोरुकृतावतारः ॥ १९ ॥
 मां केशवो गदया प्रातरव्याद्
     गोविन्द आसङ्‌गवमात्तवेणुः ।
 नारायणः प्राह्ण उदात्तशक्तिः
     मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २० ॥
 देवोऽपराह्णे मधुहोग्रधन्वा
     सायं त्रिधामावतु माधवो माम् ।
 दोषे हृषीकेश उतार्धरात्रे
     निशीथ एकोऽवतु पद्मनाभः ॥ २१ ॥
 श्रीवत्सधामापररात्र ईशः
     प्रत्यूष ईशोऽसिधरो जनार्दनः ।
 दामोदरोऽव्यादनुसन्ध्यं प्रभाते
     विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२ ॥
 चक्रं युगान्तानलतिग्मनेमि
     भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।
 दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
     कक्षं यथा वातसखो हुताशः ॥ २३ ॥
 गदेऽशनिस्पर्शनविस्फुलिङ्‌गे
     निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
 कुष्माण्डवैनायकयक्षरक्षो
     भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥
 त्वं यातुधानप्रमथप्रेतमातृ
     पिशाचविप्रग्रहघोरदृष्टीन् ।
 दरेन्द्र विद्रावय कृष्णपूरितो
     भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५ ॥
 त्वं तिग्मधारासिवरारिसैन्यं
     ईशप्रयुक्तो मम छिन्धि छिन्धि ।
 चक्षूंषि चर्मन् शतचन्द्र छादय
     द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥
 यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।
 सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च ॥ २७ ॥
 सर्वाण्येतानि भगवन् नामरूपानुकीर्तनात् ।
 प्रयान्तु सङ्‌क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८ ॥
 गरुडो भगवान् स्त्रोत्र स्तोभश्छन्दोमयः प्रभुः ।
 रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
 सर्वापद्‍भ्यो हरेर्नाम रूपयानायुधानि नः ।
 बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ ३० ॥
 यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
 सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥
 यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
 भूषणायुधलिङ्‌गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥
 तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
 पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥
 विदिक्षु दिक्षूर्ध्वमधः समन्ताद्
     अन्तर्बहिर्भगवान् नारसिंहः ।
 प्रहापयन् लोकभयं स्वनेन
     स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४ ॥
 मघवन् इदमाख्यातं वर्म नारायणात्मकम् ।
 विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥
 एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
 पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ ३६ ॥
 न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।
 राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७ ॥
 इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।
 योगधारणया स्वाङ्‌गं जहौ स मरुधन्वनि ॥ ३८ ॥
 तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
 ययौ चित्ररथः स्त्रीभिः वृतो यत्र द्विजक्षयः ॥ ३९ ॥
 गगनान् न्यपतत् सद्यः सविमानो ह्यवाक्‌शिराः ।
 स वालिखिल्यवचनाद् अस्थीन्यादाय विस्मितः ।
 प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४० ॥
 श्रीशुक उवाच -
य इदं श्रृणुयात् काले यो धारयति चादृतः ।
 तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥
 एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
 त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नाम अष्टमोऽध्या‍यः ॥ ८ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥