श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०६ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०८ →




इंद्रेणकृतंगुरोरवमानं ततो देवानां
ऐश्वर्यध्वंसः, विश्वरूपस्य पौरोहित्ये वरणं च -


श्रीराजोवाच -
कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः ।
 एतद् आचक्ष्व भगवन् शिष्याणामक्रमं गुरौ ॥ १ ॥
 श्रीशुक उवाच -
इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्‌घितसत्पथः ।
 मरुद्‌भिर्वसुभी रुद्रैः आदित्यैर्‌ऋभुभिर्नृप ॥ २ ॥
 विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः ।
 सिद्धचारणगन्धर्वैः मुनिभिर्ब्रह्मवादिभिः ॥ ३ ॥
 विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः ।
 निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥ ४ ॥
 उपगीयमानो ललितं आस्थानाध्यासनाश्रितः ।
 पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ ५ ॥
 युक्तश्चान्यैः पारमेष्ठ्यैः चामरव्यजनादिभिः ।
 विराजमानः पौलम्या सहार्धासनया भृशम् ॥ ६ ॥
 स यदा परमाचार्यं देवानां आत्मनश्च ह ।
 नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ ७ ॥
 वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् ।
 नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ ८ ॥
 ततो निर्गत्य सहसा कविराङ्‌गिरसः प्रभुः ।
 आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ ९ ॥
 तर्ह्येव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः ।
 गर्हयामास सदसि स्वयं आत्मानमात्मना ॥ १० ॥
 अहो बत मयासाधु कृतं वै दभ्रबुद्धिना ।
 यन्मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ ११ ॥
 को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि ।
 ययाहमासुरं भावं नीतोऽद्य विबुधेश्वरः ॥ १२ ॥
 यः पारमेष्ठ्यं धिषणं अधितिष्ठन्न कञ्चन ।
 प्रत्युत्तिष्ठेदिति ब्रूयुः धर्मं ते न परं विदुः ॥ १३ ॥
 तेषां कुपथदेष्टॄणां पततां तमसि ह्यधः ।
 ये श्रद्दध्युर्वचस्ते वै मज्जन्त्यश्मप्लवा इव ॥ १४ ॥
 अथाहं अमराचार्यं अगाधधिषणं द्विजम् ।
 प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ १५ ॥
 एवं चिन्तयतस्तस्य मघोनो भगवान्गृहात् ।
 बृहस्पतिर्गतोऽदृष्टां गतिमध्यात्ममायया ॥ १६ ॥
 गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् ।
 ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ १७ ॥
 तच्छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् ।
 देवान् प्रत्युद्यमं चक्रुः दुर्मदा आततायिनः ॥ १८ ॥
 तैर्विसृष्टेषुभिस्तीक्ष्णैः निर्भिन्नाङ्‌गोरुबाहवः ।
 ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ १९ ॥
 तान् तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूरजः ।
 कृपया परया देव उवाच परिसान्त्वयन् ॥ २० ॥
 श्रीब्रह्मोवाच -
अहो बत सुरश्रेष्ठा ह्यभद्रं वः कृतं महत् ।
 ब्रह्मिष्ठं ब्राह्मणं दान्तं ऐश्वर्यान् नाभ्यनन्दत ॥ २१ ॥
 तस्यायमनयस्यासीत् परेभ्यो वः पराभवः ।
 प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ २२ ॥
 मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् ।
 सम्प्रत्युपचितान् भूयः काव्यमाराध्य भक्तितः ।
 आददीरन् निलयनं ममापि भृगुदेवताः ॥ २३ ॥
 त्रिपिष्टपं किं गणयन्त्यभेद्य
     मंत्रा भृगूणामनुशिक्षितार्थाः ।
 न विप्रगोविन्दगवीश्वराणां
     भवन्त्यभद्राणि नरेश्वराणाम् ॥ २४ ॥
 तद् विश्वरूपं भजताशु विप्रं
     तपस्विनं त्वाष्ट्रमथात्मवन्तम् ।
 सभाजितोऽर्थान् स विधास्यते वो
     यदि क्षमिष्यध्वमुतास्य कर्म ॥ २५ ॥
 श्रीशुक उवाच -
ते एवमुदिता राजन् ब्रह्मणा विगतज्वराः ।
 ऋषिं त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् ॥ २६ ॥
 श्रीदेवा ऊचुः -
वयं तेऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते ।
 कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ २७ ॥
 पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् ।
 अपि पुत्रवतां ब्रह्मन् किं उत ब्रह्मचारिणाम् ॥ २८ ॥
 आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
 भ्राता मरुत्पतेः मूर्तिः माता साक्षात् क्षितेस्तनुः ॥ २९ ॥
 दयाया भगिनी मूर्तिः धर्मस्यात्मातिथिः स्वयम् ।
 अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ ३० ॥
 तस्मात्पितॄणामार्तानां आर्तिं परपराभवम् ।
 तपसापनयन् तात सन्देशं कर्तुमर्हसि ॥ ३१ ॥
 वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।
 यथाञ्जसा विजेष्यामः सपत्‍नांस्तव तेजसा ॥ ३२ ॥
 न गर्हयन्ति ह्यर्थेषु यविष्ठाङ्‌घ्र्यभिवादनम् ।
 छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ ३३ ॥
 श्रीऋषिरुवाच -
अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः ।
 स विश्वरूपस्तानाह प्रसन्नः श्लक्ष्णया गिरा ॥ ३४ ॥
 श्रीविश्वरूप उवाच -
विगर्हितं धर्मशीलैः ब्रह्मवर्च उपव्ययम् ।
 कथं नु मद्विधो नाथा लोकेशैरभियाचितम् ।
 प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥ ३५ ॥
 अकिञ्चनानां हि धनं शिलोञ्छनं
     तेनेह निर्वर्तितसाधुसत्क्रियः ।
 कथं विगर्ह्यं नु करोम्यधीश्वराः
     पौरोधसं हृष्यति येन दुर्मतिः ॥ ३६ ॥
 तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् ।
 भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ ३७ ॥
 श्रीशुक उवाच -
तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः ।
 पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ ३८ ॥
 सुरद्विषां श्रियं गुप्तां औशनस्यापि विद्यया ।
 आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः ॥ ३९ ॥
 यया गुप्तः सहस्राक्षो जिग्येऽसुरचमूर्विभुः ।
 तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ ४० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे सप्तमोऽध्या‍यः ॥ ७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

]]

| next       = श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०
| year       = 
| notes      = 

}}