श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०५ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०७ →



दक्षस्य षष्टिकन्यानां वंशविस्तारः -


श्रीशुक उवाच -
ततः प्राचेतसोऽसिक्न्यां अनुनीतः स्वयम्भुवा ।
 षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ १ ॥
 दश धर्माय कायेन्दोः द्विषट्‌ त्रिणव दत्तवान् ।
 भूताङ्‌गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥ २ ॥
 नामधेयान्यमूषां त्वं सापत्यानां च मे श्रृणु ।
 यासां प्रसूतिप्रसवैः लोका आपूरितास्त्रयः ॥ ३ ॥
 भानुर्लम्बा ककुब्जामिः विश्वा साध्या मरुत्वती ।
 वसुर्मुहूर्ता सङ्‌कल्पा धर्मपत्‍न्यः सुतान् श्रृणु ॥ ४ ॥
 भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप ।
 विद्योत आसीत् लम्बायाः ततश्च स्तनयित्‍नवः ॥ ५ ॥
 ककुदः सङ्‌कटस्तस्य कीकटस्तनयो यतः ।
 भुवो दुर्गाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत् ॥ ६ ॥
 विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते ।
 साध्यो गणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ ७ ॥
 मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः ।
 जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ ८ ॥
 मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे ।
 ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ ९ ॥
 सङ्‌कल्पायास्तु सङ्‌कल्पः कामः सङ्‌कल्पजः स्मृतः ।
 वसवोऽष्टौ वसोः पुत्राः तेषां नामानि मे श्रृणु ॥ १० ॥
 द्रोणः प्राणो ध्रुवोऽर्कोऽग्निः दोषो वसुर्विभावसुः ।
 द्रोणस्याभिमतेः पत्‍न्या हर्षशोकभयादयः ॥ ११ ॥
 प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।
 ध्रुवस्य भार्या धरणिः असूत विविधाः पुरः ॥ १२ ॥
 अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः ।
 अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ १३ ॥
 स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः ।
 दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ १४ ॥
 वास्तोराङ्‌गिरसीपुत्रो विश्वकर्मा कृतीपतिः ।
 ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनोः सुताः ॥ १५ ॥
 विभावसोरसूतोषा व्युष्टं रोचिषमातपम् ।
 पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥ १६ ॥
 सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः ।
 रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ १७ ॥
 अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ।
 रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः ॥ १८ ॥
 प्रजापतेरङ्‌गिरसः स्वधा पत्‍नी पितॄनथ ।
 अथर्वाङ्‌गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥
 कृशाश्वोऽर्चिषि भार्यायां धूम्रकेतुमजीजनत् ।
 धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ २० ॥
 तार्क्ष्यस्य विनता कद्रूः पतङ्‌गी यामिनीति च ।
 पतङ्‌ग्यसूत पतगान् यामिनी शलभानथ ॥ २१ ॥
 सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम् ।
 सूर्यसूतमनूरुं च कद्रूर्नागान् अनेकशः ॥ २२ ॥
 कृत्तिकादीनि नक्षत्राणि इन्दोः पत्‍न्यस्तु भारत
 दक्षशापात्सोऽनपत्यः तासु यक्ष्मग्रहार्दितः ॥ २३ ॥
 पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः ।
 शृणु नामानि लोकानां मातॄणां शङ्‌कराणि च ॥ २४ ॥
 अथ कश्यपपत्‍नीनां यत्प्रसूतमिदं जगत् ।
 अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला ॥ २५ ॥
 मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ।
 तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥ २६ ॥
 सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप ।
 ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ २७ ॥
 दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः ।
 इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ २८ ॥
 अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः ।
 सुता दनोरेकषष्टिः तेषां प्राधानिकान् श्रृणु ॥ २९ ॥
 द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।
 अयोमुखः शङ्‌कुशिराः स्वर्भानुः कपिलोऽरुणः ॥ ३० ॥
 पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।
 धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ ३१ ॥
 स्वर्भानोः सुप्रभां कन्यां उवाह नमुचिः किल ।
 वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ ३२ ॥
 वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः ।
 उपदानवी हयशिरा पुलोमा कालका तथा ॥ ३३ ॥
 उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप ।
 पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ ३४ ॥
 उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदितः ।
 पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ ३५ ॥
 तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता ।
 जघान स्वर्गतो राजन् एक इन्द्रप्रियङ्‌करः ॥ ३६ ॥
 विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् ।
 राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥ ३७ ॥
 अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः ।
 यत्र नारायणो देवः स्वांशेनावातरद् विभुः ॥ ३८ ॥
 विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः ।
 धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥ ३९ ॥
 विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् ।
 मिथुनं च महाभागा यमं देवं यमीं तथा ।
 सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ ४० ॥
 छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।
 कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ ४१ ॥
 अर्यम्णो मातृका पत्‍नी तयोश्चर्षणयः सुताः ।
 यत्र वै मानुषी जातिः ब्रह्मणा चोपकल्पिता ॥ ४२ ॥
 पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत् पुरा ।
 योऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ ४३ ॥
 त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका ।
 सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ ४४ ॥
 तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि ।
 विमतेन परित्यक्ता गुरुणाङ्‌गिरसेन यत् ॥ ४५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे षष्ठोऽध्या‍यः ॥ ६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥