सामग्री पर जाएँ

श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०५

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०४ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०६ →



नारदोपदेशेने हर्यश्वशबलाश्वाख्यायनां दक्षपुत्राणां
विरक्तिः, नारदाय दक्षकर्तृकं शापदानं च -


श्रीशुक उवाच -
तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहितः ।
 हर्यश्वसंज्ञानयुतं पुत्रान् अजनयद् विभुः ॥ १ ॥
 अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।
 पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ २ ॥
 तत्र नारायणसरः तीर्थं सिन्धुसमुद्रयोः ।
 सङ्‌गमो यत्र सुमहन् मुनिसिद्धनिषेवितम् ॥ ३ ॥
 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
 धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत ॥ ४ ॥
 तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।
 प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ ५ ॥
 उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।
 अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥ ६ ॥
 तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् ।
 बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ ७ ॥
 नदीमुभयतो वाहां पञ्चपञ्चाद्‍भुतं गृहम् ।
 क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम् ॥ ८ ॥
 कथं स्वपितुरादेशं अविद्वांसो विपश्चितः ।
 अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ ९ ॥
 श्रीशुक उवाच -
तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया ।
 वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥ १० ॥
 भूः क्षेत्रं जीवसंज्ञं यद् अनादि निजबन्धनम् ।
 अदृष्ट्वा तस्य निर्वाणं किं असत्कर्मभिर्भवेत् ॥ ११ ॥
 एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः ।
 तमदृष्ट्वाभवं पुंसः किं असत्कर्मभिर्भवेत् ॥ १२ ॥
 पुमान् नैवैति यद्‍गत्वा बिलस्वर्गं गतो यथा ।
 प्रत्यग्धामाविद इह किं असत्कर्मभिर्भवेत् ॥ १३ ॥
 नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता ।
 तन्निष्ठामगतस्येह किं असत्कर्मभिर्भवेत् ॥ १४ ॥
 तत्सङ्‌गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् ।
 तद्‍गतीरबुधस्येह किं असत्कर्मभिर्भवेत् १५ ॥
 सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् ।
 मत्तस्य तामविज्ञस्य किं असत्कर्मभिर्भवेत् ॥ १६ ॥
 पञ्चविंशतितत्त्वानां पुरुषोऽद्‍भुतदर्पणः ।
 अध्यात्मं अबुधस्येह किं असत्कर्मभिर्भवेत् ॥ १७ ॥
 ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् ।
 विविक्तपदमज्ञाय किं असत्कर्मभिर्भवेत् ॥ १८ ॥
 कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत् ।
 स्वतन्त्रमबुधस्येह किं असत्कर्मभिर्भवेत् ॥ १९ ॥
 शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् ।
 कथं तदनुरूपाय गुणविश्रम्भ्युपक्रमेत् ॥ २० ॥
 इति व्यवसिता राजन् हर्यश्वा एकचेतसः ।
 प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् २१ ॥
 स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे ।
 अखण्डं चित्तमावेश्य लोकान् अनुचरन्मुनिः २२ ॥
 नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम् ।
 अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् २३ ॥
 स भूयः पाञ्चजन्यायां अजेन परिसान्त्वितः ।
 पुत्रान् अजनयद् दक्षः शबलाश्वान् सहस्रशः ॥ २४ ॥
 ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।
 नारायणसरो जग्मुः यत्र सिद्धाः स्वपूर्वजाः ॥ २५ ॥
 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
 जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः ॥ २६ ॥
 अब्भक्षाः कतिचिन् मासान् कतिचिद् वायुभोजनाः ।
 आराधयन् मंत्रं इमं अभ्यस्यन्त इडस्पतिम् ॥ २७ ॥
 ओं नमो नारायणाय पुरुषाय महात्मने ।
 विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ २८ ॥
 इति तानपि राजेन्द्र प्रजासर्गधियो मुनिः ।
 उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ २९ ॥
 दाक्षायणाः संश्रृणुत गदतो निगमं मम ।
 अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ ३० ॥
 भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित् ।
 स पुण्यबन्धुः पुरुषो मरुद्‌भिः सह मोदते ॥ ३१ ॥
 एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः ।
 तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष ॥ ३२ ॥
 सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।
 नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ ३३ ॥
 एतस्मिन्काल उत्पातान् बहून् पश्यन् प्रजापतिः ।
 पूर्ववन्नारदकृतं पुत्रनाशमुपाश्रृणोत् ॥ ३४ ॥
 चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः ।
 देवर्षिमुपलभ्याह रोषाद् विस्फुरिताधरः ॥ ३५ ॥
 श्रीदक्ष उवाच -
अहो असाधो साधूनां साधुलिङ्‌गेन नस्त्वया ।
 असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ ३६ ॥
 ऋणैस्त्रिभिरमुक्तानां अमीमांसितकर्मणाम् ।
 विद्यातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ ३७ ॥
 एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः ।
 पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ ३८ ॥
 ननु भागवता नित्यं भूतानुग्रहकातराः ।
 ऋते त्वां सौहृदघ्नं वै वैरङ्‌करमवैरिणाम् ॥ ३९ ॥
 नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा ।
 मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम् ॥ ४० ॥
 नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् ।
 निर्विद्यते स्वयं तस्मात् न तथा भिन्नधीः परैः ॥ ४१ ॥
 यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् ।
 कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम् ॥ ४२ ॥
 तन्तुकृन्तन यन्नस्त्वं अभद्रमचरः पुनः ।
 तस्माल्लोकेषु ते मूढ न भवेद्‍भ्रमतः पदम् ॥ ४३ ॥
 श्रीशुक उवाच -
प्रतिजग्राह तद्‍बाढं नारदः साधुसम्मतः ।
 एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ ४४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्यायः ॥ ५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥