श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०३ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०५ →


दक्षजन्म, तत्कृत तपसोऽवसाने भगवतो दर्शनं,
हंसगुह्यस्तोत्रं दक्षभगवत् संवादश्च -


श्रीराजोवाच -
देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् ।
 सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे ॥ १ ॥
 तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा ।
 अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ २ ॥
 श्रीसूत उवाच -
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः ।
 प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ ३ ॥
 श्रीशुक उवाच -
यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः ।
 अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ ४ ॥
 द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः ।
 मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ ५ ॥
 ताभ्यां निर्दह्यमानान् तान् उपलभ्य कुरूद्वह ।
 राजोवाच महान्सोमो मन्युं प्रशमयन्निव ॥ ६ ॥
 न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ ।
 विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ ७ ॥
 अहो प्रजापतिपतिः भगवान् हरिरव्ययः ।
 वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः ॥ ८ ॥
 अन्नं चराणामचरा ह्यपदः पादचारिणाम् ।
 अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ ९ ॥
 यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः ।
 प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ १० ॥
 आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् ।
 पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ ११ ॥
 तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः ।
 पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत् ॥ १२ ॥
 अन्तर्देहेषु भूतानां आत्मास्ते हरिरीश्वरः ।
 सर्वं तद्धिष्ण्यमीक्षध्वं एवं वस्तोषितो ह्यसौ ॥ १३ ॥
 यः समुत्पतितं देह आकाशान् मन्युमुल्बणम् ।
 आत्मजिज्ञासया यच्छेत् स गुणान् अतिवर्तते ॥ १४ ॥
 अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः ।
 वार्क्षी ह्येषा वरा कन्या पत्‍नीत्वे प्रतिगृह्यताम् ॥ १५ ॥
 इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप ।
 सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ १६ ॥
 तेभ्यस्तस्यां समभवद् दक्षः प्राचेतसः किल ।
 यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ १७ ॥
 यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः ।
 रेतसा मनसा चैव तन्ममावहितः श्रृणु ॥ १८ ॥
 मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः ।
 देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ १९ ॥
 तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।
 विन्ध्यपादानुपव्रज्य सोऽचरद् दुष्करं तपः ॥ २० ॥
 तत्राघमर्षणं नाम तीर्थं पापहरं परम् ।
 उपस्पृश्यानुसवनं तपसातोषयद् हरिम् ॥ २१ ॥
 अस्तौषीद्धंसगुह्येन भगवन्तं अधोक्षजम् ।
 तुभ्यं तदभिधास्यामि कस्यातुष्यद् यथा हरिः ॥ २२ ॥
 श्रीप्रजापतिरुवाच -
नमः परायावितथानुभूतये
     गुणत्रयाभासनिमित्तबन्धवे ।
 अदृष्टधाम्ने गुणतत्त्वबुद्धिभिः
     निवृत्तमानाय दधे स्वयम्भुवे ॥ २३ ॥
 न यस्य सख्यं पुरुषोऽवैति सख्युः
     सखा वसन् संवसतः पुरेऽस्मिन् ।
 गुणो यथा गुणिनो व्यक्तदृष्टेः
     तस्मै महेशाय नमस्करोमि ॥ २४ ॥
 देहोऽसवोऽक्षा मनवो भूतमात्रा
     नात्मानमन्यं च विदुः परं यत् ।
 सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
     न वेद सर्वज्ञमनन्तमीडे ॥ २५ ॥
 यदोपरामो मनसो नामरूप
     रूपस्य दृष्टस्मृतिसंप्रमोषात् ।
 य ईयते केवलया स्वसंस्थया
     हंसाय तस्मै शुचिसद्मने नमः ॥ २६ ॥
 मनीषिणोऽन्तर्हृदि सन्निवेशितं
     स्वशक्तिभिर्नवभिश्च त्रिवृद्‍भिः ।
 वह्निं यथा दारुणि पाञ्चदश्यं
     मनीषया निष्कर्षन्ति गूढम् ॥ २७ ॥
 स वै ममाशेषविशेषमाया
     निषेधनिर्वाणसुखानुभूतिः ।
 स सर्वनामा स च विश्वरूपः
     प्रसीदतामनिरुक्तात्मशक्तिः ॥ २८ ॥
 यद्यन्निरुक्तं वचसा निरूपितं
     धियाक्षभिर्वा मनसा वोत यस्य ।
 मा भूत् स्वरूपं गुणरूपं हि तत्तत्
     स वै गुणापायविसर्गलक्षणः ॥ २९ ॥
 यस्मिन्यतो येन च यस्य यस्मै
     यद् यो यथा कुरुते कार्यते च ।
 परावरेषां परमं प्राक् प्रसिद्धं
     तद्‍ब्रह्म तद्धेतुरनन्यदेकम् ॥ ३० ॥
 यच्छक्तयो वदतां वादिनां वै
     विवादसंवादभुवो भवन्ति ।
 कुर्वन्ति चैषां मुहुरात्ममोहं
     तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ३१ ॥
 अस्तीति नास्तीति च वस्तुनिष्ठयोः
     एकस्थयोर्भिन्नविरुद्धधर्मणोः ।
 अवेक्षितं किञ्चन योगसाङ्‌ख्ययोः
     समं परं ह्यनुकूलं बृहत्तत् ॥ ३२ ॥
 योऽनुग्रहार्थं भजतां पादमूलं
     अनामरूपो भगवाननन्तः ।
 नामानि रूपाणि च जन्मकर्मभिः
     भेजे स मह्यं परमः प्रसीदतु ॥ ३३ ॥
 यः प्राकृतैर्ज्ञानपथैर्जनानां
     यथाशयं देहगतो विभाति ।
 यथानिलः पार्थिवमाश्रितो गुणं
     स ईश्वरो मे कुरुतां मनोरथम् ॥ ३४ ॥
 श्रीशुक उवाच -
इति स्तुतः संस्तुवतः स तस्मिन् अघमर्षणे ।
 प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ ३५ ॥
 कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः ।
 चक्रशङ्‌खासिचर्मेषु धनुःपाशगदाधरः ॥ ३६ ॥
 पीतवासा घनश्यामः प्रसन्नवदनेक्षणः ।
 वनमालानिवीताङ्‌गो लसच्छ्रीवत्सकौस्तुभः ॥ ३७ ॥
 महाकिरीटकटकः स्फुरन्मकरकुण्डलः ।
 काञ्च्यङ्‌गुलीयवलय नूपुराङ्‌गदभूषितः ॥ ३८ ॥
 त्रैलोक्यमोहनं रूपं बिभ्रन् त्रिभुवनेश्वरः ।
 वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ ३९ ॥
 स्तूयमानोऽनुगायद्‌भिः सिद्धगन्धर्वचारणैः ।
 रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ ४० ॥
 ननाम दण्डवद्‍भूमौ प्रहृष्टात्मा प्रजापतिः ।
 न किञ्चनोदीरयितुं अशकत् तीव्रया मुदा ॥ ४१ ॥
 आपूरितमनोद्वारैः ह्रदिन्य इव निर्झरैः ।
 तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् ।
 चित्तज्ञः सर्वभूतानां इदमाह जनार्दनः ॥ ४२ ॥
 श्रीभगवानुवाच -
प्राचेतस महाभाग संसिद्धस्तपसा भवान् ।
 यच्छ्रद्धया मत्परया मयि भावं परं गतः ॥ ४३ ॥
 प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्‍बृंहणं तपः ।
 ममैष कामो भूतानां यद्‍भूयासुर्विभूतयः ॥ ४४ ॥
 ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।
 विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥
 तपो मे हृदयं ब्रह्मंन् तनुर्विद्या क्रियाऽऽकृतिः ।
 अङ्‌गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ ४६ ॥
 अहमेवासमेवाग्रे नान्यन् किञ्चान्तरं बहिः ।
 संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥
 मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः ।
 यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥
 स वै यदा महादेवो मम वीर्योपबृंहितः ।
 मेने खिलमिवात्मानं उद्यतः सर्गकर्मणि ॥ ४९ ॥
 अथ मेऽभिहितो देवः तपोऽतप्यत दारुणम् ।
 नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥ ५० ॥
 एषा पञ्चजनस्याङ्‌ग दुहिता वै प्रजापतेः ।
 असिक्नी नाम पत्‍नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ५१ ॥
 मिथुनव्यवायधर्मः त्वं प्रजासर्गमिमं पुनः ।
 मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ ५२ ॥
 त्वत्तोऽधस्तात्प्रजाः सर्वा मिथुनीभूय मायया ।
 मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ ५३ ॥
 श्रीशुक उवाच -
इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः ।
 स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ ५४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे भगवद् दक्षसंवाद नाम चतुर्थोऽध्यायः ॥ ४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥