श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०२ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०४ →



यम-यमदूत संवादः, वैष्णवोत्कर्षवर्णनं च -


श्रीराजोवाच -
निशम्य देवः स्वभटोपवर्णितं
     प्रत्याह किं तानपि धर्मराजः ।
 एवं हताज्ञो विहतान्मुरारेः
     नैदेशिकैर्यस्य वशे जनोऽयम् ॥ १ ॥
 यमस्य देवस्य न दण्डभङ्‌गः
     कुतश्चनर्षे श्रुतपूर्व आसीत् ।
 एतन्मुने वृश्चति लोकसंशयं
     न हि त्वदन्य इति मे विनिश्चितम् ॥ २ ॥
 श्रीशुक उवाच -
भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः ।
 पतिं विज्ञापयामासुः यमं संयमनीपतिम् ॥ ३ ॥
 यमदूता ऊचुः -
कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो ।
 त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ ४ ॥
 यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।
 कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ ५ ॥
 किन्तु शास्तृबहुत्वे स्याद् बहूनामिह कर्मिणाम् ।
 शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ ६ ॥
 अतस्त्वमेको भूतानां सेश्वराणां अधीश्वरः ।
 शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ ७ ॥
 तस्य ते विहितो दण्डो न लोके वर्ततेऽधुना ।
 चतुर्भिरद्‍भुतैः सिद्धैः आज्ञा ते विप्रलम्भिता ॥ ८ ॥
 नीयमानं तवादेशाद् अस्माभिर्यातनागृहान् ।
 व्यामोचयन्पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥ ९ ॥
 तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् ।
 नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम् ॥ १० ॥
 श्रीबादरायणिरुवाच -
इति देवः स आपृष्टः प्रजासंयमनो यमः ।
 प्रीतः स्वदूतान्प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ ११ ॥
 यम उवाच -
परो मदन्यो जगतस्तस्थुषश्च
     ओतं प्रोतं पटवद्यत्र विश्वम् ।
 यदंशतोऽस्य स्थितिजन्मनाशा
     नस्योतवद् यस्य वशे च लोकः ॥ १२ ॥
 यो नामभिर्वाचि जनं निजायां
     बध्नाति तन्त्यामिव दामभिर्गाः ।
 यस्मै बलिं त इमे नामकर्म
     निबन्धबद्धाश्चकिता वहन्ति ॥ १३ ॥
 अहं महेन्द्रो निर्‌ऋतिः प्रचेताः
     सोमोऽग्निरीशः पवनो विरिञ्चिः ।
 आदित्यविश्वे वसवोऽथ साध्या
     मरुद्‍गणा रुद्रगणाः ससिद्धाः ॥ १४ ॥
 अन्ये च ये विश्वसृजोऽमरेशा
     भृग्वादयोऽस्पृष्टरजस्तमस्काः ।
 यस्येहितं न विदुः स्पृष्टमायाः
     सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ १५ ॥
 यं वै न गोभिर्मनसासुभिर्वा
     हृदा गिरा वासुभृतो विचक्षते ।
 आत्मानमन्तर्हृदि सन्तमात्मनां
     चक्षुर्यथैवाकृतयस्ततः परम् ॥ १६ ॥
 तस्यात्मतन्त्रस्य हरेरधीशितुः
     परस्य मायाधिपतेर्महात्मनः ।
 प्रायेण दूता इह वै मनोहराः
     चरन्ति तद् रूपगुणस्वभावाः ॥ १७ ॥
 भूतानि विष्णोः सुरपूजितानि
     दुर्दर्शलिङ्‌गानि महाद्‍भुतानि ।
 रक्षन्ति तद्‍भक्तिमतः परेभ्यो
     मत्तश्च मर्त्यानथ सर्वतश्च ॥ १८ ॥
 धर्मं तु साक्षाद् भगवत्प्रणीतं
     न वै विदुः ऋषयो नापि देवाः ।
 न सिद्धमुख्या असुरा मनुष्याः
     कुतो नु विद्याधरचारणादयः ॥ १९ ॥
 स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः ।
 प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ २० ॥
 द्वादशैते विजानीमो धर्मं भागवतं भटाः ।
 गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ २१ ॥
 एतावानेव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।
 भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ २२ ॥
 नामोच्चारण माहात्म्यं हरेः पश्यत पुत्रकाः ।
 अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥ २३ ॥
 एतावतालमघनिर्हरणाय पुंसां ।
     सङ्‌कीर्तनं भगवतो गुणकर्मनाम्नाम् ।
 विक्रुश्य पुत्रमघवान् यदजामिलोऽपि ।
     नारायणेति म्रियमाण इयाय मुक्तिम् ॥ २४ ॥
 प्रायेण वेद तदिदं न महाजनोऽयं ।
     देव्या विमोहितमतिर्बत माययालम् ।
 त्रय्यां जडीकृतमतिर्मधुपुष्पितायां ।
     वैतानिके महति कर्मणि युज्यमानः ॥ २५ ॥
 एवं विमृश्य सुधियो भगवत्यनन्ते ।
     सर्वात्मना विदधते खलु भावयोगम् ।
 ते मे न दण्डमर्हन्त्यथ यद्यमीषां ।
     स्याय् पातकं तदपि हन्त्युरुगायवादः ॥ २६ ॥
 ते देवसिद्धपरिगीतपवित्रगाथा ।
     ये साधवः समदृशो भगवत्प्रपन्नाः ।
 तान्नोपसीदत हरेर्गदयाभिगुप्तान् ।
     नैषां वयं न च वयः प्रभवाम दण्डे ॥ २७ ॥
 तानानयध्वमसतो विमुखान् मुकुन्द ।
     पादारविन्दमकरन्दरसादजस्रम् ।
 निष्किञ्चनैः परमहंसकुलैरसज्ञैः ।
     जुष्टाद् गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ २८ ॥
 जिह्वा न वक्ति भगवद्‍गुणनामधेयं ।
     चेतश्च न स्मरति तत् चरणारविन्दम् ।
 कृष्णाय नो नमति यच्छिर एकदापि ।
     तानानयध्वमसतोऽकृतविष्णुकृत्यान् ॥ २९ ॥
 तत्क्षम्यतां स भगवान् पुरुषः पुराणो ।
     नारायणः स्वपुरुषैर्यदसत्कृतं नः ।
 स्वानामहो न विदुषां रचिताञ्जलीनां ।
     क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ ३० ॥
 तस्मात्सङ्‌कीर्तनं विष्णोः जगन् मङ्‌गलमंहसाम् ।
 महतामपि कौरव्य विद्ध्यैकान्तिक निष्कृतम् ॥ ३१ ॥
 शृण्वतां गृणतां वीर्याणि उद्दामानि हरेर्मुहुः ।
 यथा सुजातया भक्त्या शुद्ध्येन्नात्मा व्रतादिभिः ॥ ३२ ॥
 कृष्णाङ्‌घ्रिपद्ममधुलिण् न पुनर्विसृष्ट ।
     मायागुणेषु रमते वृजिनावहेषु ।
 अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् ।
     ईहेत कर्म यत एव रजः पुनः स्यात् ॥ ३३ ॥
 इत्थं स्वभर्तृगदितं भगवन्महित्वं ।
     संस्मृत्य विस्मितधियो यमकिङ्‌करास्ते ।
 नैवाच्युताश्रयजनं प्रति शङ्‌कमाना ।
     द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ ३४ ॥
 इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः ।
 कथयामास मलय आसीनो हरिमर्चयन् ॥ ३५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः ॥ ३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥